पूर्वम्: ५।३।९४
अनन्तरम्: ५।३।९६
 
सूत्रम्
अवक्षेपणे कन्॥ ५।३।९५
काशिका-वृत्तिः
अवक्षेपणे कन् ५।३।९५

अवक्षियते येन तदवक्षेपणम्। तस्मिन् वर्तमानात् प्रतिपदिकात् कन्प्रत्ययो भवति। व्याकरणकेन नाम त्वं गर्वितः। याज्ञिक्यकेन नाम त्वं गर्वितः। परस्य कुत्सार्थं यदुपादीयते तदिह उदाहरणम्। यत् पुनः स्वयम् एव कुत्सितं तत्र कुत्सिते ५।३।७४ इत्यनेन कन्प्रत्ययो भवति, देवदत्तकः, यज्ञदत्तकः इति। प्रागिवीयस्य पूर्णो ऽवधिः।
न्यासः
अवक्षेपणे कन्?। , ५।३।९५

"व्याकरणकेन" इत्यादि। कथं पुनव्र्याकरणमवक्षेपणम्(), तस्याध्ययनं शास्त्रविहितम्(), वेदाङ्गत्वात्()? तथापि यत्राञये तदवक्षेपणमुपसंहरति, तं प्रति तस्यावक्षेपणत्वमुपपद्यते; दोषहेतुत्वात्()। "परस्य" इत्यादिना "कुत्सिते" ५।३।७४ इत्यवक्षेपणे कन्नित्यस्य विभागं दर्शयति॥
बाल-मनोरमा
अवक्षेपणे कन् १४९२, ५।३।९५

अपक्षेपणे कन्। व्याकरणकेन गर्वित इति। व्याकरणं हि स्वतो न कुत्सितं, किं तु अधीतं सदध्येतृकुत्साहेतुभूतं गर्मावहदवक्षेपणम्। नन्ववक्षेपणं कुत्सा। तत्कथं व्याकरणमवक्षेपणं स्यात्, "कुत्सित" इत्यनेन गतार्थं चेदमित्यत आह--येनेतर इति। अवक्षेपणशब्दः करणे ल्युडन्त इति भावः।

***** इति बालमनोरमायाम् प्रागिवीयानां पूर्णोऽवधिः। *****

अथ प्राग्दीव्यतीयाः।

--------------

तत्त्व-बोधिनी
अवक्षेपणे कन् ७३, ५।३।९५

अवक्षेपणे कन्। कुत्सिते तु कः। स्वरे विशेषः। येनेतर इति। अवक्षिप्यते येनेत्यवक्षेपणशब्दः करणे ल्युडन्त इति भावः।

इति तत्त्वबोधिन्यां प्रागिवीयानां पूर्णोऽवधिः।

अथ प्रकृतिभावः।

------------