पूर्वम्: ५।४।१२
अनन्तरम्: ५।४।१४
 
सूत्रम्
अनुगादिनष्ठक्॥ ५।४।१३
काशिका-वृत्तिः
अनुगादिनष् ठक् ५।४।१३

अनुगदति इति अनुगादि। अनुगादिन्शब्दात् स्वार्थे ठक् प्रत्ययो भवति। आनुगादिकः।
न्यासः
अनुगादिनष्ठक्?। , ५।४।१३

"अनुगदतीत्यनुगादी" इति। ग्रहादित्वाण्णिनिः। आवाश्यके वा, ताच्छील्ये वा, अस्मादेव निपातनाच्च॥
बाल-मनोरमा
अनुगादिनष्ठक् , ५।४।१३

अनुगादिनष्ठक्। "स्वार्थे" इति शेषः। "आमादयः प्राङ्भयटः" इत्युक्तेष्ठगादयो नित्या एव प्रत्ययाः। अनुगादीति। "सुप्यजातौ" इति णिनिः। प्रकृतिप्रदर्शनमिदम्। ठको नित्यत्वात्स एवेत्यस्वपदविग्रहप्रदर्शनम्। आनुगादिक इति। "नस्तद्धिते" इति टिलोपः। इह क्रमे "णचः स्त्रिया"मिति "अणिनुणः" इति च सूत्रद्वयं पठितं कृदधिकारे व्याख्यास्यते।

तत्त्व-बोधिनी
अनुगादिनष्ठक् १५५१, ५।४।१३

अनुगादिनः। प्रकृति रुआऊपप्रदर्शनपरं चैतन्न त्वयं केवलः प्रयोगार्हः, ठको नित्यत्वादिति हरदत्तः। "सुप्यजातौ"इति णिनिः।