पूर्वम्: १।२।३३
अनन्तरम्: १।२।३५
 
प्रथमावृत्तिः

सूत्रम्॥ यज्ञकर्मण्यजपन्यूङ्खसामसु॥ १।२।३४

पदच्छेदः॥ यज्ञकर्मणि ७।१ ३५ अजपन्यूङ्खसामसु ७।३ एकश्रुति १।१ ३३

समासः॥

यज्ञस्य कर्म यज्ञकर्म, तस्मिन् यज्ञकर्मणि, षष्ठीतत्पुरुषः। जपश्च न्यूङ्खश्च साम च, जपन्यूङ्खसामानि, न जपन्यूङ्खसामानि अजपन्यूङ्खसामानि तेषु अजपन्यूङ्खसामसु द्वन्द्वगर्भनञ्तत्पुरुषः।

अर्थः॥

यज्ञकर्मणि, उदात्तानुदात्तस्वरितस्वराणाम् एकश्रुतिः भवति, जयन्यूङ्खसामानि वर्जयित्वा। जप उपांशुप्रयोगः। नूङ्खा निगदविशेषाः, आश्वलायनश्रौतसूत्रे {७।११} व्याख्यातास्तत्र द्रष्टव्याः॥

उदाहरणम्॥

समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्। आस्मिन् हव्या जुहोतन॥ यजु॰३।१॥ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम्। अपां रेतांसि जिन्वतो३म्॥ यजु॰ ३।१२॥ अत्रैकश्रुतिरभूत्।
काशिका-वृत्तिः
यज्ञकर्मण्यजपन्यूङ्खसामसु १।२।३४

त्रैस्वर्येण वेदे मन्त्राः पठ्यन्ते। तेषां यज्ञक्रियायाम् अपि तथैव प्रयोगे प्राप्ते एकश्रुतिर् विधीयते जपन्यूङ्खसामानि वर्जयित्वा। यज्ञकर्मणि मन्त्राणाम् ऐकश्रुत्यं भवति। अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम्। अपां रेतंसि जिन्वतो३म्। यज्ञकर्मणि इति किम्? सम्पाठे मा भूत्। अजपेष्विति किम्? ममाग्ने वर्चो विहवेष्वस्तु। जपो ऽनुकरणमन्त्र उपांशुप्रयोगः। अन्यूङ्खाइति किम्? न्यूङ्खा ओकाराः षोडश। तेषु केचिदुदात्ताः केचिदनुदात्ताः। असामसु इति किम्? विश्वं समत्रिणं दह। सामानि वाक्यविशेषस्थगीतय उच्यन्ते। तत्रैकश्रुतिर् न भवति।
न्यासः
यज्ञकर्मण्यजपन्यूङ्खसामसु। , १।२।३४

"अग्निर्मूर्धा दिवः" इत्यादि। "अगि रगि गत्यर्थाः" (धा।पा।१४६,१४४)। "वीज्याज्वरिभ्यो निः" (द।उ।१।१८) इत वत्र्तमाने "अङ्गेर्निर्नलोपश्च" (द।उ।१।२०) इति निप्रत्ययः; नलोपश्च भवति। अग्निशब्दः प्रत्ययस्वरेणान्तोदात्तः। "मुर्वी बन्धने" (धा।पा।५७५),"अकनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः" (द।उ।६।५१) इत्यतः कनिन्निति वत्र्तमाने "()आन्नुक्षन्पूषन्()प्लीहन्क्लेदन्()स्नेहन्()मूर्धन्मज्जन्नर्यमन्वि()आप्सन्परिज्मन्मातरि()आन्मघवन्" (द।उ।६।५५) इति मूर्धन्शब्दः कनिन्प्रत्यान्तो निपातित इति निपातनादाद्युदात्तः। वकारस्य धकारोऽत्र निपातनादेव। "दिवु क्रीडादौ" (धा।पा।११०७) डिविन् प्रत्ययः। इकार उच्चारणार्थः। डित्यभस्याप्यनुबन्धकरणसामथ्र्यात् "ट #ए#ः" ६।४।१४३ इति टिलोपः। "दिव्" इति स्थिते "ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः" ६।१।१६५ इति विभक्तेरन्तोदात्त्वम्। ककुच्छब्दः "{फिषोन्त उदात्तः- #इति मुद्रितं सूत्रम्}प्रातिपदिकमन्तोदात्तं भवति" (फि।सू। १।१)इत्यन्तोदात्तः। पतिशब्दः "पातेर्डतिः" (द।उ।१।२७) इति डतिप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः, ततः ककुदः पतिः ककुत्पतिरिति षष्ठीसमासः, स"समासस्य" ६।१।२१७ इत्यन्तोदात्तत्वम्। "प्रथ प्रख्याने" (धा।पा।१५५३), "प्रथेः षिवन् संप्रसारणञ्च" (द।उ।८।१२४)। "षिद्गौरादिभ्यश्च"४।१।४१ इति पृथिवशब्दान्()ङीष्। प्रत्ययस्वरेण धातुप्रत्यङीष आद्युदात्तोदात्तः। षष्ठ()ऐकवचनम् ङस्। "आण्नद्याः"इत्यनुदात्तत्वम्। सवर्णदीर्घः। "इको यणचि" ६।१।७४ इति यणादेशः। "उदात्तयणो हल्पूर्वात्" ६।१।१६८ इति विभक्तिरुदात्ता। "अयम" इति। "इदि परमै()आर्ये" (धा।पा।६३) "इदितो नुम् धातोः" ७।१।५८ इति नुम्, "इन्देः कमिर्नलोपश्च" (पं।उ।५९६) इति कमिप्रत्ययो नलोपश्च; इदम्शब्दः कमिप्रत्ययेनान्तोदात्तः। सौ परतः "इदोऽय् पुंसि" इतीदम इद्रूपस्यादेशः। "अपाम्" इति। "आप्लृव्याप्तौ" (धा।पा।१२६०), "आप्नोतेह्र्यस्वश्च" (द।उ।१।१२७) इति क्विप्, ह्यस्वश्च, षष्ठीबहुवनचम्। "ऊडिदं पद" ६।१।१६५ इति विभक्तेरुदात्तत्वम्। तेनापामित्यस्यान्तोदात्तत्वम्। "रि गतौ" (धा।पा।१४०४), "स्त्रुरिभ्यां तुट् च" (द।उ।९।६२) इत्यसुन् प्रत्ययः। तुडागमः। "रेतांसि" इति नित्स्वरेणाद्युदात्तः। "जिन्वति" इति। "जि जये" (धा।पा।५६१) लट्,शत्रादेशः। "व्यत्ययो बहुलम्" ३।१।८५ इति व्यत्ययेन श्नुप्रत्ययः।"हुश्नुवोः सार्वधातुके" ६।४।८७ इति यणादेशः। "उगितश्च" ४।२।६ इति ङीप्। "अम्बार्थनद्योह्र्यस्वः" ७।३।१०७ इति ह्यस्वः। "एङ ह्यस्वात् सम्बुद्धेः" ६।१।६७ इति सुलोपः। "ये यज्ञकर्मणि" ८।२।८८ इति वत्र्तमाने "प्रणवष्टेः"८।२।८९ इति प्रणवादेशः। स च प्लुत उदात्तश्च,"वाक्यस्य टेः प्लुत उदात्तः" ८।२।८२ इत्यधिकरात्। प्रणव इत्योकारम्, ओङ्कारं वाऽ‌ऽचक्षते। प्रणवस्योदात्तविधानसामथ्र्यादसिद्धत्वाच्च पदादुत्तरस्य "आमन्त्रितस्य च" ८।१।१९ इत्यनुदात्तं न भवति; शेषस्य तु भवति। एषु स्वरेषु प्राप्तेष्वेकश्रुतिर्विधीयते। "संपाठे मा भूत्" इति। संपाठ= स्वाध्यायकालः। "ममाग्ने" इत्यादि। "असु क्षपणे" (धा।पा।१२०९), "युष्यसिम्यां मदिक्" (द।उ।६।५०) इति मदिक्। अस्मच्छब्दः प्रत्ययस्वेरणान्तोदात्तः। षष्ठ()एकवचनस्य "युष्मदसमद्भ्यां ङसोऽश्" ७।१।२७ इत्यशादेश-, "तवममौ ङसि" ७।२।९६ इत्यस्मदो ममादेशः। स्था४निवद्भावादन्तोदात्तः। "अतो गुणे" ६।१।९४ पररूपत्वम्। "एकादेश उदात्तेनोदात्तः" ८।२।५ अग्निशब्दस्य "आमन्त्रितस्य च" ८।१।१९ इति निघातः। "वर्च दीप्तौ" (धा।पा।१६२), "असुन्" (द।उ।९।४९) इतिअसुन् प्रत्ययः। वर्चशब्दो नित्स्वरेणाद्युदात्तः। "ह्वेञ् स्पर्धायाम्" (धा।पा।१००८)। "ह्वः संप्रासारणञ्च न्यभ्युपदिषु ३।३।७२ इत्यप् प्रत्ययः। "उपपदमतिङ" २।२।१९ इति समासः। "गतिकारकोपपदात् कृत्" ६।२।१३८ इत्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते, "अन्तः" ६।२।१४२ इत्यनुवर्तमाने "थाथघञ्क्ताजवित्रकारणाम्" ६।२।१४३ इत्यन्तोदात्तत्वम्, सप्तमीबहुवचने "बहुवचने झल्येत्"७।३।१०३ इत्येत्त्वम्, स्थानिवद्भावादेकारोऽपब्यदात्त एव। "अस भुवि" (धा।पा।१०६५) , लोट्, तिप्, "एरुः" ३।४।८६ इत्युत्वम्, अदादित्वाच्छपो लुक्। "तिङङतिङः" ८।१।२८ इति निघातेन "अस्तु" शब्दोऽनुदात्तः। "जपोऽनुकरणमन्त्रः" इति। "जप" इत्यक्तेरर्थकथनमनुकरणमन्त्र इति। अनुकृतिः = अनुकरणम्। सर्वत्र मन्त्रे स्फुटमुच्चारणमित्यनुकरणमन्त्रः। अत एवाह-- "उपांशुप्रयोगः" इति। यता जले निमग्नस्य पाठः। क्वचिदकरणमन्त्र इति पाठः। तत्रायमर्थः-- ईषत् करणमुच्चारणं यस्य सोऽकरणमन्त्र इति; नञ ईषदर्थत्वात्। एशब्दो निपातः। "निपाता आद्युदात्ताः" (फि।सू।४।८०)। "विश प्रवेशने" (धा।पा।१४२४),"अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्" (द।उ।१२५) इति क्वप्रत्ययान्तत्वाद्वि()आशब्दो नित्स्वरेणाद्युदात्तः। समञ्च तत् अत्रिणञ्चेति विशेषणसमासः। समासान्तोदात्तत्वम्। "दह भस्मीकरणे" (धा।पा।९९१), लोट्,सिप्, सेर्हिरादेशः,"अतो हेः" ६।४।१०५ इति हेर्लुक्, "तिङङतिङ" ८।१।२८ इति निघातविधानात् दहशब्दोऽनुदात्तः। केचिद् वहा३ इति प्लुतान्तं पठन्ति; तेषां साहसमनिच्छतां "सर्वत्र विभाषा प्लुतो वक्तव्यः" (म।भा।३।४२०) इत्यतो वचनात् प्लुतो वक्तव्यः, स चोदात्तः। अन्ये त्वाकारान्तं पठन्ति, तेषां छान्दसत्वादाकारः। ह्यस्वोऽपि हि वर्णो व्यत्ययेन दीर्घो भवति,"पुरुषः" "नारकः" इति यथा। "वाक्यविशेषस्था गीतयः" इति। यथोक्तं जैमिनिना-- "गीतिषु सामाख्या" इति। गीतिः = ध्वनिविशेषः। कर्मग्रहणं किमर्थम्,यज्ञ इत्येवोच्येत, यज्ञमन्त्राणां यज्ञक्रियार्थत्वाद्यज्ञकर्मणि भविष्यति? सत्यमेतत्; विस्पष्टार्थ हि कर्मग्रहणम्। अथ वा -- योऽपि न प्रसिद्धो यज्ञः पञ्चयजनादिः, तत्रापि यथा स्यादित्येवमर्थम्; अन्यथा "यज्ञे" इच्युच्यमाने प्रसिद्धो यो यज्ञोऽ()आमेधादिस्त्तत्रैव स्यात्॥