पूर्वम्: ५।३।१०८
अनन्तरम्: ५।३।११०
 
सूत्रम्
एकशालायाष्ठजन्यतरस्याम्॥ ५।३।१०९
काशिका-वृत्तिः
एकशालायाष् ठजन्यतरस्याम् ५।३।१०९

एकशालाशब्ददिवार्थे ऽन्यतरस्यां ठच् प्रत्ययो भवति। अन्यतरस्यांग्रहणेन अनन्तरः ठक् प्राप्यते। एकशालेव एकशालिकः, ऐकशालिकः।
न्यासः
एकशालायाष्ठजन्यतरस्याम्?। , ५।३।१०९

"अन्यतरस्यांग्रहणेन" इत्यादि। पूर्वसूत्रेण ५।३।१०८ विहितत्वाट्ठगेवानन्तरः। अन्यतरस्यांग्रहणं समुच्चयार्थम्()। अतस्तेन "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इति स एव प्राप्यते॥
बाल-मनोरमा
एकशालायाष्ठजन्यतरस्याम् , ५।३।१०९

एकशालायाः। पक्षे ठगिति। अन्यतरस्याङ्ग्रहणम् अनन्तरठ,कः समुच्चयार्थमिति भावः। "ठज्वे"त्येव सुवचम्।