पूर्वम्: ५।४।१२८
अनन्तरम्: ५।४।१३०
 
सूत्रम्
प्रसम्भ्यां जानुनोर्ज्ञुः॥ ५।४।१२९
काशिका-वृत्तिः
प्रसंभ्यां जानुनोर् ज्ञुः ५।४।१२९

प्र सम् इत्येताभ्याम् उत्तरस्य जानुशब्दस्य ज्ञुरादेशो भवति समासान्तो बहुव्रीहौ। प्रकृष्टे जानुनी अस्य प्रज्ञुः। संज्ञौः।
न्यासः
प्रसम्भ्यां जानुनोर्ज्ञुः। , ५।४।१२९

"जानुशब्दस्यादेशो भवति" इति। कथं पुनज्र्ञायते--आदेशोऽयम्? न प्रत्यम इति? यदि प्रत्ययः स्यात्(), "जानुनः" इत्येकवचनेनैव निर्द्देशं कुर्यात्(); षष्ठीद्विवचनेनैव निर्देशः कृतः। तस्मादावेशोऽयं न प्रत्यय इति विज्ञायते। षष्ठीद्विवचनेन निर्देशोऽसन्देहार्थः कृतः--स्थानषष्ठीत्वमसन्दिग्धं यता विज्ञायेतेति। जानुन इत्युच्चमानं सन्देहः स्यात्()--किमियं षष्ठी, उत पञ्चमीति॥
बाल-मनोरमा
प्रसंभ्यां जानुनोर्ज्ञुः ८५९, ५।४।१२९

प्रसंभ्यां। जानुशब्दयोरिति।"प्र" "सम्" इति पूर्वपदद्वित्वादुत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्यम्। "जानुन" इत्युक्ते तु "प्रत्ययः, परश्चे"त्यधिकारात् पञ्चम्यन्तत्वसंभवाज्ज्ञोः प्रत्ययत्वं च सम्भाव्येत। तस्यादेशत्वसिद्धये षष्ठीद्विवचननिर्देशः। तदाह--ज्ञुरादेश इति। प्रज्ञुरिति। "प्रादिभ्यो धातुजस्ये"ति समासः। संज्ञुरिति। सङ्गते जानुनी यस्येति विग्रहः।

तत्त्व-बोधिनी
प्रसंभ्यां जानुनोर्ज्ञुः ७५०, ५।४।१२९

प्रसंभ्याम्। जानुशब्दस्यैकत्वेऽप्युपपजनिबन्धनं द्वित्वमाश्रित्य जानुनोरिति द्विचननिर्देशः, तत्फलं तु स्थानषष्ठीत्वस्फुटीकरणम्। "जानुनः"इत्युक्ते तु किमियं पञ्चमी, प्रत्ययाधिकारात् ज्ञुरपु प्रत्यय इत्येवं सन्देहः स्यात्, तदेततद्ध्वनयन्नाह---जानुशब्दयोर्ज्ञुरादेश इति।