पूर्वम्: ५।४।४७
अनन्तरम्: ५।४।४९
 
सूत्रम्
षष्ठ्या व्याश्रये॥ ५।४।४८
काशिका-वृत्तिः
षष्ठ्या व्याश्रये ५।४।४८

नानापक्षसमाश्रयो व्याश्रयः। व्याश्रये गम्यमाने षष्ठ्यन्ताद् वा तसिः प्रत्ययो भवति। देवा अर्जुनतो ऽभवन्। आदित्याः कर्णतो ऽभवन्। षष्ठी च अत्र पक्षापेक्षैव। अर्जुनस्य पक्षे, कर्णस्य पक्षे इत्यर्थः। व्याश्रये इति किम्? वृक्षस्य शाखा।
न्यासः
षष्ठ�आ व्याश्रये। , ५।४।४८