पूर्वम्: ३।१।१०३
अनन्तरम्: ३।१।१०५
 
सूत्रम्
उपसर्या काल्या प्रजने॥ ३।१।१०४
काशिका-वृत्तिः
उपसर्या काल्या प्रजने ३।१।१०४

उपसर्या इति निपात्यते काल्या चेत् प्रजने भवति। उपपूर्वात् सर्तेः यत् प्रत्ययः। प्रप्तकाला काल्या। प्रजनः प्रजननं, प्रथमगर्भग्रहणम्। गर्भग्रहणे प्रप्तकाला। उपसर्या गौः। उपसर्या वडवा। काल्या प्रजने इति किम्? उपसार्या शरदि मधुरा।
न्यासः
उपसर्या काल्या प्रजने। , ३।१।१०४

"प्राप्तकाला काल्या" इति। "तदस्य प्राप्तस्य" ५।१।१०३ इत्यनुवत्र्तमाने "कालाद्यत्" ५।१।१०६ इति यत्। प्रजननम् = प्रजनः, भावे घञ्, "जनिवध्योश्च" ७।३।३५ इति वृद्धिप्रतिषेधः। "उपसार्या" इति। उपसंक्रमणीत्येत्यर्थः।
बाल-मनोरमा
उपसर्या काल्या प्रजने ६७३, ३।१।१०४

उपसर्या। प्रजननं प्रजनः = गर्भग्रहणम्। भावे घञ्। "जनिवध्योश्चे"ति वृद्धिनिषेधः। कालः प्राप्तोऽस्याः काल्या। "तदस्य प्राप्त"मित्यनुवर्तमाने "कालाद्य"दिति यत्। चेदित्यध्याहार्यम्। तदाह-- गर्भग्रहणे प्राप्तकाला चेदिति। गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिर्विवक्षिता चेदुपसर्या इति निपात्यते इत्यर्थः। उपपूर्वात् सृधातोर्यदिति फलितम्। ण्यतोऽपवादः।

तत्त्व-बोधिनी
उपसर्या काल्या प्रजने ५५९, ३।१।१०४

उपसर्या। उपपूर्वात्सरतेः सर्तेर्वा यन्निपात्यते। कालः प्राप्तोऽस्याः काल्या। "तदस्य प्राप्त"मिति वर्तमाने "कालाद्यत्" इति यत्। प्रजननं प्रजनो = गर्भग्रहणम्। भावे घञ्। "जनिवध्योश्च" इति वृद्धिनिषेधः। उपसार्येति। कर्मणि ण्यत्। कर्तरि यदिति। "तयोरेव" इति भावे प्राप्ते कर्तरि यन्निपात्यत इति भावः।