पूर्वम्: ५।२।३२
अनन्तरम्: ५।२।३४
 
सूत्रम्
इनच्पिटच्चिकचि च॥ ५।२।३३
काशिका-वृत्तिः
इनच् पिटच् चिक चि च ५।२।३३

नेः इत्येव, नते नासिकायाः इति च। निशब्दान् नासिकाया नते ऽभिधेये इनच् पिटचित्येतौ प्रत्ययौ भवतः, तत्संनियोगेन च निशब्दस्य यथासङ्ख्यं चिक चि इत्येतावादेशौ भवतः। चिकिनः, चिपिटः। ककारः प्रत्ययो वक्तव्यश्चिक् च प्रकृत्यादेशः। चिक्कः। तथा च उक्तम् इनच्पिटच्काश्चिकचिचिकादेशाश्च वक्तव्याः इति। क्लिन्नस्य चिल्पिल्लश्च अस्य चक्षुषी। क्लिन्नस्य चिल् पिलित्येतावादेशौ भवतः लश्च प्रत्ययो ऽस्य चक्षुषी इत्येतस्मिन्नर्थे। क्लिन्ने अस्य चक्षुषी चिल्लः, पिल्लः। चुलादेशो वक्तव्यः। चुल्लः। अस्य इत्यनेन नार्थः। चक्षुषोरेव अभिधाने प्रत्यय इष्यते। क्लिअन्ने चक्षुषी चिल्ले, पिल्ले चुल्ले। तद्योगात् तु पुरुषस् तथा उच्यते।
न्यासः
उपाधिभ्या त्यकन्नासन्नारूढयोः। , ५।२।३३

"संज्ञाधिकाराच्च" इति। "नते नासिकायाः" (५।२।३१) इत्यादिसूत्रात्? संज्ञाधिकारानुवृत्तेः। "नियतविषयम्()" इति। पर्वतविषयमेवासन्नारूढं गृह्रते। तेन वृक्षस्यासन्नम्(), प्लक्षस्यारूढमित्यतर न भवतीति भावः। अथोपत्यका, अधित्यकेत्यत्र "प्रत्ययस्थात्? कात्? पूर्वस्य" (७।३।४४) इत्यनेनेत्त्वं कस्मान्न भवति? इत्यत आह--"प्रत्ययस्थात्? कात्()" इति। यद्यत्रेत्त्वं स्यात्? संज्ञारूपं न सिध्येत्(); नोपत्यिकाधित्यिकेत्येवंरूपा संज्ञा। तस्मात्? संज्ञाधिकारादित्त्वं न भवति॥
बाल-मनोरमा
इनच्पिटच्चिकचि च १८११, ५।२।३३

इनच्पिटच्। इनच् पिटजिति समामहाद्वन्द्वात्प्रथमैकवचनम्। "चिकचि" इत्यपि चिक-चि-इत्यनयोः समाहाद्वन्द्वात्प्रथमैकवचनम्। प्रकृतेरिति। नेरित्यर्थः। तत्र इनचि परे चिक इत्यादेशः। तत्र अकार उच्चारणार्थः। पिटचि तु परे चीत्यादेशः।

कप्रत्ययेति। उक्तनेः कप्रत्ययः, प्रकृतेः चिकादेशश्चेत्यर्थः। अयमपि ककारान्तः एवादेशः। चिकिनमिति। इनचि प्रत्यये कृते नेश्चिकादेशे रूपम्। चिपिटमिति। पिटचि कृते नेश्चीत्यादेशे रूपम्। चिक्कमिति। कप्रत्यये नेश्चिकादेशे रूपम्।

क्लिन्नस्य चिल्पिल्लश्चास्य चक्षुषी इति। वार्तिकमिदम्। चिल् पिलिति समाहारद्वन्द्वात्प्रथमैकवचनम्। क्लिन्ने अस्य चक्षुषी इति विग्रहे क्लिन्नशब्दादस्य चक्षुषी इत्यर्थे लप्रत्ययः, प्रकृतेश्चिल् पिल् एतावादेशौ स्त इत्यर्थः। क्लिन्ने इति। नेत्राऽ।ञमयप्रयुक्तजलनिष्यन्दवतीइत्यर्थः। चिल्ल पिल्ल इति। क्लिन्नचक्षुष्क इत्यर्थः। चुल्चेति। उक्तविषये क्लिन्नस्य चुल् आदेशश्च लप्रत्ययसंनियोगेन वक्तव्य इत्यर्थः। उपाधिभ्याम्। उप, अधि आभ्यां यथासङ्ख्यमासन्नारूढयोर्वर्तमानाभ्यां स्वार्थे त्यकन्प्रत्ययः स्यादित्यर्थः। आसन्नं=समीपम्। आरूढम्ुच्चम्। अनुवर्तत इति। "नते नासिकायाः" इत्यस्मादिति भावः। कस्य समीपं, कस्योच्चमित्याकाङ्क्षायां संज्ञाधिकारात् पर्वतस्येति लभ्यत इत्यभिप्रेत्याह--पर्वतस्येति। उपत्यका, अधित्यकेति। स्त्रीत्वं लोकात्। अत्र "प्रत्ययस्था"दिति इत्त्वं तु न, "त्यकनश्चे"त्युक्तेः।