पूर्वम्: ५।३।१०६
अनन्तरम्: ५।३।१०८
 
सूत्रम्
शर्कराऽ‌ऽदिभ्योऽण्॥ ५।३।१०७
काशिका-वृत्तिः
शर्कराऽअदिभ्यो ऽण् ५।३।१०७

शर्करा इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः इवार्थे अण् प्रत्ययो भवति। शर्करा इव शार्करम्। कापालिकम्। शर्करा। कपालिका। पिष्टिक। पुण्डरीक। शतपत्र। गोलोमन्। गोपुच्छ। नरालि। नकुला। सिकता। शर्करादिः।
न्यासः
शर्करादिभ्योऽण्?। , ५।३।१०७

बाल-मनोरमा
शर्करादिभ्योऽण् , ५।३।१०७

शर्करादिभ्योऽण्। इवे इत्येव। शार्करमिति। "स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते" इति विशेष्यनिघ्नतेति भावः।