पूर्वम्: ५।४।१०९
अनन्तरम्: ५।४।१११
 
सूत्रम्
नदीपौर्णमास्याग्रहायणीभ्यः॥ ५।४।११०
काशिका-वृत्तिः
नदी पौर्णमास्याग्रहायणीभ्यः ५।४।११०

नदी पौर्णमासी आग्रहायणी इत्येवम् अन्तादव्ययीभावातन्यतरस्यां टच् प्रत्ययो भवति। नद्याः समीपम् उपनदम्, उपनदि। उपपौर्णमासम्, उपपौर्णमासि। उपाग्रहायणम्, उपाग्रहायणि।
न्यासः
नदीपौर्णमास्याग्रहायणीभ्यः। , ५।४।११०

नदीग्रहणेन स्वरूपं गृह्रते, न संज्ञा। यदि संज्ञा गृह्रेत, पौर्णमास्याग्रहायणीग्रहणं न कुर्यात्()। ननु च नियमार्थमेतत्? स्यात्? ईकारान्तस्यापि नद्योः पौर्णमास्याग्रहायण्योरेव भवतीति? नैतदस्ति; यद्येतत्? प्रयोजनं स्यात्? "पौर्णमास्याग्रहायणी" इत्येवं ब्राऊयात्()। "तस्मात्()" स्वरपग्रहणमिति। "उपनदि" इति "गोस्त्रियोरुपसर्जनस्य" १।२।४८ इति ह्यस्वः॥
बाल-मनोरमा
नदीपौर्णमास्याग्रहायणीभ्यः ६७३, ५।४।११०

नदीपौर्णमासी। शेषपूरणेन सूत्रं व्याचष्टे-वा टजिति। "अन्यतरस्या"मिति "ट"जिति चानुवर्तत इति भावः। नदी पौर्णमासी आग्रहायणी-एतदन्तादव्ययीभावसमासाट्टज्वा स्यादिति यावत्। अत्र नदीसंज्ञकस्य न ग्रहणम्, पौर्णमास्याग्रहायणीग्रहणाल्लिङ्गात्। उपनदमिति। नद्याः समीपमित्यर्थः। सामीप्ये उपेत्यस्याव्ययीभावसमासः। टच्। "यस्येति च" इतीकारलोपः। उपनदशब्दात्सुप्। अम्भाव इति भावः। उपनदीति। टजभावे रूपम्। नपुंसकह्यस्वः। "अव्ययादाप्सुपः" इति लुक्। उपपौर्णमासमिति। पौर्णमास्याः समीपमित्यर्थः। टचि उपनदमितिवद्रूपम्। उपपौर्णमासीति। टजभावे रूपम्। एवम्--उपाग्रहायणम् उपाग्रहायणीति ज्ञेयम्। अग्रे हायनमस्याः। आग्रहायणी=मार्गशीर्षपौर्णमासी। अत ऊध्र्वं मकरायनप्रवृत्त्या उदगयनप्रवृत्तेः। उदगयनादिरेव हि संवत्सरस्यादिः। "अयन द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः" इति प्रसिद्धेः।

तत्त्व-बोधिनी
नदीपौर्णमास्याग्रहायणीभ्यः ५९६, ५।४।११०

नदीपौर्ण। इह स्वरूपस्यैव ग्रहणं न संज्ञायाः, पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात्। उपनदीति। टचभावे नपुंसकह्यस्वः। अत्र व्याचक्षते--"वृत्तिग्रन्थमनुरुध्येदं विकल्पकथनम्। परमार्थतस्तु नेहान्यतरस्यामित्यनुवर्तते। "बहुगणे"ति सूत्रस्थभाष्यविरोधात्। तत्र हि--नदीशब्देन नदीविशेषाणां गङ्गायमुनादीनां ग्रहणमाशङ्क्य शरत्प्रभृतिषु विपाट्शब्दपाठान्नेति समाहितम्। न चेदं भाष्यं "नदीपौर्णमासी"त्यत्र टचः पाक्षिकत्वे सङ्गच्छते,नित्यार्थतया तत्पाठस्योपपत्तेः। अतएव सेनकग्रहणमुत्तरत्राऽर्थवत्। कैयटस्तु व्यवस्थितविभाषामाश्रित्य वृत्तिग्रन्थं कथंचित्समर्थितवानिति।