पूर्वम्: ३।३।१६७
अनन्तरम्: ३।३।१६९
 
सूत्रम्
लिङ् यदि॥ ३।३।१६८
काशिका-वृत्तिः
लिङ् यदि ३।३।१६८

कालादयो ऽनुवर्तन्ते। यच्छब्दे उपपदे कालादिषु धातोः लिङ् प्रत्ययो भवति। तुमुनो ऽपवादः। कालो यद् भुञ्जीत भवान्। सम्यो यद् भुञ्जीत भवान्। वेला यद् भुञ्जीत भवान्।
न्यासः
लिङ् यदि। , ३।३।१६८

" तुमुनोऽपवादः"इति। पूर्वसूत्रेण प्राप्तस्य॥
बाल-मनोरमा
लिङ्यदि ६४३, ३।३।१६८

लिङ्यदि। कालसमयवेलास्वत्यनुवर्तते। सर्वलकारापवादः, तुमुनपवादश्च। भुञ्जीत भवानिति यत्तस्यकालः समयो वेला वेत्यन्वयः।

तत्त्व-बोधिनी
लिङ्यदि ५३५, ३।३।१६८

लिङ् यदि। कालसमयवेलासु चेति। "उपपदेष्वि"ति वचनविपरिणामेन संबध्यते। तुमुनोऽपवादः। यद्भुञ्जीतेति। यत्कालः पचतीत्यत्र तु न , प्रेषादीनामनुवृत्तेः।