पूर्वम्: ५।४।३६
अनन्तरम्: ५।४।३८
 
सूत्रम्
ओषधेरजातौ॥ ५।४।३७
काशिका-वृत्तिः
ओषधेरजातौ ५।४।३७

ओषधिशब्दादजातौ वर्तमानात् स्वार्थे ऽण्प्रत्ययो भवति। औषधं पिबति। औषधं ददाति। अजातौ इति किम्? ओषधयः क्षेत्रे रूढा भवन्ति।
न्यासः
ओषधेरजातौ। , ५।४।३७

"औषधं पिवति" इति। फलादौ वत्र्तमानादोषधिशब्दात्? प्रत्ययः, स च जातिर्न भवति; "आकृतिग्रहणा जातिः" (काशिका। ४।१।६३) इत्यादेर्लक्षणस्याभावात्()। ओषधयः क्षेत्रे रूढा भवन्ति। अत्र फलपाकान्ता जातिः, तत्रौषधिशब्दो वत्र्तते॥
बाल-मनोरमा
ओषधेरजातौ , ५।४।३७

ओषधेरजातौ। औषधं पिबतीति। शुण्ठीमरीचादिचूर्णमबादिद्रव्यसंसृष्ठं विवक्षितम्। तस्य न जातिवचनत्वमिति भावः। क्षेत्रे रूढा इति। उत्पन्ना इत्यर्थः। शाल्यादिसस्यात्मका इति फलितम्।