पूर्वम्: ५।२।२७
अनन्तरम्: ५।२।२९
 
सूत्रम्
वेः शालच्छङ्कटचौ॥ ५।२।२८
काशिका-वृत्तिः
वेः शालच्छङ्कटचौ ५।२।२८

विशदात् शालच् शङ्कटचित्येतौ प्रत्ययौ भवतः। ससाधनकृइयावचनातुपसर्गात् स्वार्थे प्रत्ययौ भवतः। विगते शृङ्गे विशाले, विशङ्कटे। तद्योगाद् गौरपि विशालः, विशङ्कटः इत्युच्यते। परमार्थतस् तु गुणशब्दा एते यथाकथञ्चिद् व्युत्पाद्यन्ते। न अत्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः।
न्यासः
वेः शालच्छङ्कट्चौ। , ५।२।२८

"ससाधनक्रियावचनात्()" इत्यादि। उक्तमेतत्()--उपसर्गा ह्रेवमात्मका भवन्ति यत्र कश्चित्? क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषणमाहुः। यत्र न प्रयुज्यते तत्र ससाधनक्रियामिति। इह न कश्चित्? क्रियावाची शब्दः प्रयुज्यते, तस्मात् ससाधनक्रियावाचिन उपसर्गात्? प्रत्ययो भवति। स च भवन्? "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" (सी।प। १२५) इत्यनिर्दिष्टार्थत्वात्? स्वार्थे भवति। "विगते शृङ्गे" इति। एतेन विगमनक्रियायां शृङ्गसाधनायां विशब्दो वत्र्तत इति दर्शयति। यदि ससाधनायां क्रियायां प्रत्ययः, विशालो गौर्विशङ्कटो गौरिति न सिध्यति, न हि गौरिह विगमनस्य साधनम्(), किं तर्हि? शृङ्गे? इत्यत आह--"तद्योगात्()" इत्यादि। यथा सास्नाद्यवयवयोगादवयवधर्मेण गौः सास्नेत्युच्यते, तथा विशालविशङ्कटशृङ्गयोगाद्गौस्तथेत्युच्यते। "परमार्थतस्तु" इत्यादि। समुदायो व्युत्पत्यर्थः। अतोऽत्र न केवलं ससाधनक्रिया नास्ति, अपि च साधनमिपि नास्ति। तस्माद्गुणशपब्दा विशालादयः परमार्थतो लोके प्रसिद्धाः यथा--शुक्लादयः शब्दाः। तेन नात्र विशालीदिषु प्रकृतिप्रत्ययार्थयोरभिनिवेशः कत्र्तव्यः। तदेवं परमार्थतोऽनर्थकाः। वेः शालच्छङ्कटचावप्यनर्थकावेव विधीयते इत्युक्तं भवति। "एते" इति। व्युत्पादयिष्यमाणान्? सङ्कटादीन्? बुद्धौ कृत्वा बहुवचनं कृतम्(), तेऽपि हि गुणशब्दा एव॥