पूर्वम्: ५।२।४९
अनन्तरम्: ५।२।५१
 
सूत्रम्
थट् च च्छन्दसि॥ ५।२।५०
काशिका-वृत्तिः
थट् च छन्दसि ५।२।५०

नान्तादसङ्ख्यादेः परस्य डटः छन्दसि विषये थडागमो भवति। चकारात् पक्षे मडपि भवति। पर्णमयानि पञ्चथानि भवन्ति। पञ्चथः। सप्तथः। मट् पञ्चममिन्द्रियस्यापाक्रामत्।
न्यासः
थट् च च्छन्दसि। , ५।२।५०