पूर्वम्: ५।४।१२४
अनन्तरम्: ५।४।१२६
 
सूत्रम्
जम्भा सुहरिततृणसोमेभ्यः॥ ५।४।१२५
काशिका-वृत्तिः
जम्भा सुहरिततृणसोमेभ्यः ५।४।१२५

बहुव्रीहौ समासे स्वादिभ्यः परं जम्भा इति कृतसमासान्तम् उत्तरपदं निपात्यते जम्भशब्दः अभ्यवहार्यवची दन्तविशेषवाची च। शोभनो जम्भः अस्य सुजम्भा देवदत्तः। शोभनाभ्यवहार्यः शोभनदन्तो वा। एवं हरितजम्भा। तृणजम्भा। सोमजम्भा। दन्तवचने तृणम् इव जम्भः अस्य, सोम इव जम्भः अस्य इति विग्रहीतव्यम्। सुहरिततृणसोमेभ्यः इति किम्? पतितजम्भः।
न्यासः
जम्भा सुहरिततृणसोमेभ्यः। , ५।४।१२५

जम्भवचनेन तृणमिव जम्भोऽस्य, सोम इव जम्भोऽस्येति विग्रहीतव्यमिति। ननु तृणं जम्भोऽस्य, सोमो जम्भोऽस्येत्येवं विग्रहीतव्यम्(), न हि तृणं जम्भः, न च सोमः। अभ्यवहारह्रवचने तु--तृं जम्भोऽस्य, सोमोजम्भोऽस्येत्यवमेव विहग्रहः कार्यः; तृणसोमयोरभ्यवहारह्थत्वात्()॥
बाल-मनोरमा
जम्भा सुहरिततृणसोमेभ्यः ८५५, ५।४।१२५

नन्विह सूत्रे पूर्वपदशब्दस्याऽश्रवणादनुवृत्त्यभावाच्च कथं पूर्वपदादिति लभ्यत इत्यत आह--पूर्वपदं त्विति। जम्भा सुहरित। "जम्भे"ति नकारान्तं पदम्। तदाह--जम्भेति कृतसमासान्तमिति। अनिजन्तनित्यर्थः। सु-हरुत-तृण-सोम-इत्येतेभ्यः परो यो जम्भशब्दस्तदन्ताद्बहुव्रीहेरनिच्प्रत्ययो निपातित इति भावः। जम्भो भक्ष्ये दन्ते चेति। अत्र कोशो मृग्यः। सुजम्भेति। सुजम्भशब्दादनिचि "यस्येति चे"त्यकारलोपः। हरितजम्भेति। हरितो जम्भो यस्येति विग्रहः। तृणमिवेति। तृणशब्दस्य दन्तवाचिना जम्भशब्देन सामानाधिकरण्यलाभाय तृणशब्दस्य तत्सदृशे लक्षणेति भावः। सोमजम्भेति। सोमः=चन्द्रः, स इव शुभ्रा जम्भाः=दन्ता यस्येति विग्रहः। "सोमः=सोमलता वा, सैव जम्भः=भक्ष्यं यस्येति विग्रहः। पतितिजम्भ इति। पतिता जम्भाः=दन्ता यस्येति विग्रहः।