पूर्वम्: ५।३।१००
अनन्तरम्: ५।३।१०२
 
सूत्रम्
वस्तेर्ढञ्॥ ५।३।१०१
काशिका-वृत्तिः
वस्तेर् धञ् ५।३।१०१

इव इत्यनुवर्तते। इतः प्रभृति प्रत्ययाः सामान्येन भवन्ति, प्रतिकृतौ चप्रतिकृतौ च। वस्तिशब्दादिवार्थे द्योत्ये ठञ् प्रत्ययो भवति। वस्तिरिव वास्तेयः। वास्तेयी।
न्यासः
वस्तेर्ढञ्?। , ५।३।१०१

"इतः प्रभति" इत्यादि। तत्र प्रतिकृतौ "इवे प्रतिकृतौ" ५।३।९६ इति कनि प्राप्ते, इतः प्रभृति प्रत्यया भवन्ति। अप्रतिकृतौ तवसंज्ञायां वाक्येनैवाभिधाने प्राप्ते। संज्ञायां तु प्रतिकृतावप्रकृतौ च ढञेव; वस्तिः=वृतिविकारः। "वास्तेयी" इति "टिङ्ढाणञ्()" ४।१।१५ इति ङीप्()॥
बाल-मनोरमा
वस्तेर्ढञ् , ५।३।१०१

वस्तेर्ढञ्। निवृत्तमिति। अस्वरितत्वादिति भावः। "संज्ञायां चे"त्यादिपूर्वसूत्रेषु क्वापि प्रतिकृतावित्यस्याऽनिवृत्तेर्न लुब्विधिषु तेषु तदनुवृत्तिरपेक्षिता। वस्तिरिवेति। "बस्तिर्नाभेरधो द्वयो"रित्यमरः।

तत्त्व-बोधिनी
वस्तेर्ढञ् १५३५, ५।३।१०१

बस्तिरिति। "बस्तिर्नाबेरधो द्वयो"रित्यमरः।