पूर्वम्: ५।३।२१
अनन्तरम्: ५।३।२३
 
सूत्रम्
सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युर्- अन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः॥ ५।३।२२
काशिका-वृत्तिः
सद्यः परुत् परार्यौषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ५।३।२२

स्प्तम्याः इति काले इति च वर्तते। सद्यःप्रभृतयः शब्दाः निपात्यन्ते। प्रकृतिः, प्रत्ययः, आदेशः, कालविशेषः इति सर्वम् एतन् निपातनाल् लभ्यते। समानस्य सभावो निपात्यते द्यश्च प्रत्ययः अहन्यभिधेये। समाने ऽहनि सद्यः। पूर्वपूर्वतरयोः परभावो निपात्यते उदारी च प्रत्ययौ संवत्सरे ऽभिधेये। पूर्वस्मिन् संवत्सरे परुत्। पूर्वतरे संवत्सरे परारी। इदम इश्भावः समसण् प्रत्ययः निपात्यते संवत्सरे ऽभिधेये। अस्मिन् संवत्सरे ऐषमः। परस्मादेद्यवि प्रत्ययो ऽहनि। परस्मिन्नहनि परेद्यवि। इदमो ऽश्भावो द्यश्च प्रत्ययो ऽहनि। अस्मिन्नहनि अद्य। पूर्वान्य। अन्यतरैतरापराद्धरौभयौत्तरेभ्य एद्युस् प्रत्ययो निपात्यते अहन्यभिधेये। पूर्वस्मिन्नहनि पूर्वेद्युः। अन्यस्मिन्नहनि अन्येद्युः। अन्यतरस्मिन्नहनि अन्यतरेद्युः। इतरस्मिन्नहनि इतरेद्युः। अपरस्मिन्नहनि अपरेद्युः। अधरस्मिन्नहनि अधरेद्युः। उभयोरह्नोः उभयेद्युः। उत्तरस्मिन्नहनि उत्तरेद्युः। द्युश्च उभयाद् वक्तव्यः। उभयद्युः।
न्यासः
सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्यरपरेद्युरधरेद्युरुभयेद्युरुत्तेरद्युः। , ५।३।२२

"समानेऽहनि सद्यः" इति। निमित्तनिमित्तिनोः समाने साधारणेऽहनि निपातनमेतत्()। तद्यथा--सद्यः प्राणहरणं मर्मणि ताडनमिति। यस्मिन्नेवाहनि मर्मणि ताडनं तस्मिन्नेवाहनि प्राणरणमित्यर्थः। "उदारी च" इति। उच्च आरिश्चेति उदारी। "परस्मादेद्यवि" इति। परशब्दादेद्यविप्रत्ययो भवत्यहन्यभिधेये॥
बाल-मनोरमा
सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः १९४५, ५।३।२२

सद्यःपरुत्।

"समानस्य सभावो द्यश्चाहनी"ति भाष्यवाक्यमिदम्। अहर्वृत्तेः समानशब्दात्सप्तम्यन्तात् द्यस्प्रत्ययः, समानस्य सभावश्च निपात्यत इत्यर्थः। सद्यः समानेऽहनीत्यर्थः।

"पूर्वपूर्वतरयोः परादेशः उदारी च संवत्सरे" इत्यपि भाष्यवाक्यम्। उच्च--आरिश्चेति द्वन्द्वः। सप्तम्यन्तादिमौ प्रत्ययौ संवत्सरे अभिधेये।

"इदम इश् समसण्" इत्यपि भाष्यवाक्यम्। ऐषम इति। समसणि णकार इत्, सकारादकार उच्चारणार्थः। णित्त्वादादिवृद्धिः।

"परस्मादेद्यव्यहनी"त्यपि भाष्यवाक्यम्। सप्तम्यन्तादेद्यविरिकारान्तः प्रत्ययः।

"इदमोऽश्()भावो द्यश्चे"त्यपि भाष्यवाक्यम्। सप्तम्यन्तादकारान्तो द्यप्रत्ययः। "पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् चे"त्यपि भाष्यवाक्यम्।

तत्त्व-बोधिनी
सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः १४८१, ५।३।२२

सद्यः परुत्। निपातनाद्विषयविशेषो लभ्यत इत्याह----अहनीति। सप्तम्यन्तस्याऽहन्शब्दस्यार्थे इत्यर्थः।

समानस्य सभावो द्यश्चाऽहनि। समानेऽहनीति। पर उदारीचेति। "पर"इत्यादेशः, उदारी प्रत्ययौ।