पूर्वम्: ५।३।११४
अनन्तरम्: ५।३।११६
 
सूत्रम्
वृकाट्टेण्यण्॥ ५।३।११५
काशिका-वृत्तिः
वृकाट् टेण्यण् ५।३।११५

आयुधजीविसङ्घातिति वर्तते। वृकशदातायुधजीविनः स्वार्थे टेण्यण् प्रत्ययो भवति। टकारो ङीबर्थो, णकारो वृद्ध्यर्थः। वार्केण्यः, वार्केण्यौ, वृकाः। आयुधजीविसङ्घविशेषणं, जातिशब्दान् मा भूत्। कामक्रोधौ मनुस्याणां खादितारौ वृकाविव।
न्यासः
वृकाट्टेण्यण्?। , ५।३।११५

यदि वाहीकेषु वृकशब्दस्य वाच्य आयुधजीविसङ्घो भवति, ततो ञ्यटि प्राप्तेऽन्यत्राप्ताप्त एव कस्मिश्चित्? प्रत्ययविधानं वेदितव्यम्()। "वृकाविव" इति। वृकशब्दोऽत्र जातिवचनः॥
बाल-मनोरमा
वृकाट्टेण्यण् , ५।३।११५

वृकाट्टेण्यण्()। वृको नाम कश्चिदायुधजीविसङ्घः। स एव वार्केण्यः। आदिवृद्धिः। रपरत्वम्। जातिविशेषादिति। वृको नाम कश्चिन्मनुष्यखादी चतुष्पाज्जातिविशेषः प्रसिद्धः,तस्मान्नेत्यर्थः।