|| suvachanaani || || सुवचनानि || अतिपरिचयादवज्ञा | अतिलोभो विनाशाय | अतितृष्णा न कर्तव्या | अति सर्वत्र वर्जयेत् | अधिकस्याधिकं फलम् | अनतिक्रमणीया हि नियतिः | अल्पश्च कालो बहवश्च विघ्नाः | अलभ्यो लाभः | अव्यापारेषु व्यापारः | अहिंसा परमो धर्मः | अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः | अर्थो हि लोके पुरुषस्य बन्धुः | आकृतिर्बकस्य दृष्टिस्तु काकस्य | आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः | इक्षुः मधुरोऽपि समूलं न भक्ष्यः | इतः कूपः ततस्तटी | इतो भ्रष्टस्ततो भ्रष्टः | ईश्वरेच्छा बलीयसी | उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः | उत्सवप्रियाः खलु मनुष्याः | कण्टकेनैव कण्टकमुद्धरेत् | कर्तव्यो महदाश्रयः | कवयः किं न पश्यन्ति ? काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् | कालाय तस्मै नमः | किमिव हि मधुराणां मण्डनं नाकृतीनाम् | किमिव हि दुष्करमकरुणानाम् | किं मिष्टमन्नं खरसूकराणाम् ? क्षमया किं न सिद्ध्यति | क्लेशः फलेन हि पुनर्नवतां विधत्ते | गतं न शोच्यम् | गतानुगतिको लोकः न कश्चित् पारमार्थिकः | गहना कर्मणो गतिः | गुणाः सर्वत्र पूज्यन्ते | चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च | जननी जन्मभूमिश्च स्वर्गादपि गरीयसी | जलबिन्दुनिपातेन क्रमशः पूर्यते घटः | जीवो जीवस्य जीवनम् | त्रुटितः संबन्धः प्रशान्तः कलहः | त्रैलोक्ये दीपकः धर्मः | दुर्लभं भारते जन्म मानुष्यं तत्र दुर्लभम् | दूरतः पर्वताः रम्याः | द्रव्येण सर्वे वशाः | धर्मो मित्रं मृतस्य | धीराः हि तरन्ति आपदम् | नास्ति सत्यसमो धर्मः | न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे | न भूतो न भविष्यति || नमः शिवाय | नमो भगवते वासुदेवाय | न हि ज्ञानेन सदृशं पवित्रमिह विद्यते | न शान्तेः परमं सुखम् | निगूढेऽपि कुक्कुटे उदेत्येव अरुणः | निर्वाणदीपे किमु तैलदानम् | निरस्तपादपे देशे एरण्डोऽपि द्रुमायते | निःस्पृहस्य तृणं जगत् | न निश्चितार्थात् विरमन्ति धीराः | निर्धनस्य कुतः सुखम् | नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण | परदुःखं शीतलम् | परोपकाराथमिदं शरीरम् | परोपदेशे पाण्डित्यम् | परोपकारः पुण्याय | परोपकाराय सतां विभूतयः | पुनः पुनरपि प्रक्षाल्य कज्जलं न श्वेतायते | पिण्डे पिण्डे मतिर्भिन्ना | प्रज्ज्वालितो ज्ञानमयः प्रदीपः | प्रथमग्रासे मक्षिकापातः | पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् | बधिरात् मन्दकर्णः श्रेयान् | बहुजनहिताय बहुजनसुखाय | बहुरत्न वसुन्धरा | बालानां रोदनं बलम् | बुद्धिः कर्मानुसारिणी | बुद्धिर्यस्य बलं तस्य | भद्रं कर्णेभिः श्रुणुयाम देवाः | भवन्ति भवितव्यानां द्वाराणि सर्वत्र | भिन्नरुचिर्हि लोकः | मधु तिष्ठति जिव्हाग्रे हृदये तु हलाहलम् | मनः पूतं समाचरेत् | मनोरथानामगतिर्न विद्यते | मरणं प्रकृतिः शरीरिणाम् | महाजनो येन गतः स पन्थाः | मार्गारब्धाः सर्वयत्नाः फलन्ति | मातृदेवो भव | पितृदेवो भव | आचार्यदेवो भव | अतिथिदेवो भव | मूढः परप्रत्ययनेयबुद्धिः | मृदुर्हि परिभूयते | मौनं सर्वार्थसाधनम् | यथा बीजं तथा अङ्कुरः | यथा राजा तथा प्रजा | यद् वा तद् वा भविष्यति | यद् वा तद् वा वदति | याचको याचक्ं दृष्ट्वा श्वानवत् गुर्गुरायते | यादृशं वपते बीजं तादृशं लभते फलम् | यः क्रियावान् स पण्डितः | युद्धस्य कथा रम्या | येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् | योजकस्तत्र दुर्लभः | राजा कालस्य कारणम् | वन्दे मातरम् | वक्ता दशसहस्रेषु | वचने का दरिद्रता ? विद्वान् सर्वत्र पूज्यते | विद्याधनं सर्वधनप्रधानम् | विनाशकाले विपरितबुद्धिः | शठं प्रति शाठ्यम् | शरीरमाद्यं खलु धर्मसाधनम् | शीलं परं भूषणम् | शुभास्ते पन्थानः | शुभं भवतु | सत्यमेव जयते न अनृतम् | सत्यं कण्ठस्य भूषणम् | सुखमुपदिश्यते परस्य | संहतिः कार्यसाधिका | स्वभावो दुरतिक्रमः |