पूर्वम्: ५।४।१११
अनन्तरम्: ५।४।११३
 
सूत्रम्
गिरेश्च सेनकस्य॥ ५।४।११२
काशिका-वृत्तिः
गिरेश् च ५।४।११२

गिरिशब्दान्तातव्ययीभावाट् टच् प्रत्ययो भवति सेनकस्य आचार्यस्य मतेन। अन्तर्गिरम्, अन्तर्गिरि। उपगिरम्, उपगिरि। सेनकग्रहणं पूजार्थम्। विकल्पो ऽनुवर्तते एव।
न्यासः
गिरेश्च सेनकस्य। , ५।४।११२

"अन्तगिरम्()" इति। गिरेरन्तरित विभक्त्यर्थेऽव्ययीभावः। अन्तः शब्दो हि सप्तम्यर्थवृत्तित्वाद्विभक्त्यर्थे वत्र्तते। विकल्पार्थमेव सेनकग्रहणं कस्मान्न भवति? इत्याह--"विकल्पोऽनुवत्र्तत एव" इति। विकल्पार्थत्वात्()। विकल्प्यते वानेन सः। अन्यतरस्यांग्रहणं विकल्प इत्युक्तम्(), तदिह "नपुंसकादन्यतरस्याम्()" ५।४।१०९ इत्यतोऽनुवत्र्तते। तस्मात्? तेनैव विकल्पस्य सिद्धत्वात्? पूजार्थमेव सेनकग्रहणमुक्तम्(), न विकल्पार्थम्()। ननु च "विभाषयोद्र्वयोर्मध्ये नित्या विधयो भवन्ति" (का। प। वृ। ११) इति पूर्वस्य विधेनित्यतां सम्पादयितुं विकल्पार्थमेव सेनकग्रहणं स्यात्() ? नैतदस्ति; यदि हि पूर्वो विधिनित्यः स्यात्(), झयन्तानां शरत्प्रभृतिषु पाठोऽनर्थकः स्यात्(), "झयः" ५।४।१११ इत्यनेनैव सिद्धत्वात्()। तस्मान्न विकल्पार्थं सेनकग्रहणम्(); पूजार्थमेव॥
बाल-मनोरमा
गिरेश्च सेनकस्य ८१८, ५।४।११२

गिरेश्च सेनकस्य। सेनको नामाचार्यः। पूजार्थमिति। अन्यतरस्याङ्ग्रहणानुवृत्त्यैव विकल्पसिद्धेरिति भावः। उपगिरमिति। गिरेः समीपमित्यर्थः। टचि "यस्येति चे"तीकारलोपः। अम्भावः। इह सेनकग्रहणान्नदीपौर्णमासीत्यत्र "झयः" इत्यत्र चाऽन्यतरस्याङ्र्गरहणं नानुवर्तत इति केचित्।

इति बालमनोरमायामव्ययीभावः।

----------------------

****अथ बहुव्रीहिसमासप्रकरणम् *****

तत्त्व-बोधिनी
गिरेश्च सेनकस्य ७१८, ५।४।११२

पूजार्थमिति। अन्यतरस्यामित्यनुवृत्त्या विकल्पसिद्धेरिति भावः।

इतितत्त्वबोधिन्यामव्ययीभावः॥