पूर्वम्: ५।४।२२
अनन्तरम्: ५।४।२४
 
सूत्रम्
अनन्तावसथेतिहभेषजाञ्ञ्यः॥ ५।४।२३
काशिका-वृत्तिः
अनन्ताऽवसथैतिहभेषजाञ् ञ्यः ५।४।२३

अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति। अनन्त एव आनन्त्यम्। आवसथ एव आवसथ्यम्। इति ह ऐतिह्यम्। निपातसमुदायो ऽयम् उपदेशपारम्पर्ये वर्तते। भेषजम् एव भैषज्यम्। महाविभाषया विकल्पते प्रत्ययः।
न्यासः
अनन्तावसथेतिहभेषजाञ्ञ्यः। , ५।४।२३

"उपदेशपारम्पर्ये वत्र्तते" इति। ह स्मोपाध्यायः कथयति, इति ह स्म पिता कययतीत्यत्रैवा प्रयोगदर्शनात्()॥
बाल-मनोरमा
अनन्तावसथेतिहभेषजाञ्ञ्यः , ५।४।२३

अनन्तावथेतिह। अनन्त, आवसथ, इतिह, भेषज एभ्यः स्वार्थे ञ्यप्रत्ययः स्यादित्यर्थः। अनन्त एवेति। अन्तोनाशः। तस्याऽभावः अनन्तः। अर्थाऽभावे अव्ययीभावेन तद्विकल्पस्योक्तत्वात्। आनन्त्यमिति। स्वार्थिकत्वेऽपि प्रकृतिलिङ्गव्यतिक्रम। आवसथो-गृहम्। निपातसमुदाय इति। स च उपदेश परम्पर्ये वर्तते। तस्मात्स्वार्थे ञ्यः। "पारम्पर्योपदेशे स्यादैतिह्रमितिहाव्यय"मित्यमरः। भैषज्यमिति। भैषजम्ौषधम्, तदेव भैषज्यम्। "भेषजौषधभैषज्यानी"त्यमरः।

तत्त्व-बोधिनी
अनन्तावसथेतिहभेषजाञ्ञ्यः १५५८, ५।४।२३

आवसथ इति। "उपसर्गे वसेः"इत्यथप्रत्ययः। निपातसमुदाय इति। उपदेश पारम्पर्ये वर्तते, वचनाच्चाऽप्रातिपदिकादेव प्रत्ययः। "ऐतिह्रमितिहाऽव्यय"मिति कोशः। भेषजमिति। भिषज्यतेः कण्ड्वादियगन्तत्क्विपे। भिषक्। भिषजामिदं भेषजम्। अस्मादेव निपातनादेकारः।