कौटिलीयार्थशास्त्रम्

कौटिलीयार्थशास्त्रम्

विनयाधिकारिकम् - प्रथममधिकरणम्

१. प्रकरणाधिकरणसमुद्देशः प्रथमोऽधायः

ॐ नमः शुक्रबृहस्पतिभ्याम् । Added the header पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्तावितानि प्रायशस्तानि संहृत्यैकमिदमर्थशास्त्रं कृतम् 01.1.01 तस्यायं प्रकरणाधिकरणसमुद्देशः 01.1.02 विद्यासमुद्देशः, वृद्धसंयोगः, इन्द्रियजयः, अमात्योत्पत्तिः, मन्त्रिपुरोहितोत्पत्तिः, उपधाभिः शौचाशौचज्ञानममात्यानां, गूढपुरुषोत्पत्तिः, गूढपुरुषप्रणिधिः, स्वविषये कृत्याकृत्यपक्षरक्षणं, परविषये कृत्याकृत्यपक्षोपग्रहः, मन्त्राधिकारः, दूतप्रणिधिः, राजपुत्ररक्षणं, अवरुद्धवृत्तं, अवरुद्धे वृत्तिः, राजप्रणिधिः, निशान्तप्रणिधिः, आत्मरक्षितकं, , इति विनयाधिकारिकं प्रथममधिकरणम् 01.1.03 जनपदनिवेशः, भूमिच्छिद्रविधानं, दुर्गविधानं, दुर्गनिवेशः, सन्निधातृनिचयकर्म, समाहर्तृसमुदयप्रस्थापनं, अक्षपटले गाणनिक्याधिकारः, समुदयस्य युक्तापहृतस्य प्रत्यानयनं, उपयुक्तपरीक्षा, शासनाधिकारः, कोशप्रवेश्यरत्नपरीक्षा, आकरकर्मान्तप्रवर्तनं, अक्षशालायां सुवर्णाध्यक्षः विशिखायां सौवर्णिकप्रचारः, कोष्ठागाराध्यक्षः, पण्याध्यक्षः, कुप्याध्यक्षः, आयुधागाराध्यक्षः, तुलामानपौतवं, देशकालमानं, शुल्काध्यक्षः, सूत्राध्यक्षः, सीताध्यक्षः, सुराध्यक्षः, सूनाध्यक्षः, गणिकाध्यक्षः, नावध्यक्षः, गोऽध्यक्षः, अश्वाध्यक्षः, हस्त्यध्यक्षः, रथाध्यक्षः, पत्त्यध्यक्षः, सेनापतिप्रचारः, मुद्राध्यक्षः, विवीताध्यक्षः, समाहर्तृप्रचारः, गृहपतिकवैदेहकतापसव्यञ्जनाः प्रणिधयः, नागरिकप्रणिधिः इत्यध्यक्षप्रचारो द्वितीयमधिकरणम् 01.1.04 व्यवहारस्थापना, विवादपदनिबन्धः, विवाहसंयुक्तं, दायविभागः, वास्तुकं, समयस्यानपाकर्म, ऋणादानं, औपनिधिकं, दासकर्मकरकल्पः, सम्भूयसमुत्थानं, विक्रीतक्रीतानुशयः, दत्तस्यानपाकर्म, अस्वामिविक्रयः, स्वस्वामिसम्बन्धः, साहसं, वाक्पारुष्यं, दण्डपारुष्यं, द्यूतसमाह्वयं, प्रकीर्णकानि - इति, धर्मस्थीयं तृतीयमधिकरणम् 01.1.05 कारुकरक्षणं, वैदेहकरक्षणं, उपनिपातप्रतीकारः, गूढाजीविनां रक्षा, सिद्धव्यञ्जनैर्माणवप्रकाशनं, शङ्कारूपकर्माभिग्रहः, आशुमृतकपरीक्षा, वाक्यकर्मानुयोगः, सर्वाधिकरणरक्षणमेकाङ्गवधनिष्क्रयः, शुद्धश्चित्रश्च दण्डकल्पः, कन्याप्रकर्म, अतिचारदण्डः - इति कण्टकशोधनं चतुर्थमधिकरणम् 01.1.06 दाण्डकर्मिकं, कोशाभिसंहरणं, भृत्यभरणीयं, अनुजीविवृत्तं, समयाचारिकं, राज्यप्रतिसन्धानं, एकैश्वर्यं - इति योगवृत्तं पञ्चममधिकरणम् 01.1.07 प्रकृतिसम्पदः, शमव्यायामिकं - इति मण्डलयोनिः षष्ठमधिकरणम् 01.1.08 षाड्गुण्यसमुद्देशः, क्षयस्थानवृद्धिनिश्चयः, संश्रयवृत्तिः, समहीनज्यायसां गुणाभिनिवेशः, हीनसन्धयः, विगृह्यासनं, सन्धायासनं, विगृह्य यानं, सन्धाय यानं, सम्भूय प्रयाणं, यातव्यामित्रयोरभिग्रहचिन्ता, क्षयलोभविरागहेतवः, प्रकृतीनां, सामवायिकविपरिमर्शः, संहित प्रयाणिकं, परिपणितापरिपणितापसृताश्च सन्धयः, द्वैधीभाविकाः सन्धिविक्रमाः, यातव्यवृत्तिः, अनुग्राह्यमित्रविशेषाः, मित्रहिरण्यभूमिकर्मसन्धयः, पार्ष्णिग्राहचिन्ता, हीनशक्तिपूरणं, बलवता विगृह्योपरोधहेतवः, दण्डोपनतवृत्तं, दण्डोपनायिवृत्तं, सन्धिकर्म, सन्धिमोक्षः, मध्यमचरितं, उदासीनचरितं, मण्डलचरितं - इति षाड्गुण्यं सप्तममधिकरणम् 01.1.09 प्रकृतिव्यसनवर्गः, राजराज्ययोर्व्यसनचिन्ता, पुरुषव्यसनवर्गः, पीडनवर्गः, स्तम्भवर्गः, कोशसङ्गवर्गः, बलव्यसनवर्गः, मित्रव्यसनवर्गः - इति व्यसनाधिकारिकमष्टममधिकरणम् 01.1.10 शक्तिदेशकालबलाबलज्ञानं, यात्राकालाः, बलोपादानकालाः, सन्नाहगुणाः, प्रतिबलकर्म, पश्चात् कोपचिन्ता, बाह्याभ्यन्तरप्रकृतिकोपप्रतीकाराः क्षयव्ययलाभविपरिमर्शः, बाह्याभ्यन्तराश्चापदः, दुष्यशत्रुसंयुक्ताः, अर्थानर्थसंशययुक्ताः, तासामुपायविकल्पजाः सिद्धयः - इत्यभियास्यत् कर्म नवममधिकरणम् 01.1.11 स्कन्धावारनिवेशः, स्कन्धावारप्रयाणं, बलव्यसनावस्कन्दकालरक्षणं, कूटयुद्धविकल्पाः, स्वसैन्योत्साहनं, स्वबलान्यबलव्यायोगः, युद्धभूमयः, पत्त्यश्वरथहस्तिकर्माणि, पक्षकक्षोरस्यानां बलाग्रतो व्यूहविभागः, सारफल्गुबलविभागः, पत्त्यश्वरथहस्तियुद्धानि, दण्डभोगमण्डलासंहतव्यूहव्यूहनं, तस्य प्रतिव्यूहस्थापनं - इति साङ्ग्रामिकं दशममधिकरणम् 01.1.12 भेदोपादानानि, उपांशुदण्डाः - इति सङ्घवृत्तमेकादशमधिकरणम् 01.1.13 दूतकर्म, मन्त्रयुद्धं, सेनामुख्यवधः, मण्डलप्रोत्साहनं, शस्त्राग्निरसप्रणिधयः, वीवधासारप्रसारवधः, योगातिसन्धानं, दण्डातिसन्धानं, एकविजयः - इत्याबलीयसं द्वादशमधिकरणम् 01.1.14 उपजापः, योगवामनं, अपसर्पप्रणिधिः, पर्युपासनकर्म, अवमर्दः, लब्धप्रशमनं - इति दुर्गलम्भोपायः त्रयोदशमधिकरणम् 01.1.15 परबलघातप्रयोगः, प्रलम्भनं, स्वबलोपघातप्रतीकारः - इत्यौपनिषदिकं चतुर्दशमधिकरणम् 01.1.16 तन्त्रयुक्तयः - इति तन्त्रयुक्तिः पञ्चदशमधिकरणम् 01.1.17 शास्त्रसमुद्देशः पञ्चदशाधिकरणानि स-अशीतिप्रकरणशतं स-पञ्चाशदध्यायशतं षट्श्लोकसहस्राणि इति 01.1.18 सुखग्रहणविज्ञेयं तत्त्वार्थपदनिश्चितम् । कौटिल्येन कृतं शास्त्रं विमुक्तग्रन्थविस्तरम् (इति) 01.1.19 इति कौटिलीयेऽर्थशास्त्रे विनयाधिकारिके प्रथ्मेऽशिकरणे प्रकरणाधिकरणसमुद्देशः प्रथमोऽध्यायः । Added the colophone Chapt . Section.1: Enumeration of the sciences i) Establishing (the necessity of) philosophy आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च इति विद्याः 01.2.01 त्रयी वार्त्ता दण्ड नीतिश्च इति मानवाः 01.2.02 त्रयी विशेषो ह्यान्वीक्षिकी इति 01.2.03 वार्त्ता दण्डनीतिश्च इति बार्हस्पत्याः 01.2.04 संवरणमात्रं हि त्रयी लोकयात्राविद इति 01.2.05 दण्डनीतिरेका विद्या इत्यौशनसाः 01.2.06 तस्यां हि सर्वविद्याऽऽरम्भाः प्रतिबद्धा इति 01.2.07 चतस्रैव विद्या इति कौटिल्यः 01.2.08 ताभिर्धर्मार्थौ यद् विद्यात् तद् विद्यानां विद्यात्वम् 01.2.09 साङ्ख्यं योगो लोकायतं च इत्यान्वीक्षिकी 01.2.10 धर्माधर्मौ त्रय्यामर्थानर्थौ वार्त्तायां नयानयौ दण्डनीत्यां बलाबले चैतासां हेतुभिरन्वीक्षमाणा लोकस्योपकरोति व्यसनेऽभ्युदये च बुद्धिमवस्थापयति प्रज्ञावाक्यक्रियावैशारद्यं च करोति 01.2.11 प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां शश्वद् आन्वीक्षिकी मता (इति) 01.2.12 Chapt . Section.1, (I) Establishing (the necessity of) the Vedic Lore साम।ऋग्यजुर्वेदाः त्रयः त्रयी 01.3.01 अथर्ववेद इतिहासवेदौ च वेदाः 01.3.02 शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविचितिर्ज्योतिषमिति चाङ्गानि 01.3.03 एष त्रयीधर्मश्चतुर्णां वर्णानामाश्रमाणां च स्वधर्मस्थापनाद् औपकारिकः 01.3.04 स्वधर्मो ब्राह्मणस्याध्ययनमध्यापनं यजनं याजनं दानं प्रतिग्रहश्च 01.3.05 क्षत्रियस्याध्ययनं यजनं दानं शस्त्राजीवो भूतरक्षणं च 01.3.06 वैश्यस्याध्ययनं यजनं दानं कृषिपाशुपाल्ये वणिज्या च 01.3.07 शूद्रस्य द्विजातिशुश्रूषा वार्त्ता कारुकुशीलवकर्म च 01.3.08 गृहस्थस्य स्वधर्माजीवः तुल्यैरसमान।ऋषिभिर्वैवाह्यं ऋतुगामित्वं देवपित्र्ऽतिथिपूजा भृत्येषु त्यागः शेषभोजनं च 01.3.09 ब्रह्मचारिणः स्वाध्यायोऽग्निकार्याभिषेकौ भैक्षव्रतित्वमाचार्ये प्राणान्तिकी वृत्तिः तद्ऽभावे गुरुपुत्रे स-ब्रह्मचारिणि वा 01.3.10 वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटाजिनधारणमग्निहोत्राभिषेकौ देवतापित्र्ऽतिथिपूजा वन्यश्चाहारः 01.3.11 परिव्राजकस्य जितेन्द्रियत्वमनारम्भो निष्किञ्चनत्वं सङ्गत्यागो भैक्षव्रतमनेकत्रारण्ये च वासो बाह्याभ्यन्तरं च शौचम् 01.3.12 सर्वेषामहिंसा सत्यं शौचमनसूयानृशंस्यं क्षमा च 01.3.13 स्वधर्मः स्वर्गायानन्त्याय च 01.3.14 तस्यातिक्रमे लोकः सङ्कराद् उच्छिद्येत 01.3.15 तस्मात् स्वधर्मं भूतानां राजा न व्यभिचारयेत् । स्वधर्मं सन्दधानो हि प्रेत्य चेह च नन्दति 01.3.16 व्यवस्थितार्यमर्यादः कृतवर्णाश्रमस्थितिः । त्रय्याभिरक्षितो लोकः प्रसीदति न सीदति (इति) 01.3.17 Chapt . Ii) Establishing (the necessity of) Economics, and (iv) the Science of Politics कृषिपाशुपाल्ये वणिज्या च वार्ता, धान्यपशुहिरण्यकुप्यविष्टिप्रदानाद् औपकारिकी 01.4.01 तया स्वपक्षं परपक्षं च वशीकरोति कोशदण्डाभ्याम् 01.4.02 आन्वीक्षिकी त्रयी वार्त्तानां योगक्षेमसाधनो दण्डः, तस्य नीतिर्दण्ड नीतिः, अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च 01.4.03 तस्यामायत्ता लोकयात्रा 01.4.04 तस्माल्लोकयात्रार्थी नित्यमुद्यतदण्डः स्यात् 01.4.05 न ह्येवंविधं वशोपनयनमस्ति भूतानां यथा दण्डः । इत्याचार्याः 01.4.06 न इति कौटिल्यः 01.4.07 तीक्ष्णदण्डो हि भूतानामुद्वेजनीयो भवति 01.4.08 मृदुदण्डः परिभूयते 01.4.09 यथार्हदण्डः पूज्यते 01.4.10 सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति 01.4.11 दुष्प्रणीतः कामक्रोधाभ्यामवज्ञानाद् वा वानप्रस्थपरिव्राजकान् अपि कोपयति, किंऽङ्ग पुनर्गृहस्थान् 01.4.12 अप्रणीतः तु मात्स्यन्यायमुद्भावयति 01.4.13 बलीयान् अबलं हि ग्रसते दण्डधराभावे 01.4.14 स तेन गुप्तः प्रभवतीति 01.4.15 चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः । स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु (इति) 01.4.16 Chapt . Section.2: Association with elders तस्माद् दण्डमूलाः तिस्रो विद्याः 01.5.01 विनयमूलो दण्डः प्राणभृतां योगक्षेमावहः 01.5.02 कृतकः स्वाभाविकश्च विनयः 01.5.03 क्रिया हि द्रव्यं विनयति नाद्रव्यम् 01.5.04 शुश्रूषा श्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिविष्टबुद्धिं विद्या विनयति न इतरम् 01.5.05 विद्यानां तु यथास्वमाचार्यप्रामाण्याद् विनयो नियमश्च 01.5.06 वृत्तचौलकर्मा लिपिं सङ्ख्यानं चोपयुञ्जीत 01.5.07 वृत्तोपनयनः त्रयीमान्वीक्षिकीं च शिष्टेभ्यो वार्त्तामध्यक्षेभ्यो दण्डनीतिं वक्तृप्रयोक्तृभ्यः 01.5.08 ब्रह्मचर्यं च षोडशाद् वर्षात् 01.5.09 अतो गोदानं दारकर्म चास्य 01.5.10 नित्यश्च विद्यावृद्धसंयोगो विनयवृद्ध्यर्थं, तन्मूलत्वाद् विनयस्य 01.5.11 पूर्वमहर्भागं हस्त्यश्वरथप्रहरणविद्यासु विनयं गच्छेत् । 01.5.12 पश्चिममितिहासश्रवणे 01.5.13 पुराणमितिवृत्तमाख्यायिकोदाहरणं धर्मशास्त्रमर्थशास्त्रं च इति इतिहासः 01.5.14 शेषमहोरात्रभागमपूर्वग्रहणं गृहीतपरिचयं च कुर्यात्, अगृहीतानामाभीक्ष्ण्यश्रवणं च 01.5.15 श्रुताद्द् हि प्रज्ञोपजायते प्रज्ञाया योगो योगाद् आत्मवत्ता इति विद्यानां सामर्थ्यम् 01.5.16 विद्याविनीतो राजा हि प्रजानां विनये रतः । अनन्यां पृथिवीं भुङ्क्ते सर्वभूतहिते रतः (इति) 01.5.17 Chapt . Section.3: Control over the senses, (i) Casting out the group of six enemies विद्या विनयहेतुरिन्द्रियजयः कामक्रोधलोभमानमदहर्षत्यागात् कार्यः 01.6.01 कर्णत्वग्ऽक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयः, शास्त्रानुष्ठानं वा 01.6.02 कृत्स्नं हि शास्त्रमिदमिन्द्रियजयः 01.6.03 तद् विरुद्धवृत्तिरवश्येन्द्रियश्चातुरन्तोऽपि राजा सद्यो विनश्यति 01.6.04 यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्यामभिमन्यमानः स-बन्धुराष्ट्रो विननाश, करालश्च वैदेहः 01.6.05 कोपाज् जनमेजयो ब्राह्मणेषु विक्रान्तः, तालजङ्घश्च भृगुषु 01.6.06 लोभाद् ऐलश्चातुर्वर्ण्यमत्याहारयमाणः, सौवीरश्चाजबिन्दुः । 01.6.07 मानाद् रावणः परदारान् अप्रयच्छन्, दुर्योधनो राज्याद् अंशं च 01.6.08 मदाद् दम्भोद्भवो भूतावमानी, हैहयश्चार्जुनः 01.6.09 हर्षाद् वातापिरगस्त्यमत्यासादयन्, वृष्णिसङ्घश्च द्वैपायनमिति 01.6.10 एते चान्ये च बहवः शत्रुषड्वर्गमाश्रिताः । स-बन्धुराष्ट्रा राजानो विनेशुरजितेन्द्रियाः 01.6.11 शत्रुषड्वर्गमुत्सृज्य जामदग्न्यो जितेन्द्रियः । अम्बरीषश्च नाभागो बुभुजाते चिरं महीम् (इति) 01.6.12 Chapt . I) The life of a sage-like king तस्माद् अरिषड्वर्गत्यागेनेन्द्रियजयं कुर्वीत, वृद्धसंयोगेन प्रज्ञां, चारेण चक्षुः, उत्थानेन योगक्षेमसाधनं, कार्यानुशासनेन स्वधर्मस्थापनं, विनयं विद्योपदेशेन, लोकप्रियत्वमर्थसंयोगेन वृत्तिम् 01.7.01 एवं वश्येन्द्रियः परस्त्रीद्रव्यहिंसाश्च वर्जयेत्, स्वप्नं लौल्यमनृतमुद्धतवेषत्वमनर्थ्यसंयोगमधर्मसंयुक्तमनर्थसंयुक्तं च व्यवहारम् 01.7.02 धर्मार्थाविरोधेन कामं सेवेत, न निह्सुखः स्यात् 01.7.03 समं वा त्रिवर्गमन्योन्यानुबद्धम् 01.7.04 एको ह्यत्यासेवितो धर्मार्थकामानामात्मानमितरौ च पीडयति 01.7.05 अर्थैव प्रधान इति कौटिल्यः 01.7.06 अर्थमूलौ हि धर्मकामाविति 01.7.07 मर्यादां स्थापयेद् आचार्यान् अमात्यान् वा, यैनमपाय स्थानेभ्यो वारयेयुः, छायानालिकाप्रतोदेन वा रहसि प्रमाद्यन्तमभितुदेयुः 01.7.08 सहायसाध्यं राजत्वं चक्रमेकं न वर्तते । कुर्वीत सचिवांः तस्मात् तेषां च श‍ृणुयान् मतम् (इति) 01.7.09 Chapt . Appointment of ministers सहाध्यायिनोऽमात्यान् कुर्वीत, दृष्टशौचसामर्थ्यत्वात् इति भारद्वाजः 01.8.01 ते ह्यस्य विश्वास्या भवन्तीति 01.8.02 न इति विशालाक्षः 01.8.03 सहक्रीडितत्वात् परिभवन्त्येनम् 01.8.04 ये ह्यस्य गुह्यसधर्माणः तान् अमात्यान् कुर्वीत, समानशीलव्यसनत्वात् 01.8.05 ते ह्यस्य मर्मज्ञभयान्नापराध्यन्तीति 01.8.06 साधारणैष दोषः इति पाराशराः 01.8.07 तेषामपि मर्मज्ञभयात् कृताकृतान्यनुवर्तेत 01.8.08 यावद्भ्यो गुह्यमाचष्टे जनेभ्यः पुरुषाधिपः । अवशः कर्मणा तेन वश्यो भवति तावताम् 01.8.09 यैनमापत्सु प्राणाबाधयुक्तास्वनुगृह्णीयुः तान् अमात्यान् कुर्वीत, दृष्टानुरागत्वात् इति 01.8.10 न इति पिशुनः 01.8.11 भक्तिरेषा न बुद्धिगुणः 01.8.12 सङ्ख्यातार्थेषु कर्मसु नियुक्ता ये यथाऽऽदिष्टमर्थं सविशेषं वा कुर्युः तान् अमात्यान् कुर्वीत, दृष्टगुणत्वात् इति 01.8.13 न इति कौणपदन्तः 01.8.14 अन्यैरमात्यगुणैरयुक्ता ह्येते 01.8.15 पितृपैतामहान् अमात्यान् कुर्वीत, दृष्टावदानत्वात् 01.8.16 ते ह्येनमपचरन्तमपि न त्यजन्ति, सगन्धत्वात् 01.8.17 अमानुषेष्वपि चैतद् दृश्यते 01.8.18 गावो ह्यसगन्धं गोगणमतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति 01.8.19 न इति वातव्याधिः 01.8.20 ते ह्यस्य सर्वमवगृह्य स्वामिवत् प्रचरन्ति 01.8.21 तस्मान्नीतिविदो नवान् अमात्यान् कुर्वीत 01.8.22 नवाः तु यमस्थाने दण्डधरं मन्यमाना नापराध्यन्तीति 01.8.23 न इति बाहुदन्ती पुत्रः 01.8.24 शास्त्रविद् अदृष्टकर्मा कर्मसु विषादं गच्छेत् 01.8.25 तस्माद् अभिजनप्रज्ञाशौचशौर्यानुरागयुक्तान् अमात्यान् कुर्वीत, गुणप्राधान्यात् इति 01.8.26 सर्वमुपपन्नमिति कौटिल्यः 01.8.27 कार्यसामर्थ्याद्द् हि पुरुषसामर्थ्यं कल्प्यते 01.8.28 सामर्थ्यश्च विभज्यामात्यविभवं देशकालौ च कर्म च । अमात्याः सर्वैवैते कार्याः स्युर्न तु मन्त्रिणः (इति) 01.8.29 Chapt . Appointment of counsellors and chaplain जानपदोऽभिजातः स्ववग्रहः कृतशिल्पश्चक्षुष्मान् प्राज्ञो धारयिष्णुर्दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमान् उत्साहप्रभावयुक्तः क्लेशसहः शुचिर्मैत्रो दृढभक्तिः शीलबलारोग्यसत्त्वयुक्तः स्तम्भचापलहीनः सम्प्रियो वैराणामकर्ता इत्यमात्यसम्पत् 01.9.01 अतः पादार्घगुणहीनौ मध्यमावरौ 01.9.02 तेषां जनपद्ऽभिजनमवग्रहं चाप्ततः परीक्षेत, समानविद्येभ्यः शिल्पं शास्त्रचक्षुष्मत्तां च, कर्मारम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च, कथायोगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च, संवासिभ्यः शीलबलारोग्यसत्त्वयोगमस्तम्भमचापलं च, प्रत्यक्षतः सम्प्रियत्वमवैरत्वं च 01.9.03 प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः 01.9.04 स्वयं द्र्ष्टं प्रत्यक्षम् 01.9.05 परोपदिष्टं परोक्षम् 01.9.06 कर्मसु कृतेनाकृतावेक्षणमनुमेयम् 01.9.07 यौगपद्यात् तु कर्मणामनेकत्वाद् अनेकस्थत्वाच्च देशकालात्ययो मा भूदिति परोक्षममात्यैः कारयेत् इत्यमात्यकर्म । 01.9.08 पुरोहितमुदितोदितकुलशीलं स-अङ्गे वेदे दैवे निमित्ते दण्डनीत्यां चाभिविनीतमापदां दैवमानुषीणामथर्वभिरुपायैश्च प्रतिकर्तारं कुर्वीत 01.9.09 तमाचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनमिव चानुवर्तेत 01.9.10 ब्राह्मणेनैधितं क्षत्रं मन्त्रिमन्त्राभिमन्त्रितम् । जयत्यजितमत्यन्तं शास्त्रानुगमशस्त्रितम् (इति) 01.9.11 Chapt . Ascertainment of the integrity or the absence of integrity of ministerbymeans of secret tests मन्त्रिपुरोहितसखः सामान्येष्वधिकरणेषु स्थापयित्वामात्यान् उपधाभिः शोधयेत् 01.10.01 पुरोहितमयाज्ययाजनाध्यापने नियुक्तममृष्यमाणं राजावक्षिपेत् 01.10.02 स सत्त्रिभिः शपथपूर्वमेकैकममात्यमुपजापयेत् - अधार्मिकोऽयं राजा, साधु धार्मिकमन्यमस्य तत्कुलीनमवरुद्धं कुल्यमेकप्रग्रहं सामन्तमाटविकमौपपादिकं वा प्रतिपादयामः, सर्वेषामेतद् रोचते, कथं वा तव इति 01.10.03 प्रत्याख्याने शुचिः । इति धर्मोपधा 01.10.04 सेनापतिरसत्प्रग्रहेणावक्षिप्तः सत्त्रिभिरेकैकममात्यमुपजापयेत् लोभनीयेनार्थेन राजविनाशाय, सर्वेषामेतद् रोचते, कथं वा तव इति 01.10.05 प्रत्याख्याने शुचिः । इत्यर्थोपधा 01.10.06 परिव्राजिका लब्धविश्वासान्तःपुरे कृतसत्कारा महामात्रमेकैकमुपजपेत् - राजमहिषी त्वां कामयते कृतसमागमोपाया, महान् अर्थश्च ते भविष्यतीति 01.10.07 प्रत्याख्याने शुचिः । इति कामोपधा 01.10.08 प्रहवणनिमित्तमेकोऽमात्यः सर्वान् अमात्यान् आवाहयेत् 01.10.09 तेनोद्वेगेन राजा तान् अवरुन्ध्यात् 01.10.10 कापटिकश्चात्र पूर्वावरुद्धः तेषामर्थमानावक्षिप्तमेकैकममात्यमुपजपेत् - असत् प्रवृत्तोऽयं राजा, साध्वेनं हत्वान्यं प्रतिपादयामः, सर्वेषामेतद् रोचते, कथं वा तव इति 01.10.11 प्रत्याख्याने शुचिः । इति भयोपधा 01.10.12 तत्र धर्मोपधाशुद्धान् धर्मस्थीयकण्टकशोधनेषु कर्मसु स्थापयेत्, अर्थोपधाशुद्धान् समाहर्तृसन्निधातृनिचयकर्मसु, कामोपधा शुद्धान् बाह्याभ्यन्तरविहाररक्षासु, भयोपधाशुद्धान् आसन्नकार्येषु राज्ञः 01.10.13 सर्वोपधाशुद्धान् मन्त्रिणः कुर्यात् 01.10.14 सर्वत्राशुचीन् खनिद्रव्यहस्तिवनकर्मान्तेषूपयोजयेत् 01.10.15 त्रिवर्गभयसंशुद्धान् अमात्यान् स्वेषु कर्मसु । अधिकुर्याद् यथा शौचमित्याचार्या व्यवस्थिताः 01.10.16 न त्वेव कुर्याद् आत्मानं देवीं वा लक्ष्यमीश्वरः । शौचहेतोरमात्यानामेतत् कौटिल्यदर्शनम् 01.10.17 न दूषणमदुष्टस्य विषेणेवाम्भसश्चरेत् । कदाचिद्द् हि प्रदुष्टस्य नाधिगम्येत भेषजम् 01.10.18 कृता च कलुषाबुद्धिरुपधाभिश्चतुर्विधा । नागत्वान्तं निवर्तेत स्थिता सत्त्ववतां धृतौ 01.10.19 तस्माद् बाह्यमधिष्ठानं कृत्वा कार्ये चतुर्विधे । शौचाशौचममात्यानां राजा मार्गेत सत्त्रिभिः (इति) 01.10.20 Chapt . Appointment of persons in secret service उपधाभिः शुद्धामात्यवर्गो गूढपुरुषान् उत्पादयेत् कापटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनान् सत्त्रितीष्क्णरसदभिक्षुकीश्च 01.11.01 परमर्मज्ञः प्रगल्भश्छात्रः कापटिकः 01.11.02 तमर्थमानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् - राजानं मां च प्रमाणं कृत्वा यस्य यद् अकुशलं पश्यसि तत् तदानीमेव प्रत्यादिश इति 01.11.03 प्रव्रज्या प्रत्यवसितः प्रज्ञाशौचयुक्तोदास्थितः 01.11.04 स वार्त्ताकर्मप्रदिष्टायां भूमौ प्रभूतहिरण्यान्तेवासी कर्म कारयेत् 01.11.05 कर्मफलाच्च सर्वप्रव्रजितानां ग्रासाच्छादनावसथान् प्रतिविदध्यात् 01.11.06 वृत्तिकामांश्चोपजपेत् - एतेनैव वेषेण राजार्थश्चरितव्यो भक्तवेतनकाले चोपस्थातव्यम् इति 01.11.07 सर्वप्रव्रजिताश्च स्वं स्वं वर्गमेवमुपजपेयुः 01.11.08 कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो गृहपतिकव्यञ्जनः 01.11.09 स कृषिकर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण 01.11.10 वाणिजको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो वैदेहकव्यञ्जनः 01.11.11 स वणिक्कर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण 01.11.12 मुण्डो जटिलो वा वृत्तिकामः तापसव्यञ्जनः 01.11.13 स नगराभ्याशे प्रभूतमुण्डजटिलान्तेवासी शाकं यवमुष्टिं वा मासद्विमासान्तरं प्रकाशमश्नीयात्, गूढमिष्टमाहारम् 01.11.14 वैदेहकान्तेवासिनश्चैनं समिद्धयोगैरर्चयेयुः 01.11.15 शिष्याश्चास्यावेदयेयुः - असौ सिद्धः सामेधिकः इति 01.11.16 समेधाशास्तिभिश्चाभिगतानामङ्गविद्यया शिष्यसंज्ञाभिश्च कर्माण्यभिजनेऽवसितान्यादिशेत् - अल्पलाभमग्निदाहं चोरभयं दूष्यवधं तुष्टिदानं विदेशप्रवृत्तिज्ञानं, इदमद्य श्वो वा भविष्यति, इदं वा राजा करिष्यतीति 01.11.17 तद् अस्य गूढाः सत्त्रिणश्च सम्पादयेयुः 01.11.18 सत्त्वप्रज्ञावाक्यशक्तिसम्पन्नानां राजभाग्यमनुव्याहरेत्, मन्त्रिसंयोगं च ब्रूयात् 01.11.19 मन्त्री चैषां वृत्तिकर्मभ्यां वियतेत 01.11.20 ये च कारणाद् अभिक्रुद्धाः तान् अर्थमानाभ्यां शमयेत्, अकारणक्रुद्धांः तूष्णीं दण्डेन, राजद्विष्टकारिणश्च 01.11.21 पूजिताश्चार्थमानाभ्यां राज्ञा राजोपजीविनाम् । जानीयुः शौचमित्येताः पञ्चसंस्थाः प्रकीर्तिताः (इति) 01.11.22 Chapt . Appointment of roving spies Rules for secret servants ये चाप्यस्मबन्धिनोऽवश्यभर्तव्याः ते लक्षणमङ्गविद्यां जम्भकविद्यां मायागतमाश्रमधर्मं निमित्तमन्तरचक्रमित्यधीयानाः सत्त्रिणः, संसर्गविद्यां च 01.12.01 ये जनपदे शूराः त्यक्तात्मानो हस्तिनं व्यालं वा द्रव्यहेतोः प्रतियोधयेयुः ते तीक्ष्णाः 01.12.02 ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः 01.12.03 परिव्राजिका वृत्तिकामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृतसत्कारा महामात्रकुलान्यभिगच्छेत् 01.12.04 एतया मुण्डा वृषल्यो व्याख्याताः इति सञ्चाराः । 01.12.05 तान् राजा स्वविषये मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वंशिकप्रशास्तृ 01.12.06 समाहर्तृसन्निधातृप्रदेष्टृनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषदध्यक्षदण्ड दुर्गान्तपालाटविकेषु श्रद्धेयदेशवेषशिल्पभाषाभिजनापदेशान् भक्तितः सामर्थ्ययोगाच्चापसर्पयेत् तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकासनयानवाहनोपग्राहिणः तीक्ष्णा विद्युः 01.12.07 तं सत्त्रिणः संस्थास्वर्पयेयुः 01.12.08 सूदारालिकस्नापकसंवाहकास्तरककल्पकप्रसाधकोदकपरिचारका रसदाः 01.12.09 कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मानो नटनर्तकगायनवादकवाग्जीवनकुशीलवाः स्त्रियश्चाभ्यन्तरं चारं विद्युः तं भिक्ष्क्यः संस्थास्वप्रयेयुः 01.12.10 संस्थानामन्तेवासिनः संज्ञालिपिभिश्चारसञ्चारं कुर्युः 01.12.11 न चान्योन्यं संस्थाः ते वा विद्युः 01.12.12 भिक्षुकीप्रतिषेधे द्वाह्स्थपरम्परा मातापितृव्यञ्जनाः शिल्पकारिकाः कुशीलवा दास्यो 01.12.13 वा गीतपाठ्यवाद्यभाण्डगूढलेख्यसंज्ञाभिर्वा चारं निर्हरेयुः दीर्घरोगोन्मादाग्निरसविसर्गेण वा गूढनिर्गमनम् 01.12.14 त्रयाणामेकवाक्ये सम्प्रत्ययः 01.12.15 तेषामभीक्ष्णविनिपाते तूष्णीन्दण्डः प्रतिषेधः 01.12.16 कण्टकशोधनोक्ताश्चापसर्पाः परेषु कृतवेतना वसेयुरसम्पातिनश्चारार्थम् 01.12.17 तोभयवेतनाः 01.12.18 गृहीतपुत्रदारांश्च कुर्याद् उभयवेतनान् । तांश्चारिप्रहितान् विद्यात् तेषां शौचं च तद्विधैः 01.12.19 एवं शत्रौ च मित्रे च मध्यमे चावपेच्चरान् । उदासीने च तेषां च तीर्थेष्वष्टादशस्वपि 01.12.20 अन्तर्गृहचराः तेषां कुब्जवामनपण्डकाः । शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छजातयः 01.12.21 दुर्गेषु वणिजः संस्था दुर्गान्ते सिद्धतापसाः । कर्षकोदास्थिता राष्ट्रे राष्ट्रान्ते व्रजवासिनः 01.12.22 वने वनचराः कार्याः श्रमणाटविकादयः । परप्रवृत्तिज्ञानार्थाः शीघ्राश्चारपरम्पराः 01.12.23 परस्य चैते बोद्धव्याः तादृशैरेव तादृशाः । चारसञ्चारिणः संस्था गूढाश्चागूढसंज्ञिताः 01.12.24 अकृत्यान् कृत्यपक्षीयैर्दर्शितान् कार्यहेतुभिः । परापसर्पज्ञानार्थं मुख्यान् अन्तेषु वासयेत् (इति) 01.12.25 Chapt . keeping a watch over the seducible and non-seducible parties in ones own territory कृतमहामात्रापसर्पः पौरजानपदान् अपसर्पयेत् 01.13.01 सत्त्रिणो द्वन्द्विनः तीर्थसभापूगजनसमवायेषु विवादं कुर्युः 01.13.02 सर्वगुणसम्पन्नश्चायं राजा श्रूयते, न चास्य कश्चिद्गुणो दृश्यते यः पौरजानपदान् दण्डकराभ्यां पीडयतीति 01.13.03 तत्र येऽनुप्रशंसेयुः तान् इतरः तं च प्रतिषेधयेत् 01.13.04 मात्स्यन्यायाभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे 01.13.05 धान्यषड्भागं पण्यदशभागं हिरण्यं चास्य भागधेयं प्रकल्पयाम्-आसुः 01.13.06 तेन भृता राजानः प्रजानां योगक्षेमावहाः 01.13.07 तेषां किल्बिषमदण्डकरा हरन्त्ययोगक्षेमावहाश्च प्रजानाम् 01.13.08 तस्माद् उञ्छषड्भागमारण्यकापि निर्वपन्ति - तस्यैतद् भागधेयं योऽस्मान् गोपायतीति 01.13.09 इन्द्रयमस्थानमेतद् राजानः प्रत्यक्षहेडप्रसादाः 01.13.10 तान् अवमन्यमानान् दैवोऽपि दण्डः स्पृशति 01.13.11 तस्माद् राजानो नावमन्तव्याः 01.13.12 इत्येवं क्षुद्रकान् प्रतिषेधयेत् 01.13.13 किंवदन्तीं च विद्युः 01.13.14 ये चास्य धान्यपशुहिरण्यान्याजीवन्ति, तैरुपकुर्वन्ति व्यसनेऽभ्युदये वा, कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति, अमित्रमाटविकं वा प्रतिषेधयन्ति, तेषां मुण्डजटिलव्यञ्जनाः तुष्टातुष्टत्वं विद्युः 01.13.15 तुष्टान् भूयोऽर्थमानाभ्यां पूजयेत् 01.13.16 अतुष्टांः तुष्टिहेतोः त्यागेन साम्ना च प्रसादयेत् 01.13.17 परस्पराद् वा भेदयेद् एनान्, सामन्ताटविकतत्कुलीनापरुद्धेभ्यश्च 01.13.18 तथाप्यतुष्यतो दण्डकरसाधनाधिकारेण जनपदविद्वेषं ग्राहयेत् 01.13.19 विविष्टान् उपांशुदण्डेन जनपदकोपेन वा साधयेत् 01.13.20 गुप्तपुत्रदारान् आकरकर्मान्तेषु वा वासयेत् परेषामास्पदभयात् 01.13.21 क्रुद्धलुब्धभीतमानिनः तु परेषां कृत्याः 01.13.22 तेषां कार्तान्तिकनैमित्तिकमौहूर्तिकव्यञ्जनाः परस्पराभिसम्बन्धममित्राटविकसम्बन्धं वा विद्युः 01.13.23 तुष्टान् अर्थमानाभ्यां पूजयेत् । 01.13.24 अतुष्टान् सामदानभेददण्डैः साधयेत् 01.13.25 एवं स्वविषये कृत्यान् अकृत्यांश्च विचक्षणः । परोपजापात् सम्रक्षेत् प्रधानान् क्षुद्रकान् अपि (इति) 01.13.26 Chapt . Winning over the seducible and non-seducible parties in the enemy territory कृत्याकृत्यपक्षोपग्रहः स्वविषये व्याख्यातः, परविषये वाच्यः 01.14.01 संश्रुत्यार्थान् विप्रलब्धः, तुल्यकारिणोः शिल्पे वोपकारे वा विमानितः, वल्लभावरुद्धः, 01.14.02 समाहूय पराजितः, प्रवासोपतप्तः, कृत्वा व्ययमलब्धकार्यः, स्वधर्माद् दायाद्याद् वोपरुद्धः, मानाधिकाराभ्यां भ्रष्टः, कुल्यैरन्तर्हितः, प्रसभाभिमृष्टस्त्रीकः, काराभिन्यस्तः, परोक्तदण्डितः, मिथ्याऽऽचारवारितः, सर्वस्वमाहारितः, बन्धनपरिक्लिष्टः, प्रवासितबन्धुः इति क्रुद्धवर्गः स्वयमुपहतः, विप्रकृतः, पापकर्माभिख्यातः, तुल्यदोषदण्डेनोद्विग्नः, पर्यात्तभूमिः, दण्डेनोपनतः, सर्वाधिकरणस्थः, सहसोपचितार्थः, तत्कुलीनोपाशंसुः, प्रद्विष्टो राज्ञा, राजद्वेषी च - इति भीतवर्गः 01.14.03 परिक्षीणः, अन्यात्तस्वः, कदर्यः, व्यसनी, अत्याहितव्यवहारश्च - इति लुब्धवर्गः 01.14.04 आत्मसम्भावितः, मानकामः, शत्रुपूजामर्षितः, नीचैरुपहितः, तीक्ष्णः, साहसिकः, भोगेनासन्तुष्टः - इति मानिवर्गः 01.14.05 तेषां मुण्डजटिलव्यञ्जनैर्यो यद्भक्तिः कृत्यपक्षीयः तं तेनोपजापयेत् 01.14.06 यथा मदान्धो हस्ती मत्तेनाधिष्ठितो यद् यद् आसादयति तत् सर्वं प्रमृद्नाति, एवमयमशास्त्रचक्षुरन्धो राजा पौरजानपदवधायाभ्युत्थितः, शक्यमस्य प्रतिहस्तिप्रोत्साहनेनापकर्तुं, अमर्षः क्रियताम् इति क्रुद्धवर्गमुपजापयेत् 01.14.07 यथा लीनः सर्पो यस्माद् भयं पश्यति तत्र विषमुत्सृजति, एवमयं राजा जातदोषाशङ्कः त्वयि पुरा क्रोधविषमुत्सृजति, अन्यत्र गम्यताम् इति भीतवर्गं।उपजापयेत् 01.14.08 यथा श्वगणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः, एवमयं राजा सत्त्वप्रज्ञावाक्यशक्तिहीनेभ्यो दुह्यते नात्मगुणसम्पन्नेभ्यः, असौ राजा पुरुषविशेषज्ञः, तत्र गम्यताम् इति लुब्धवर्गं।उपजापयेत् 01.14.09 यथा चण्डालोदपानश्चण्डालानामेवोपभोग्यो नान्येषां, एवमयं राजा नीचो नीचानामेवोपभोग्यो न त्वद्विधानामार्याणां, असौ राजा पुरुषविशेषज्ञः, तत्र गम्यताम् इति मानिवर्गमुपजापयेत् 01.14.10 तथा इति प्रतिपन्नांः तान् संहितान् पणकर्मणा । योजयेत यथाशक्ति स-अपसर्पान् स्वकर्मसु 01.14.11 लभेत सामदानाभ्यां कृत्यांश्च परभूमिषु । अकृत्यान् भेददण्डाभ्यां परदोषांश्च दर्शयन् (इति) 01.14.12 Chapt . The topic of counsel कृतस्वपक्षपरपक्षोपग्रहः कार्यारम्भांश्चिन्तयेत् 01.15.01 मन्त्रपूर्वाः सर्वारम्भाः 01.15.02 तद्।उद्देशः संवृतः कथानामनिह्श्रावी पक्षिभिरप्यनालोक्यः स्यात् । 01.15.03 श्रूयते हि शुकसारिकाभिर्मन्त्रो भिन्नः, श्वभिरप्यन्यैश्च तिर्यग्योनिभिरिति 01.15.04 तस्मान् मन्त्रोद्देशमनायुक्तो नोपगच्छेत् 01.15.05 उच्छिद्येत मन्त्रभेदी 01.15.06 मन्त्रभेदो हि दूतामात्यस्वामिनामिङ्गिताकाराभ्याम् 01.15.07 इङ्गितमन्यथावृत्तिः 01.15.08 आकृतिग्रहणमाकारः 01.15.09 तस्य संवरणमायुक्तपुरुषरक्षणमाकार्यकालादिति 01.15.10 तेषां हि प्रमादमदसुप्तप्रलापाः, कामादिरुत्सेकः, प्रच्छन्नोऽवमतो वा मन्त्रं भिनत्ति 01.15.11 तस्माद् आद्रक्षेन् मन्त्रम् 01.15.12 मन्त्रभेदो ह्ययोगक्षेमकरो राज्ञः तद्।आयुक्तपुरुषाणां च 01.15.13 तस्माद्गुह्यमेको मन्त्रयेत इति भारद्वाजः 01.15.14 मन्त्रिणामपि हि मन्त्रिणो भवन्ति, तेषामप्यन्ये 01.15.15 सैषा मन्त्रिपरम्परा मन्त्रं भिनत्ति 01.15.16 तस्मान्नास्य परे विद्युः कर्म किञ्चिच्चिकीर्षितम् । आरब्धारः तु जानीयुरारब्धं कृतमेव वा 01.15.17 नैकस्य मन्त्रसिद्धिरस्तीति विशालाक्षः 01.15.18 प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः 01.15.19 अनुपलब्धस्य ज्ञानमुपलब्धस्य निश्चितबलाधानमर्थद्वैधस्य संशयच्छेदनमेकदेशदृष्टस्य शेषोपलब्धिरिति मन्त्रिसाध्यमेतत् 01.15.20 तस्माद् बुद्धिवृद्धैः सार्धमध्यासीत मन्त्रम् 01.15.21 न कञ्चिद् अवमन्येत सर्वस्य श‍ृणुयान् मतम् । बालस्याप्यर्थवद्वाक्यमुपयुञ्जीत पण्डितः । 01.15.22 एतन् मन्त्रज्ञानं, नैतन् मन्त्ररक्षणम् इति पाराशराः 01.15.23 यद् अस्य कार्यमभिप्रेतं तत्प्रतिरूपकं मन्त्रिणः पृच्छेत् - कार्यमिदमेवमासीत्, एवं वा यदि भवेत्, तत् कथं कर्तव्यम् इति 01.15.24 ते यथा ब्रूयुः तत् कुर्यात् 01.15.25 एवं मन्त्रोपलब्धिः संवृतिश्च भवतीति 01.15.26 न इति पिशुनः 01.15.27 मन्त्रिणो हि व्यवहितमर्थं वृत्तमवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा 01.15.28 स दोषः 01.15.29 तस्मात् कर्मसु ये येष्वभिप्रेताः तैः सह मन्त्रयेत 01.15.30 तैर्मन्त्रयमाणो हि मन्त्रसिद्धिं गुप्तिं च लभते इति 01.15.31 न इति कौटिल्यः 01.15.32 अनवस्था ह्येषा 01.15.33 मन्त्रिभिः त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत 01.15.34 मन्त्रयमाणो ह्येकेनार्थकृच्छ्रेषु निश्चयं नाधिगच्छेत् 01.15.35 एकश्च मन्त्री यथेष्टमनवग्रहश्चरति 01.15.36 द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यामवगृह्यते, विगृहीताभ्यां विनाश्यते 01.15.37 तत् त्रिषु चतुषु वा कृच्छ्रेणोपपद्यते 01.15.38 महादोषमुपपन्नं तु भवति 01.15.39 ततः परेषु कृच्छ्रेणार्थनिश्चयो गम्यते, मन्त्रो वा रक्ष्यते 01.15.40 देशकालकार्यवशेन त्वेकेन सह द्वाभ्यामेको वा यथासामर्थ्यं मन्त्रयेत alterNative views approved 01.15.41 कर्मणामारम्भोपायः पुरुषद्रव्यसम्पद् देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः 01.15.42 तान् एकैकशः पृच्छेत् समस्तांश्च 01.15.43 हेतुभिश्चैषां मतिप्रविवेकान् विद्यात् 01.15.44 अवाप्तार्थः कालं नातिक्रामयेत् 01.15.45 न दीर्घकालं मन्त्रयेत, न तेषां पक्षीयैर्येषामपकुर्यात् 01.15.46 मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीत इति मानवाः 01.15.47 षोडश इति बार्हस्पत्याः 01.15.48 विंशतिम् इत्यौशनसाः 01.15.49 यथासामर्थ्यमिति कौटिल्यः 01.15.50 ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः 01.15.51 अकृतारम्भमारब्धानुष्ठानमनुष्ठितविशेषं नियोगसम्पदं च कर्मणां कुर्युः 01.15.52 आसन्नैः सह कर्माणि पश्येत् 01.15.53 अनासन्नैः सह पत्त्रसम्प्रेषणेन मन्त्रयेत 01.15.54 इन्द्रस्य हि मन्त्रिपरिषद्।ऋषीणां सहस्रम् 01.15.55 स तच्चक्षुः 01.15.56 तस्माद् इमं द्व्यक्षं सहस्राक्षमाहुः 01.15.57 आत्ययिके कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रूयात् 01.15.58 तत्र यद्भूयिष्ठा ब्रूयुः कार्यसिद्धिकरं वा तत् कुर्यात् 01.15.59 कुर्वतश्च 01.15.60 नास्य गुह्यं परे विद्युश्छिद्रं विद्यात् परस्य च । गूहेत् कूर्मेवाङ्गानि यत् स्याद् विवृतमात्मनः 01.15.60 यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुमर्हति । एवमश्रुतशास्त्रार्थो न मन्त्रं श्रोतुमर्हति (इति) 01.15.61 Chapt . Rules for the envoy उद्वृत्तमन्त्रो दूतप्रणिधिः 01.16.01 अमात्यसम्पदोपेतो निसृष्टार्थः 01.16.02 पादगुणहीनः परिमितार्थः 01.16.03 अर्धगुणहीनः शासनहरः 01.16.04 सुप्रतिविहितयानवाहनपुरुषपरिवापः प्रतिष्ठेत 01.16.05 शासनमेवं वाच्यः परः, स वक्ष्यत्येवं, तस्येदं प्रतिवाक्यं, एवमतिसन्धातव्यं, इत्यधीयानो गच्छेत् 01.16.06 अटव्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेत् 01.16.07 अनीकस्थानयुद्धप्रतिग्रहापसारभूमीरात्मनः परस्य चावेक्षेत 01.16.08 दुर्गराष्ट्रप्रमाणं सारवृत्तिगुप्तिच्छिद्राणि चोपलभेत 01.16.09 पराधिष्ठानमनुज्ञातः प्रविशेत् 01.16.10 शासनं च यथोक्तं ब्रूयात्, प्राणाबाधेऽपि दृष्टे 01.16.11 परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्यपूजनमिष्टपरिप्रश्नं गुणकथासङ्गमासन्नमासनं सत्कारमिष्टेषु स्मरणं विश्वासगमनं च लक्षयेत् तुष्टस्य, विपरीतमतुष्टस्य 01.16.12 तं ब्रूयात् - दूतमुखा हि राजानः, त्वं चान्ये च 01.16.13 तस्माद् उद्यतेष्वपि शस्त्रेषु यथोक्तं वक्तारो दूताः 01.16.14 तेषामन्तावसायिनोऽप्यवध्याः, किमङ्ग पुनर्ब्राह्मणाः 01.16.15 परस्यैतद् वाक्यम् 01.16.16 एष दूतधर्मः इति 01.16.17 वसेद् अविसृष्टः पूजया नोत्सिक्तः 01.16.18 परेषु बलित्वं न मन्येत 01.16.19 वाक्यमनिष्टं सहेत 01.16.20 स्त्रियः पानं च वर्जयेत् 01.16.21 एकः शयीत 01.16.22 सुप्तमत्तयोर्हि भावज्ञानं दृष्टम् 01.16.23 कृत्यपक्षोपजापमकृत्यपक्षे गूढप्रणिधानं रागापरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापसवैदेहकव्यञ्जनाभ्यामुपलभेत, तयोरन्तेवासिभिश्चिकित्सकपाषण्डव्यञ्जनोभयवेतनैर्वा 01.16.24 तेषामसम्भाषायां याचकमत्तोन्मत्तसुप्तप्रलापैः पुण्यस्थानदेवगृहचित्रलेख्यसंज्ञाभिर्वा चारमुपलभेत 01.16.25 उपलब्धस्योपजापमुपेयात् 01.16.26 परेण चोक्तः स्वासां प्रकृतीनां प्रमाणं नाचक्षीत 01.16.27 सर्वं वेद भवान् इति ब्रूयात्, कार्यसिद्धिकरं वा 01.16.28 कार्यस्यासिद्धावुपरुध्यमानः तर्कयेत् - किं भर्तुर्मे व्यसनमासन्नं पश्यन्, स्वं वा व्यसनं प्रतिकर्तुकामः, पार्ष्णिग्राहमासारमन्तःकोपमाटविकं वा समुत्थापयितुकामः, मित्रमाक्रन्दं वा व्याघातयितुकामः, स्वं वा परतो विग्रहमन्तःकोपमाटविकं वा प्रतिकर्तुकामः, संसिद्धं वा मे भर्तुर्यात्राकालमभिहन्तुकामः, सस्यपण्यकुप्यसङ्ग्रहं दुर्गकर्म बलसमुद्दानं वा कर्तुकामः, स्वसैन्यानां वा व्यायामस्य देशकालावाकाङ्क्षमाणः, परिभवप्रमादाभ्यां वा, संसर्गानुबन्धार्थी वा, मामुपरुणद्धि इति 01.16.29 ज्ञात्वा वसेद् अपसरेद् वा 01.16.30 प्रयोजनमिष्टमवेक्षेत वा 01.16.31 शासनमनिष्टमुक्त्वा बन्धवधभयाद् अविसृष्टोऽप्यपगच्छेत्, अन्यथा नियम्येत 01.16.32 प्रेषणं सन्धिपालत्वं प्रतापो मित्रसङ्ग्रहः । उपजापः सुहृद्भेदो गूढदण्डातिसारणम् 01.16.33 बन्धुरत्नापहरणं चारज्ञानं पराक्रमः । समाधिमोक्षो दूतस्य कर्म योगस्य चाश्रयः 01.16.34 स्वदूतैः कारयेद् एतत् परदूतांश्च रक्षयेत् । प्रतिदूतापसर्पाभ्यां दृश्यादृश्यैश्च रक्षिभिः (इति) 01.16.35 Chapt . Guarding against princes रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च, पूर्वं दारेभ्यः पुत्रेभ्यश्च 01.17.01 दाररक्षणं निशान्तप्रणिधौ वक्ष्यामः 01.17.02 पुत्ररक्षणं तु 01.17.03 जन्मप्रभृति राजपुत्रान् रक्षेत् 01.17.04 कर्कटकसधर्माणो हि जनकभक्षा राजपुत्राः 01.17.05 तेषामजातस्नेहे पितर्युपांशुदण्डः श्रेयान् इति भारद्वाजः 01.17.06 नृशंसमदुष्टवधः क्षत्रबीजविनाशश्च इति विशालाक्षः 01.17.07 तस्माद् एकस्थानावरोधः श्रेयान् इति 01.17.08 अहिभयमेतदिति पाराशराः 01.17.09 कुमारो हि विक्रमभयान् मां पितावरुणद्धि इति ज्ञात्वा तमेवाङ्के कुर्यात् 01.17.10 तस्माद् अन्तपालदुर्गे वासः श्रेयान् इति 01.17.11 औरभ्रं भयमेतदिति पिशुनः 01.17.12 प्रत्यापत्तेर्हि तद् एव कारणं ज्ञात्वान्तपालसखः स्यात् 01.17.13 तस्मात् स्वविषयाद् अपकृष्टे सामन्तदुर्गे वासः श्रेयान् इति 01.17.14 वत्सस्थानमेतदिति कौणपदन्तः 01.17.15 वत्सेनेव हि धेनुं पितरमस्य सामन्तो दुह्यात् 01.17.16 तस्मान् मातृबन्धुषु वासः श्रेयान् इति 01.17.17 ध्वजस्थानमेतदिति वातव्याधिः 01.17.18 तेन हि ध्वजेनादितिकौशिकवद् अस्य मातृबान्धवा भिक्षेरन् 01.17.19 तस्माद्ग्राम्य सुखेष्वेनमवसृजेत् 01.17.20 सुखोपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्तीति 01.17.21 जीवन्मरणमेतदिति कौटिल्यः 01.17.22 काष्ठमिव घुणजग्धं राजकुलमविनीतपुत्रमभियुक्तमात्रं भज्येत 01.17.23 तस्माद् ऋतुमत्यां महिष्यां ऋत्विजश्चरुमैन्द्राबार्हस्पत्यं निर्वपेयुः 01.17.24 आपन्नसत्त्वायाः कौमारभृत्यो गर्भभर्मणि प्रसवे च वियतेत 01.17.25 प्रजातायाः पुत्रसंस्कारं पुरोहितः कुर्यात् 01.17.26 समर्थं तद्विदो विनयेयुः 01.17.27 सत्त्रिणामेकश्चैनं मृगयाद्यूतमद्यस्त्रीभिः प्रलोभयेत् पितरि विक्रम्य राज्यं गृहाण इति 01.17.28 तमन्यः सत्त्री प्रतिषेधयेत् इत्याम्भीयाः 01.17.29 महादोषमबुद्धबोधनमित् कौटिल्यः 01.17.30 नवं हि द्रव्यं येन येनार्थजातेनोपदिह्यते तत् तद् आचूषति 01.17.31 एवमयं नवबुद्धिर्यद् यद् उच्यते तत् तत्शास्त्रोपदेशमिवाभिजानाति 01.17.32 तस्माद् धर्म्यमर्थ्यं चास्योपदिशेन्नाधर्म्यमनर्थ्यं च 01.17.33 सत्त्रिणः त्वेनं तव स्मः इति वदन्तः पालयेयुः 01.17.34 यौवनोत्सेकात् परस्त्रीषु मनः कुर्वाणमार्याव्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्यागारेषु रात्रावुद्वेजयेयुः 01.17.35 मद्यकामं योगपानेनोद्वेजयेयुः 01.17.36 द्यूतकामं कापटिकैरुद्वेजयेयुः 01.17.37 मृगयाकामं प्रतिरोधकव्यञ्जनैः त्रासयेयुः 01.17.38 पितरि विक्रमबुद्धिं तथा इत्यनुप्रविश्य भेदयेयुः - अप्रार्थनीयो राजा, विपन्ने घातः, सम्पन्ने नरकपातः, सङ्क्रोशः, प्रजाभिरेकलोष्टवधश्च इति 01.17.39 विरागं वेदयेयुः 01.17.40 प्रियमेकपुत्रं बध्नीयात् 01.17.41 बहुपुत्रः प्रत्यन्तमन्यविषयं वा प्रेषयेद् यत्र गर्भः पण्यं डिम्बो वा न भवेत् 01.17.42 आत्मसम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् 01.17.43 बुद्धिमान्।आहार्यबुद्धिर्दुर्बुद्धिरिति पुत्रविशेषाः 01.17.44 शिष्यमाणो धर्मार्थावुपलभते चानुतिष्ठति च बुद्धिमान् 01.17.45 उपलभमानो नानुतिष्ठत्याहार्यबुद्धिः 01.17.46 अपायनित्यो धर्मार्थद्वेषी च इति दुर्बुद्धिः 01.17.47 स यद्येकपुत्रः पुत्रोत्पत्तावस्य प्रयतेत 01.17.48 पुत्रिकापुत्रान् उत्पादयेद् वा 01.17.49 वृद्धः तु व्याधितो वा राजा मातृबन्धुकुल्यगुणवत्सामन्तानामन्यतमेन क्षेत्रे बीजमुत्पादयेत् 01.17.50 न चैकपुत्रमविनीतं राज्ये स्थापयेत् 01.17.51 बहूनामेकसम्रोधः पिता पुत्रहितो भवेत् । अन्यत्रापदैश्वर्यं ज्येष्ठभागि तु पूज्यते 01.17.52 कुलस्य वा भवेद् राज्यं कुलसङ्घो हि दुर्जयः । अराजव्यसनाबाधः शश्वद् आवसति क्षितिम् (इति) 01.17.53 Chapt . The conduct of a prince in disfavour Behaviour towards a prince in disfavour विनीतो राजपुत्रः कृच्छ्रवृत्तिरसदृशे कर्मणि नियुक्तः पितरमनुवर्तेत, अन्यत्र प्राणाबाधकप्रकृतिकोपकपातकेभ्यः 01.18.01 पुण्ये कर्मणि नियुक्तः पुरुषमधिष्ठातारं याचेत् 01.18.02 पुरुषाधिष्ठितश्च सविशेषमादेशमनुतिष्ठेत् 01.18.03 अभिरूपं च कर्मफलमौपायनिकं च लाभं पितुरुपनाययेत् 01.18.04 तथाप्यतुष्यन्तमन्यस्मिन् पुत्रे दारेषु वा स्निह्यन्तमरण्यायापृच्छेत 01.18.05 बन्धवधभयाद् वा यः सामन्तो न्यायवृत्तिर्धार्मिकः सत्यवाग्ऽविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तमाश्रयेत 01.18.06 तत्रस्थः कोशदण्डसम्पन्नः प्रवीरपुरुषकन्यासम्बन्धमटवीसम्बन्धं कृत्यपक्षोपग्रहं च कुर्यात् 01.18.07 एकचरः सुवर्णपाकमणिरागहेमरूप्यपण्याकरकर्मान्तान् आजीवेत् 01.18.08 पाषण्डसङ्घद्रव्यमश्रोत्रियोपभोग्यं वा देवद्रव्यमाढ्यविधवाद्रव्यं वा गूढमनुप्रविश्य सार्थयानपात्राणि च मदनरसयोगेनातिसन्धायापहरेत् 01.18.09 पारग्रामिकं वा योगमातिष्ठेत् 01.18.10 मातुः परिजनोपग्रहेण वा चेष्टेत 01.18.11 कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपाषण्डच्छद्मभिर् 01.18.12 वा नष्टरूपः तद्व्यञ्जनसखश्छिद्रेषु प्रविश्य राज्ञः शस्त्ररसाभ्यां प्रहृत्य ब्रूयात् - अहमसौ कुमारः, सहभोग्यमिदं राज्यं, एको नार्हति भोक्तुं, ये कामयन्ते मां भर्तुं तान् अहं द्विगुणेन भक्तवेतनेनोपस्थास्यामि इति इत्यपरुद्धवृत्तम् । अपरुद्धं तु मुख्यपुत्रापसर्पाः प्रतिपाद्यानयेयुः, माता वा प्रतिगृहीता 01.18.13 त्यक्तं गूढपुरुषाः शस्त्ररसाभ्यां हन्युः 01.18.14 अत्यक्तं तुल्यशीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्रावुपगृह्यानयेयुः 01.18.15 उपस्थितं च राज्येन मद्।ऊर्ध्वमिति सान्त्वयेत् । एकस्थमथ सम्रुन्ध्यात् पुत्रवांः तु प्रवासयेत् (इति) 01.18.16 Chapt . Rules for the king राजानमुत्थितमनूत्तिष्ठन्ते भृत्याः 01.19.01 प्रमाद्यन्तमनुप्रमाद्यन्ति 01.19.02 कर्माणि चास्य भक्षयन्ति 01.19.03 द्विषद्भिश्चातिसन्धीयते । 01.19.04 तस्माद् उत्थानमात्मनः कुर्वीत 01.19.05 नालिकाभिरहरष्टधा रात्रिं च विभजेत्, छायाप्रमाणेन वा 01.19.06 त्रिपौरुषी पौरुषी चतुर्ऽङ्गुला नष्टच्छायो मध्याह्न इति चत्वारः पूर्वे दिवसस्याष्टभागाः 01.19.07 तैः पश्चिमा व्याख्याताः 01.19.08 तत्र पूर्वे दिवसस्याष्टभागे रक्षाविधानमायव्ययौ च श‍ृणुयात् 01.19.09 द्वितीये पौरजानपदानां कार्याणि पश्येत् 01.19.10 तृतीये स्नानभोजनं सेवेत, स्वाध्यायं च कुर्वीत 01.19.11 चतुर्थे हिरण्यप्रतिग्रहमध्यक्षांश्च कुर्वीत 01.19.12 पञ्चमे मन्त्रिपरिषदा पत्त्रसम्प्रेषणेन मन्त्रयेत, चारगुह्यबोधनीयानि च बुध्येत 01.19.13 षष्ठे स्वैरविहारं मन्त्रं वा सेवेत 01.19.14 सप्तमे हस्त्यश्वरथायुधीयान् पश्येत् 01.19.15 अष्टमे सेनापतिसखो विक्रमं चिन्तयेत् 01.19.16 प्रतिष्ठितेऽहनि सन्ध्यामुपासीत 01.19.17 प्रथमे रात्रिभागे गूढपुरुषान् पश्येत् 01.19.18 द्वितीये स्नानभोजनं कुर्वीत, स्वाध्यायं च 01.19.19 तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत 01.19.20 षष्ठे तूर्यघोषेण प्रतिबुद्धः शास्त्रमितिकर्तव्यतां च चिन्तयेत् 01.19.21 सप्तमे मन्त्रमध्यासीत, गूढपुरुषांश्च प्रेषयेत् 01.19.22 अष्टमे ऋत्विग्।आचार्यपुरोहितस्वस्त्ययनानि प्रतिगृह्णीयात्, चिकित्सकमाहानसिकमौहूर्तिकांश्च पश्येत् 01.19.23 सवस्तां धेनुं वृषभं च प्रदक्षिणीकृत्योपस्थानं गच्छेत् 01.19.24 आत्मबलानुकूल्येन वा निशाहर्भागान् प्रविभज्य कार्याणि सेवेत 01.19.25 उपस्थानगतः कार्यार्थिनामद्वारासङ्गं कारयेत् 01.19.26 दुर्दर्शो हि राजा कार्याकार्यविपर्यासमासन्नैः कार्यते 01.19.27 तेन प्रकृतिकोपमरिवशं वा गच्छेत् 01.19.28 तस्माद् देवताऽऽश्रमपाषण्डश्रोत्रियपशुपुण्यस्थानानां बालवृद्धव्याधितव्यसन्यनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत्, कार्यगौरवाद् आत्ययिकवशेन वा 01.19.29 सर्वमात्ययिकं कार्यं श‍ृणुयान्नातिपातयेत् । कृच्छ्रसाध्यमतिक्रान्तमसाध्यं वापि जायते 01.19.30 अग्न्यगारगतः कार्यं पश्येद् वैद्यतपस्विनाम् । पुरोहिताचार्यसखः प्रत्युत्थायाभिवाद्य च 01.19.31 तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् । मायायोगविदां चैव न स्वयं कोपकारणात् 01.19.32 राज्ञो हि व्रतमुत्थानं यज्ञः कार्यानुशासनम् । दक्षिणा वृत्तिसाम्यं तु दीक्षा तस्याभिषेचनम् 01.19.33 प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् । नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् 01.19.34 तस्मान्नित्योत्थितो राजा कुर्याद् अर्थानुशासनम् । अर्थस्य मूलमुत्थानमनर्थस्य विपर्ययः 01.19.35 अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च । प्राप्यते फलमुत्थानाल्लभते चार्थसम्पदम् (इति) 01.19.36 Chapt . Regulation for the royal residence वास्तुकप्रशस्ते देशे सप्राकारपरिखाद्वारमनेककक्ष्यापरिगतमन्तःपुरं कारयेत् 01.20.01 कोशगृहविधानेन मध्ये वासगृहं, गूढभित्तिसञ्चारं मोहनगृहं तन्मध्ये वा वासगृहं, भूमिगृहं वाऽऽसन्नचैत्यकाष्ठदेवतापिधानद्वारमनेकसुरुङ्गासञ्चारं तस्योपरि प्रासादं गूढभित्तिसोपानं सुषिरस्तम्भप्रवेशापसारं वा वासगृहं यन्त्रबद्धतलावपातं कारयेत्, आपत्प्रतीकारार्थमापदि वा 01.20.02 अतोऽन्यथा वा विकल्पयेत्, सहाध्यायिभयात् 01.20.03 मानुषेणाग्निना त्रिरपसव्यं परिगतमन्तःपुरमग्निरन्यो न दहति, न चात्रान्योऽग्निर्ज्वलति, वैद्युतेन भस्मना मृत्संयुक्तेन करकवारिणावलिप्तं च 01.20.04 जीवन्तीश्वेतामुष्ककपुष्पवन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति 01.20.05 मयूरनकुलपृषतोत्सर्गः सर्पान् भक्षयति 01.20.06 शुकः सारिका भृङ्गराजो वा सर्पविषशङ्कायां क्रोशति 01.20.07 क्रौञ्चो विषाभ्याशे माद्यति, ग्लायति जीवञ्जीवकः, म्रियते मत्तकोकिलः, चकोरस्याक्षिणी विरज्येते 01.20.08 इत्येवमग्निविषसर्पेभ्यः प्रतिकुर्वीत 01.20.09 पृष्ठतः कक्ष्याविभागे स्त्रीनिवेशो गर्भव्याधिसंस्था वृक्षोदकस्थानं च 01.20.10 बहिः कन्याकुमारपुरम् 01.20.11 पुरस्ताद् अलङ्कारभूमिर्मन्त्रभूमिरुपस्थानं कुमाराध्यक्षस्थानं च 01.20.12 कक्ष्यान्तरेष्वन्तर्वंशिकसैन्यं तिष्ठेत् 01.20.13 अन्तर्गृहगतः स्थविरस्त्रीपरिशुद्धां देवीं पश्येत् 01.20.14 देवीगृहे लीनो हि भ्राता भद्रसेनं जघान, मातुः शय्यान्तर्गतश्च पुत्रः कारूषम् 01.20.15 लाजान् मधुना इति विषेण पर्यस्य देवी काशिराजं, विषदिग्धेन नूप्रेण वैरन्त्यं, मेखलामणिना सौवीरं, जालूथमादर्शेन, वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान 01.20.16 तस्माद् एतान्यास्पदानि परिहरेत् 01.20.17 मुण्डजटिलकुहकप्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत् 01.20.18 न चैनाः कुल्याः पश्येयुः, अन्यत्र गर्भव्याधिसंस्थाभ्यः 01.20.19 रूपाजीवाः स्नानप्रघर्षशुद्धशरीराः परिवर्तितवस्त्रालङ्काराः पश्येयुः 01.20.20 अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा मातापितृव्यञ्जनाः स्थविरवर्षधराभ्यागारिकाश्चावरोधानां शौचाशौचं विद्युः, स्थापयेयुश्च स्वामिहिते, 01.20.21 स्वभूमौ च वसेत् सर्वः परभूमौ न सञ्चरेत् । न च बाह्येन संसर्गं कश्चिद् आभ्यन्तरो व्रजेत् 01.20.22 सर्वं चावेक्षितं द्रव्यं निबद्धागमनिर्गमम् । निर्गच्छेद् अभिगच्छेद् वा मुद्रासङ्क्रान्तभूमिकम् (इति) 01.20.23 Chapt . Concerning the protection of (the kings) own person शयनाद् उत्थितः स्त्रीगणैर्धन्विभिः परिगृह्यते, द्वितीयस्यां कक्ष्यायां कञ्चुकोष्णीषिभिर्वर्षधराभ्यागारिकैः, तृतीयस्यां कुब्जवामनकिरातैः, चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रासपाणिभिः 01.21.01 पितृपैतामहं सम्बन्धानुबद्धं शिक्षितमनुरक्तं कृतकर्माणं च जनमासन्नं कुर्वीत, नान्यतोदेशीयमकृतार्थमानं स्वदेशीयं वाप्यपकृत्योपगृहीतम् 01.21.02 अन्तर्वंशिकसैन्यं राजानमन्तःपुरं च रक्षेत् 01.21.03 गुप्ते देशे माहानसिकः सर्वमास्वादबाहुल्येन कर्म कारयेत् 01.21.04 तद् रजा तथैव प्रतिभुञ्जीत पूर्वमग्नये वयोभ्यश्च बलिं कृत्वा 01.21.05 अग्नेर्ज्वालाधूमनीलता शब्दस्फोटनं च विषयुक्तस्य, वयसां विपत्तिश्च 01.21.06 अन्नस्योष्मा मयूरग्रीवाभः शैत्यमाशु क्लिष्टस्येव वैवर्ण्यं स-उदकत्वमक्लिन्नत्वं च व्यञ्जनानामाशु शुष्कत्वं च क्वाथध्यामफेनपटलविच्छिन्नभावो गन्धस्पर्शरसवधश्च द्रवेषु हीनातिरिक्तच्छायादर्शनं फेनपटलसीमन्तोर्ध्वराजीदर्शनं च रसस्य मध्ये नीला राजी, पयसः ताम्रा, मद्यतोययोः काली, दध्नः श्यामा, मधुनः श्वेता, द्रव्याणामार्द्राणामाशु प्रम्लानत्वमुत्पक्वभावः क्वाथनीलश्यावता च शुष्काणामाशु शातनं वैवर्ण्यं च, कठिनानां मृदुत्वं मृदूनां च कठिनत्वं, तद्ऽभ्याशे क्षुद्रसत्त्ववधश्च, आस्तरणप्रवरणानां ध्याममण्डलता तन्तुरोमपक्ष्मशातनं च, लोहमणिमयानां पङ्कमलोपदेहता स्नेहरागगौरवप्रभाववर्णस्पर्शवधश्च - इति विषयुक्तस्य लिङ्गानि 01.21.07 विषप्रदस्य तु शुष्कश्याववक्त्रता वाक्सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्यविप्रेक्षणमावेगः कर्मणि स्वभूमौ चानवस्थानमिति 01.21.08 तस्माद् अस्य जाङ्गुलीविदो भिषजश्चासन्नाः स्युः 01.21.09 भिषग्भैषज्यागाराद् आस्वादविशुद्धमौषधं गृहीत्वा पाचकपेषकाभ्यामात्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् 01.21.10 पानं पानीयं चौषधेन व्याख्यातम् 01.21.11 कल्पकप्रसाधकाः स्नानशुद्धवस्त्रहस्ताः समुद्रमुपकरणमन्तर्वंशिकहस्ताद् आदाय परिचरेयुः 01.21.12 स्नापकसंवाहकास्तरकरजकमालाकारकर्म दास्यः प्रसिद्धशौचाः कुर्युः, ताभिरधिष्ठिता वा शिल्पिनः 01.21.13 आत्मचक्षुषि निवेश्य वस्त्रमाल्यं दद्युः, स्नानानुलेपनप्रघर्षचूर्णवासस्नानीयानि च स्ववक्षोबाहुषु च 01.21.14 एतेन परस्माद् आगतकं व्याख्यातम् 01.21.15 कुशीलवाः शस्त्राग्निरसक्रीडावर्जं नर्मयेयुः 01.21.16 आतोद्यानि चैषामन्तः तिष्ठेयुः, अश्वरथद्विपालङ्काराश्च 01.21.17 आप्तपुरुषाधिष्ठितं यानवाहनमारोहेत्, नावं चाप्तनाविकाधिष्ठितम् 01.21.18 अन्यनौप्रतिबद्धां वातवेगवशां च नोपेयात् 01.21.19 उदकान्ते सैन्यमासीत 01.21.20 मत्स्यग्राहविशुद्धमुदकमवगाहेत 01.21.21 व्यालग्राहविशुद्धमुद्यानं गच्छेत् 01.21.22 लुब्धकश्वगणिभिरपास्तस्तेनव्यालपराबाधभयं चललक्ष्यपरिचयार्थं मृगारण्यं गच्छेत् 01.21.23 आप्तशस्त्रग्राहाधिष्ठितः सिद्धतापसं पश्येत्, मन्त्रिपरिषदा सह सामन्तदूतम् 01.21.24 सन्नद्धोऽश्वं हस्तिनं वाऽऽरूढः सन्नद्धमनीकं पश्येत् 01.21.25 निर्याणेऽभियाने च राजमार्गमुभयतः कृतारक्षं शस्त्रिभिर्दण्डिभिश्चापास्तशस्त्रहस्तप्रव्रजितव्यङ्गं गच्छेत् 01.21.26 न पुरुषसम्बाधमवगाहेत 01.21.27 यात्रासमाजोत्सवप्रहवणानि च दशवर्गिकाधिष्ठितानि गच्छेत् 01.21.28 यथा च योगपुरुषैरन्यान् राजाधितिष्ठति । तथायमन्याबाधेभ्यो रक्षेद् आत्मानमात्मवान् (इति) 01.21.29 Book . The activity of the head of departments Chapt. 2 Sec . 22 : Settlement of the countryside जनपदनिवेशः । भूतपूर्वमभूतपूर्वं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत् । 02.01.01 शूद्रकर्षकप्रायं कुलशतावरं पञ्चशतकुलपरं ग्रामं क्रोशद्विक्रोशसीमानमन्योन्यारक्षं निवेशयेत् । 02.01.02 नदीशैलवनगृष्टिदरीसेतुबन्धशाल्मलीशमीक्षीरवृक्षान् अन्तेषु सीम्नां स्थापयेत् । 02.01.03 अष्टशतग्राम्या मध्ये स्थानीयं, चतुश्शतग्राम्या द्रोणमुखं, द्विशतग्राम्याः खार्वटिकं, दशग्रामीसङ्ग्रहेण सङ्ग्रहं स्थापयेत् । 02.01.04 अन्तेष्वन्तपालदुर्गाणि । जनपदद्वाराण्यन्तपालाधिष्ठितानि स्थापयेत् । 02.01.05 तेषामन्तराणि वागुरिकशबरपुलिन्दचण्डालारण्यचरा रक्षेयुः । 02.01.06 ऋत्विगाचार्यपुरोहितश्रोत्रियेभ्यो ब्रह्मदेयान्यदण्डकराण्याभिरूपदायदकानि प्रयच्छेत् । अध्यक्षसङ्ख्यायकादिभ्यो गोपस्थानिकानीकस्थचिकित्सकाश्वदमकजङ्घाकरिकेभ्यश्च विक्रयाधानवर्जम् । 02.01.07 करदेभ्यः कृतक्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत् । 02.01.08 अकृतानि कर्तृभ्यो नादेयात् । 02.01.09 अकृषतामाछिद्यान्येभ्यः प्रयच्छेत्; ग्रामभृतकवैदेहका वा कृषेयुः । 02.01.10 अकृषन्तोऽपहीनं दद्युः । 02.01.11 धान्यपशुहिरण्यैश्चैनाननुगृह्णीयात्तान्यनुसुखेन दद्द्युः । 02.01.12 अनुग्रहपरिहारौ चैभ्यः कोशवृद्धिकरौ दद्यात् । कोशोपघातिकौ वर्जयेत् । 02.01.13 अल्पकोशो हि राजा पौरजानपदान् एव ग्रसते । 02.01.14 निवेशसमकालं यथागतकं वा परिहारं दद्यात् । 02.01.15 निवृत्तपरिहारान् पिता इवानुगृह्णीयात् । 02.01.16 आकरकर्मान्तद्रव्यहस्तिवनव्रजवणिक्पथप्रचारान् वारिस्थलपथपण्यपत्तनानि च निवेशयेत् । 02.01.17 सहोदकमाहार्य उदकं वा सेतुं बन्धयेत् । 02.01.18 अन्येषां वा बध्नतां भूमिमार्गवृक्ष उपकरणानुग्रहं कुर्यात् । 02.01.19 पुण्यस्थानारामाणां च । 02.01.20 सम्भूयसेतुबन्धाद् अपक्रामतः कर्मकरबलीवर्दाः कर्म कुर्युः 02.01.21 व्ययकर्मणि च भागी स्यात् । 02.01.22 न चांशं लभेत । 02.01.23 मत्स्यप्लवहरितपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् । 02.01.24 दासाहितकबन्धून् अश‍ऋण्वतो राजा विनयं ग्राहयेत् । 02.01.25 बालवृद्धव्यसन्यनाथांश्च राजा बिभृयात् । 02.01.26 स्त्रियमप्रजातां प्रजातायाश्च पुत्रान् । 02.01.27 बालद्रव्यं ग्रामवृद्धा वर्धयेयुराव्यवहारप्रापणात्; देवद्रव्यं च । 02.01.28 अपत्यदारं मातापितरौ भ्रातॄन् अप्राप्तव्यवहारान् भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादशपणो दण्डः, अन्यत्र पतितेभ्यः, अन्यत्र मातुः । 02.01.29 पुत्रदारं अप्रतिविधाय प्रव्रजतः पूर्वः साहसदण्डः, स्त्रियं च प्रव्राजयतः । 02.01.30 लुप्तव्यवाय्ः प्रव्रजेद् आपृच्छ्य धर्मस्थानमन्यथा नियम्येत । 02.01.31 वानप्रस्थाद् अन्यः प्रव्रजितभावः, सुजाताद् अन्यः सङ्घः, सामुत्थायकाद् अन्यः समयानुबन्धो वा नास्य जनपदमुपनिविशेत । 02.01.32 न च तत्राराम विहारार्थाः शालाः स्युः । 02.01.33 नटनर्तनगायनवादकवाग्जीवनकुशीलवा वा न कर्मविघ्नं कुर्युः; निराश्रयत्वाद् ग्रामाणां क्षेत्राभिरतत्वाच्च पुरुषाणां, कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवति इति । 02.01.34 परचक्राटवीग्रस्तं व्याधिदुर्भिक्षपीडितम् । देशं परिहरेद् राजा व्ययक्रीडाश्च वारयेत् ॥ दण्डविष्टिकराबाधैःरक्षेद् उपहतां कृषिम् । स्तेनव्यालविषग्राहैर्व्याधिभिश्च पशुव्रजान् ॥ 02.01.35 वल्लभैः कार्मिकैः स्तेनैरन्तपालैश्च पीडितम् । शोधयेत् पशुसङ्घैश्च क्षीयमाणं वणिक्पथम् ॥ 02.01.36 एवं द्रव्यं द्विपवनं सेतुबन्धमथाकरान् । रक्षेत् पूर्वकृतान् राजा नवांश्चाभिप्रवर्तयेत् ॥ (इति) 02.01.37 इति अध्यक्षप्रचारे द्वितीयेऽधिकरणे जनपदनिवेशः प्रथमोऽध्यायः । आदितो द्वाविंशः । Chapt . Disposal of non-agricultural land अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् 02.2.01 प्रदिष्टाभयस्थावरजङ्गमानि च ब्रह्मसोमारण्यानि तपस्विभ्यो गोरुतपराणि प्रयच्छेत् 02.2.02 तावन्मात्रमेकद्वारं खातगुप्तं स्वादुफलगुल्मगुच्छमकण्टकिद्रुममुत्तानतोयाशयं दान्तमृगचतुष्पदं भग्ननखदंष्ट्रव्यालं मार्गयुकहस्तिहस्तिनीकलभं मृगवनं विहारार्थं राज्ञः कारयेत् 02.2.03 सर्वातिथिमृगं प्रत्यन्ते चान्यन्मृगवनं भूमिवशेन वा निवेशयेत् 02.2.04 कुप्यप्रदिष्टानां च द्रव्याणामेकैकशो वनानि निवेशयेत्, द्रव्यवनकर्मान्तान् अटवीश्च द्रव्यवनापाश्रयाः 02.2.05 प्रत्यन्ते हस्तिवनमटव्य्।आरक्षं निवेशयेत् 02.2.06 नागवनाध्यक्षः पार्वतं नादेयं सारसमानूपं च नागवनं विदितपर्यन्तप्रवेशनिष्कासं नागवनपालैः पालयेत् 02.2.07 हस्तिघातिनं हन्युः 02.2.08 दन्तयुगं स्वयंमृतस्याहरतः सपादचतुष्पणो लाभः 02.2.09 नागवनपाला हस्तिपकपादपाशिकसैमिकवनचरकपारिकर्मिकसखा हस्तिमूत्रपुरीषच्छन्नगन्धा भल्लातकीशाखाप्रच्छन्नाः पञ्चभिः सप्तभिर्वा हस्तिबन्धकीभिः सह चरन्तः शय्यास्थानपद्यालेण्डकूलघातोद्देशेन हस्तिकुलपर्यग्रं विद्युः 02.2.10 यूथचरमेकचरं निर्यूथं यूथपतिं हस्तिनं व्यालं मत्तं पोतं बन्धमुक्तं च निबन्धेन विद्युः 02.2.11 अनीकस्थप्रमाणैः प्रशस्तव्यञ्जनाचारान् हस्तिनो गृह्णीयुः 02.2.12 हस्तिप्रधानं विजयो राज्ञः 02.2.13 परानीकव्यूहदुर्गस्कन्धावारप्रमर्दना ह्यतिप्रमाणशरीराः प्राणहरकर्माणो हस्तिनः 02.2.14 कालिङ्गाङ्गरजाः श्रेष्ठाः प्राच्याश्चेदिकरूषजाः । दाशार्णाश्चापरान्ताश्च द्विपानां मध्यमा मताः 02.2.15 सौराष्ट्रिकाः पाञ्चनदाः तेषां प्रत्यवराः स्मृताः । सर्वेषां कर्मणा वीर्यं जवः तेजश्च वर्धते (इति) 02.2.16 Chapt . Construction of forts चतुर्दिशं जनपदान्ते साम्परायिकं दैवकृतं दुर्गं कारयेत्, अन्तर्द्वीपं स्थलं वा निम्नावरुद्धमौदकं, प्रास्तरं गुहां वा पार्वतं, निरुदकस्तम्बमिरिणं वा धान्वनं, खञ्जनोदकं स्तम्बगहनं वा वनदुर्गम् 02.3.01 तेषां नदीपर्वतदुर्गं जनपदारक्षस्थानं, धान्वनवनदुर्गमटवीस्थानमापद्यपसारो वा 02.3.02 जनपदमध्ये समुदयस्थानं स्थानीयं निवेशयेत्, वास्तुकप्रशस्ते देशे नदीसङ्गमे ह्रदस्याविशोषस्याङ्के सरसः तटाकस्य वा, वृत्तं दीर्घं चतुर्ऽश्रं वा वास्तुवशेन वा प्रदक्षिणोदकं पण्यपुटभेदनमंसपथवारिपथाभ्यामुपेतम् 02.3.03 तस्य परिखाः तिस्रो दण्डान्तराः कारयेत् चतुर्दश द्वादश दश इति दण्डान् विस्तीर्णाः, विस्ताराद् अवगाढाः पादोनमर्धं वा, त्रिभागमूलाः, मूलचतुर्ऽश्रा वा, पाषाणोपहिताः पाषाणेष्टकाबद्धपार्श्वा वा, तोयान्तिकीरागन्तुतोयपूर्णा वा सपरिवाहाः पद्मग्राहवतीश्च 02.3.04 चतुर्दण्डापकृष्टं परिखायाः षड्दण्डोच्छ्रितमवरुद्धं तद्द्विगुणविष्कम्भं खाताद् वप्रं कारयेद् ऊर्ध्वचयं मञ्चपृष्ठं कुम्भकुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकिगुल्मविषवल्लीप्रतानवन्तम् 02.3.05 पांसुशेषेण वास्तुच्छिद्रं राजभवनं वा पूरयेत् 02.3.06 वप्रस्योपरि प्राकारं विष्कम्भद्विगुणोत्सेधमैष्टकं द्वादशहस्ताद् ऊर्ध्वमोजं युग्मं वा आ चतुर्विंशतिहस्तादिति कारयेत् रथचर्यासञ्चारं तालमूलं मुरजकैः कपिशीर्षकैश्चाचिताग्रम् 02.3.07 पृथुशिलासंहतं वा शैलं कारयेत्, न त्वेव काष्टमयम् 02.3.08 अग्निरवहितो हि तस्मिन् वसति 02.3.09 विष्कम्भचतुर्ऽश्रमट्टालकमुत्सेधसमावक्षेपसोपानं कारयेत् त्रिंशद्दण्डान्तरं च 02.3.10 द्वयोरट्टालकयोर्मध्ये सहर्म्यद्वितलामध्यर्धायायामां प्रतोलीं कारयेत् 02.3.11 अट्टालकप्रतोलीमध्ये त्रिधानुष्काधिष्ठानं स-अपिधानच्छिद्रफलकसंहतमिन्द्रकोशं कारयेत् 02.3.12 अन्तरेषु द्विहस्तविष्कम्भं पार्श्वे चतुर्गुणायामं देवपथं कारयेत् 02.3.13 दण्डान्तरा द्विदण्डान्तरा वा चर्याः कारयेत्, अग्राह्ये देशे प्रधावनिकां निष्किरद्वारं च 02.3.14 बहिर्जानुभञ्जनीशूलप्रकरकूपकूटावपातकण्टकप्रतिसराहिपृष्ठतालपत्त्रश‍ृङ्गाटकश्वदंष्ट्रार्गलोपस्कन्दनपादुकाम्बरीषोदपानकैः प्रतिच्छन्नं छन्नपथं कारयेत् 02.3.15 प्राकारमुभयतो मेण्ढकमध्यर्धदण्डं कृत्वा प्रतोलीषट्तुलान्तरं द्वारं निवेशयेत् पञ्चदण्डाद् एकोत्तरमाष्टदण्डादिति चतुर्ऽश्रं षड्भागमायामाद्ऽधिकमष्टभागं वा 02.3.16 पञ्चदशहस्ताद् एकोत्तरमाष्टादशहस्तादिति तलोत्सेधः 02.3.17 स्तम्भस्य परिक्षेपः षड्।आयामो, द्विगुणो निखातः, चूलिकायाश्चतुर्भागः 02.3.18 आदितलस्य पञ्चभागाः शाला वापी सीमागृहं च 02.3.19 दशभागिकौ द्वौ प्रतिमञ्चौ, अन्तरमाणीहर्म्यं च 02.3.20 समुच्छ्रयाद् अर्धतले स्थूणाबन्धश्च 02.3.21 अर्धवास्तुकमुत्तमागारं, त्रिभागान्तरं वा, इष्टकावबद्धपार्श्वं, वामतः प्रदक्षिणसोपानं गूढभित्तिसोपानमितरतः 02.3.22 द्विहस्तं तोरणशिरः 02.3.23 त्रिपञ्चभागिकौ द्वौ कपाटयोगौ 02.3.24 द्वौ परिघौ 02.3.25 अरत्निरिन्द्रकीलः 02.3.26 पञ्चहस्तमाणिद्वारम् 02.3.27 चत्वारो हस्तिपरिघाः 02.3.28 निवेशार्धं हस्तिनखम् 02.3.29 मुखसमः सङ्क्रमः संहार्यो भूमिमयो वा निरुदके 02.3.30 प्राकारसमं मुखमवस्थाप्य त्रिभागगोधामुखं गोपुरं कारयेत् 02.3.31 प्राकारमध्ये वापीं कृत्वा पुष्करिणीद्वारं, चतुःशालमध्यर्धान्तरं साणिकं कुमारीपुरं, मुण्डहर्म्यद्वितलं मुण्डकद्वारं, भूमिद्रव्यवशेन वा निवेशयेत् 02.3.32 त्रिभागाधिकायामा भाण्डवाहिनीः कुल्याः कारयेत् 02.3.33 तासु पाषाणकुद्दालाः कुठारीकाण्डकल्पनाः । मुषुण्ढीमुद्गरा दण्डाश्चक्रयन्त्रशतघ्नयः 02.3.34 कार्याः कार्मारिकाः शूला वेधनाग्राश्च वेणवः । उष्ट्रग्रीव्योऽग्निसंयोगाः कुप्यकल्पे च यो विधिः (इति) 02.3.35 Chapt . Lay-out of the fortified city त्रयः प्राचीना राजमार्गाः त्रयोदीचीना इति वास्तुविभागः 02.4.01 स द्वादशद्वारो युक्तोदकभ्रमच्छन्नपथः 02.4.02 चतुर्दण्डान्तरा रथ्याः 02.4.03 राजमार्गद्रोणमुखस्थानीयराष्ट्रविवीतपथाः संयानीयव्यूहश्मशानग्रामपथाश्चाष्टदण्डाः 02.4.04 चतुर्दण्डः सेतुवनपथः, द्विदण्डो हस्तिक्षेत्रपथः, पञ्चारत्नयो रथपथः, चत्वारः पशुपथः, द्वौ क्षुद्रपशुमनुष्यपथः 02.4.05 प्रवीरे वास्तुनि राजनिवेशश्चातुर्वर्ण्यसमाजीवे 02.4.06 वास्तुहृदयाद् उत्तरे नवभागे यथोक्तविधानमन्तःपुरं प्रान्मुखमुदन्मुखं वा कारयेत् 02.4.07 तस्य पूर्वोत्तरं भागमाचार्यपुरोहितेज्यातोयस्थानं मन्त्रिणश्चावसेयुः, पूर्वदक्षिणं भाग्ं महानसं हस्तिशाला कोष्ठागारं च 02.4.08 ततः परं गन्धमाल्यरसपण्याः प्रसाधनकारवः क्षत्रियाश्च पूर्वां दिशमधिवसेयुः 02.4.09 दक्षिणपूर्वं भागं भाण्डागारमक्षपटलं कर्मनिषद्याश्च, दक्षिणपश्चिमं भागं कुप्यगृहमायुधागारं च 02.4.10 ततः परं नगरधान्यव्यावहारिककार्मान्तिकबलाध्यक्षाः पक्वान्नसुरामांसपण्या रूपाजीवाः तालावचरा वैश्याश्च दक्षिणां दिशमधिवसेयुः 02.4.11 पश्चिमदक्षिणं भागं खरोष्ट्रगुप्तिस्थानं कर्मगृहं च, पश्चिमोत्तरं भागं यानरथशालाः 02.4.12 ततः परमूर्णासूत्रवेणुचर्मवर्मशस्त्रावरणकारवः शूद्राश्च पश्चिमां दिशमधिवसेयुः 02.4.13 उत्तरपश्चिमं भागं पण्यभैषज्यगृहं, उत्तरपूर्वं भागं कोशो गवाश्वं च 02.4.14 ततः परं नगरराजदेवतालोहमणिकारवो ब्राह्मणाश्चोत्तरां दिशमधिवसेयुः 02.4.15 वास्तुच्छिद्रानुशालेषु श्रेणीप्रपणिनिकाया आवसेयुः 02.4.16 अपराजिताप्रतिहतजयन्तवैजयन्तकोष्ठान् शिववैश्रवणाश्विश्रीमदिरागृहाणि च पुरमध्ये कारयेत् 02.4.17 यथोद्देशं वास्तुदेवताः स्थापयेत् 02.4.18 ब्राह्मैन्द्रयाम्यसैनापत्यानि द्वाराणि 02.4.19 बहिः परिखाया धनुःशतापकृष्टाश्चैत्यपुण्यस्थानवनसेतुबन्धाः कार्याः, यथादिशं च दिग्देवताः 02.4.20 उत्तरः पूर्वो वा श्मशानभागो वर्णोत्तमानां, दक्षिणेन श्मशानं वर्णावराणाम् 02.4.21 तस्यातिक्रमे पूर्वः साहसदण्डः 02.4.22 पाषण्डचण्डालानां श्मशानान्ते वासः 02.4.23 कर्मान्तक्षेत्रवशेन कुटुम्बिनां सीमानं स्थापयेत् 02.4.24 तेषु पुष्पफलवाटान् धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः 02.4.25 दशकुलीवाटं कूपस्थानम् 02.4.26 सर्वस्नेहधान्यक्षारलवणगन्धभैषज्यशुष्कशाकयवसवल्लूरतृणकाष्ठलोहचर्माङ्गारस्नायुविषविषाणवेणुवल्कलसारदारुप्रहरणावरणाश्मनिचयान् अनेकवर्षोपभोगसहान् कारयेत् 02.4.27 नवेनानवं शोधयेत् 02.4.28 हस्तिऽश्वरथपादातमनेकमुख्यमवस्थापयेत् 02.4.29 अनेकमुख्यं हि परस्परभयात् परोपजापं नोपैति 02.4.30 एतेनान्तपालदुर्गसंस्कारा व्याख्याताः 02.4.31 न च बाहिरिकान् कुर्यात् पुरे राष्ट्रोपघातकान् । क्षिपेज् जनपदे चैतान् सर्वान् वा दापयेत् करान् (इति) 02.4.32 Chapt . The work of store-keeping by the director of stories सन्निधाता कोशगृहं पण्यगृहं कोष्ठागारं कुप्यगृहमायुधागारं बन्धनागारं च कारयेत् 02.5.01 चतुर्ऽश्रां वापीमन्-उदकोपस्नेहां खानयित्वा पृथुशिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सारदारुपञ्जरं भूमिसमं त्रितलमनेकविधानं कुट्टिमदेशस्थानतलमेकद्वारं यन्त्रयुक्तसोपानं भूमिगृहं कारयेत् 02.5.02 तस्योपरि उभयतोनिषेधं स-प्रग्रीवमैष्टकं भाण्डवाहिनीपरिक्षिप्तं कोशगृहं कारयेत्, प्रासादं वा 02.5.03 जनपदान्ते ध्रुवनिधिमापद्ऽर्थमभित्यक्तैः कारयेत् 02.5.04 पक्वेष्टकास्तम्भं चतुःशालमेकद्वारमनेकस्थानतलं विवृतस्तम्भापसारमुभयतः पण्यगृहं कोष्ठागारं च दीर्घबहुशालं कक्ष्यावृतकुड्यमन्तः कुप्यगृहं, तद् एव भूमिगृहयुक्तमायुधागारं पृथग्धर्मस्थीयं महामात्रीयं विभक्तस्त्रीपुरुषस्थानमपसारतः सुगुप्तकक्ष्यं बन्धनागारं कारयेत् 02.5.05 सर्वेषां शालाः खातोदपानवर्चस्नानगृहाग्निविषत्राणमार्जारनकुलारक्षास्वदैवतपूजनयुक्ताः कारयेत् 02.5.06 कोष्ठागारे वर्षमानमरत्निमुखं कुण्डं स्थापयेत् 02.5.07 तत्जातकरणाधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् 02.5.08 तत्र रत्नोपधावुत्तमो दण्डः कर्तुः कारयितुश्च सारोपधौ मध्यमः, फल्गुकुप्योपधौ तत् च तावत् च दण्डः 02.5.09 रूपदर्शकविशुद्धं हिरण्यं प्रतिगृह्णीयात् 02.5.10 अशुद्धं छेदयेत् 02.5.11 आहर्तुः पूर्वः साहसदण्डः 02.5.12 शुद्धं पूर्णमभिनवं च धान्यं प्रतिगृह्णीयात् 02.5.13 विपर्यये मूल्यद्विगुणो दण्डः 02.5.14 तेन पण्यं कुप्यमायुधं च व्याख्यातम् 02.5.15 सर्वाधिकरणेषु युक्तोपयुक्ततत्पुरुषाणां पणादिचतुष्पणपरमापहारेषु पूर्वमध्यमोत्तमवधा दण्डाः 02.5.16 कोशाधिष्ठितस्य कोशावच्छेदे घातः 02.5.17 तद्वैयावृत्यकराणामर्धदण्डाः 02.5.18 परिभाषणमविज्ञाते 02.5.19 चोराणामभिप्रधर्षणे चित्रो घातः 02.5.20 तस्माद् आप्तपुरुवाधिष्ठितः सन्निधाता निचयान् अनुतिष्ठेत् 02.5.21 बाह्यमभ्यन्तरं चायं विद्याद् वर्षशताद् अपि । यथा पृष्टो न सज्जेत व्यये शेषे च सञ्चये (इति) 02.5.22 Chapt . chapter 24 The setting up of revenue by the administration समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्पथं चावेक्षेत 02.6.01 शुल्कं दण्डः पौतवं नागरिको लक्षणाध्यक्षो मुद्राध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्यसंस्था वेश्या द्यूतं वास्तुकं कारुशिल्पिगणो देवताध्यक्षो द्वारबहिरिकाऽऽदेयं च दुर्गम् 02.6.02 सीता भागो बलिः करो वणिक् नदीपालः तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोररज्जुश्च राष्ट्रम् 02.6.03 सुवर्णरजतवज्रमणिमुक्ताप्रवालशङ्खलोहलवणभूमिप्रस्तररसधातवः खनिः 02.6.04 पुष्पफलवाटषण्डकेदारमूलवापाः सेतुः 02.6.05 पशुमृगद्रव्यहस्तिवनपरिग्रहो वनम् 02.6.06 गोमहिषमजाविकं खरोष्त्रमश्वाश्वतरं च व्रजः 02.6.07 स्थलपथो वारिपथश्च वणिक्पथः 02.6.08 इत्यायशरीरम् 02.6.09 मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकमत्ययश्चायमुखम् 02.6.10 देवपितृपूजादानार्थं, स्वस्तिवाचनं, अन्तःपुरं, महानसं, दूतप्रावर्तिमं, कोष्ठागारं, आयुधागारं, पण्यगृहं, कुप्यगृहं, कर्मान्तो, विष्टिः, पत्तिऽश्वरथद्विपपरिग्रहो, गोमण्डलं, पशुमृगपक्षिव्यालवाटाः, काष्ठतृणवाटाश्च इति व्ययशरीरम् 02.6.11 राजवर्षं मासः पक्षो दिवसश्च व्युष्टं, वर्षाहेमन्तग्रीष्माणां तृतीयसप्तमा दिवसोनाः पक्षाः शेषाः पूर्णाः, पृथग्ऽधिमासकः, इति कालः 02.6.12 करणीयं सिद्धं शेषमायव्ययौ नीवी च 02.6.13 संस्थानं प्रचारः शरीरावस्थापनमादानं सर्वसमुदयपिण्डः सञ्जातं - एतत् करणीयम् 02.6.14 कोशार्पितं राजहारः पुरव्ययश्च प्रविष्टं परमसंवत्सरानुवृत्तं शासनमुक्तं मुखाज्ञप्तं चापातनीयं - एतत् सिद्धम् 02.6.15 सिद्धिकर्मयोगः दण्डशेषमाहरणीयं बलात्कृतप्रतिष्टब्धमवमृष्टं च प्रशोध्यं - एतत्शेषं, असारमल्पसारं च 02.6.16 वर्तमानः पर्युषितोऽन्यजातश्चायः 02.6.17 दिवसानुवृत्तो वर्तमानः 02.6.18 परमसांवत्सरिकः परप्रचारसङ्क्रान्तो वा पर्युषितः 02.6.19 नष्टप्रस्मृतमायुक्तदण्डः पार्श्वं पारिहीणिकमौपायनिकं डमरगतकस्वमपुत्रकं निधिश्चान्यजातः 02.6.20 विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः 02.6.21 विक्रिये पण्यानामर्घवृद्धिरुपजा, मानोन्मानविशेषो व्याजी, क्रयसङ्घर्षे वार्धवृद्धिः - इत्यायः 02.6.22 नित्यो नित्योत्पादिको लाभो लाभोत्पादिक इति व्ययः 02.6.23 दिवसानुवृत्तो नित्यः 02.6.24 पक्षमाससंवत्सरलाभो लाभः 02.6.25 तयोरुत्पन्नो नित्योत्पादिको लाभोत्पादिक इति व्ययः 02.6.26 सञ्जाताद् आयव्ययविशुद्धा नीवी, प्राप्ता चानुवृत्ता च 02.6.27 एवं कुर्यात् समुदयं वृद्धिं चायस्य दर्शयेत् । ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययम् (इति) 02.6.28 Chapt . The topic of accounts in the records and audit office अक्षपटलमध्यक्षः प्रान्मुखमुदन्मुखं वा विभक्तोपस्थानं निबन्धपुस्तकस्थानं कारयेत् 02.7.01 तत्राधिकरणानां सङ्ख्याप्रचारसञ्जाताग्रं, कर्मान्तानां द्रव्यप्रयोगवृद्धिक्षयव्ययप्रयामव्याजीयोगस्थानवेतनविष्टिप्रमाणं, रत्नसारफल्गुकुप्यानामर्घप्रतिवर्णकमानप्रतिमानोन्मानावमानभाण्डं, देशग्रामजातिकुलसङ्घानां धर्मव्यवहारचरित्रसंस्थानं, राजोपजीविनां प्रग्रहप्रदेशभोगपरिहारभक्तवेतनलाभं, राज्ञश्च पत्नीपुत्राणां रत्नभूमिलाभं निर्देशोत्पातिकप्रतीकारलाभं, मित्रामित्राणां च सन्धिविग्रहप्रदानादानं निबन्धपुस्तकस्थं कारयेत् 02.7.02 ततः सर्वाधिकरणानां करणीयं सिद्धं शेषमायव्ययौ नीवीमुपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् 02.7.03 उत्तममध्यमावरेषु च कर्मसु तज्जातिकमध्यक्षं कुर्यात्, सामुदयिकेष्ववक्लृप्तिकम्(अवकॢप्तिकम्) यमुपहत्य राजा नानुतप्येत 02.7.04 सहग्राहिणः प्रतिभुवः कर्मोपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्छेदं वहेयुः 02.7.05 त्रिशतं चतुःपञ्चाशत् चाहोरात्राणां कर्मसंवत्सरः 02.7.06 तमाषाढीपर्यवसानमूनं पूर्णं वा दद्यात् 02.7.07 करणाधिष्ठितमधिमासकं कुर्यात् 02.7.08 अपसर्पाधिष्ठितञ्च प्रचारम् 02.7.09 प्रचारचरित्रसंस्थानान्यनुपलभमानो हि प्रकृतः समुदयमज्ञानेन परिहापयति, उत्थानक्लेशासहत्वाद् आलस्येन, शब्दादिष्विन्द्रियार्थेषु प्रसक्तः प्रमादेन, सङ्क्रोशाधर्मानर्थभीरुभायेन, कार्यार्थिष्वनुग्रहबुद्धिः कामेन, हिंसाबुद्धिः कोपेन, विद्याद्रव्यवल्लभापाश्रयाद् दर्पेण, तुलामानतर्कगणितान्तरोपधानात् लोभेन 02.7.10 तेषामानुपूर्व्या यावान् अर्थोपघातः तावान् एकोत्तरो दण्डः इति मानवाः 02.7.11 सर्वत्राष्टगुणः इति पाराशराः 02.7.12 दशगुणः इति बार्हस्पत्याः 02.7.13 विंशतिगुणः इत्यौशनसाः 02.7.14 यथापराधमिति कौटिल्यः 02.7.15 गाणनिक्यान्याषाढीमागच्छेयुः 02.7.16 आगतानां समुद्रपुस्तकभाण्डनीवीकानामेकत्रासम्भाषावरोधं कारयेत् 02.7.17 आयव्ययनीवीनामग्राणि श्रुत्वा नीवीमवहारयेत् 02.7.18 यच्चाग्राद् आयस्यान्तरपर्णे नीव्यां वर्धेत व्ययस्य वा यत् परिहापयेत्, तद् अष्टगुणमध्यक्षं दापयेत् 02.7.19 विपर्यये तमेव प्रति स्यात् 02.7.20 यथाकालमनागतानामपुस्तकभाण्डनीवीकानां वा देयदशबन्धो दण्डः 02.7.21 कार्मिके चोपस्थिते कारणिकस्याप्रतिबध्नतः पूर्वः साहसदण्डः 02.7.22 विपर्यये कार्मिकस्य द्विगुणः 02.7.23 प्रचारसमं महामात्राः समग्राः श्रावयेयुरविषममन्त्राः 02.7.24 पृथग्भूतो मिथ्यावादी चैषामुत्तमं दण्डं दद्यात् 02.7.25 अकृताहोरूपहरं मासमाकाङ्क्षेत 02.7.26 मासाद् ऊर्ध्वं मासद्विशतोत्तरं दण्डं दद्यात् 02.7.27 अल्पशेसलेख्यनीवीकं पञ्चरात्रमाकाङ्क्षेत 02.7.28 ततः परं कोशपूर्वमहोरूपहरं धर्मव्यवहारचरित्रसंस्थानसङ्कलननिर्वर्तनानुमानचारप्रयोगैरवेक्षेत 02.7.29 दिवसपञ्चरात्रपक्षमासचातुर्मास्यसंवत्सरैश्च प्रतिसमानयेत् 02.7.30 व्युष्टदेशकालमुखोत्पत्तिऽनुवृत्तिप्रमाणदायकदापकनिबन्धकप्रतिग्राहकैश्चायं समानयेत् 02.7.31 व्युष्टदेशकालमुखलाभकारणदेययोगप्रमाणाज्ञापकोद्धारकविधातृकप्रतिग्राहकैश्च व्ययं समानयेत् 02.7.32 व्युष्टदेशकालमुखानुवर्तनरूपलक्षणप्रमाणनिक्षेपभाजनगोपायकैश्च नीवीं समानयेत् 02.7.33 राजार्थे कारणिकस्याप्रतिबध्नतः प्रतिषेधयतो वाऽऽज्ञां निबन्धाद् आयव्ययमन्यथा नीवीमवलिखतो द्विगुणः 02.7.34 क्रमावहीनमुत्क्रममविज्ञातं पुनर्।उक्तं वा वस्तुकमवलिखतो द्वादशपणो दण्डः 02.7.35 नीवीमवलिखतो द्विगुणः 02.7.36 भक्षयतोऽष्टगुणः 02.7.37 नाशयतः पञ्चबन्धः प्रतिदानं च 02.7.38 मिथ्यावादे स्तेयदण्डः 02.7.39 पश्चात्प्रतिज्ञाते द्विगुणः, प्रस्मृतोत्पन्ने च 02.7.40 अपराधं सहेताल्पं तुष्येद् अल्पेऽपि चोदये । महोपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत् (इति) 02.7.41 Chapt . Recovery of revenue misappropriated by state employees कोशपूर्वाः सर्वारम्भाः 02.8.01 तस्मात् पूर्वं कोशमवेक्षेत 02.8.02 प्रचारसमृद्धिश्चरित्रानुग्रहश्चोरनिग्रहो युक्तप्रतिषेधः सस्यसम्पत् पण्यबाहुल्यमुपसर्गप्रमोक्षः परिहारक्षयो हिरण्योपायनमिति कोशवृद्धिः 02.8.03 प्रतिबन्धः प्रयोगो व्यवहारोऽवस्तारः परिहापणमुपभोगः परिवर्तनमपहारश्च इति कोशक्षयः 02.8.04 सिद्धीनामसाधनमनवतारणमप्रवेशनं वा प्रतिबन्धः 02.8.05 तत्र दशबन्धो दण्डः 02.8.06 कोशद्रव्याणां वृद्धिप्रयोगाः प्रयोगः 02.8.07 पण्यव्यवहारो व्यवहारः 02.8.08 तत्र फलद्विगुणो दण्डः 02.8.09 सिद्धं कालमप्राप्तं करोत्यप्राप्तं प्राप्तं वेत्यवस्तारः 02.8.10 तत्र पञ्चबन्धो दण्डः 02.8.11 क्लृप्तमायं (कॢप्तमायं) परिहापयति व्ययं वा विवर्धयतीति परिहापणम् 02.8.12 तत्र हीनचतुर्गुणो दण्डः 02.8.13 स्वयमन्यैर्वा राजद्रव्याणामुपभोजनमुपभोगः 02.8.14 तत्र रत्नोपभोगे घातः, सारोपभोगे मध्यमः साहसदण्डः, फल्गुकुप्योपभोगे तच्च तावत् च दण्डः 02.8.15 राजद्रव्याणामन्यद्रव्येनादानं परिवर्तनम् 02.8.16 तद् उपभोगेन व्याख्यातम् 02.8.17 सिद्धमायं न प्रवेशयति, निबद्धं व्ययं न प्रयच्छति, प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः 02.8.18 तत्र द्वादशगुणो दण्डः 02.8.19 तेषां हरणोपायाश्चत्वारिंशत् 02.8.20 पूर्वं सिद्धं पश्चाद् अवतारितं, पश्चात् सिद्धं पूर्वमवतारितं, साध्यं न सिद्धं, असाध्यं सिद्धं, सिद्धमसिद्धं कृतं, असिद्धं सिद्धं कृतं, अल्पसिद्धं बहु कृतं, बहुसिद्धमल्पं कृतं, अन्यत् सिद्धमन्यत् कृतं, अन्यतः सिद्धमन्यतः कृतं, देयं न दत्तं, अदेयं दत्तं, काले न दत्तं, अकाले दत्तं, अल्पं दत्तं बहु कृतं, बहु दत्तमल्पं कृतं, अन्यद् दत्तमन्यत् कृतं, अन्यतो दत्तमन्यतः कृतं, प्रविष्टमप्रविष्टं कृतं, अप्रविष्टं प्रविष्टं कृतं, कुप्यमदत्तमूल्यं प्रविष्टं, दत्तमूल्यं न प्रविष्टं सङ्क्षेपो विक्षेपः कृतः, विक्षेपः सङ्क्षेपो वा, महार्घमल्पार्घेण परिवर्तितं, अल्पार्घं महार्घेण वा समारोपितोऽर्घः, प्रत्यवरोपितो वा, संवत्सरो मासविषमः कृतः, मासो दिवसविषमो वा, समागमविषमः, मुखविषमः, कार्मिकविषमः निर्वर्तनविषमः, पिण्डविषमः, वर्णविषमः, अर्घविषमः, मानविषमः, मापनविषमः, भाजनविषमः - इति हरणोपायाः 02.8.21 तत्रोपयुक्तनिधायकनिबन्धकप्रतिग्राहकदायकदापकमन्त्रिवैयावृत्यकरान् एकैकशोऽनुयुञ्जीत 02.8.22 मिथ्यावादे चैषां युक्तसमो दण्डः 02.8.23 प्रचारे चावघोषयेत् अमुना प्रकृतेनोपहताः प्रज्ञापयन्तु इति 02.8.24 प्रज्ञापयतो यथोपघातं दापयेत् 02.8.25 अनेकेषु चाभियोगेष्वपव्ययमानः सकृद् एव परोक्तः सर्वं भजेत 02.8.26 वैषम्ये सर्वत्रानुयोगं दद्यात् 02.8.27 महत्यर्थापहारे चाल्पेनापि सिद्धः सर्वं भजेत 02.8.28 कृतप्रतिघातावस्थः सूचको निष्पन्नार्थः षष्ठमंशं लभेत, द्वादशमंशं भृतकः 02.8.29 प्रभूताभियोगाद् अल्पनिष्पत्तौ निष्पन्नस्यांशं लभेत 02.8.30 अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत, न चानुग्राह्यः 02.8.31 निष्पत्तौ निक्षिपेद् वादमात्मानं वापवाहयेत् । अभियुक्तोपजापात् तु सूचको वधमाप्नुयात् (इति) 02.8.32 Chapt . Inspection of the Rork of officers अमात्यसम्पदोपेताः सर्वाध्यक्षाः शक्तितः कर्मसु नियोज्याः 02.9.01 कर्मसु चैषां नित्यं परीक्षां कारयेत्, चित्तानित्यत्वात् मनुष्यानाम् 02.9.02 अश्वसधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते 02.9.03 तस्मात् कर्तारं करणं देशं कालं कार्यं प्रक्षेपमुदयं चैषु विद्यात् 02.9.04 ते यथासन्देशमसंहता अविगृहीताः कर्माणि कुर्युः 02.9.05 संहता भक्षयेयुः, विगृहीता विनाशयेयुः 02.9.06 न चानिवेद्य भर्तुः कञ्चिद् आरम्भं कुर्युः, अन्यत्रापत्प्रतीकारेभ्यः 02.9.07 प्रमादस्थानेषु चैषामत्ययं स्थापयेद् दिवसवेतनव्ययद्विगुणम् 02.9.08 यश्चैषां यथाऽऽदिष्टमर्थं सविशेषं वा करोति स स्थानमानौ लभेत 02.9.09 अल्पायतिश्चेत् महाव्ययो भक्षयति 02.9.10 विपर्यये यथाऽऽयतिव्ययश्च न भक्षयति इत्याचार्याः 02.9.11 अपसर्पेणैवोपलभ्येत इति कौटिल्यः 02.9.12 यः समुदयं परिहापयति स राजार्थं भक्षयति 02.9.13 स चेद् अज्ञानादिभिः परिहापयति तद् एनं यथागुणं दापयेत् 02.9.14 यः समुदयं द्विगुणमुद्भावयति स जनपदं भक्षयति 02.9.15 स चेद् राजार्थमुपनयत्यल्पापराधे वारयितव्यः, महति यथापराधं दण्डयितव्यः 02.9.16 यः समुदयं व्ययमुपनयति स पुरुषकर्माणि भक्षयति 02.9.17 स कर्मदिवसद्रव्यमूल्यपुरुषवेतनापहारेषु यथापराधं दण्डयितव्यः 02.9.18 तस्माद् अस्य यो यस्मिन्न् अधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यमायव्ययौ च व्याससमासाभ्यामाचक्षीत 02.9.19 मूलहरतादात्विककदर्यांश्च प्रतिषेधयेत् 02.9.20 यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः 02.9.21 यो यद् यद् उत्पद्यते तत् तद् भक्षयति स तादात्विकः 02.9.22 यो भृत्यात्मपीडाभ्यामुपचिनोत्यर्थं स कदर्यः 02.9.23 स पक्षवांश्चेद् अनादेयः, विपर्यये पर्यादातव्यः 02.9.24 यो महत्यर्थसमुदये स्थितः कदर्यः सन्निधत्तेऽवनिधत्तेऽवस्रावयति वा - सन्निधत्ते स्ववेश्मनि, अवनिधत्ते पौरजानपदेषु, अवस्रावयति परविषये - तस्य सत्त्री मन्त्रिमित्रभृत्यबन्धुपक्षमागतिं गतिं च द्रव्याणामुपलभेत 02.9.25 यश्चास्य परविषये सञ्चारं कुर्यात् तमनुप्रविश्य मन्त्रं विद्यात् 02.9.26 सुविदिते शत्रुशासनापदेशेनैनं घातयेत् 02.9.27 तस्माद् अस्याध्यक्षाः सङ्ख्यायकलेखकरूपदर्शकनीवीग्राहकोत्तराध्यक्षसखाः कर्मणि कुर्युः 02.9.28 उत्तराध्यक्षा हस्तिऽश्वरथारोहाः 02.9.29 तेषामन्तेवासिनः शिल्पशौचयुक्ताः सङ्ख्यायकादीनामपसर्पाः 02.9.30 बहुमुख्यमनित्यं चाधिकरणं स्थापयेत् 02.9.31 यथा ह्यनास्वादयितुं न शक्यं जिह्वातलस्थं मधु७ वा विषं वा । अर्थः तथा ह्यर्थचरेण राज्ञः स्वल्पोऽप्यनास्वादयितुं न शक्यः 02.9.32 मत्स्या यथान्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः । युक्ताः तथा कार्यविधौ नियुक्ता ज्ञातुं न शक्या धनमाददानाः 02.9.33 अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् । न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः 02.9.34 आस्रावयेच्चोपचितान् विपर्यस्येच्च कर्मसु । यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा 02.9.35 न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च । नित्याधिकाराः कार्याः ते राज्ञः प्रियहिते रताः (इति) 02.9.36 Chapt . On edicts शासने शासनमित्याचक्षते 02.10.01 शासनप्रधाना हि राजानः, तन्मूलत्वात् सन्धिविग्रहयोः 02.10.02 तस्माद् अमात्यसम्पदोपेतः सर्वसमयविद् आशुग्रन्थश्चारुऽक्षरो लेखनवाचनसमर्थो लेखकः स्यात् 02.10.03 सोऽव्यग्रमना राज्ञः सन्देशं श्रुत्वा निश्चितार्थं लेखं विदध्यात् देशैश्वर्यवंशनामधेयोपचारमीश्वरस्य, देशनामधेयोपचारमनीश्वरस्य 02.10.04 जातिं कुलं स्थानवयःश्रुतानि कर्म।ऋद्धिशीलान्यथ देशकालौ । यौनानुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात् पुरुषानुरूपम् 02.10.05 अर्थक्रमः सम्बन्धः परिपूर्णता माधुर्यमौदार्यं स्पष्टत्वमिति लेखसम्पत् 02.10.06 तत्र यथावद् अनुपूर्वक्रिया प्रधानस्यार्थस्य पूर्वमभिनिवेश इत्यर्थक्रमः 02.10.07 प्रस्तुतस्यार्थस्यानुपरोधाद् उत्तरस्य विधानमासमाप्तेरिति सम्बन्धः 02.10.08 अर्थपदाक्षराणामन्यूनातिरिक्तता हेतु।उदाहरणदृष्टान्तैरर्थोपवर्णनाश्रान्तपदता इति परिपूर्णता 02.10.09 सुखोपनीतचारुऽर्थशब्दाभिधानं माधुर्यम् 02.10.10 अग्राम्यशब्दाभिधानमौदार्यम् 02.10.11 प्रतीतशब्दप्रयोगः स्पष्टत्वमिति 02.10.12 अकारादयो वर्णाः त्रिषष्टिः 02.10.13 वर्णसङ्घातः पदम् 02.10.14 तच्चतुर्विधं नामाख्यातोपसर्गनिपाताश्च इति 02.10.15 तत्र नाम सत्त्वाभिधायि 02.10.16 अविशिष्टलिङ्गमाख्यातं क्रियावाचि 02.10.17 क्रियाविशेषकाः प्रादयोपसर्गाः 02.10.18 अव्ययाश्चादयो निपाताः 02.10.19 पदसमूहो वाक्यमर्थपरिसमाप्तौ 02.10.20 एकपदावरः त्रिपदपरः परपदार्थानुपरोधेन वर्गः कार्यः 02.10.21 लेखपरिसंहरणार्थ इतिशब्दो वाचिकमस्य इति च 02.10.22 निन्दा प्रशंसा पृच्छा च तथाऽऽख्यानमथार्थना । प्रत्याख्यानमुपालम्भः प्रतिषेधोऽथ चोदना 02.10.23 सान्त्वमभ्युपपत्तिश्च भर्त्सनानुनयौ तथा । एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः 02.10.24 तत्राभिजनशरीरकर्मणां दोषवचनं निन्दा 02.10.25 गुणवचनमेतेषामेव प्रशंसा 02.10.26 कथमेतदिति पृच्छा 02.10.27 एवम् इत्याख्यानम् 02.10.28 देहि इत्यर्थना 02.10.29 न प्रयच्छामि इति प्रत्याख्यानम् 02.10.30 अननुरूपं भवतः इत्युपालम्भः 02.10.31 मा कार्षीः इति प्रतिषेधः 02.10.32 इदं क्रियताम् इति चोदना 02.10.33 योऽहं स भवान्, यन् मम द्रव्यं तद् भवतः इत्युपग्रहः सान्त्वम् 02.10.34 व्यसनसाहाय्यमभ्युपपत्तिः 02.10.35 सदोषमायतिप्रदर्शनमभिभर्त्सनम् 02.10.36 अनुनयः त्रिविधोऽर्थकृतावतिक्रमे पुरुषादिव्यसने च इति 02.10.37 प्रज्ञापनाज्ञापरिदानलेखाः तथा परीहारनिसृष्टिलेखौ । प्रावृत्तिकश्च प्रतिलेखैव सर्वत्रगश्च इति हि शासनानि 02.10.38 अनेन विज्ञापितमेवमाह तद् दीयतां चेद् यदि तत्त्वमस्ति । राज्ञः समीपे वरकारमाह प्रज्ञापनैषा विविधोपदिष्टा 02.10.39 भर्तुराज्ञा भवेद् यत्र निग्रहानुग्रहौ प्रति । विशेषेण तु भृत्येषु तद्।आज्ञालेखलक्षणम् 02.10.40 यथार्हगुणसंयुक्ता पूजा यत्रोपलक्ष्यते । अप्याधौ परिदाने वा भवतः तावुपग्रहौ 02.10.41 जातेर्विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु । अनुग्रहो यो नृप्तेर्निदेशात् तज्ज्ञः परीहार इति व्यवस्येत् 02.10.42 निसृष्टिस्थाऽऽपना कार्यकरणे वचने तथा । एष वाचिकलेखः स्याद् भवेन्नैसृष्टिकोऽपि वा 02.10.43 विविधां दैवसंयुक्तां तत्त्वजां चैव मानुषीम् । द्विविधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति 02.10.44 दृष्ट्वा लेखं यथातत्त्वं ततः प्रत्यनुभाष्य च । प्रतिलेखो भवेत् कार्यो यथा राजवचः तथा 02.10.45 यत्र ईश्वरांश्चाधिकृतांश्च राजा रक्षोपकारौ पथिकार्थमाह । सर्वत्रगो नाम भवेत् स मार्गे देशे च सर्वत्र च वेदितव्यः 02.10.46 उपायाः सामोपप्रदानभेददण्डाः 02.10.47 तत्र साम पञ्चविधं - गुणसङ्कीर्तनं, सम्बन्धोपाख्यानं, परस्परोपकारसन्दर्शनं, आयतिप्रदर्शनं, आत्मोपनिधानमिति 02.10.48 तत्राभिजनशरीरकर्मप्रकृतिश्रुतद्रव्यादीनां गुणग्रहणं प्रशंसा स्तुतिर्गुणसङ्कीर्तनम् 02.10.49 ज्ञातियौनमौखस्रौवकुलहृदयमित्रसङ्कीर्तनं सम्बन्धोपाख्यानम् 02.10.50 स्वपक्षपरपक्षयोरन्योन्योपकारसङ्कीर्तनं परस्परोपकारसन्दर्शनम् 02.10.51 अस्मिन्न् एवं कृतेदमावयोर्भवति इत्याशाजननमायतिप्रदर्शनम् 02.10.52 योऽहं स भवान्, यन् मम द्रव्यं तद् भवता स्वकृत्येषु प्रयोज्यताम् इत्यात्मोपनिधानम् । इति 02.10.53 उपप्रदानमर्थोपकारः 02.10.54 शङ्काजननं निर्भर्त्सनं च भेदः 02.10.55 वधः परिक्लेशोऽर्थहरणं दण्डः । इति 02.10.56 अकान्तिर्व्याघातः पुनर्।उक्तमपशब्दः सम्प्लव इति लेखदोषः 02.10.57 तत्र कालपत्त्रकमचारुविषमविरागाक्षरत्वमकान्तिः 02.10.58 पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः 02.10.59 उक्तस्याविशेषेण द्वितीयमुच्चारणं पुनर्।उक्तम् 02.10.60 लिङ्गवचनकालकारकाणामन्यथाप्रयोगोऽपशब्दः 02.10.61 अवर्गे वर्गकरणं चावर्गक्रिया गुणविपर्यासः सम्प्लवः । इति 02.10.62 सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च । कौटिल्येन नरेन्द्रार्थे शासनस्य विधिः कृतः (इति) 02.10.63 Chapt . Examination of the precious articles to be received into the treasury कोशाध्यक्षः कोशप्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्जातकरणाधिष्ठितः प्रतिगृह्णीयात् 02.11.01 ताम्रपर्णिकं पाण्ड्यकवाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकम् 02.11.02 शुक्तिः शङ्खः प्रकीर्णकं च योनयः 02.11.03 मसूरकं त्रिपुटकं कूर्मकमर्धचन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तम् 02.11.04 स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देशविद्धं च प्रशस्तम् 02.11.05 शीर्षकमुपशीर्षकं प्रकाण्डकमवघाटकं तरलप्रतिबद्धं च इति यष्टिप्रभेदाः 02.11.06 यष्टीनामष्टसहस्रमिन्द्रच्छन्दः 02.11.07 ततोऽर्धं विजयच्छन्दः 02.11.08 चतुष्षष्टिरर्धहारः 02.11.09 चतुष्पञ्चाशद् रश्मिकलापः 02.11.10 द्वात्रिंशद्गुच्छः 02.11.11 सप्तविंशतिर्नक्षत्रमाला 02.11.12 चतुर्विंशतिरर्धगुच्छः 02.11.13 विंशतिर्माणवकः 02.11.14 ततोऽर्धमर्धमाणवकः 02.11.15 एतैव मणिमध्याः तन्माणवका भवन्ति 02.11.16 एकशीर्षकः शुद्धो हारः 02.11.17 तद्वत्शेषाः 02.11.18 मणिमध्योऽर्धमाणवकः 02.11.19 त्रिफलकः फलकहारः, पञ्चफलको वा 02.11.20 सूत्रमेकावली शुद्धा 02.11.21 सैव मणिमध्या यष्टिः 02.11.22 हेममणिचित्रा रत्नावली 02.11.23 हेममणिमुक्तान्तरोऽपवर्तकः 02.11.24 सुवर्णसूत्रान्तरं सोपानकम् 02.11.25 मणिमध्यं वा मणिसोपानकम् 02.11.26 तेन शिरोहस्तपादकटीकलापजालकविकल्पा व्याख्याताः 02.11.27 मणिः कौटोमालेयकः पारसमुद्रकश्च 02.11.28 सौगन्धिकः पद्मरागोऽनवद्यरागः पारिजातपुष्पको बालसूर्यकः 02.11.29 वैडूर्यमुत्पलवर्णः शिरीषपुष्पकोदकवर्णो वंशरागः शुकपत्त्रवर्णः पुष्यरागो गोमूत्रको गोमेदकः 02.11.30 इन्द्रनीलो नीलावलीयः कलायपुष्पको महानीलो जम्ब्व्।आभो जीमूतप्रभो नन्दकः स्रवन्मध्यः 02.11.31 शुद्धस्फटिको मूलाटवर्णः शीतवृष्टिः सूर्यकान्तश्च । इति मणयः 02.11.32 षड्ऽश्रश्चतुर्ऽश्रो वृत्तो वा तीव्ररागः संस्थानवान् अछः स्निग्धो गुरुरर्चिष्मान् अन्तर्गतप्रभः प्रभानुलेपी च इति मणिगुणाः 02.11.33 मन्दरागप्रभः स-शर्करः पुष्पच्छिद्रः खण्डो दुर्विद्धो लेखाकीर्ण इति दोषाः 02.11.34 विमलकः सस्यकोऽञ्जनमूलकः पित्तकः सुलभको लोहिताक्षो मृगाश्मको ज्योतीरसको मालेयकोऽहिच्छत्रकः कूर्पः प्रतिकूर्पः सुगन्धिकूर्पः क्षीरवकः श्शुक्तिचूर्णकः शिलाप्रवालकः पुलकः शुक्लपुलक इत्यन्तरजातयः 02.11.35 शेषाः काचमणयः 02.11.36 सभाराष्ट्रकं तज्जमाराष्ट्रकं कास्तीरराष्ट्रकं श्रीकटनकं मणिमन्तकमिन्द्रवानकं च वज्रम् 02.11.37 खनिः स्रोतः प्रकीर्णकं च योनयः 02.11.38 मार्जाराक्षकं शिरीषपुष्पकं गोमूत्रकं गोमेदकं शुद्धस्फटिकं मूलाटीवर्णं मणिवर्णानामन्यतमवर्णमिति वज्रवर्णाः 02.11.39 स्थूलं गुरु प्रहारसहं समकोटिकं भाजनलेखि तर्कुभ्रामि भ्राजिष्णु च प्रशस्तम् 02.11.40 नष्टकोणं निराश्रि पार्श्वापवृत्तं चाप्रशस्तम् 02.11.41 प्रवालकमालकन्दकं वैवर्णिकं च, रक्तं पद्मरागं च करटगर्भिणिकावर्जमिति 02.11.42 चन्दनं सातनं रक्तं भूमिगन्धि 02.11.43 गोशीर्षकं कालताम्रं मत्स्यगन्धि 02.11.44 हरिचन्दनं शुकपत्त्रवर्णमाम्रगन्धि, तार्णसं च 02.11.45 ग्रामेरुकं रक्तं रक्तकालं वा बस्तमूत्रगन्धि 02.11.46 दैवसभेयं रक्तं पद्मगन्धि, जापकं च 02.11.47 जोङ्गकं रक्तं रक्तकालं वा स्निग्धं, तौरूपं च 02.11.48 मालेयकं पाण्डुरक्तम् 02.11.49 कुचन्दनं रूक्षमगुरुकालं रक्तं रक्तकालं वा 02.11.50 कालपर्वतकं रक्तकालमनवद्यवर्णं वा 02.11.51 कोशागारपर्वतकं कालं कालचित्रं वा 02.11.52 शीतोदकीयं पद्माभं कालस्निग्धं वा 02.11.53 नागपर्वतकं रूक्षं शैवलवर्णं वा 02.11.54 शाकलं कपिलम् । इति 02.11.55 लघु स्निग्धमश्यानं सर्पिःस्नेहलेपि गन्धसुखं त्वग्ऽनुसार्यनुल्बणमविराग्युष्णसहं दाहग्राहि सुखस्पर्शनमिति चन्दनगुणाः 02.11.56 अगुरु जोङ्गकं कालं कालचित्रं मण्डलचित्रं वा 02.11.57 श्यामं दोङ्गकम् 02.11.58 पारसमुद्रकं चित्ररूपमुशीरगन्धि नवमालिकागन्धि वा । इति 02.11.59 गुरु स्निग्धं पेशलगन्धि निर्हार्यग्निसहमसम्प्लुतधूमं विमर्दसहमित्यगुरुगुणाः 02.11.60 तैलपर्णिकमशोकग्रामिकं मांसवर्णं पद्मगन्धि 02.11.61 जोङ्गकं रक्तपीतकमुत्पलगन्धि गोमूत्रगन्धि वा 02.11.62 ग्रामेरुकं स्निग्धं गोमूत्रगन्धि 02.11.63 सौवर्णकुड्यकं रक्तपीतं मातुलुङ्गगन्धि 02.11.64 पूर्णकद्वीपकं पद्मगन्धि नवनीतगन्धि वा 02.11.65 भद्रश्रियं पारलौहित्यकं जातीवर्णम् 02.11.66 आन्तरवत्यमुशीरवर्णम् 02.11.67 उभयं कुष्ठगन्धि च । इति 02.11.68 कालेयकः स्वर्णभूमिजः स्निग्धपीतकः 02.11.69 औत्तरपर्वतको रक्तपीतकः इति साराः । 02.11.70 पिण्डक्वाथधूमसहमविरागि योगानुविधायि च 02.11.71 चन्दनागुरुवच्च तेषां गुणाः 02.11.72 कान्तनावकं प्रैयकं चोत्तरपर्वतकं चर्म 02.11.73 कान्तनावकं मयूरग्रीवाभम् 02.11.74 प्रैयकं नीलपीतश्वेतलेखाबिन्दुचित्रम् 02.11.75 तद्।उभयमष्टाङ्गुलायामम् 02.11.76 बिसी महाबिसी च द्वादशग्रामीये 02.11.77 अव्यक्तरूपा दुहिलितिका चित्रा वा बिसी 02.11.78 परुषा श्वेतप्राया महाबिसी 02.11.79 द्वादशाङ्गुलायाममुभयम् 02.11.80 श्यामिका कालिका कदली चन्द्रोत्तरा शाकुला चारोहजाः 02.11.81 कपिला बिन्दुचित्रा वा श्यामिका 02.11.82 कालिका कपिला कपोतवर्णा वा 02.11.83 तद् उभयमष्टाङ्गुलायामम् 02.11.84 परुषा कदली हस्तायता 02.11.85 सैव चन्द्रचित्रा चन्द्रोत्तरा 02.11.86 कदलीत्रिभागा शाकुला कोठमण्डलचित्रा कृतकर्णिकाजिनचित्रा वा । इति 02.11.87 सामूरं चीनसी सामूली च बाह्लवेयाः 02.11.88 षट्त्रिंशद्ऽङ्गुलमञ्जनवर्णं सामूरम् 02.11.89 चीनसी रक्तकाली पाण्डुकाली वा 02.11.90 सामूली गोधूमवर्णा । इति 02.11.91 सान्तिना नलतूला वृत्तपृच्छा चौद्राः 02.11.92 सातिना कृष्णा 02.11.93 नलतूला नलतूलवर्णा 02.11.94 कपिला वृत्तपुच्छा च इति चर्मजातयः । 02.11.95 चर्मणां मृदु स्निग्धं बहुलरोम च श्रेष्ठम् 02.11.96 शुद्धं शुद्धरक्तं पक्षरक्तं चाविकं, खचितं वानचित्रं खण्डसङ्घात्यं तन्तुविच्छिन्नं च 02.11.97 कम्बलः कौचपकः कुलमितिका सौमितिका तुरगास्तरणं वर्णकं तलिच्छकं वारवाणः परिस्तोमः समन्तभद्रकं चाविकम् 02.11.98 पिच्छिलमार्द्रमिव च सूक्ष्मं मृदु च श्रेष्ठम् 02.11.99 अष्टप्रोतिसङ्घात्या कृष्णा भिङ्गिसी वर्षवारणमपसारक इति नैपालकम् 02.11.100 सम्पुटिका चतुर्ऽश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिका इति मृगरोम 02.11.101 वाङ्गकं श्वेतं स्निग्धं दुकूलम् 02.11.102 पौण्ड्रकं श्यामं मणिस्निग्धम् 02.11.103 सौवर्णकुड्यकं सूर्यवर्णं मणिस्निग्धोदकवानं चतुर्ऽश्रवानं व्यामिश्रवानं च 02.11.104 एतेषामेकांशुकमध्यर्धद्वित्रिचतुर्ऽंशुकमिति 02.11.105 तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम् 02.11.106 मागधिका पौण्ड्रिका सौवर्णकुड्यका च पत्त्रोर्णा 02.11.107 नागवृक्षो लिकुचो बकुलो वटश्च योनयः 02.11.108 पीतिका नागवृक्षिका 02.11.109 गोधूमवर्णा लैकुची 02.11.110 श्वेता बाकुली 02.11.111 शेषा नवनीतवर्णा 02.11.112 तासां सौवर्णकुड्यका श्रेष्ठा 02.11.113 तया कौशेयं चीनपट्टाश्च चीनभूमिजा व्याख्याताः 02.11.114 माधुरमापरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठम् । इति 02.11.115 अतः परेषां रत्नानां प्रमाणं मूल्यलक्षणम् । 02.11.116 जातिं रूपं च जानीयान्निधानं नवकर्म च 02.11.117 पुराणप्रतिसंस्कारं कर्म गुह्यमुपस्करान् । 02.11.118 देशकालपरीभोगं हिंस्राणां च प्रतिक्रियाम् (इति) 02.11.119 Chapt . Starting ore mines and factories आकराध्यक्षः शुल्बधातुशास्त्ररसपाकमणिरागज्ञः तज्ज्ञसखो वा तज्जातकर्मकरोपकरणसम्पन्नः किट्टमूषाङ्गारभस्मलिङ्गं वाऽऽकरं भूतपूर्वमभुतपूर्वं वा भूमिप्रस्तररसधातुमत्यर्थवर्णगौरवमुग्रगन्धरसं परीक्षेत 02.12.01 पर्वतानामभिज्ञातोद्देशानां बिलगुहोपत्यकालयनगूढखातेष्वन्तः प्रस्यन्दिनो जम्बूचूततालफलपक्वहरिद्राभेदगुड(गूड?)हरितालमनःशिलाक्षौद्रहिङ्गुलुकपुण्डरीकशुकमयूरपत्त्रवर्णाः सवर्णोदकोषधिपर्यन्ताश्चिक्कणा विशदा भारिकाश्च रसाः काञ्चनिकाः 02.12.02 अप्सु निष्ठ्यूताः तैलवद्विसर्पिणः षङ्कमलग्राहिणश्च ताम्ररूप्ययोः शताद् उपरि वेद्धारः 02.12.03 तत्प्रतिरूपकमुग्रगन्धरसं शिलाजतु विद्यात् 02.12.04 पीतकास्ताम्रकाः ताम्रपीतका वा भूमिप्रस्तरधातवो भिन्ना नीलराजीवन्तो मुद्गमाषकृसरवर्णा वा दधिबिन्दुपिण्डचित्रा हरिद्राहरीतकीपद्मपत्त्रशैवलयकृत्प्लीहानवद्यवर्णा भिन्नाश्चुञ्चुवालुकालेखाबिन्दुस्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तः ताप्यमाना न भिद्यन्ते बहुफेनधूमाश्च सुवर्णधातवः प्रतीवापार्थाः ताम्ररूप्यवेधनाः 02.12.05 शङ्खकर्पूरस्फटिकनवनीतकपोतपारावतविमलकमयूरग्रीवावर्णाः सस्यकगोमेदकगुडमत्स्यण्डिकावर्णाः कोविदारपद्मपाटलीकलायक्षौमातसीपुष्पवर्णाः स-सीसाः साञ्जना विस्रा भिन्नाः श्वेताभाः कृष्णाः कृष्णाभाः श्वेताः सर्वे वा लेखाबिन्दुचित्रा मृदवो ध्मायमाना न स्फुटन्ति बहुफेनधूमाश्च रूप्यधातवः 02.12.06 सर्वधातूनां गौरववृद्धौ सत्त्ववृद्धिः 02.12.07 तेषामशुद्धा मूढगर्भा वा तीक्ष्णमूत्रक्षरभाविता राजवृक्षवटपीलुगोपित्तरोचनामहिषखरकरभमूत्रलेण्डपिण्डबद्धाः तत्प्रतीवापाः तद्ऽवलेपा वा विशुद्धाः स्रवन्ति 02.12.08 यवमाषतिलपलाशपीलुक्षारैर्गोक्षीराजक्षीरैर्वा कदलीवज्रकन्दप्रतीवपो मार्दवकरः 02.12.09 मधुमधुकमजापयः स-तैलं घृतगुडकिण्वयुतं स-कन्दलीकम् । यद् अपि शतसहस्रधा विभिन्नं भवति मृदु त्रिभिरेव तन्निषेकैः 02.12.10 गोदन्तश‍ृङ्गप्रतीवापो मृदुस्तम्भनः 02.12.11 भारिकः स्निग्धो मृदुश्च प्रस्तरधातुर्भूमिभागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्रधातुः 02.12.12 काकमोचकः कपोतरोचनावर्णः श्वेतराजिनद्धो वा विस्रः सीसधातुः 02.12.13 ऊषरकर्बुरः पक्वलोष्ठवर्णो वा त्रपुधातुः 02.12.14 खरुम्बः पाण्डुरोहितः सिन्दुवारपुष्पवर्णो वा तीक्ष्णधातुः 02.12.15 काकाण्डभुजपत्त्रवर्णो वा वैकृन्तकधातुः 02.12.16 अच्छः स्निग्धः स-प्रभो घोषवान् शीतः तीव्रः तनुरागश्च मणिधातुः 02.12.17 धातुसमुत्थं तज्जातकर्मान्तेषु प्रयोजयेत् 02.12.18 कृतभाण्डव्यवहारमेकमुखं, अत्ययं चान्यत्र कर्तृक्रेतृविक्रेतॄणां स्थापयेत् 02.12.19 आकरिकमपहरन्तमष्टगुणं दापयेद् अन्यत्र रत्नेभ्यः 02.12.20 स्तेनमनिसृष्टोपजीविनं च बद्धं कर्म कारयेत्, दण्डोपकारिणं च 02.12.21 व्ययक्रियाभारिकमाकरं भागेन प्रक्रयेण वा दद्यात्, लाघविकमात्मना कारयेत् 02.12.22 लोहाध्यक्षः ताम्रसीसत्रपुवैकृन्तकारकूटवृत्तकंसताललोहकर्मान्तान् कारयेत्, लोहभाण्डव्यवहारं च 02.12.23 लक्षणाध्यक्षश्चतुर्भागताम्रं रूप्यरूपं तीक्ष्णत्रपुसीसाञ्जनानामन्यतममाषबीजयुक्तं कारयेत् - पणमर्धपणं पादं, अष्टभागमिति, पादाजीवं ताम्ररूपं - माषकमर्धमाषकं काकणीमर्धकाकणीमिति 02.12.24 रूपदर्शकः पणयात्रां व्यावहारिकीं कोशप्रवेश्यां च स्थापयेत् 02.12.25 रूपिकमष्टकं शतं, पञ्चकं शतं व्याजीं, पारीक्षिकमष्टभागिकं, शतं, पञ्चविंशतिपणमत्ययं चान्यत्रकर्तृक्रेतृविक्रेतृपरीक्षितृभ्यः 02.12.26 खन्यध्यक्षः शङ्खवज्रमणिमुक्ताप्रवालक्षारकर्मान्तान् कारयेत्, पणनव्यवहारं च 02.12.27 लवणाध्यक्षः पाकमुक्तं लवणभागं प्रक्रयं च यथाकालं सङ्गृह्णीयाद्, विक्रयाच्च मूल्यं रूपं व्याजीं च 02.12.28 आगन्तुलवणं षड्भागं दद्यात् 02.12.29 दत्तभागविभागस्य विक्रयः, पञ्चकं शतं व्याजीं रूपं रूपिकं च 02.12.30 क्रेता शुल्कं राजपण्यच्छेदानुरूपं च वैधरणं दद्यात्, अन्यत्र क्रेता षट्छतमत्ययं च 02.12.31 विलवणमुत्तमं दण्डं दद्याद्, अनिषृष्टोपजीवी चान्यत्र वानप्रस्थेभ्यः 02.12.32 श्रोत्रियाः तपस्विनो विष्टयश्च भक्तलवणं हरेयुः 02.12.33 अतोऽन्यो लवणक्षारवर्गः शुल्कं दद्यात् 02.12.34 एवं मूल्यं च भागं च व्याजीं परिघमत्ययम् । शुल्कं वैधरणं दण्डं रूपं रूपिकमेव च 02.12.35 खनिभ्यो द्वादशविधं धातुं पण्यं च संहरेत् । एवं सर्वेषु पण्येषु स्थापयेन् मुखसङ्ग्रहम् 02.12.36 आकरप्रभः कोशः कोशाद् दण्डः प्रजायते । पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा (इति) 02.12.37 Chapt . Superintendent of gold in the RorkShop सुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानामसम्बन्धावेशनचतुःशालामेकद्वारामक्षशालां कारयेत् 02.13.01 विशिखामध्ये सौवर्णिकं शिल्पवन्तमभिजातं प्रात्ययिकं च स्थापयेत् 02.13.02 जाम्बूनदं शातकुम्भं हाटकं वैणवं श‍ृङ्गशुक्तिजं जातरूपं रसविद्धमाकरोद्गतं च सुवर्णम् 02.13.03 किञ्जल्कवर्णं मृदु स्निग्धमनादि भ्राजिष्णु च श्रेष्ठं, रक्तपीतकं मध्यमं, रक्तमवरम् 02.13.04 श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकम् 02.13.05 तद् येनाप्राप्तकं तच्चतुर्गुणेन सीसेन शोधयेत् 02.13.06 सीसान्वयेन भिद्यमानं शुष्कपटलैर्ध्मापयेत् 02.13.07 रूक्षत्वाद् भिद्यमानं तैलगोमये निषेचयेत् 02.13.08 आकरोद्गतं सीसान्वयेन भिद्यमानं पाकपत्त्राणि कृत्वा गण्डिकासु कुट्टयेत्, कदलीवज्रकन्दकल्के वा निषेचयेत् 02.13.09 तुत्थोद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यम् 02.13.10 श्वेतं स्निग्धं मृदु च श्रेष्ठम् 02.13.11 विपर्यये स्फोटनं च दुष्टम् 02.13.12 तत्सीसचतुर्भागेन शोधयेत् 02.13.13 उद्गतचूलिकमच्छं भ्राजिष्णु दधिवर्णं च शुद्धम् 02.13.14 शुद्धस्यैको हारिद्रस्य सुवर्णो वर्णकः 02.13.15 ततः शुल्बकाकण्य्।उत्तरापसारिता आचतुःसीमान्तादिति षोडश वर्णकाः 02.13.16 सुवर्णं पूर्वं निकष्य पश्चाद् वर्णिकां निकषयेत् 02.13.17 समरागलेखमनिम्नोन्नते देशे निकषितं, परिमृदितं परिलीढं नखान्तराद् वा गैरिकेणावचूर्णितमुपधिं विद्यात् 02.13.18 जातिहिङ्गुलुकेन पुष्पकासीसेन वा गोमूत्रभावितेन दिग्धेनाग्रहस्तेन संस्पृष्टं सुवर्णं श्वेतीभवति 02.13.19 स-केसरः स्निग्धो मृदुर्भाजिष्णुश्च निकषरागः श्रेष्ठः 02.13.20 कालिङ्गकः तापीपाषाणो वा मुद्गवर्णो निकषः श्रेष्ठः 02.13.21 समरागी विक्रयक्रयहितः 02.13.22 हस्तिच्छविकः सहरितः प्रतिरागी विक्रयहितः 02.13.23 स्थिरः परुषो विषमवर्णश्चाप्रतिरागी क्रयहितः 02.13.24 छेदश्चिक्कणः समवर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः 02.13.25 तापो बहिर्ऽन्तश्च समः किञ्जल्कवर्णः कुरण्डकपुष्पवर्णो वा श्रेष्ठः 02.13.26 श्यावो नीलश्चाप्राप्तकः 02.13.27 तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः 02.13.28 तेनोपदेशेन रूप्यसुवर्णं दद्याद् आददीत च 02.13.29 अक्षशालामनायुक्तो नोपगच्छेत् 02.13.30 अभिगच्छन्न् उच्छेद्यः 02.13.31 आयुक्तो वा सरूप्यसुवर्णः तेनैव जीयेत 02.13.32 विचितवस्त्रहस्तगुह्याः काञ्चनपृषतत्वष्टृतपनीयकारवो ध्मायकचरकपांसुधावकाः प्रविशेयुर्निष्कसेयुश्च 02.13.33 सर्वं चैषामुपकरणमनिष्ठिताश्च प्रयोगाः तत्रैवावतिष्ठेरन् 02.13.34 गृहीतं सुवर्णं धृतं च प्रयोगं करणमध्ये दद्यात् 02.13.35 सायं प्रातश्च लक्षितं कर्तृकारयितृमुद्राभ्यां निदध्यात् 02.13.36 क्षेपणो गुणः क्षुद्रकमिति कर्माणि 02.13.37 क्षेपणः काचार्पणादीनि 02.13.38 गुणः सूत्रवानादीनि 02.13.39 घनं सुषिरं पृषतादियुक्तं क्षुद्रकमिति 02.13.40 अर्पयेत् काचकर्मणः पञ्चभागं काञ्चनं दशभागं कटुमानम् 02.13.41 ताम्रपादयुक्तं रूप्यं रूप्यपादयुक्तं वा सुवर्णं संस्कृतकं, तस्माद् रक्षेत् 02.13.42 पृषतकाचकर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकं, चत्वारो वा वास्तुकं त्रयः परिभाण्डम् 02.13.43 त्वष्टृकर्मणः शुल्बभाण्डं समसुवर्णेन संयूहयेत् 02.13.44 रूप्यभाण्डं घनं सुषिरं वा सुवर्णार्धेनावलेपयेत् 02.13.45 चतुर्भागसुवर्णं वा वालुकाहिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् । 02.13.46 तपनीयं ज्येष्ठं सुवर्णं सुरागं समसीसातिक्रान्तं पाकपत्त्रपक्वं सैन्धविकयोज्ज्वालितं नीलपीतश्वेतहरितशुकपत्त्रवर्णानां प्रकृतिर्भवति 02.13.47 तीक्ष्णं चास्य मयूरग्रीवाभं श्वेतभङ्गं चिमिचिमायितं पीतचूर्णितं काकणिकः सुवर्णरागः 02.13.48 तारमुपशुद्धं वा - अस्थितुत्थे चतुः समसीसे चतुः शुष्कतुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्तदशतुत्थातिक्रान्तं सैन्धविकयोज्ज्वालितम् 02.13.49 एतस्मात् काकण्य्।उत्तरमाद् विमाषादिति सुवर्णे देयं, पश्चाद् रागयोगः, श्वेततारं भवति । 02.13.50 त्रयोऽंशाः तपनीयस्य द्वात्रिंशद्भागश्वेततारमूर्च्छिताः तत् श्वेतलोहितकं भवति 02.13.51 ताम्रं पीतकं करोति 02.13.52 तपनीयमुज्ज्वाल्य रागत्रिभागं दद्यात्, पीतरागं भवति 02.13.53 श्वेततारभागौ द्वावेकः तपनीयस्य मुद्गवर्णं करोति 02.13.54 कालायसस्यार्धभागाभ्यक्तं कृष्णं भवति 02.13.55 प्रतिलेपिना रसेन द्विगुणाभ्यक्तं तपनीयं शुकपत्त्रवर्णं भवति 02.13.56 तस्यारम्भे रागविशेषेषु प्रतिवर्णिकां गृह्णीयात् 02.13.57 तीक्ष्णताम्रसंस्कारं च बुध्येत 02.13.58 तस्माद् वज्रमणिमुक्ताप्रवालरूपाणामपनेयिमानं च रूप्यसुवर्णभाण्डबन्धप्रमाणानि च 02.13.59 समरागं समद्वन्द्वमसक्तपृषतं स्थिरम् । सुप्रमृष्टमसम्पीतं विभक्तं धारणे सुखम् 02.13.60 अभिनीतं प्रभायुक्तं संस्थानमधुरं समम् । मनोनेत्राभिरामं च तपनीयगुणाः स्मृताः (इति) 02.13.61 Chapt . Activity of the goldsmitH in the market-highRay सौवर्णिकः पौरजानपदानां रूप्यसुवर्णमावेशनिभिः कारयेत् 02.14.01 निर्दिष्टकालकार्यं च कर्म कुर्युः, अनिर्दिष्टकालं कार्यापदेशम् 02.14.02 कार्यस्यान्यथाकरणे वेतननाशः, तद्द्विगुणश्च दण्डः 02.14.03 कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः 02.14.04 यथावर्णप्रमाणं निक्षेपं गृह्णीयुः तथाविधमेवार्पयेयुः 02.14.05 कालान्तराद् अपि च तथाविधमेव प्रतिगृह्णीयुः, अन्यत्र क्षीणपरिशीर्णाभ्याम् 02.14.06 आवेशनिभिः सुवर्णपुद्गललक्षणप्रयोगेषु तत्तज् जानीयात् 02.14.07 तप्तकलधौतकयोः काकणिकः सुवर्णे क्षयो देयः 02.14.08 तीक्ष्णकाकणी - रूप्यद्विगुणः - रागप्रक्षेपः, तस्य षड्भागः क्षयः 02.14.09 वर्णहीने माषावरे पूर्वः साहसदण्डः, प्रमाणहीने मध्यमः, तुलाप्रतिमानोपधावुत्तमः, कृतभाण्डोपधौ च 02.14.10 सौवर्णिकेनादृष्टमन्यत्र वा प्रयोगं कारयतो द्वादशपणो दण्डः 02.14.11 कर्तुर्द्विगुणः स-अपसारश्चेत् 02.14.12 अनपसारः कण्टकशोधनाय नीयेत 02.14.13 कर्तुश्च द्विशतो दण्डः पणच्छेदनं वा 02.14.14 तुलाप्रतिमानभाण्डं पौतवहस्तात् क्रीणीयुः 02.14.15 अन्यथा द्वादशपणो दण्डः 02.14.16 घनं सुषिरं संयूह्यमवलेप्यं सङ्घात्यं वासितकं च कारुकर्म 02.14.17 तुलाविषममपसारणं विस्रावणं पेटकः पिङ्कश्च इति हरणोपायाः 02.14.18 सम्नामिन्युत्कीर्णिका भिन्नमस्तकोपकण्ठी कुशिक्या सकटुकक्ष्या परिवेल्यायस्कान्ता च दुष्टतुलाः 02.14.19 रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकम् 02.14.20 तेनाकरोद्गतमपसार्यते तत्त्रिपुटकापसारितम् 02.14.21 शुल्बेन शुल्बापसारितं, वेल्लकेन वेल्लकापसारितं, शुल्बार्धसारेण हेम्ना हेमापसारितम् 02.14.22 मूकमूषा पूतिकिट्टः करटुकमुखं नाली सन्दंशो जोङ्गनी सुवर्चिकालवणं तद् एव सुवर्णमित्यपसारणमार्गाः 02.14.23 पूर्वप्रणिहिता वा पिण्डवालुका मूषाभेदाद् अग्निष्ठाद् उद्ध्रियन्ते 02.14.24 पश्चाद् बन्धने आचितकपत्त्रपरीक्षायां वा रूप्यरूपेण परिवर्तनं विस्रावणं, पिण्डवालुकानां लोहपिण्डवालुकाभिर्वा 02.14.25 गाढश्चाभ्युद्धार्यश्च पेटकः संयूह्यावलेप्यसङ्घात्येषु क्रियते 02.14.26 सीसरूपं सुवर्णपत्त्रेणावलिप्तमभ्यन्तरमष्टकेन बद्धं गाढपेटकः 02.14.27 सैव पटलसम्पुटेष्वभ्युद्धार्यः 02.14.28 पत्त्रमाश्लिष्टं यमकपत्त्रं वावलेप्येषु क्रियते 02.14.29 शुल्बं तारं वा गर्भः पत्त्राणां सङ्घात्येषु क्रियते 02.14.30 शुल्बरूपं सुवर्णपत्त्रसंहतं प्रमृष्टं सुपार्श्वं, तद् एव यमकपत्त्रसंहतं प्रमृष्टं ताम्रताररुपं चोत्तरवर्णकः 02.14.31 तद् उभयं तापनिकषाभ्यां निह्शब्दोल्लेखनाभ्यां वा विद्यात् 02.14.32 अभ्युद्धार्यं बदराम्ले लवणोदके वा सादयन्तीति पेटकः 02.14.33 घने सुषिरे वा रूपे सुवर्णमृन्मालुकाहिङ्गुलुककल्पो वा तप्तोऽवतिष्ठते 02.14.34 दृढवास्तुके वा रूपे वालुकामिश्रं जतु गान्धारपङ्को वा तप्तोऽवतिष्ठते 02.14.35 तयोः तापनमवध्वंसनं वा शुद्धिः 02.14.36 स-परिभाण्डे वा रूपे लवणमुल्कया कटुशर्करया तप्तमवतिष्ठते 02.14.37 तस्य क्वाथनं शुद्धिः 02.14.38 अभ्रपटलमष्टकेन द्विगुणवास्तुके वा रूपे बध्यते 02.14.39 तस्यापिहितकाचकस्योदके निमज्जतैकदेशः सीदति, पटलान्तरेषु वा सूच्या भिद्यते 02.14.40 मणयो रूप्यं सुवर्णं वा घनसुषिराणां पिङ्कः 02.14.41 तस्य तापनमवध्वंसनं वा शुद्धिः । इति पिङ्कः 02.14.42 तस्माद् वज्रमणिमुक्ताप्रवालरूपाणां जातिरूपवर्णप्रमाणपुद्गललक्षणान्युपलभेत 02.14.43 कृतभाण्डपरीक्षायां पुराणभाण्डप्रतिसंस्कारे वा चत्वारो हरणोपायाः - परिकुट्टनमवच्छेदनमुल्लेखनं परिमर्दनं वा 02.14.44 पेटकापदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्परिकुट्टनम् 02.14.45 यद्द्विगुणवास्तुकानां वा रूपे सीसरूपं प्रक्षिप्याभ्यन्तरमवच्छिन्दन्ति तद् अवच्छेदनम् 02.14.46 यद्घनानां तीक्ष्णेनोल्लिखन्ति तद् उल्लेखनम् 02.14.47 हरितालमनःशिलाहिङ्गुलुकचूर्णानामन्यतमेन कुरुविन्दचूर्णेन वा वस्त्रं संयूह्य यत् परिमृद्नन्ति तत् परिमर्दनम् 02.14.48 तेन सौवर्णराजतानि भाण्डानि क्षीयन्ते, न चैषां किञ्चिद् अवरुग्णं भवति 02.14.49 भग्नखण्डघृष्टानां संयूह्यानां सदृशेनानुमानं कुर्यात् 02.14.50 अवलेप्यानां यावद् उत्पाटितं तावद् उत्पाट्यानुमानं कुर्यात् 02.14.51 विरूपाणां वा तापनमुदकपेषणं च बहुशः कुर्यात् 02.14.52 अवक्षेपः प्रतिमानमग्निर्गण्डिका भण्डिकाधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिरोत्सङ्गो मक्षिका स्वकाय ईक्षा दृतिरुदकशरावमग्निष्ठमिति काचं विद्यात् 02.14.53 राजतानां विस्रं मलग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टमिति विद्यात् 02.14.54 एवं नवं च जीर्णं च विरूपं चापि भाण्डकम् । परीक्षेतात्ययं चैषां यथोद्दिष्टं प्रकल्पयेत् (इति) 02.14.55 Chapt . Superintendent of the magashin कोष्ठागाराध्यक्षः सीताराष्ट्रक्रयिमपरिवर्तकप्रामित्यकापमित्यकसंहनिकान्यजातव्ययप्रत्यायोपस्थानान्युपलभेत् 02.15.01 सीताध्यक्षोपनीतः सस्यवर्णकः सीता 02.15.02 पिण्डकरः षड्भागः सेनाभक्तं बलिः करोत्सङ्गः पार्श्वं पारिहीणिकमौपायनिकं कौष्ठेयकं च राष्ट्रम् 02.15.03 धान्यमूल्यं कोशनिर्हारः प्रयोगप्रत्यादानं च क्रयिमम् 02.15.04 सस्यवर्णानामर्घान्तरेण विनिमयः परिवर्तकः 02.15.05 सस्ययाचनमन्यतः प्रामित्यकम् 02.15.06 तद् एव प्रतिदानार्थमापमित्यकम् 02.15.07 कुट्टकरोचकसक्तुशुक्तपिष्टकर्म तज्जीवनेषु तैलपीडनमौद्रचाक्रिकेष्विक्षूणां च क्षारकर्म संहनिका 02.15.08 नष्टप्रस्मृतादिरन्यजातः 02.15.09 विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः 02.15.10 तुलामानान्तरं हस्तपूरणमुत्करो व्याजी पर्युषितं प्रार्जितं चोपस्थानम् । इति 02.15.11 धान्यस्नेहक्षारलवणानां धान्यकल्पं सीताध्यक्षे वक्ष्यामः 02.15.12 सर्पिस्तैलवसामज्जानः स्नेहाः 02.15.13 फाणितगुडमत्स्यण्डिकाखण्डशर्कराः क्षारवर्गः 02.15.14 सैन्धवसामुद्रबिडयवक्षारसौवर्चलोद्भेदजा लवणवर्गः 02.15.15 क्षौद्रं मार्द्वीकं च मधु 02.15.16 इक्षुरसगुडमधुफाणितजाम्बवपनसानामन्यतमो मेषश‍ृङ्गीपिप्पलीक्वाथाभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुकेक्षुकाण्डाम्रफलामलकावसुतः शुद्धो वा शुक्तवर्गः 02.15.17 वृक्षाम्लकरमर्दाम्रविदलामलकमातुलुङ्गकोलबदरसौवीरकपरूषकादिः फलाम्लवर्गः 02.15.18 दधिधान्याम्लादिर्द्रवाम्लवर्गः 02.15.19 पिप्पलीमरिचश‍ृङ्गिबेराजाजीकिराततिक्तगौरसर्षपकुस्तुम्बुरुचोरकदमनकमरुवकशिग्रुकाण्डादिः कटुकवर्गः 02.15.20 शुष्कमत्स्यमांसकन्दमूलफलशाकादि च शाकवर्गः 02.15.21 ततोऽर्धमापद्ऽर्थं जानपदानां स्थापयेद्, अर्धमुपयुञ्जीत 02.15.22 नवेन चानवं शोधयेत् 02.15.23 क्षुण्णघृष्टपिष्टभृष्टानामार्द्रशुष्कसिद्धानां च धान्यानां वृद्धिक्षयप्रमाणानि प्रत्यक्षीकुर्वीत 02.15.24 कोद्रवव्रीहीणामर्धं सारः, शालीनामर्धभागोनः, त्रिभागोनो वरकाणाम् 02.15.25 प्रियङ्गूणामर्धं सारो नवभागवृद्धिश्च 02.15.26 उदारकः तुल्यः, यवा गोधूमाश्च क्षुण्णाः, तिला यवा मुद्गमाषाश्च घृष्टाः 02.15.27 पञ्चभागवृद्धिर्गोधूमः, सक्तवश्च 02.15.28 पादोना कलायचमसी 02.15.29 मुद्गमाषाणामर्धपादोना 02.15.30 शौम्ब्यानामर्धं सारः, त्रिभागोनो मसूराणाम् 02.15.31 पिष्टमामं कुल्माषाश्चाध्यर्धगुणाः 02.15.32 द्विगुणो यावकः, पुलाकः, पिष्टं च सिद्धम् 02.15.33 कोद्रववरकोदारकप्रियङ्गूणां त्रिगुणमन्नं, चतुर्गुणं व्रीहीणां, पञ्चगुणं शालीनाम् 02.15.34 तिमितमपरान्नं द्विगुणं, अर्धाधिकं विरूढानाम् 02.15.35 पञ्चभागवृद्धिर्भृष्टानाम् 02.15.36 कलायो द्विगुणः, लाजा भरुजाश्च 02.15.37 षट्कं तैलमतसीनाम् 02.15.38 निम्बकुशाम्रकपित्थादीनां पञ्चभागः 02.15.39 चतुर्भागिकाः तिलकुसुम्भमधूकेङ्गुदीस्नेहाः 02.15.40 कार्पासक्षौमाणां पञ्चपले पलं सूत्रम् 02.15.41 पञ्चद्रोणे शालीनां द्वादशाढकं तण्डुलानां कलभभोजनं, एकादशकं व्यालानां, दशकमौपवाह्यानां नवकं साम्नाह्यानां, अष्टकं पत्तीनां, सप्तकं मुख्यानां, षट्कं देवीकुमाराणां, पञ्चकं राज्ञां, अखण्डपरिशुद्धानां वा तुअण्डुलानां प्रस्थः 02.15.42 तण्डुलानां प्रस्थः चतुर्भागः सूपः सूपषोडशो लवणस्यांशः चतुर्भागः सर्पिषः तैलस्य वैकमार्यभक्तं पुंसः 02.15.43 षड्भागः सूपः अर्धस्नेहमवराणाम् 02.15.44 पादोनं स्त्रीणाम् 02.15.45 अर्धं बालानाम् 02.15.46 मांसपलविंशत्या स्नेहार्धकुडुबः पलिको लवणस्यांशः क्षारपलयोगो द्विधरणिकः कटुकयोगो दध्नुश्चार्धप्रस्थः 02.15.47 तेनोत्तरं व्याख्यातम् 02.15.48 शाकानामध्यर्धगुणः, शुष्काणां द्विगुणः, स चैव योगः 02.15.49 हस्त्यश्वयोः तद्ऽध्यक्षे विधाप्रमाणं वक्ष्यामः 02.15.50 बलीवर्दानां माषद्रोणं यवानां वा पुलाकः, शेषमश्वविधानम् 02.15.51 विशेषो घाणपिण्याकतुला, कणकुण्डकं दशाढकं वा 02.15.52 द्विगुणं महिषोष्ट्राणाम् 02.15.53 अर्धद्रोणं खरपृषतरोहितानाम् 02.15.54 आढकमेणकुरङ्गाणाम् 02.15.55 अर्धाढकमजैडकवराहाणां, द्विगुणं वा कणकुण्डकम् 02.15.56 प्रस्थोदनः शुनाम् 02.15.57 हंसक्रौञ्चमयूराणामर्धप्रस्थः 02.15.58 शेषाणामतो मृगपशुपक्षिव्यालानामेकभक्ताद् अनुमानं ग्राहयेत् 02.15.59 अङ्गारांः तुषान् लोहकर्मान्तभित्तिलेप्यानां हारयेत् 02.15.60 कणिका दासकर्मकरसूपकाराणां, अतोऽन्यद् औदनिकापूपिकेभ्यः प्रयच्छेत् 02.15.61 तुलामानभाण्डं रोचनीदृषन्मुसलोलूखलकुट्टकरोचकयन्त्रपत्त्रकशूर्पचालनिकाकण्डोलीपिटकसम्मार्जन्यश्चोपकरणानि 02.15.62 मार्जकरक्षकधरकमायकमापकदायकदापकशलाकाप्रतिग्राहकदासकर्मकरवर्गश्च विष्टिः 02.15.63 उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः । मृत्काष्ठकोष्ठाः स्नेहस्य पृथिवी लवणस्य च (इति) 02.15.64 Chapt . Director of trade पण्याध्यक्षः स्थलजलजानां नानाविधानां पण्यानां स्थलपथवारिपथोपयातानां सारफल्ग्व्ऽर्घान्तरं प्रियाप्रियतां च विद्यात्, तथा विक्षेपसङ्क्षेपक्रयविक्रयप्रयोगकालान् 02.16.01 यच्च पण्यं प्रचुरं स्यात् तद् एकीकृत्यार्घमारोपयेत् 02.16.02 प्राप्तेऽर्घे वार्घान्तरं कारयेत् 02.16.03 स्वभूमिजानां राजपण्यानामेकमुखं व्यवहारं स्थापयेत्, परभूमिजानामनेकमुखम् 02.16.04 उभयं च प्रजानामनुग्रहेण विक्रापयेत् 02.16.05 स्थूलमपि च लाभं प्रजानामौपघातिकं वारयेत् 02.16.06 अजस्रपण्यानां कालोपरोधं सङ्कुलदोषं वा नोत्पादयेत् 02.16.07 बहुमुखं वा राजपण्यं वैदेहकाः कृतार्घं विक्रीणीरन् 02.16.08 छेदानुरूपं च वैधरणं दद्युः 02.16.09 षोडशभागो मानव्याजी, विंशतिभागः तुलामानं, गण्यपण्यानामेकादशभागः 02.16.10 परभूमिजं पण्यमनुग्रहेणावाहयेत् 02.16.11 नाविकसार्थवाहेभ्यश्च परिहारमायतिक्षमं दद्यात् 02.16.12 अनभियोगश्चार्थेष्वागन्तूनां, अन्यत्र सभ्योपकारिभ्यः 02.16.13 पण्याधिष्ठातारः पण्यमूल्यमेकमुखं काष्ठद्रोण्यामेकच्छिद्रापिधानायां निदध्युः 02.16.14 अह्नश्चाष्टमे भागे पण्याध्यक्षस्यार्पयेयुः - इदं विक्रीतं, इदं शेषम् इति 02.16.15 तुलामानभाण्डं चार्पयेयुः 02.16.16 इति स्वविषये व्याख्यातम् 02.16.17 परविषये तु - पण्यप्रतिपण्ययोरर्घं मूल्यं चागमय्य शुल्कवर्तन्याऽऽतिवाहिकगुल्मतरदेयभक्तभागव्ययशुद्धमुदयं पश्येत् 02.16.18 असत्युदये भाण्डनिर्वहणेन पण्यप्रतिपण्यानयनेन वा लाभं पश्येत् 02.16.19 ततः सारपादेन स्थलव्यवहारमध्वना क्षेमेण प्रयोजयेत् 02.16.20 अटव्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेद् अनुग्रहार्थम् 02.16.21 आपदि सारमात्मानं वा मोक्षयेत् 02.16.22 आत्मनो वा भूमिं प्राप्तः सर्वदेयविशुद्धं व्यवहरेत 02.16.23 वारिपथे वा यानभागकपथ्यदनपण्यप्रतिपण्यार्घप्रमाणयात्राकालभयप्रतीकारपण्यपत्तनचारित्राण्युपलभेत 02.16.24 नदीपथे च विज्ञाय व्यवहारं चरित्रतः । यतो लाभः ततो गच्छेद् अलाभं परिवर्जयेत् (इति) 02.16.25 Chapt . Director of forest produce कुप्याध्यक्षो द्रव्यवनपालैः कुप्यमानाययेत् 02.17.01 द्रव्यवनकर्मान्तांश्च प्रयोजयेत् 02.17.02 द्रव्यवनच्छिद्रां च देयमत्ययं च स्थापयेद् अन्यत्रापद्भ्यः 02.17.03 कुप्यवर्गः - शाकतिनिशधन्वनार्जुनमधूकतिलकसालशिंशपारिमेदराजादनशिरीषखदिरसरलतालसर्जाश्वकर्णसोमवल्ककुशाम्रप्रियकधवादिः सारदारुवर्गः 02.17.04 उटजचिमियचापवेणुवंशसातिनकण्टकभाल्लूकादिर्वेणुवर्गः 02.17.05 वेत्रशीकवल्लीवाशीश्यामलतानागलताऽऽदिर्वल्लीवर्गः 02.17.06 मालतीमूर्वार्कशणगवेधुकातस्य्।आदिर्वल्कवर्गः 02.17.07 मुञ्जबल्बजादि रज्जुभाण्डम् 02.17.08 तालीतालभूर्जानां पत्त्रम् 02.17.09 किंशुककुसुम्भकुङ्कुमानां पुष्पम् 02.17.10 कन्दमूलफलादिरौषधवर्गः 02.17.11 कालकूटवत्सनाभहालाहलमेषश‍ृङ्गमुस्ताकुष्ठमहाविषवेल्लितकगौरार्द्रबालकमार्कटहैमवतकालिङ्गकदारदकाङ्कोलसारकोष्ट्रकादीनि विषाणि, सर्पाः कीटाश्च तैव कुम्भगताः विषवर्गः 02.17.12 गोधासेरकद्वीप्य्।ऋक्षशिंशुमारसिंहव्याघ्रहस्तिमहिषचमरसृमरखड्गगोमृगगवयानां चर्मास्थिपित्तस्नाय्व्ऽक्षिदन्तश‍ृङ्गखुरपुच्छानि, अन्येषां वापि मृगपशुपक्षिव्यालानाम् 02.17.13 कालायसताम्रवृत्तकंससीसत्रपुवैकृन्तकारकूटानि लोहानि 02.17.14 विदलमृत्तिकामयं भाण्डम् 02.17.15 अङ्गारतुषभस्मानि, मृगपशुपक्षिव्यालवाटाः काष्ठतृणवाटाश्च । इति 02.17.16 बहिरन्तश्च कर्मान्ता विभक्ताः सार्वभाण्डिकाः । आजीवपुररक्षार्थाः कार्याः कुप्योपजीविना (इति) 02.17.17 Chapt . Superintendent of the armoury आयुधागाराध्यक्षः साङ्ग्रामिकं दौर्गकर्मिकं परपुराभिघातिकं च यन्त्रमायुधमावरणमुपकरणं च तज्जातकारुशिल्पिभिः कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारयेत्, स्वभूमिषु च स्थापयेत् 02.18.01 स्थानपरिवर्तनमातपप्रवातप्रदानं च बहुशः कुर्यात् 02.18.02 ऊष्मोपस्नेहक्रिमिभिरुपहन्यमानमन्यथा स्थापयेत् 02.18.03 जातिरूपलक्षणप्रमाणागममूल्यनिक्षेपैश्चोपलभेत 02.18.04 सर्वतोभद्रजामदग्न्यबहुमुखविश्वासघातिसङ्घाटीयानकपर्जन्यकबाहु।ऊर्ध्वबाह्व्ऽर्धबाहूनि स्थितयन्त्राणि 02.18.05 पाञ्चालिकदेवदण्डसूकरिकामुसलयष्टिहस्तिवारकतालवृन्तमुद्गरगदास्पृक्तलाकुद्दालास्फाटिमोत्पाटिमोद्घाटिमशतघ्नित्रिशूलचक्राणि चलयन्त्राणि 02.18.06 शक्तिप्रासकुन्तहाटकभिण्डिपालशूलतोमरवराहकर्णकणयकर्पणत्रासिकादीनि च हुलमुखानि 02.18.07 तालचापदारवशार्ङ्गाणि कार्मुककोदण्डद्रूणा धनूंषि 02.18.08 मूर्वार्कशनगवेधुवेणुस्नायूनि ज्याः 02.18.09 वेणुशरशलाकादण्डासननाराचाश्चेषवः 02.18.10 तेषां मुखानि छेदनभेदनताडनान्यायसास्थिदारवाणि 02.18.11 निस्त्रिंशमण्डलाग्रासियष्टयः खड्गाः 02.18.12 खड्गमहिषवारणविषाणदारुवेणुमूलानि त्सरवः 02.18.13 परशुकुठारपट्टसखनित्रकुद्दालक्रकचकाण्डच्छेदनाः क्षुरकल्पाः 02.18.14 यन्त्रगोष्पणमुष्टिपाषाणरोचनीदृषदश्चाश्मायुधानि 02.18.15 लोहजालिकापट्टकवचसूत्रकङ्कटशिंशुमारकखड्गिधेनुकहस्तिगोचर्मखुरश‍ृङ्गसङ्घातं वर्माणि 02.18.16 शिरस्त्राणकण्ठत्राणकूर्पासकञ्चुकवारवाणपट्टनागोदरिकाः पेटीचर्महस्तिकर्णतालमूलधमनिकाकपाटकिटिकाप्रतिहतबलाहकान्ताश्चावरणाणि 02.18.17 हस्तिरथवाजिनां योग्याभाण्डमालङ्कारिकं सम्नाहकल्पनाश्चोपकरणानि 02.18.18 ऐन्द्रजालिकमौपनिषदिकं च कर्म 02.18.19 कर्मान्तानां च - इच्छामारम्भनिष्पत्तिं प्रयोगं व्याजमुद्दयम् । क्षयव्ययौ च जानीयात् कुप्यानामायुध ईश्वरः (इति) 02.18.20 Chapt . Standardization of Rights and measures पौतवाध्यक्षः पौतवकर्मान्तान् कारयेत् 02.19.01 धान्यमाषा दश सुवर्णमाषकः, पञ्च वा गुञ्जाः 02.19.02 ते षोडश सुवर्णः कर्षो वा 02.19.03 चतुष्कर्षं पलम् 02.19.04 अष्टाशीतिर्गौरसर्षपा रूप्यमाषकः 02.19.05 ते षोडश धरणं, शौम्ब्यानि वा विंशतिः 02.19.06 विंशतितण्डुलं वज्रधरणम् 02.19.07 अर्धमाषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः, अष्टौ सुवर्णाः दश विंशतिः त्रिंशत् चत्वारिंशत् शतमिति 02.19.08 तेन धरणानि व्याख्यातानि 02.19.09 प्रतिमानान्ययोमयानि मागधमेकलशैलमयानि यानि वा नोदकप्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासम् 02.19.10 षडङ्गुलाद् ऊर्ध्वमष्टाङ्गुलोत्तरा दश तुलाः कारयेत् लोहपलाद् ऊर्ध्वमेकपलोत्तराः, यन्त्रमुभयतःशिक्यं वा 02.19.11 पञ्चत्रिंशत्पललोहां द्विसप्तत्यङ्गुलायामां समवृत्तां कारयेत् 02.19.12 तस्याः पञ्चपलिकं मण्डलं बद्ध्वा समकरणं कारयेत् 02.19.13 ततः कर्षोत्तरं पलं पलोत्तरं दशपलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत् 02.19.14 तताशताद् दशोत्तरं कारयेत् 02.19.15 अक्षेषु नान्दीपिनद्धं कारयेत् 02.19.16 द्विगुणलोहां तुलामतः षण्णवत्यङ्गुलायामां परिमाणीं कारयेत् 02.19.17 तस्याः शतपदाद् ऊर्ध्वं विंशतिः पञ्चाशत् शतमिति पदानि कारयेत् 02.19.18 विंशतितौलिको भारः 02.19.19 दशधारणिकं पलम् 02.19.20 तत्पलशतमायमानी 02.19.21 पञ्चपलावरा व्यावहारिकी भाजन्यन्तःपुरभाजनी च 02.19.22 तासामर्धधरणावरं पलं, द्विपलावरमुत्तरलोहं, षड्ऽङ्गुलावराश्चायामाः 02.19.23 पूर्वयोः पञ्चपलिकः प्रयामो मांसलोहलवणमणिवर्जम् 02.19.24 काष्ठतुला अष्टहस्ता पदवती प्रतिमानवती मयूरपदाधिष्ठिता 02.19.25 काष्ठपञ्चविंशतिपलं तण्डुलप्रस्थसाधनम् 02.19.26 एष प्रदेशो बह्व्ऽल्पयोः 02.19.27 इति तुलाप्रतिमानं व्याख्यातम् 02.19.28 अथ धान्यमाषद्विपलशतं द्रोणमायमानं, सप्ताशीतिपलशतमर्धपलं च व्यावहारिकं, पञ्चसप्ततिपलशतं भाजनीयं, द्विषष्टिपलशतमर्धपलं चान्तःपुरभाजनीयम् 02.19.29 तेषामाढकप्रस्थकुडुबाश्चतुर्भागावराः 02.19.30 षोडशद्रोणा खारी 02.19.31 विंशतिद्रोणिकः कुम्भः 02.19.32 कुम्भैर्दशभिर्वहः 02.19.33 शुष्कसारदारुमयं समं चतुर्भागशिखं मानं कारयेत्, अन्तःशिखं वा 02.19.34 रसस्य तु सुरायाः पुष्पफलयोः तुषाङ्गाराणां सुधायाश्च शिखामानं द्विगुणोत्तरा वृद्धिः 02.19.35 स-पादपणो द्रोणमूल्यमाढकस्य पादोनः, षण्माषकाः प्रस्थस्य, माषकः कुडुबस्य 02.19.36 द्विगुणं रसादीनां मानमूल्यम् 02.19.37 विंशतिपणाः प्रतिमानस्य 02.19.38 तुलामूल्यं त्रिभागः 02.19.39 चतुर्मासिकं प्रातिवेधनिकं कारयेत् 02.19.40 अप्रतिविद्धस्यात्ययः स-पादः सप्तविंशतिपणः 02.19.41 प्रातिवेधनिकं काकणीकमहरहः पौतवाध्यक्षाय दद्युः 02.19.42 द्वात्रिंशद्भागः तप्तव्याजी सर्पिषः, चतुःषष्टिभागः तैलस्य 02.19.43 पञ्चाशद् भागो मानस्रावो द्रवाणाम् 02.19.44 कुडुबार्धचतुर्ऽष्टभागानि मानानि कारयेत् 02.19.45 कुडुबाश्चतुर्ऽशीतिर्वारकः सर्पिषो मतः 02.19.46 चतुःषष्टिः तु तैलस्य पादश्च घटिकानयोः 02.19.47 Chapt . Measures of space and time मानाध्यक्ष्यो देशकालमानं विद्यात् 02.20.01 अष्टौ परमाणवो रथचक्रविप्रुट् 02.20.02 ता अष्टौ लिक्षा 02.20.03 ता अष्तौ यूका 02.20.04 ता अष्टौ यवमध्यः 02.20.05 अष्टौ यवमध्या अङ्गुलम् 02.20.06 मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्यप्रकर्षो वाङ्गुलम् 02.20.07 चतुर्ऽङ्गुलो धनुर्ग्रहः 02.20.08 अष्टाङ्गुला धनुर्मुष्टिः 02.20.09 द्वादशाङ्गुला वितस्तिः, छायापौरुषं च 02.20.10 चतुर्दशाङ्गुलं शमः शलः परीरयः पदं च 02.20.11 द्विवितस्तिररत्निः प्राजापत्यो हस्तः 02.20.12 स-धनुर्ग्रहः पौतवविवीतमानम् 02.20.13 स-धनुर्मुष्टिः कुष्कुः कंसो वा 02.20.14 द्विचत्वारिंशद्ऽङ्गुलः तक्ष्णः क्राकचनिककिष्कुः स्कन्धावारदुर्गराजपरिग्रहमानम् 02.20.15 चतुष्पञ्चाशद्ऽङ्गुलः कूप्यवनहस्तः 02.20.16 चतुर्ऽशीत्यङ्गुलो व्यामो रज्जुमानं खातपौरुषं च 02.20.17 चतुर्ऽरत्निर्दण्डो धनुर्नालिका पौरुषं च गार्हपत्यम् 02.20.18 अष्टशताङ्गुलं धनुः पथिप्राकारमानं पौरुषं चाग्निचित्यानाम् 02.20.19 षट्कंसो दण्डो ब्रह्मदेयातिथ्यमानम् 02.20.20 दशदण्डो रज्जुः 02.20.21 द्विरज्जुकः परिदेशः 02.20.22 त्रिरज्जुकं निवर्तनमेकतः 02.20.23 द्विदण्डाधिको बाहुः 02.20.24 द्विधनुःसहस्रं गोरुतम् 02.20.25 चतुर्गोरुतं योजनम् 02.20.26 इति देशमानम् 02.20.27 कालमानमतोर्ध्वम् 02.20.28 तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्वापरभागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगमिति कालाः 02.20.29 द्वौ तुटौ लवः 02.20.30 द्वौ लवौ निमेषः 02.20.31 पञ्चनिमेषाः काष्ठाः 02.20.32 त्रिंशत्काष्ठाः कलाः 02.20.33 चत्वारिंशत्कलाः नालिका 02.20.34 सुवर्णमाषकाश्चत्वारश्चतुर्ऽङ्गुलायामाः कुम्भच्छिद्रमाढकमम्भसो वा नालिका 02.20.35 द्विनालिको मुहूर्तः 02.20.36 पञ्चदशमुहूर्तो दिवसो रात्रिश्च चैत्रे चाश्वयुजे च मासि भवतः 02.20.37 ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्मासं वर्धते ह्रसते च इति 02.20.38 छायायामष्टपौरुष्यामष्टादशभागश्छेदः, षट्पौरुष्यां चतुर्दशभागः, त्रिपौरुष्यामष्टभागः, द्विपौरुष्यां षड्भागः, पौरुष्यां चतुर्भागः, अष्टाङ्गुलायां त्रयो दशभागाः, चतुर्ऽङ्गुलायां त्रयोऽष्टभागाः, अच्छायो मध्याह्न इति 02.20.39 परावृत्ते दिवसे शेषमेवं विद्यात् 02.20.40 आषाढे मासि नष्टच्छायो मध्याह्नो भवति 02.20.41 अतः परं श्रावणादीनां षण्मासानां द्व्यङ्गुलोत्तरा माघादीनां द्व्यङ्गुलावरा छाया इति 02.20.42 पञ्चदशाहोरात्राः पक्षः 02.20.43 सोमाप्यायनः शुक्लः 02.20.44 सोमावच्छेदनो बहुलः 02.20.45 द्विपक्षो मासः 02.20.46 त्रिंशद्ऽहोरात्रः कर्ममासः 02.20.47 स-अर्धः सौरः 02.20.48 अर्धन्यूनश्चान्द्रमासः 02.20.49 सप्तविंशतिर्नाक्षत्रमासः 02.20.50 द्वात्रिंशद् बलमासः 02.20.51 पञ्चत्रिंशद् अश्ववाहायाः 02.20.52 चत्वारिंशद्धस्तिवाहायाः 02.20.53 द्वौ मासावृतुः 02.20.54 श्रावणः प्रौष्ठपदश्च वर्षाः 02.20.55 आश्वयुजः कार्त्तिकश्च शरत् 02.20.56 मार्गशीर्षः पौषश्च हेमन्तः 02.20.57 माघः फाल्गुनश्च शिशिरः 02.20.58 चैत्रो वैशाखश्च वसन्तः 02.20.59 ज्येष्ठामूलीयाषाढश्च ग्रीष्मः 02.20.60 शिशिराद्युत्तरायणम् 02.20.61 वर्षादि दक्षिणायनम् 02.20.62 द्व्ययनः संवत्सरः 02.20.63 पञ्चसंवत्सरो युगम् । इति 02.20.64 दिवसस्य हरत्यर्कः षष्टिभागं ऋतौ ततः । करोत्येकमहश्छेदं तथैवैकं च चन्द्रमाः 02.20.65 एवमर्धतृतीयानामब्दानामधिमासकम् । ग्रीष्मे जनयतः पूर्वं पञ्चाब्दान्ते च पश्चिमम् (इति) 02.20.66 Chapt . Collector of chostums and tolls शुल्काध्यक्षः शुल्कशालां ध्वजं च प्रान्मुखमुदन्मुखं वा महाद्वाराभ्याशे निवेशयेत् 02.21.01 शुल्कादायिनश्चत्वारः पञ्च वा सार्थोपयातान् वणिजो लिखेयुः - के कुतस्त्याः कियत्पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति 02.21.02 अमुद्राणामत्ययो देयद्विगुणः 02.21.03 कूटमुद्राणां शुल्काष्टगुणो दण्डः 02.21.04 भिन्नमुद्राणामत्ययो घटिकास्थाने स्थानम् 02.21.05 राजमुद्रापरिवर्तने नामकृते वा स-पादपणिकं वहनं दापयेत् 02.21.06 ध्वजमूलोपस्थितस्य प्रमाणमर्घं च वैदेहिकाः पण्यस्य ब्रूयुः एतत्प्रमाणेनार्घेण पण्यमिदं कः क्रेता इति 02.21.07 त्रिरुद्धोषितमर्थिभ्यो दद्यात् 02.21.08 क्रेतृसङ्घर्षे मूल्यवृद्धिः स-शुल्का कोशं गच्छेत् 02.21.09 शुल्कभयात् पण्यप्रमाण मूल्यं वा हीनं ब्रुवतः तद् अतिरिक्तं राजा हरेत् 02.21.10 शुल्कमष्टगुणं वा दद्यात् 02.21.11 तद् एव निविष्टपण्यस्य भाण्डस्य हीनप्रतिवर्णकेनार्घापकर्षणे सारभाण्डस्य फल्गुभाण्डेन प्रतिच्छादने च कुर्यात् 02.21.12 प्रतिक्रेतृभयाद् वा पण्यमूल्याद् उपरि मूल्यं वर्धयतो मूल्यवृद्धिं राजा हरेत्, द्विगुणं वा शुल्कं कुर्यात् 02.21.13 तद् एवाष्टगुणमध्यक्षस्यच् । छादयतः 02.21.14 तस्माद् विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः, तर्कः फल्गुभाण्डानामानुग्राहिकाणां च 02.21.15 ध्वजमूलमतिक्रान्तानां चाकृतशुल्कानां शुल्काद् अष्टगुणो दण्डः 02.21.16 पथिकोत्पथिकाः तद् विद्युः 02.21.17 वैवाहिकमन्वायनमौपायिकं यज्ञकृत्यप्रसवनैमित्तिकं देवेज्याचौलोपनयनगोदानव्रतदीक्षाऽऽदिषु क्रियाविशेषेषु भाण्डमुच्छुल्कं गच्छेत् 02.21.18 अन्यथावादिनः स्तेयदण्डः 02.21.19 कृतशुल्केनाकृतशुल्कं निर्वाहयतो द्वितीयमेकमुद्रया भित्त्वा पण्यपुटमपहरतो वैदेहकस्य तच्च तावच्च दण्डः 02.21.20 शुल्कस्थानाद्गोमयपलालं प्रमाणं कृत्वापहरतोत्तमः साहसदण्डः 02.21.21 शस्त्रवर्मकवचलोहरथरत्नधान्यपशूनामन्यतममनिर्वाह्यं निर्वाहयतो यथावघुषितो दण्डः पण्यनाशश्च 02.21.22 तेषामन्यतमस्यानयने बहिरेवोच्छुल्को विक्रयः 02.21.23 अन्तपालः स-पादपणिकां वर्तनीं गृह्णीयात् पण्यवहनस्य, पणिकामेकखुरस्य, पशूनामर्धपणिकां क्षुद्रपशूनां पादिकां, अंसभारस्य माषिकाम् 02.21.24 नष्टापहृतं च प्रतिविदध्यात् 02.21.25 वैदेश्यं सार्थं कृतसारफल्गुभाण्डविचयनमभिज्ञानं मुद्रां च दत्त्वा प्रेषयेद् अध्यक्षस्य 02.21.26 वैदेहकव्यञ्जनो वा सार्थप्रमाणं राज्ञः प्रेषयेत् 02.21.27 तेन प्रदेशेन राजा शुल्काध्यक्षस्य सार्थप्रमाणमुपदिशेत् सर्वज्ञख्यापनार्थम् 02.21.28 ततः सार्थमध्यक्षोऽभिगम्य ब्रूयात् इदममुष्यामुष्य च सारभाण्डं फल्गुभाण्डं च, न निहूहितव्यं, एष राज्ञः प्रभावः इति 02.21.29 निहूहतः फल्गुभाण्डं शुल्काष्टगुणो दण्डः, सारभाण्डं सर्वापहारः 02.21.30 राष्ट्रपीडाकरं भाण्डमुच्छिन्द्याद् अफलं च यत् । महोपकारमुच्छुल्कं कुर्याद् बीजं च दुर्लभम् (इति) 02.21.31 Chapt . Tariff of duties and tolls बाह्यमाभ्यन्तरं चातिथ्यम् 02.22.01 निष्क्राम्यं प्रवेश्यं च शुल्कम् 02.22.02 प्रवेश्यानां मूल्यपञ्चभागः 02.22.03 पुष्पफलशाकमूलकन्दवाल्लिक्यबीजशुष्कमत्स्यमांसानां षड्भागं गृह्णीयात् 02.22.04 शङ्खवज्रमणिमुक्ताप्रवालहाराणां तज्जातपुरुषैः कारयेत् कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः 02.22.05 क्षौमदुकूलक्रिमितानकङ्कटहरितालमनःशिलाञ्जनहिङ्गुलुकलोहवर्णधातूनां चन्दनागुरुकटुककिण्वावराणां चर्मदन्तास्तरणप्रावरणक्रिमिजातानामाजैडकस्य च दशभागः पञ्चदशभागो वा 02.22.06 वस्त्रचतुष्पदद्विपदसूत्रकार्पासगन्धभैषज्यकाष्ठवेणुवल्कलचर्ममृद्भाण्डानां धान्यस्नेहक्षारलवणमद्यपक्वान्नादीनां च विंशतिभागः पञ्चविंशतिभागो वा 02.22.07 द्वारादेयं शुल्कं पञ्चभागः आनुग्राहिकं वा यथादेशोपकारं स्थापय्तेत् 02.22.08 जातिभूमिषु च पण्यानां विक्रयः 02.22.09 खनिभ्यो धातुपण्यादाने षट्छतमत्ययः 02.22.10 पुष्पफलवाटेभ्यः पुष्पफलादाने चतुष्पञ्चाशत्पणो दण्डः 02.22.11 षण्डेभ्यः शाकमूलकन्दादाने पादोनं द्विपञ्चाशत्पणो दण्डः 02.22.12 क्षेत्रेभ्यः सर्वसस्यादाने त्रिपञ्चाशत्पणः 02.22.13 पणोऽध्यर्धपणश्च सीतात्ययः 02.22.14 अतो नवपुराणां देशजातिचरित्रतः । पण्यानां स्थापयेच्शुक्लमत्ययं चापकारतः (इति) 02.22.15 Chapt . Superintendent of yarns (and textiles) सूत्राध्यक्षः सूत्रवर्मवस्त्ररज्जुव्यवहारं तज्जातपुरुषैः कारयेत् 02.23.01 ऊर्णावल्ककार्पासतूलशणक्षौमाणि च विधवान्यङ्गाकन्याप्रव्रजितादण्डप्रतिकारिणीभी रूपाजीवामातृकाभिर्वृद्धराजदासीभिर्व्युपरतोपस्थानदेवदासीभिश्च कर्तयेत् 02.23.02 श्लक्ष्णस्थूलमध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत्, बह्व्ऽल्पतां च 02.23.03 सूत्रप्रमाण ज्ञात्वा तैलामलकोद्वर्तनैरेता अनुगृह्णीयात् 02.23.04 तिथिषु प्रतिमानदानैश्च कर्म कारयितव्याः 02.23.05 सूत्रह्रासे वेतनह्रासो द्रव्यसारात् 02.23.06 कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारुभिश्च कर्म कारयेत्, प्रतिसंसर्गं च गच्छेत् 02.23.07 क्षौमदुकूलक्रिमितानराङ्कवकार्पाससूत्रवानकर्मान्तांश्च प्रयुञ्जानो गन्धमाल्यदानैरन्यैश्चोपग्राहिकैराराधयेत् 02.23.08 वस्त्रास्तरणप्रावरणविकल्पान् उत्थापयेत् 02.23.09 कङ्कटकर्मान्तांश्च तज्जातकारुशिल्पिभिः कारयेत् 02.23.10 याश्चानिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वाऽऽत्मानं बिभृयुः ताः स्वदासीभिरनुसार्य स-उपग्रहं कर्म कारयितव्याः 02.23.11 स्वयमागच्छन्तीनां वा सूत्रशालां प्रत्युषसि भाण्डवेतनविनिमयं कारयेत् 02.23.12 सूत्रपरीक्षार्थमात्रः प्रदीपः 02.23.13 स्त्रिया मुखसन्दर्शनेऽन्यकार्यसम्भाषायां वा पूर्वः साहसदण्डः, वेतनकालातिपातने मध्यमः, अकृतकर्मवेतनप्रदाने च 02.23.14 गृहीत्वा वेतनं कर्माकुर्वत्या अङ्गुष्ठसन्दंशं दापयेत्, भक्षितापहृतावस्कन्दितानां च 02.23.15 वेतनेषु च कर्मकराणामपराधतो दण्डः 02.23.16 रज्जुवर्तकैर्वर्मकारैश्च स्वयं संसृज्येत 02.23.17 भाण्डानि च वरत्रादीनि वर्तयेत् 02.23.18 सूत्रवल्कमयी रज्जुर्वरत्रा वैत्रवैणवीः । साम्नाह्या बन्धनीयाश्च यानयुग्यस्य करयेत् (इति) 02.23.19 Chapt . Director of agriculture सीताध्यक्षः कृषितन्त्रशुल्बवृक्षायुर्वेदज्ञः तज्ज्ञसखो वा सर्वधान्यपुष्पफलशाककन्दमूलवाल्लिक्यक्षौमकार्पासबीजानि यथाकालं गृह्णीयात् 02.24.01 बहुहलपरिकृष्टायां स्वभूमौ दासकर्मकरदण्डप्रतिकर्तृभिर्वापयेत् 02.24.02 कर्षणयन्त्रोपकरणबलीवर्दैश्चैषामसङ्गं कारयेत्, कारुभिश्च कर्मारकुट्टाकमेदकरज्जुवर्तकसर्पग्राहादिभिश्च 02.24.03 तेषां कर्मफलविनिपाते तत्फलहानं दण्डः 02.24.04 षोडशद्रोणं जाङ्गलानां वर्षप्रमाणं, अध्यर्धमानूपानां देशवापानां, अर्धत्रयोदशाश्मकानां, त्रयोविंशतिरवन्तीनां, अमितमपरान्तानां हैमन्यानां च, कुल्याऽऽवापानां च कालतः 02.24.05 वर्षत्रिभागः पूर्वपश्चिममासयोः, द्वौ त्रिभागौ मध्यमयोः - सुषमारूपम् 02.24.06 तस्योपलधिर्बृहस्पतेः स्थानगमनगर्भाधानेभ्यः शुक्रोदयास्तमयचारेभ्यः सूर्यस्य प्रकृतिवैकृताच्च 02.24.07 सूर्याद् बीजसिद्धिः, बृहस्पतेः सस्यानां स्तम्बकारिता, शुक्राद् वृष्टिः । इति 02.24.08 त्रयः सप्ताहिका मेघा अशीतिः कणशीकराः । षष्टिरातपमेघानामेषा वृष्टिः समा हिता 02.24.09 वातमातपयोगं च विभजन् यत्र वर्षति । त्रीन् करीषांश्च जनयंः तत्र सस्यागमो ध्रुवः 02.24.10 ततः प्रभूतोदकमल्पोदकं वा सस्यं वापयेत् 02.24.11 शालिव्रीहिकोद्रवतिलप्रियङ्गु।उदारकवरकाः पूर्ववापाः 02.24.12 मुद्गमाषशैम्ब्या मध्यवापाः 02.24.13 कुसुम्भमसूरकुलत्थयवगोधूमकलायातसीसर्षपाः पश्चाद्वापाः 02.24.14 यथा।ऋतुवशेन वा बीजवापाः 02.24.15 वापातिरिक्तमर्धसीतिकाः कुर्युः, स्ववीर्योपजीविनो वा चतुर्थपञ्चभागिकाः 02.24.16 यथेष्टमनवसितभागं दद्युः, अन्यत्र कृच्छ्रेभ्यः U2.24.17 स्वसेतुभ्यो हस्तप्रावर्तिममुदकभागं पञ्चमं दद्युः, स्कन्धप्रावर्तिमं चतुर्थं, स्रोतोयन्त्रप्रावर्तिमं च तृतीयं, चतुर्थं नदीसरस्तटाककूपोद्धाटम् U2.24.18 कर्मोदकप्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् U2.24.19 शाल्य्।आदि ज्येष्ठं, षण्डो मध्यमः, इक्षुः प्रत्यवरः U2.24.20 इक्षवो हि बह्व्।आबाधा व्ययग्राहिणश्च 02.24.21 फेनाघातो वल्लीफलानां, परीवाहान्ताः पिप्पलीमृद्वीकेक्षूणां, कूपपर्यन्ताः शाकमूलानां, हरणीपर्यन्ता हरितकानां, पाल्यो लवानां गन्धभैषज्योशीरह्रीबेरपिण्डालुकादीनाम् 02.24.22 यथास्वं भूमिषु च स्थाल्याश्चानूप्याश्चोषधीः स्थापयेत् 02.24.23 तुषारपायनमुष्णशोषणं चासप्तरात्रादिति धान्यबीजानां, त्रिरात्रं वा पञ्चरात्रं वा कोशीधान्यानां, मधुघृतसूकरवसाभिः शकृद्युक्ताभिः काण्डबीजानां छेदलेपो, मधुघृतेन कन्दानां, अस्थिबीजानां शकृद्।आलेपः, शाखिनां गर्तदाहो गोऽस्थिशकृद्भिः काले दौह्र्दं च 02.24.24 प्ररूढांश्चाशुष्ककटुमत्स्यांश्च स्नुहिक्षीरेण पाययेत् 02.24.25 कार्पाससारं निर्मोकं सर्पस्य च समाहरेत् । न सर्पाः तत्र तिष्ठन्ति धूमो यत्रैष तिष्ठति 02.24.26 सर्वजीजानां तु प्रथमवापे सुवर्णोदकसम्प्लुतां पूर्वमुष्टिं वापयेद्, अमुं च मन्त्रं ब्रूयात् - प्रजापतये काश्यपाय देवाय च नमः सदा । सीता मे ऋध्यतां देवी बीजेषु च धनेषु च 02.24.27 षण्डवाटगोपालकदासकर्मकरेभ्यो यथापुरुषपरिवापं भक्तं कुर्यात्, स-पादपणिकं च मासं दद्यात् 02.24.28 कर्मानुरूपं कारुभ्यो भक्तवेतनम् 02.24.29 प्रशीर्णं च पुष्पफलं देवकार्यार्थं व्रीहियवमाग्रयणार्थं श्रोत्रियाः तपस्विनश्चाहरेयुः, राशिमूलमुञ्छवृत्तयः 02.24.30 यथाकालं च सस्यादि जातं जातं प्रवेशयेत् । न क्षेत्रे स्थापयेत् किञ्चित् पलालमपि पण्डितः 02.24.31 प्राकाराणां समुच्छ्रयान् वलभीर्वा तथाविधाः । न संहतानि कुर्वीत न तुच्छानि शिरांसि च 02.24.32 खलस्य प्रकरान् कुर्यान् मण्डलान्ते समाश्रितान् । अनग्निकाः स-उदकाश्च खले स्युः परिकर्मिणः (इति) 02.24.33 Chapt . Controller of spiritual liquors सुराध्यक्षः सुराकिण्वव्यवहारान् दुर्गे जनपदे स्कन्धावारे वा तज्जातसुराकिण्वव्यवहारिभिः कारयेद्, एकमुखमनेकमुखं वा विक्रयक्रयवशेन वा 02.25.01 षट्शतमत्ययमन्यत्र कर्तृक्रेतृविक्रेतॄणां स्थापयेत् 02.25.02 ग्रामाद् अनिर्णयणमसम्पातं च सुरायाः, प्रमादभयात् कर्मसु ञ्जिर्दिष्टानां, मर्यादातिक्रमभयाद् आर्याणां, उत्साहभयाच्च तीष्क्णानाम् 02.25.03 लक्षितमल्पं वा चतुर्भागमर्धकुडुबं कुडुबमर्धप्रस्थं प्रस्थं वा इति ज्ञातशौचा निर्हरेयुः 02.25.04 पानागारेषु वा पिबेयुरसञ्चारिणः 02.25.05 निक्षेपोपनिधिप्रयोगापहृतानामनिष्टोपगतानां च द्रव्याणां ज्ञानार्थमस्वामिकं कुप्यं हिरण्यं चोपलभ्य निष्केप्तारमन्यत्र व्यपदेशेन ग्राहयेद्, अतिव्ययकर्तारमनायतिव्ययं च 02.25.06 न चानर्घेण कालिकां वा सुरां दद्याद्, अन्यत्र दुष्टसुरायाः 02.25.07 तामन्यत्र विक्रापयेत् 02.25.08 दासकर्मकरेभ्यो वा वेतनं दद्यात् 02.25.09 वाहनप्रतिपानं सूकरपोषणं वा दद्यात् 02.25.10 पानागाराण्यनेककक्ष्याणि विभक्तशयनासनवन्ति पानोद्देशानि गन्धमाल्योदकवन्ति ऋतुसुखानि कारयेत् 02.25.11 तत्रस्थाः प्रकृत्यौत्पत्तिकौ व्ययौ गूढा विद्युः, आगन्तूंश्च 02.25.12 क्रेतॄणां मत्तसुप्तानामलङ्कारात्छादनहिरण्यानि च विद्युः 02.25.13 तन्नाशे वणिजः तच्च तावच्च दण्डं दद्युः 02.25.14 वणिजश्ः तु संवृतेषु कक्ष्याविभागेषु स्वदासीभिः पेशलरूपाभिरागन्तूनां वास्तव्यानां चार्यरूपाणां मत्तसुप्तानां भावं विद्युः 02.25.15 मेदकप्रसन्नासवारिष्टमैरेयमधूनाम् 02.25.16 उदकद्रोणं तण्डुलानामर्धाढकं त्रयः प्रस्थाः किण्वस्य इति मेदकयोगः 02.25.17 द्वादशाढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुकत्वक्फलयुक्तो वा जातिसम्भारः प्रसन्नायोगः 02.25.18 कपित्थतुला फाणितं पञ्चतौलिकं प्रस्थो मधुन इत्यासवयोगः 02.25.19 पाद्ऽधिको ज्येष्ठः पादहीनः कनिष्ठः U2.25.20 चिकित्सकप्रमाणाः प्रत्येकशो विकाराणामरिष्टाः U2.25.21 मेषश‍ृङ्गीत्वक्क्वाथाभिषुतो गुडप्रतीवापः पिप्पलीमरिचसम्भारः त्रिफलायुक्तो वा मैरेयः U2.25.22 गुडयुक्तानां वा सर्वेषां त्रिफलासम्भारः U2.25.23 मृद्वीकारसो मधु U2.25.24 तस्य स्वदेशो व्याख्यानं कापिशायनं हारहूरकमिति u2.25.25 माषकलनीद्रोणमामं सिद्धं वा त्रिभागाधिकतण्डुलं मोरटादीनां कार्षिकभागयुक्तं किण्वबन्धः U2.25.26 पाठालोघ्रतेजोवत्य्।एलावालुकमधुकमधुरसाप्रियङ्गुदारुहरिद्रामरिचपिप्पलीनां च पञ्चकार्षिकः सम्भारयोगो मेदकस्य प्रसन्नायाश्च 02.25.27 मधुकनिर्यूहयुक्ता कटशर्करा वर्णप्रसादनी च 02.25.28 चोचचित्रकविलङ्गगजपिप्पलीनां च कार्षिकः क्रमुकमधुकमुस्तालोध्राणां द्विकार्षिकश्चासवसम्भारः 02.25.29 दशभागश्चैषां बीजबन्धः 02.25.30 प्रसन्नायोगः श्वेतसुरायाः 02.25.31 सहकारसुरा रसोत्तरा बीजोत्तरा वा महासुरा सम्भारिकी वा 02.25.32 तासां मोरटापलाशपत्तूरमेषश‍ृङ्गीकरञ्जक्षीरवृक्षकषायभावितं दग्धकटशर्कराचूर्णं लोघ्रचित्रकविलङ्गपाठामुस्ताकलिङ्गयवदारुहरिद्रेन्दीवरशतपुष्पापामार्गसप्तपर्णनिम्बास्फोतकल्कार्धयुक्तमन्तर्नखो मुष्टिः कुम्भीं राजपेयां प्रसादयति 02.25.33 फाणितः पञ्चपलिकश्चात्र रसवृद्धिर्देयः 02.25.34 कुटुम्बिनः कृत्येषु श्वेतसुरां, औषधार्थं वारिष्टं, अन्यद् वा कर्तुं लभेरन् 02.25.35 उत्सवसमाजयात्रासु चतुर्ऽहः सौरिको देयः 02.25.36 तेष्वननुज्ञातानां प्रहवनान्तं दैवसिकमत्ययं गृह्णीयात् 02.25.37 सुराकिण्वविचयं स्त्रियो बालाश्च कुर्युः 02.25.38 अराजपण्याः पञ्चकं शतं शुल्कं दद्युः, सुरकामेदकारिष्टमधुफलाम्लाम्लशीधूनां च 02.25.39 अह्नश्च विक्रयं ज्ञात्वा व्याजीं मानहिरण्ययोः । तथा वैधरणं कुर्याद् उचितं चानुवर्तयेत् (इति) 02.25.40 Chapt . Supervisor of (animal-)slaughter सूनाध्यक्षः प्रदिष्टाभयानामभयवनवासिनां च मृगपशुपक्षिमत्स्यानां बन्धवधहिंसायामुत्तमं दण्डं कारयेत्, कुटुम्बिनामभयवनपरिग्रहेषु मध्यमम् 02.26.01 अप्रवृत्तवधानां मत्स्यपक्षिणां बन्धवधहिंसायां पादोनसप्तविंशतिपणमत्ययं कुर्यात्, मृगपशूनां द्विगुणम् 02.26.02 प्रवृत्तहिंसानामपरिगृहीतानां षड्भागं गृह्णीयात्, मत्स्यपक्षिणां दशभागं वाधिकं, मृगपशूनां शुल्कं वाधिकम् 02.26.03 पक्षिमृगाणां जीवत् षड्भागमभयवनेषु प्रमुञ्चेत् 02.26.04 सामुद्रहस्त्यश्वपुरुषवृषगर्दभाकृतयो मत्स्याः सारसा नादेयाः तटाककुल्योद्भवा वा क्रौञ्चोत्क्रोशकदात्यूहहंसचक्रवाकजीवञ्जीवकभृङ्गराजचकोरमत्तकोकिलमयूरशुकमदनशारिका विहारपक्षिणो मङ्गल्याश्चान्येऽपि प्राणिनः पक्षिमृगा हिंसाबाधेभ्यो रक्ष्याः 02.26.05 रक्षातिक्रमे पूर्वः साहसदण्डः 02.26.06 मृगपशूनामनस्थिमांसं सद्योहतं विक्रीणीरन् 02.26.07 अस्थिमतः प्रतिपातं दद्युः 02.26.08 तुलाहीने हीनाष्टगुणम् 02.26.09 वत्सो वृषो धेनुश्चैषामवध्याः 02.26.10 घ्नतः पञ्चाशत्को दण्डः, क्लिष्टघातं घातयतश्च 02.26.11 परिशूनमशिरःपादास्थि विगन्धं स्वयंमृतं च न विक्रीणीरन् 02.26.12 अन्यथा द्वादशपणो दण्डः 02.26.13 दुष्टाः पशुमृगव्याला मत्स्यश्चाभयचारिणः । अन्यत्र गुप्तिस्थानेभ्यो वधबन्धमवाप्नुयुः (इति) 02.26.14 Chapt . Superintendent of courtesans गणिकाध्यक्षो गणिकान्वयामगणिकान्वयां वा रूपयौवनशिल्पसम्पन्नां सहस्रेण गणिकां कारयेत्, कुटुम्बार्धेन प्रतिगणिकाम् 02.27.01 निष्पतिताप्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत, माता वा प्रतिगणिकां स्थापयेत् 02.27.02 तासामभावे राजा हरेत् 02.27.03 सौभाग्यालङ्कारवृद्ध्या सहस्रेण वारं कनिष्ठं मध्यममुत्तमं वाऽऽरोपयेत् छत्रभृङ्गारव्यजनशिबिकापीठिकारथेषु च विशेषार्थम् 02.27.04 सौभाग्यभङ्गे मातृकां कुर्यात् 02.27.05 निष्क्रयश्चतुर्विंशतिसाहस्रो गणिकायाः, द्वादशसाहस्रो गणिकापुत्रस्य 02.27.06 अष्टवर्षात् प्रभृति राज्ञः कुशीलवकर्म कुर्यात् 02.27.07 गणिकादासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कुर्यात् 02.27.08 अविशन्ती सपादपणमवरुद्धा मासवेतनं दद्यात् 02.27.09 भोगं दायमायं व्ययमायतिं च गणिकाया निबन्धयेत्, अतिव्ययकर्म च वारयेत् 02.27.10 मातृहस्ताद् अन्यत्राभरणन्यासे सपादचतुष्पणो दण्डः 02.27.11 स्वापतेयं विक्रयमाधानं वा नयन्त्याः सपादपञ्चाशत्पणः पणोऽर्धपणच्छेदने 02.27.12 अकामायाः कुमार्या वा साहसे उत्तमो दण्डः, सकामायाः पूर्वः साहसदण्डः 02.27.13 गणिकामकामां रुन्धतो निष्पातयतो वा व्रणविदारणेन वा रूपं।उपघ्नतः सहस्रं दण्डः 02.27.14 स्थान्विशेषेण वा दण्डवृद्धिः आनिष्क्रयद्विगुणात् 02.27.15 प्राप्ताधिकारं गणिकां घतयतो निष्क्रयत्रिगुणो दण्डः 02.27.16 मातृकादुहितृकारूपदासीनां घाते उत्तमः साहसदण्डः 02.27.17 सर्वत्र प्रथमेऽपराधे प्रथमः, द्वितीये द्विगुणः, तृतीये त्रिगुणः, चतुर्थे यथाकामी स्यात् 02.27.18 राजाज्ञया पुरुषमनभिगच्छन्ती गणिका शिफासहस्रं लभीत, पञ्चसहस्रं वा दण्डः 02.27.19 भोगं गृहीत्वा द्विषत्या भोगद्विगुणो दण्डः 02.27.20 वसतिभोगापहारे भोगमष्टगुणं दद्याद् अन्यत्र व्याधिपुरुषदोषेभ्यः 02.27.21 पुरुषं घ्नत्याश्चिताप्रतापेऽप्सु प्रवेशनं वा 02.27.22 गणिकाभरणमर्थं भोगं वापहरतोऽष्टगुणो दण्डः 02.27.23 गणिका भोगमायतिं पुरुषं च निवेदयेत् 02.27.24 एतेन नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिकचारणानां स्त्रीव्यवहारिणां स्त्रियो गूढाजीवाश्च व्याख्याताः 02.27.25 तेषां तूर्यमागन्तुकं पञ्चपणं प्रेक्षावेतनं दद्यात् 02.27.26 रूपाजीवा भोगद्वयगुणं मासं दद्युः 02.27.27 गीतवाद्यपाठ्यनृत्यनाट्याक्षरचित्रवीणावेणुमृदङ्गपरचित्तज्ञानगन्धमाल्यसंयूहनसंवादनसंवाहनवैशिककलाज्ञानानि गणिका दासी रङ्गोपजीविनीश्च ग्राहयतो राजमण्डलाद् आजीवं कुर्यात् 02.27.28 गणिकापुत्रान् रङ्गोपजीविनां च मुख्यान्निष्पादयेयुः, सर्वतालावचराणां च 02.27.29 संज्ञाभाषान्तरज्ञाश्च स्त्रियः तेषामनात्मसु । चारघातप्रमादार्थं प्रयोज्या बन्धुवाहनाः (इति) 02.27.30 Chapt . Controller of shipping नाव्ऽध्यक्षः समुद्रसंयाननदीमुखतरप्रचारान् देवसरोविसरोनदीतरांश्च स्थानीयादिष्ववेक्षेत 02.28.01 तद्वेलाकूलग्रामाः क्लृप्तं दद्युः 02.28.02 मत्स्यबन्धका नौकाभाटकं षड्भागं दद्युः 02.28.03 पत्तनानुवृत्तं शुल्कभागं वणिजो दद्युः, यात्रावेतनं राजनौभिः सम्पतन्तः 02.28.04 शङ्खमुक्ताग्राहिणो नौभाटकं दद्युः, स्वनौभिर्वा तरेयुः 02.28.05 अध्यक्षश्चैषां खन्यध्यक्षेण व्याख्यातः 02.28.06 पत्तनाध्यक्षनिबद्धं पण्यपत्तनचारित्रं नाव्ऽध्यक्षः पालयेत् 02.28.07 मूढवाताहता नावः पितेवानुगृह्णीयात् 02.28.08 उदकप्राप्तं पण्यमशुल्कमर्धशुल्कं वा कुर्यात् 02.28.09 यथानिर्दिष्टाश्चैताः पण्यपत्तनयात्राकालेषु प्रेषयेत् 02.28.10 संयातीर्नावः क्षेत्रानुगताः शुल्कं याचेत् 02.28.11 हिंस्रिका निर्घातयेत्, अमित्रविषयातिगाः पण्यपत्तनचारित्रोपघातिकाश्च 02.28.12 शासकनिर्यामकदार्त्राश्मिग्राहकोत्सेचकाधिष्ठिताश्च महानावो हेमन्तग्रीष्मतार्यासु महानदीषु प्रयोजयेत्, क्षुद्रिकाः क्षुद्रिकासु वर्षास्राविणीषु 02.28.13 बाधतीर्थाश्चैताः कार्या राजद्विष्टकारिणां तरणभयात् 02.28.14 अकालेऽतीर्थे च तरतः पूर्वः साहसदण्डः 02.28.15 काले तीर्थे चानिषृष्टतारिणः पादोनसप्तविंशतिपणः तरात्ययः 02.28.16 कैवर्तकाष्टतृणभारपुष्पफलवाटषण्डगोपालकानामनत्ययः, सम्भाव्यदूतानुपातिनां च सेनाभाण्डप्रयोगाणां च स्वतरणैः तरतां, बीजभक्तद्रव्योपस्करांश्चानूपग्रामाणां तारयताम् 02.28.17 ब्राह्मणप्रव्रजितबालवृद्धव्याधितशासनहरगर्भिण्यो नाव्ऽध्यक्षमुद्राभिः तरेयुः 02.28.18 कृतप्रवेशाः पारविषयिकाः सार्थप्रमाणा वा प्रविशेयुः 02.28.19 परस्य भार्यां कन्यां वित्तं वापहरन्तं शवित्तं वापहरन्तं शङ्कितमाविग्नमुद्भाण्डीकृतं महाभाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्योगृहीतलिङ्गिनमलिङ्गिनं वा प्रव्रजितमलक्ष्यव्याधितं भयविकारिणं गूढसारभाण्डशासनशस्त्राग्नियोगं विषहस्तं दीर्घपथिकममुद्रं चोपग्राहयेत् 02.28.20 क्षुद्रपशुर्मनुष्यश्च सभारो माषकं दद्यात्, शिरोभारः कायभारो गवाश्वं च द्वौ, उष्ट्रमहिषं चतुरः, पञ्च लभुयानं, षड् गोलिङ्गं, सप्त शकटं, पन्यभारः पादम् 02.28.21 तेन भाण्डभारो व्याख्यातः 02.28.22 द्विगुणो महानदीषु तरः 02.28.23 क्लृप्तमानूपग्रामा भक्तवेतनं दद्युः 02.28.24 प्रत्यन्तेषु तराः शुल्कमातिवाहिकं वर्तनीं च गृह्णीयुः, निर्गच्छतश्चामुद्रद्रव्यस्य भाण्डं हरेयुः, अतिभारेणावेलायामतिर्थे तरतश्च 02.28.25 पुरुषोपकरणहीनायामसंस्कृतायां वा नावि विपन्नायां नाव्ऽध्ह्यक्षो नष्टं विनष्टं वाभ्यावहेत् 02.28.26 सप्ताहवृत्तामाषाढीं कार्त्तिकीं चान्तरा तरः । कार्मिकः प्रत्ययं दद्यान्नित्यं चाह्निकमावहेत् (इति) 02.28.27 Chapt . Superintendent of cattle गोऽध्यक्षो वेतनोपग्राहिकं करप्रतिकरं भग्नोत्सृष्टकं भागानुप्रविष्टकं व्रजपर्यग्रं नष्टं विनष्टं क्षीरघृतसञ्जातं चोपलभेत 02.29.01 गोपालकपिण्डारकदोहकमन्थकलुब्धकाः शतं शतं धेनूनां हिरण्यभृताः पालयेयुः 02.29.02 क्षीरघृतभृता हि वत्सान् उपहन्युः । इति वेतनोपग्राहिकम् 02.29.03 जरद्गुधेनुगर्भिणीपष्ठौहीवत्सतरीणां समविभागं रूपशतमेकः पालयेत् 02.29.04 घृतस्याष्टौ वारकान् पणिकं पुच्छमङ्कचर्म च वार्षिकं दद्यात् । इति करप्रतिकरः 02.29.05 व्याधितान्यङ्गानन्यदोहीदुर्दोहापुत्रघ्नीनां च समविभागं रूपशतं पालयन्तः तज्जातिकं भागं दद्युः । इति भग्नोत्षृष्टकम् 02.29.06 परचक्राटवीभयाद् अनुप्रविष्टानां पशूनां पालनधर्मेण दशभगं दद्युः । इति भागानुप्रविष्टकम् 02.29.07 वत्सा वत्सतरा दम्या वहिनो वृषोक्षाणश्च पुङ्गवाः, युगवाहनशकटवहा वृषभाः सूनामहिषाः पृष्टस्कन्धवाहिनश्च महिषाः, वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च, मासद्विमासजाताः तासामुपजा वत्सा वत्सिकाश्च 02.29.08 मासद्विमासजातान् अङ्कयेत् 02.29.09 मासद्विमासपर्युषितमङ्कयेत् 02.29.10 अङ्कं चिह्नं वर्णं श‍ृङ्गान्तरं च लक्षणमेवमुपजा निबन्धयेत् । इति व्रजपर्यग्रम् 02.29.11 चोरहृतमन्ययूथप्रविष्टमवलीनं वा नष्टम् 02.29.12 पङ्कविषमव्याधिजरातोयाहारावसन्नं वृक्षतटकाष्ठशिलाभिहतमीशानव्यालसर्पग्राहदावाग्निविपन्नं विनष्टम् 02.29.13 प्रमादाद् अभ्यावहेयुः 02.29.14 एवं रूपाग्रं विद्यात् 02.29.15 स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः 02.29.16 परपशूनां राजाङ्केन परिवर्तयिता रूपस्य पूर्वं साहसदण्डं दद्यात् 02.29.17 स्वदेशीयानां चोरहृतं प्रत्यानीय पणितं रूपं हरेत् 02.29.18 परदेशीयानां मोक्षयितार्धं हरेत् 02.29.19 बालवृद्धव्याधितानां गोपालकाः प्रतिकुर्युः 02.29.20 लुब्धकश्वगणिभिरपास्तः तेनाव्यालपराबाधभयं ऋतुविभक्तमरण्यं चारयेयुः 02.29.21 सर्पव्यालत्रासनार्थं गोचरानुपातज्ञानार्थं च त्रस्नूनां घण्टातूर्यं च बध्नीयुः 02.29.22 समव्यूढतीर्थमकर्दमग्राहमुदकमवतारयेयुः पालयेयुश्च 02.29.23 स्तेनव्यालसर्पग्राहगृहीतं व्याधिजरावसन्नं चावेदयेयुः, अन्यथा रूपमूल्यं भजेरन् 02.29.24 कारणमृतस्याङ्कचर्म गोमहिषस्य, कर्णलक्षणमजाविकानां, पुच्छमङ्कचर्म चाश्वखरोष्ट्राणां, बालचर्मबस्तिपित्तस्नायुदन्तखुरश‍ृङ्गास्थीनि चाहरेयुः 02.29.25 मांसमार्द्रं शुष्कं वा विक्रीणीयुः 02.29.26 उदश्वित्श्ववराहेभ्यो दद्युः 02.29.27 कूर्चिकां सेनाभक्तार्थमाहरेयुः 02.29.28 किलाटो घाणपिण्याकक्लेदार्थः 02.29.29 पशुविक्रेता पादिकं रूपं दद्यात् 02.29.30 वर्षाशरद्धेमन्तान् उभयतःकालं दुह्युः, शिशिरवसन्तग्रीष्मान् एककालम् 02.29.31 द्वितीयकालदोग्धुरङ्गुष्ठच्छेदो दण्डः 02.29.32 दोहनकालमतिक्रामतः तत्फलहानं दण्डः 02.29.33 एतेन नस्यदम्ययुगपिङ्गनवर्तनकाला व्याख्याताः 02.29.34 क्षीरद्रोणे गवां घृतप्रस्थः, पञ्चभागाधिको महिषीणां, द्विभागाधिकोऽजावीनाम् 02.29.35 मन्थो वा सर्वेषां प्रमाणम् 02.29.36 भूमितृणोदकविशेषाद्द् हि क्षीरघृतवृद्धिर्भवति 02.29.37 यूथवृषं वृषेणावपातयतः पूर्वः साहसदण्डः, घातयतोत्तमः 02.29.38 वर्णावरोधेन दशती रक्षा 02.29.39 उपनिवेशदिग्विभागो गोप्रचाराद् बलान्वयतो वा गवां रक्षासामर्थ्याच्च 02.29.40 अजावीनां षण्मासिकीमूर्णां ग्राहयेत् 02.29.41 तेनाश्वखरोष्ट्रवराहव्रजा व्याख्याताः 02.29.42 बलीवर्दानां नस्याश्वभद्रगतिवाहिनां यवसस्यार्धभारः तृणस्य द्विगुणं, तुला घाणपिण्याकस्य, दशाढकं कणकुण्डकस्य, पञ्चपलिकं मुखलवनां, तैलकुडुबो नस्यं प्रस्थः पानं, मांसतुला, दध्नश्चाढकं, यवद्रोणं माषाणां वा पुलाकः, क्षीरद्रोणमर्धाढकं वा सुरायाः स्नेहप्रस्थः क्षारदशपलं श‍ृङ्गिबेरपलं च प्रतिपानम् 02.29.43 पादोनमश्वतरगोखराणां, द्विगुणं महिषोष्ट्राणाम् 02.29.44 कर्मकरबलीवर्दानां पायनार्थानां च धेनूनां कर्मकालतः फलतश्च विधादानम् 02.29.45 सर्वेषां तृणोदकप्राकाम्यम् 02.29.46 इति गोमण्डलं व्याख्यातम् 02.29.47 पञ्च।ऋषभं खराश्वानामजावीनां दश।ऋषभम् । शत्यं गोमहिषोष्ट्राणां यूथं कुर्याच्चतुर्वृषम् (इति) 02.29.48 Chapt . Superintendent of horses अश्वाध्यक्षः पण्यागारिकं क्रयोपागतमाहवलब्धमाजातं साहाय्यागतकं पणस्थितं यावत्कालिकं वाश्वपर्यग्रं कुलवयोवर्णचिह्नवर्गागमैर्लेखयेत् 02.30.01 अप्रशस्तन्यङ्गव्याधितांश्चावेदयेत् 02.30.02 कोशकोष्ठागाराभ्यां च गृहीत्वा मासलाभमश्ववाहश्चिन्तयेत् 02.30.03 अश्वविभवेनायतामश्वायामद्विगुणविस्तारां चतुर्द्वारोपावर्तनमध्यां स-प्रग्रीवां प्रद्वारासनफलकयुक्तानां वानरमयूरपृषतनकुलचकोरशुकसारिकाकीर्णां शालां निवेशयेत् 02.30.04 अश्वायामचतुर्ऽश्रश्लक्ष्णफलकास्तारं स-खादनकोष्ठकं स-मूत्रपुरीषोत्सर्गमेकैकशः प्रान्मुखमुदन्मुखं वा स्थानं निवेशयेत् 02.30.05 शालावशेन वा दिग्विभागं कल्पयेत् 02.30.06 वडवावृषकिशोराणामेकान्तेषु 02.30.07 वडवायाः प्रजतायाः त्रिरात्रं घृतप्रस्थः पानम् 02.30.08 अतोर्ध्वं सक्तुप्रस्थः स्नेहभैषज्यप्रतिपानं दशरात्रम् 02.30.09 ततः पुलाको यवसमार्तवश्चाहारः 02.30.10 दशरात्राद् ऊर्ध्वं किशोरस्य घृतचतुर्भागः सक्तुकुडुबः क्षीरप्रस्थश्चाहाराषण्मासात् 02.30.11 ततः परं मासोत्तरमर्धवृद्धिर्यवप्रस्थात्रिवर्षात्, द्रोणाचतुर्वर्षात् 02.30.12 अतोर्ध्वं चतुर्वर्षः पञ्चवर्षो वा कर्मण्यः पूर्णप्रमाणः 02.30.13 द्वात्रिंशद्ऽङ्गुलं मुखमुत्तमाश्वस्य, पञ्चमुखान्यायामो, विंशत्यङ्गुला जङ्घा, चतुर्जङ्घोत्सेधः 02.30.14 त्र्यङ्गुलावरं मध्यमावरयोः 02.30.15 शताङ्गुलः परिणाहः 02.30.16 पञ्चभागावरो मध्यमावरयोः 02.30.17 उत्तमाश्वस्य द्विद्रोणं शालिव्रीहियवप्रियङ्गूणामर्धशुष्कमर्धसिद्धं वा मुद्गमाषाणां वा पुलाकः स्नेहप्रस्थश्च, पञ्चपलं लवणस्य, मांसं पञ्चाशत्पलिकं रसस्याढकं द्विगुणं वा दध्नः पिण्डक्लेदनार्थं, क्षारपञ्चपलिकः सुरायाः प्रस्थः पयसो वा द्विगुणः प्रतिपानम् 02.30.18 दीर्घपथभारक्लान्तानां च खादनार्थं स्नेहप्रस्थोऽनुवासनं कुडुबो नस्यकर्मणः, यवसस्यार्धभारः तृणस्य द्विगुणः षड्ऽरत्निपरिक्षेपः पुञ्जीलग्रहो वा 02.30.19 पादावरमेतन् मध्यमावरयोः 02.30.20 उत्तमसमो रथ्यो वृषश्च मध्यमः 02.30.21 मध्यमसमश्चावरः 02.30.22 पादहीनं वडवानां पारशमानां च 02.30.23 अतोऽर्धं किशोराणां च 02.30.24 इति विधायोगः 02.30.25 विधापाचकसूत्रग्राहकचिकित्सकाः प्रतिस्वादभाजः 02.30.26 युद्धव्याधिजराकर्मक्षीणाः पिण्डगोचरिकाः स्युः 02.30.27 असमरप्रयोग्याः पौरजानपदानामर्थेन वृषा वडवास्वायोज्याः 02.30.28 प्रयोग्यानामुत्तमाः काम्बोजसैन्धवारट्टवनायुजाः, मध्यमा बाह्लीकपापेयकसौवीरकतैतलाः, शेषाः प्रत्यवराः 02.30.29 तेषां तीष्क्णभद्रमन्दवशेन साम्नाह्यमौपवाह्यकं वा कर्म प्रयोजयेत् 02.30.30 चतुर्ऽश्रं कर्माश्वस्य साम्नाह्यम् 02.30.31 वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चोपवाह्याः 02.30.32 तत्रोपवेणुको वर्धमानको यमकालीढप्लुतः पृथुग्ऽस्त्रिकचाली च वल्गनः 02.30.33 सैव शिरःकर्णविशुद्धो नीचैर्गतः, षोडशमार्गो वा 02.30.34 प्रकीर्णकः प्रकीर्णोत्तरो निषण्णः पार्श्वानुवृत्तोर्मिमार्गः शरभक्रीडितः शरभप्लुतः त्रितालो बाह्यानुवृत्तः पञ्चपाणिः सिंहायतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्पाभिकीर्णश्च इति नीचैर्गतमार्गः 02.30.35 कपिप्लुतो भेकप्लुतेणप्लुतैकपादप्लुतः कोकिलसञ्चार्य्।उरस्यो बकचारी च लङ्घनः 02.30.36 काङ्को वारिकाङ्को मायूरोऽर्धमायूरो नाकुलोर्धनाकुलो वाराहोऽर्धवाराहश्च इति धोरणः 02.30.37 संज्ञाप्रतिकारो नारोष्ट्र इति 02.30.38 षण्णव द्वादश इति योजनान्य्ध्वा रथ्यानां, पञ्च योजनान्यर्धाष्टमानि दश इति पृष्ठवाहिनामश्वानामध्वा 02.30.39 विक्रमो भद्राश्वासो भारवाह्य इति मार्गाः 02.30.40 विक्रमो वल्गितमुपकण्ठमुपजवो जवश्च धाराः 02.30.41 तेषां बन्धनोपकरणं योग्याचार्याः प्रतिदिशेयुः, साङ्ग्रामिकं रथाश्वालङ्कारं च सूताः 02.30.42 अश्वानां चिकित्सकाः शरीरह्रासवृद्धिप्रतीकारं ऋतुविभक्तं चाहारम् 02.30.43 सूत्रग्राहकाश्वबन्धकयावसिकविधापाचकस्थानपालकेशकारजाङ्गुलीविदश्च स्वकर्मभिरश्वान् आराधयेयुः 02.30.44 कर्मातिक्रमे चैषां दिवसवेतनच्छेदनं कुर्यात् 02.30.45 नीराजनोपरुद्धं वाहयतश्चिकित्सकोपरुद्धं वा द्वादशपणो दण्डः 02.30.46 क्रियाभैषज्यसङ्गेन व्याधिवृद्धौ प्रतीकारद्विगुणो दण्डः 02.30.47 तद्ऽपराधेन वैलोम्ये पत्त्रमूल्यं दण्डः 02.30.48 तेन गोमण्डलं खरोष्ट्रमहिषमजाविकं च व्याख्यातम् 02.30.49 द्विरह्नः स्नानमश्वानां गन्धमाल्यं च दापयेत् । कृष्णसन्धिषु भूतेज्याः शुक्लेषु स्वस्तिवाचनम् 02.30.50 नीराजनामाश्वयुजे कारयेन्नवमेऽहनि । यात्राऽऽदाववसाने वा व्याधौ वा शान्तिके रतः (इति) 02.30.51 Chapt . Superintendent of elephants हस्त्यध्यक्षो हस्तिवनरक्षां दम्यकर्मक्षान्तानां हस्तिहस्तिनीकलभानां शालास्थानशय्याकर्मविधायवसप्रमाणं कर्मस्वायोगं बन्धनोपकरणं साङ्ग्रामिकमलङ्कारं चिकित्सकानीकस्थोपस्थायिकवर्गं चानुतिष्ठेत् 02.31.01 हस्त्य्।आयामद्विगुणोत्सेधविष्कम्भायामां हस्तिनीस्थानाधिकां सप्रग्रीवां कुमारीसङ्ग्रहां प्रान्मुखीमुदन्मुखीं वा शालां निवेशयेत् 02.31.02 हस्त्य्।आयामचतुर्ऽश्रश्लक्ष्णालानस्तम्भफलकास्तरकं स-मूत्रपुरीषोत्सर्गं स्थानं निवेशयेत् 02.31.03 स्थानसमां शय्यामर्धापाश्रयां दुर्गे साम्नाह्योपवाह्यानां बहिर्दम्यव्यालानाम् 02.31.04 प्रथमसप्तमाष्टमभागावह्नः स्नानकालौ, तद्ऽनन्तरं विधायाः 02.31.05 पूर्वाह्ने व्यायामकालः, पश्चाह्नः प्रतिपानकालः 02.31.06 रात्रिभागौ द्वौ स्वप्नकाला, त्रिभागः संवेशनोत्थानिकः 02.31.07 ग्रीष्मे ग्रहणकालः 02.31.08 विंशतिवर्षो ग्राह्यः 02.31.09 विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः 02.31.10 सप्तारत्नि उत्सेधो नवायामो दश परिणाहः प्रमाणतश्चत्वारिंशद्वर्षो भवत्युत्तमः, त्रिंशद्वर्षो मध्यमः, पञ्चविंशतिवर्षोऽवरः 02.31.11 तयोः पादावरो विधाविधिः 02.31.12 अरत्नौ तणुलद्रोणः, अर्धाढकं तैलस्य, सर्पिषः त्रयः प्रस्थाः, दशपलं लवणस्य, मांसं पञ्चाशत्पलिकं, रसस्याढकं द्विगुणं वा दध्नः पिण्डक्लेदनार्थं, क्षारदशपलिकं मद्यस्याढकं द्विगुणं वा पयसः प्रतिपानं, गात्रावसेकः तैलप्रस्थः, शिरसोऽष्टभागः प्रादीपिकश्च, यवसस्य द्वौ भारौ स-पादौ, शष्पस्य शुष्कस्यार्धतृतीयो भारः, कडङ्करस्यानियमः 02.31.13 सप्तारत्निना तुल्यभोजनोऽष्टारत्निरत्यरालः 02.31.14 यथाहस्तमवशेषः षड्ऽरत्निः पञ्चारत्निश्च 02.31.15 क्षीरयावसिको विक्कः क्रीडार्थं ग्राह्यः 02.31.16 सञ्जातलोहिता प्रतिच्छन्ना सम्लिप्तपक्षा समकक्ष्या व्यतिकीर्णमांसा समतल्पतला जातद्रोणिका इति शोभाः 02.31.17 शोभावशेन व्यायामं भद्र्म मन्दं च कारयेत् । मृगं सङ्कीर्णलिङ्गं च कर्मस्वृतुवशेन वा 02.31.18 Chapt . Activity of elephants कर्मस्कन्धाश्चत्वारो दम्यः साम्नाह्योपवाह्यो व्यालश्च 02.32.01 तत्र दम्यः पञ्चविधः स्कन्धगतः स्तम्भगतो वारिगतोऽवपातगतो यूथगतश्च इति 02.32.02 तस्योपविचारो विक्ककर्म 02.32.03 साम्नाह्यः सप्तक्रियापथोपस्थानं संवर्तनं संयानं वधावधो हस्तियुद्धं नागरायणं साङ्ग्रामिकं च 02.32.04 तस्योपविचारः कक्ष्याकर्म ग्रैवेयकर्म यूथकर्म च 02.32.05 औपवाह्योऽष्टविधाचरणः कुञ्जरोपवाह्यो धोरणाधानगतिको यष्ट्य्।उपवाह्यः तोत्रोपवाह्यः शुद्धोपवाह्यो मार्गयुकश्च इति 02.32.06 तस्योपविचारः शारदकर्म हीनकर्म नारोष्ट्रकर्म च 02.32.07 व्यालैकक्रियापथः शङ्कितोऽवरुद्धो विषमः प्रभिन्नः प्रभिन्नविनिश्चयो मदहेतुविनिश्चयश्च 02.32.08 तस्य-उपविचारायम्यैकरक्षाकर्म 02.32.09 क्रियाविपन्नो व्यालः शुद्धः सुव्रतो विषमः सर्वदोषप्रदुष्टश्च 02.32.10 तेषां बन्धनोपकरणमनीकस्थप्रमाणम् 02.32.11 आलानग्रैवेयकक्ष्यापारायणपरिक्षेपोत्तरादिकं बन्धनम् 02.32.12 अङ्कुशवेणुयन्त्रादिकमुपकरणम् 02.32.13 वैजयन्तीक्षुरप्रमालास्तरणकुथाऽऽदिकं भूषणम् 02.32.14 वर्मतोमरशरावापयन्त्रादिकः साङ्ग्रामिकालङ्कारः 02.32.15 चिकित्सकानीकस्थारोहकाधोरणहस्तिपकौपचारिकविधापाचकयावसिकपादपाशिककुटीर्रक्षकोपशयैकादिरौपस्थायिकवर्गः 02.32.16 चिकित्सककुटीरक्षविधापाचकाः प्रस्थोदनं स्नेहप्रसृतिं क्षारलवणयोश्च द्विपलिकं हरेयुः, दशपलं मांसस्य, अन्यत्र चिकित्सकेभ्यः 02.32.17 पथिव्याधिकर्ममदजराभितप्तानां चिकित्सकाः प्रतिकुर्युः 02.32.18 स्थानस्याशुद्धिर्यवसस्याग्रहणं स्थले शायनमभागे घातः परारोहणमकाले यानमभूमावतीर्थेऽवतारणं तरुषण्ड इत्यत्ययस्थानानि 02.32.19 तमेषां भक्तवेतनाद् आददीत 02.32.20 तिस्रो नीराजनाः कार्याश्चातुर्मास्य।ऋतुसन्धिषु । भूतानां कृष्णसन्धी इज्याः सेनान्यः शुक्लसन्धुषु 02.32.21 दन्तमूलपरीणाहद्विगुणं प्रोज्झ्य कल्पयेत् । अब्दे द्व्यर्धे नदीजानां पञ्चाब्दे पर्वतोकसाम् (इति) 02.32.22 Chapt . Superintendent of chariots Superintendent of foot-soldiers Activity of the commandant of the army अश्वाध्यक्षेण रथाध्यक्षो व्याख्यातः 02.33.01 स रथकर्मान्तान् कारयेत् 02.33.02 दशपुरुषो द्वादशान्तरो रथः 02.33.03 तस्माद् एकान्तरावरा आषड्ऽन्तरादिति सप्त रथाः 02.33.04 देवरथपुष्यरथसाङ्ग्रामिकपारियाणिकपरपुराभियानिकवैनयिकांश्च रथान् कारयेत् 02.33.05 इष्व्ऽस्त्रप्रहरणावरणोपकरणकल्पनाः सारथिरथिकरथ्यानां च कर्मस्वायोगं विद्यात्, आकर्मभ्यश्च भक्तवेतनं भृतानामभृतानां च योग्यारक्षानुष्ठानमर्थमानकर्म च 02.33.06 एतेन पत्त्यध्यक्षो व्याख्यातः 02.33.07 स मौलभृतश्रेणिमित्रामित्राटवीबलानां सारफल्गुतां विद्यात्, निम्नस्थलप्रकाशकूटखनकाकाशदिवारात्रियुद्धव्यायामं च, आयोगमयोगं च कर्मसु 02.33.08 तेद् एव सेनापतिः सर्वयुद्धप्रहरणविद्याविनीतो हस्त्यश्वरथचर्यासङ्घुष्टश्चतुर्ऽङ्गस्य बलस्यानुष्ठानाधिष्ठानं विद्यात् 02.33.09 स्वभूमिं युद्धकालं प्रत्यनीकमभिन्नभेदनं भिन्नसन्धानं संहतभेदनं भिन्नवधं दुर्गवधं यात्राकालं च पश्येत् 02.33.10 तूर्यध्वजपताकाभिर्व्यूहसंज्ञाः प्रकल्पयेत् । स्थाने याने प्रहरणे सैन्यानां विनये रतः (इति) 02.33.11 Chapt . Superintendent of passports Superintendent of pasture lands मुद्राध्यक्षो मुद्रां माषकेण दद्यात् 02.34.01 स-मुद्रो जनपदं प्रवेष्टुं निष्क्रमितुं वा लभेत 02.34.02 द्वादशपणममुद्रो जानपदो दद्यात् 02.34.03 कूटमुद्रायां पूर्वः साहसदण्डः तिरोजनपदस्योत्तमः 02.34.04 विवीताध्यक्षो मुद्रां पश्येत् 02.34.05 ग्रामान्तरेषु च विवीतं स्थापयेत् 02.34.06 चोरव्यालभयान्निम्नारण्यानि शोधयेत् 02.34.07 अनुदके कूपसेतुबन्धोत्सान् स्थापयेत्, पुष्पफलवाटांश्च 02.34.08 लुब्धकश्वगणिनः परिव्रजेयुररण्यानि 02.34.09 तस्करामित्राभ्यागमे शङ्खदुन्दुभिशब्दमग्राह्याः कुर्युः शैलवृक्षाधिरूढा वा शीघ्रवाहना वा 02.34.10 अमित्राटवीसञ्चारं च राज्ञो गृहकपोतैर्मुद्रायुक्तैर्हारयेत्, धूमाग्निपरम्परया वा 02.34.11 द्रव्यहस्तिवनाजीवं वर्तनीं चोररक्षणम् । सार्थातिवाह्यं गोरक्ष्यं व्यवहारं च कारयेत् (इति) 02.34.12 Chapt . Activity of the administrator Secret agents in the disguise of householders, traders, and ascetics समाहर्ता चतुर्धा जनाप्दं विभज्य ज्येष्ठमध्यमकनिष्ठविभागेन ग्रामाग्रं परिहारकमायुधीयं धान्यपशुहिरण्यकुप्यविष्टिप्रतिकरमिदमेतावदिति निबन्धयेत् 02.35.01 तत्प्रदिष्टः पञ्चग्रामीं दशग्रामीं वा गोपश्चिन्तयेत् 02.35.02 सीमावरोधेन ग्रामाग्रं, कृष्टाकृष्टस्थलकेदारारामषण्डवाटवनवास्तुचैत्यदेवगृहसेतुबन्धश्मशानसत्त्रप्रपापुण्यस्थानविवीतपथिसङ्ख्यानेन क्षेत्राग्रं, तेन सीम्नां क्षेत्राणां च करदाकरदसङ्ख्यानेन 02.35.03 तेषु चैतावच्चातुर्वार्ण्यं, एतावन्तः कर्षकगोरक्षकवैदेहककारुकर्मकरदासाश्च, एतावच्च द्विपदचतुष्पदं, इदं चैषु हिरण्यल्विष्टिशुल्कदण्डं समुत्तिष्ठतीति 02.35.04 कुलानां च स्त्रीपुरुषाणां बालवृद्धकर्मचरित्राजीवव्ययपरिमाणं विद्यात् 02.35.05 एवं च जनपदचतुर्भागं स्थानिकश्चिन्तयेत् 02.35.06 गोपस्थानिकस्थानेषु प्रदेष्टारः कार्यकरणं बलिप्रग्रहं च कुर्युः 02.35.07 समाहर्तृप्रदिष्टाश्च गृहपतिकव्यञ्जना येषु ग्रामेषु प्रणिहिताः तेषां ग्रामाणां क्षेत्रगृहकुलाग्रं विद्युः, मानसञ्जाताभ्यां क्षेत्राणि भोगपरिहाराभ्यां गृहाणि वर्णकर्मभ्यां कुलानि च 02.35.08 तेषां जङ्घाग्रमायव्ययौ च विद्युः 02.35.09 प्रस्थितागतानां च प्रवासावासकारणं, अनर्थ्यानां च स्त्रीपुरुषाणां चारप्रचारं च विद्युः 02.35.10 एवं वैदेहकव्यञ्जनाः स्वभूमिजानां राजपण्यानां खनिसेतुवनकर्मान्तक्षेत्रजानां प्रमाणमर्घं च विद्युः 02.35.11 परभूमिजातानां वारिस्थलपथोपयातानां सारफल्गुपुण्यानां कर्मसु च शुल्कवर्तन्य्।आतिवाहिकगुल्मतरदेयभागभक्तपण्यागारप्रमाणं विद्युः 02.35.12 एवं समाहर्तृप्रदिष्टाः तापसव्यञ्जनाः कर्षकगोरक्षकवैदेहकानामध्यक्षाणां च शौचाशौचं विद्युः 02.35.13 पुराण चोरव्यञ्जनाश्चान्तेवासिनश्चैत्यचतुष्पथशून्यपदोदपाननदीनिपानतीर्थायतनाश्रमारण्यशैलवनगहनेषु स्तेनामित्रप्रवीरपुरुषाणां च प्रवेशनस्थानगमनप्रयोजनान्युपलभेरन् 02.35.14 समाहर्ता जनपदं चिन्तयेद् एवमुत्थितः । चिन्तयेयुश्च संस्थाः ताः संस्थाश्चान्याः स्वयोनयः (इति) 02.35.15 Chapt . Rules for the city-superintendent समाहर्तृवन्नागरिको नगरं चिन्तयेत् 02.36.01 दशकुलीं गोपो विंशतिकुलीं चत्वारिंशत्कुलीं वा 02.36.02 स तस्यां स्त्रीपुरुषाणां जातिगोत्रनामकर्मभिः जङ्घाग्रमायव्ययौ च विद्यात् 02.36.03 एवं दुर्गचतुर्भागं स्थानिकश्चिन्तयेत् 02.36.04 धर्मावसथिनः पाषण्डिपथिकान् आवेद्य वासयेयुः, स्वप्रत्ययाश्च तपस्विनः श्रोत्रियांश्च 02.36.05 कारुशिल्पिनः स्वकर्मस्थानेषु स्वजनं वासयेयुः, वैदेहकाश्चान्योन्यं स्वकर्मस्थानेषु 02.36.06 पण्यानामदेशकालविक्रेतारमस्वकरणं च निवेदयेयुः 02.36.07 शौण्डिकपाक्वमांसिकोदनिकरूपाजीवाः परिज्ञातमावासयेयुः 02.36.08 अतिव्ययकर्तारमत्याहितकर्माणं च निवेदयेयुः 02.36.09 चिकित्सकः प्रच्छन्नव्रणप्रतीकारकारयितारमपथ्यकारिणं च गृहस्वामी च निवेद्य गोपस्थानिकयोर्मुच्येत, अन्यथा तुल्यदोषः स्यात् 02.36.10 प्रस्थितागतौ च निवेदयेत्, अन्यथा रात्रिदोषं भजेत 02.36.11 क्षेमरात्रिषु त्रिपणं दद्यात् 02.36.12 पथिकोत्पथिकाश्च बहिर्ऽन्तश्च नगरस्य देवगृहपुण्यस्थानवनश्मशानेषु स-व्रणमनिष्टोपकरणमुद्भाण्डीकृतमाविग्नमतिस्वप्नमध्वक्लान्तमपूर्वं वा गृह्णीयुः 02.36.13 एवमभ्यन्तरे शून्यनिवेशावेशनशौण्डिकोदनिकपाक्वमांसिकद्यूतपाषण्डावासेषु विचयं कुर्युः 02.36.14 अग्निप्रतीकारं च ग्रीष्मे 02.36.15 मध्यमयोरह्नश्चतुर्भागयोरष्टभागोऽग्निदण्डः 02.36.16 बहिर्ऽधिश्रयणं वा कुर्युः 02.36.17 पादः पञ्चघटीनां कुम्भद्रोणिनिह्श्रेणीपरशुशूर्पाङ्कुशकचग्रहणीदृतीनां चाकरणे 02.36.18 तृणकटच्छन्नान्यपनयेत् 02.36.19 अग्निजीविनैकस्थान् वासयेत् 02.36.20 स्वगृहप्रद्वारेषु गृहस्वामिनो वसेयुः असम्पातिनो रात्रौ 02.36.21 रथ्यासु कुटव्रजाः सहस्रं तिष्ठेयुः, चतुष्पथद्वारराजपरिग्रहेषु च 02.36.22 प्रदीप्तमनभिधावतो गृहस्वामिनो द्वादशपणो दण्डः, षट्पणोऽवक्रयिणः 02.36.23 प्रमादाद् दीप्तेषु चतुष्पञ्चाशत्पणो दण्डः 02.36.24 प्रदीपिकोऽग्निना वध्यः 02.36.25 पांसुन्यासे रथ्यायामष्टभागो दण्डः, पङ्कोदकसम्निरोधे पादः 02.36.26 राजमार्गे द्विगुणः 02.36.27 पण्यस्थानोदकस्थानदेवगृहराजपरिग्रहेषु पणोत्तरा विष्टादण्डाः, मूत्रेष्वर्धदण्डाः 02.36.28 भैषज्यव्याधिभयनिमित्तमदण्ड्याः 02.36.29 मार्जारश्वनकुलसर्पप्रेतानां नगरस्यान्तर्।उत्सर्गे त्रिपणो दण्डः, खरोष्ट्राश्वतराश्वप्रेतानां षट्पणः, मनुष्यप्रेतानां पञ्चाशत्पणः 02.36.30 मार्गविपर्यासे शवद्वाराद् अन्यतश्च शवनिर्णयने पूर्वः साहसदण्डः 02.36.31 द्वाःस्थानां द्विशतम् 02.36.32 श्मशानाद् अन्यत्र न्यासे दहने च द्वादशपणो दण्डः 02.36.33 विषण्णालिकमुभयतोरात्रं यामतूर्यम् 02.36.34 तूर्यशब्दे राज्ञो गृहाभ्याशे सपादपणंऽक्षणताडनं प्रथमपश्चिमयामिकं, मध्यमयामिकं द्विगुणं, अन्तश्चतुर्गुणम् 02.36.35 शङ्कनीये देशे लिङ्गे पूर्वापदाने च गृहीतमनुयुञ्जीत 02.36.36 राजपरिग्रहोपगमने नगररक्षाऽऽरोहणे च मध्यमः साहसदण्डः 02.36.37 सूतिकाचिकित्सकप्रेतप्रदीपयाननागरिकतूर्यप्रेक्षाग्निनिमित्तं मुद्राभिश्चाग्राह्याः 02.36.38 चाररात्रिषु प्रच्छन्नविपरीतवेषाः प्रव्रजिता दण्डशस्त्रहस्ताश्च मनुष्या दोषतो दण्ड्याः 02.36.39 रक्षिणामवार्यं वारयतां वार्यं चावारयतां क्षणद्विगुणो दण्डः 02.36.40 स्त्रियं दासीमधिमेहयतां पूर्वः साहसदण्डः, अदासीं मध्यमः, कृतावरोधामुत्तमः, कुलस्त्रियं वधः 02.36.41 चेतनाचेतनिकं रात्रिदोषमशंसतो नागरिकस्य दोषानुरूपो दण्डः, प्रमादस्थाने च 02.36.42 नित्यमुदकस्थानमार्गभ्रमच्छन्नपथवप्रप्राकाररक्षावेक्षणं नष्टप्रस्मृतापसृतानां च रक्षणम् 02.36.43 बन्धनागारे च बालवृद्धव्याधितानाथानां जातनक्षत्रपौर्णमासीषु विसर्गः 02.36.44 पण्यशीलाः समयानुबद्धा वा दोषनिष्क्रयं दद्युः 02.36.45 दिवसे पञ्चरात्रे वा बन्धनस्थान् विशोधयेत् । कर्मणा कायदण्डेन हिरण्यानुग्रहेण वा 02.36.46 अपूर्वदेशाधिगमे युवराजाभिषेचने । पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते (इति) 02.36.47 Book . Determination of (valid and invalid) transactions Chapt . Filing of law-suits धर्मस्थाः त्रयः त्रयोऽमात्या जनपदसन्धिसङ्ग्रहणद्रोणमुखस्थानीयेषु व्यावहारिकान् अर्थान् कुर्युः 03.1.01 तिरोहितान्तर्ऽगारनक्तारण्योपध्य्।उपह्वरकृतांश्च व्यवहारान् प्रतिषेधयेयुः 03.1.02 कर्तुः कारयितुः पूर्वः साहसदण्डः 03.1.03 श्रोतॄणामेकैकं प्रत्यर्धदण्डाः 03.1.04 श्रद्धेयानां तु द्रव्यव्यपनयः 03.1.05 परोक्षेणाधिक।ऋणग्रहणमवक्तव्यकरा वा तिरोहिताः सिध्येयुः 03.1.06 दायनिक्षेपोपनिधिविवाहयुक्ताः स्त्रीणामनिष्कासिनीनां व्याधितानां चामूढसंज्ञानामन्तर्ऽगारकृताः सिध्येयुः 03.1.07 साहसानुप्रवेशकलहविवाहराजनियोगयुक्ताः पूर्वरात्रव्यवहारिणां च रात्रिकृताः सिध्येयुः 03.1.08 सार्थव्रजाश्रमव्याधचारणमध्येष्वरण्यचराणामरण्यकृताः सिध्येयुः 03.1.09 गूढाजीविषु चोपधिकृताः सिध्येयुः 03.1.10 मिथःसमवाये चोपह्वरकृताः सिध्येयुः 03.1.11 अतोऽन्यथा न सिध्येयुः, अपाश्रयवद्भिश्च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, कनिष्ठेनाविभक्तांशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दासाहितकाभ्यां, अप्राप्तातीतव्यवहाराभ्यां, अभिशस्तप्रव्रजितन्यङ्गव्यसनिभिश्च, अन्यत्र निषृष्टव्यवहारेभ्यः 03.1.12 तत्रापि क्रुद्धेनार्तेन मत्तेनोन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः 03.1.13 कर्तृकारयितृश्रोतॄणां पृथग् यथोक्ता दण्डाः 03.1.14 स्वे स्वे तु वर्गे देशे काले च स्वकरणकृताः सम्पूर्णाचाराः शुद्धदेशा दृष्टरूपलक्षणप्रमाणगुणाः सर्वव्यवहाराः सिध्येयुः 03.1.15 पश्चिमं चैषां करणमादेशाधिवर्जं श्रद्धेयम् इति व्यवहारस्थापना । 03.1.16 संवत्सरं ऋतुं मासं पक्षं दिवसं करणमधिकरणं ऋणं वेदकावेदकयोः कृतसमर्थावस्थयोर्देशग्रामजातिगोत्रनामकर्माणि चाभिलिख्य वादिप्रतिवादिप्रश्नान् अर्थानुपूर्व्या निवेशयेत् 03.1.17 निविष्टांश्चावेक्षेत 03.1.18 निबद्धं वादमुत्सृज्यान्यं वादं सङ्क्रामति, पूर्वोक्तं पश्चिमेनार्थेन नाभिसन्धत्ते, परवाक्यमनभिग्राह्यमभिग्राह्यावतिष्ठते, प्रतिज्ञाय देशं निर्दिश इत्युक्ते न निर्दिशति, हीनदेशमदेशं वा निर्दिशति, निर्दिष्टाद् देशाद् अन्यं देशमुपस्थापयति, उपस्थिते देशेऽर्थवचनं नैवमित्यपव्ययते, साक्षिभिरवधृतं नेच्छति, असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते, इति परोक्तहेतवः 03.1.19 परोक्तदण्डः पञ्चबन्धः 03.1.20 स्वयंवादिदण्डो दशबन्धः 03.1.21 पुरुषभृतिरष्टांशः 03.1.22 पथिभक्तमर्घविशेषतः 03.1.23 तद् उभयं नियम्यो दद्यात् 03.1.24 अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलहसाहससार्थसमवायेभ्यः 03.1.25 न चाभियुक्तेऽभियोगेऽस्ति 03.1.26 अभियोक्ता चेत् प्रत्युक्तः तद्ऽहरेव न प्रतिब्रूयात् परोक्तः स्यात् 03.1.27 कृतकार्यविनिश्चयो ह्यभियोक्ता नाभियुक्तः 03.1.28 तस्याप्रतिब्रुवतः त्रिरात्रं सप्तरात्रमिति 03.1.29 अतोर्ध्वं त्रिपणावरार्ध्यं द्वादशपणपरं दण्डं कुर्यात् 03.1.30 त्रिपक्षाद् ऊर्ध्वमप्रतिब्रुवतः परोक्तदण्डं कृत्वा यान्यस्य द्रव्याणि स्युः ततोऽभियोक्तारं प्रतिपादयेद्, अन्यत्र वृत्त्य्।उपकरणेभ्यः 03.1.31 तद् एव निष्पततोऽभियुक्तस्य कुर्यात् 03.1.32 अभियोक्तुर्निष्पातसमकालः परोक्तभावः 03.1.33 प्रेतस्य व्यसनिनो वा साक्षिवचनमसारम् 03.1.34 अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् 03.1.35 आधिं वा स कामं प्रवेशयेत् 03.1.36 रक्षोघ्नरक्षितं वा कर्मणा प्रतिपादयेद्, अन्यत्र ब्राह्मणात् 03.1.37 चतुर्वर्णाश्रमस्यायं लोकस्याचाररक्षणात् । नश्यतां सर्वधर्माणां राजा धर्मप्रवर्तकः 03.1.38 धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । विवादार्थश्चतुष्पादः पश्चिमः पूर्वबाधकः 03.1.39 तत्र सत्ये स्थितो धर्मो व्यवहारः तु साक्षिषु । चरित्रं सङ्ग्रहे पुंसां राज्ञामाज्ञा तु शासनम् 03.1.40 राज्ञः स्वधर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । अरक्षितुर्वा क्षेप्तुर्वा मिथ्यादण्डमतोऽन्यथा 03.1.41 दण्डो हि केवलो लोकं परं चेमं च रक्षति । राज्ञा पुत्रे च शत्रौ च यथादोषं समं धृतः 03.1.42 अनुशासद्द् हि धर्मेण व्यवहारेण संस्थया । न्यायेन च चतुर्थेन चतुर्ऽन्तां वा महीं जयेत् 03.1.43 संस्था या धर्मशास्त्रेण शास्त्रं वा व्यावहारिकम् । यस्मिन्न् अर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत् 03.1.44 शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् । न्यायः तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति 03.1.45 दृष्टदोषः स्वयंवादः स्वपक्षपरपक्षयोः । अनुयोगार्जवं हेतुः शपथश्चार्थसाधकः 03.1.46 पूर्वोत्तरार्थव्याघाते साक्षिवक्तव्यकारणे । चारहस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः (इति) 03.1.47 Chapt . Concerning marriage (i) Law of marriage (I) Rules concerning women property(Ii) Concerning supersession (of a wife) by a second marriage विवाहपूर्वो व्यवहारः 03.2.01 कन्यादानं कन्यामलङ्कृत्य ब्राह्मो विवाहः 03.2.02 सहधर्मचर्या प्राजापत्यः 03.2.03 गोमिथुनादानाद् आर्षः 03.2.04 अन्तर्वेद्यां ऋत्विजे दानाद् दैवः 03.2.05 मिथःसमवायाद्गान्धर्वः 03.2.06 शुल्कादानाद् आसुरः 03.2.07 प्रसह्यादानाद् राक्षसः 03.2.08 सुप्तमत्तादानात् पैशाचः 03.2.09 पितृप्रमाणाश्चत्वारः पूर्वे धर्म्याः, मातापितृप्रमाणाः शेषाः 03.2.10 तौ हि शुल्कहरौ दुहितुः, अन्यतराभावेऽन्यतरो वा 03.2.11 द्वितीयं शुल्कं स्त्री हरेत 03.2.12 सर्वेषां प्रीत्य्।आरोपणमप्रतिषिद्धम् इति विवाहधर्मः । 03.2.13 वृत्तिराबन्ध्यं वा स्त्रीधनम् 03.2.14 परद्विसाहस्रा स्थाप्या वृत्तिः, आबन्ध्यानियमः 03.2.15 तद् आत्मपुत्रस्नुषाभर्मणि प्रवासाप्रतिविधाने च भार्याया भोक्तुमदोषः, प्रतिरोधकव्याधिदुर्भिक्षभयप्रतीकारे धर्मकार्ये च पत्युः, सम्भूय वा दम्पत्योर्मिथुनं प्रजातयोः 03.2.16 त्रिवर्षोपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत 03.2.17 गान्धर्वासुरोपभुक्तं स-वृद्धिकमुभयं दाप्येत, राक्षसपैशाचोपभुक्तं स्तेयं दद्यात् 03.2.18 मृते भर्तरि धर्मकामा तदानीमेव स्थाप्याभरणं शुल्कशेषं च लभेत 03.2.19 लब्ध्वा वा विन्दमाना स-वृद्धिकमुभयं दाप्येत 03.2.20 कुटुम्बकामा तु श्वशुरपतिदत्तं निवेशकाले लभेत 03.2.21 निवेशकालं हि दीर्घप्रवासे व्याख्यास्यामः 03.2.22 श्वशुरप्रातिलोम्येन वा निविष्टा श्वशुरपतिदत्तं जीयेत 03.2.23 ज्ञातिहस्ताद्ऽभिमृष्टाया ज्ञातयो यथागृहीतं दद्युः 03.2.24 न्यायोपगतायाः प्रतिपत्ता स्त्रीधनं गोपयेत् 03.2.25 पतिदायं विन्दमाना जीयेत 03.2.26 धर्मकामा भुञ्जीत 03.2.27 पुत्रवती विन्दमाना स्त्रीधनं जीयेत 03.2.28 तत् तु स्त्रीधनं पुत्रा हरेयुः 03.2.29 पुत्रभरणार्थं वा विन्दमाना पुत्रार्थं स्फातीकुर्यात् 03.2.30 बहुपुरुषप्रजानां पुत्राणां यथापितृदत्तं स्त्रीधनमवस्थापयेत् 03.2.31 कामकरणीयमपि स्त्रीधनं विन्दमाना पुत्रसंस्थं कुर्यात् 03.2.32 अपुत्रा पतिशयनं पालयन्ती गुरुसमीपे स्त्रीधनमायुःक्षयाद् भुञ्जीत 03.2.33 आपद्ऽर्थं हि स्त्रीधनम् 03.2.34 ऊर्ध्वं दायादं गच्छेत् 03.2.35 जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्रीधनं विभजेरन्, अपुत्राया दुहितरः, तद्ऽभावे भर्ता 03.2.36 शुल्कमन्वाधेयमन्यद् वा बन्धुभिर्दत्तं बान्धवा हरेयुः इति स्त्रीधनकल्पः । 03.2.37 वर्षाण्यष्टावप्रजायमानामपुत्रां वन्ध्यां चाकाङ्क्षेत, दश निन्दुं, द्वादश कन्याप्रसविनीम् 03.2.38 ततः पुत्रार्थी द्वितीयां विन्देत 03.2.39 तस्यातिक्रमे शुल्कं स्त्रीधनमर्धं चाधिवेदनिकं दद्यात्, चतुर्विंशतिपणपरं च दण्डम् 03.2.40 शुल्कं स्त्रीधनमशुल्कस्त्रीधनायाः तत्प्रमाणमाधिवेदनिकमनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत 03.2.41 पुत्रार्था हि स्त्रियः 03.2.42 तीर्थसमवाये चासां यथाविवाहं पूर्वोढां जीवत्पुत्रां वा पूर्वं गच्छेत् 03.2.43 तीर्थगूहनागमने षण्ँअवतिर्दण्डः 03.2.44 पुत्रवतीं धर्मकामां वन्ध्यां निन्दुं नीरजस्कां वा नाकामामुपेयात् 03.2.45 न चाकामः पुरुषः कुष्ठिनीमुन्मत्तां वा गच्छेत् 03.2.46 स्त्री तु पुत्रार्थमेवम्भूतं वोपगच्छेत् 03.2.47 नीचत्वं परदेशं वा प्रस्थितो राजकिल्बिषी । प्राणाभिहन्ता पतितः त्याज्यः क्लीबोऽपि वा पतिः (इति) 03.2.48 Chapt . iv) Marital duty, (v) Maintenance, (vi) Cruelty, (vI) Disaffection, (vIi) Misconduct, (ix) Prohibition of favours and dealings द्वादशवर्षा स्त्री प्राप्तव्यवहारा भवति, षोडशवर्षः पुमान् 03.3.01 अतोर्ध्वमशुश्रूषायां द्वादशपणः स्त्रिया दण्डः, पुंसो द्विगुणः इति शुश्रूषा । 03.3.02 भर्मण्यायामनिर्दिष्टकालायां ग्रासाच्छादनं वाधिकं यथापुरुषपरिवापं सविशेषं दद्यात् 03.3.03 निर्दिष्टकालायां तद् एव सङ्ख्याय बन्धं च दद्यात् 03.3.04 शुल्कस्त्रीधनाधिवेदनिकानामनादाने च 03.3.05 श्वशुरकुलप्रविष्टायां विभक्तायां वा नाभियोज्यः पतिः इति भर्म । 03.3.06 नष्टे विनष्टे न्यङ्गेऽपितृकेऽमातृके इत्यनिर्देशेन विनयग्राहणम् 03.3.07 वेणुदलरज्जुहस्तानामन्यतमेन वा पृष्ठे त्रिराघातः 03.3.08 तस्यातिक्रमे वाग्दण्डपारुष्यदण्डाभ्यामर्धदण्डाः 03.3.09 तद् एव स्त्रिया भर्तरि प्रसिद्धदोषायाः 03.3.10 ईर्ष्यया बाह्यविहारेषु द्वारेष्वत्ययो यथानिर्दिष्टः इति पारुष्यम् । 03.3.11 भर्तारं द्विषती स्त्री सप्तार्तवान्यमण्डयमाना तदानीमेव स्थाप्याभरणं निधाय भर्तारमन्यया सह शयानमनुशयीत 03.3.12 भिक्षुक्यन्वाधिज्ञातिकुलानामन्यतमे वा भर्ता द्विषन् स्त्रियमेकामनुशयीत 03.3.13 दृष्टलिङ्गे मैथुनापहारे सवर्णापसर्पोपगमे वा मिथ्यावादी द्वादशपणं दद्यात् 03.3.14 अमोक्ष्या भर्तुरकामस्य द्विषती भार्या, भार्यायाश्च भर्ता 03.3.15 परस्परन्द्वेषान् मोक्षः 03.3.16 स्त्रीविप्रकाराद् वा पुरुषश्चेन् मोक्षमिच्छेद् यथागृहीतमस्यै दद्यात् 03.3.17 पुरुषविप्रकाराद् वा स्त्री चेन् मोक्षमिच्छेन्नास्यै यथागृहीतं दद्यात् 03.3.18 अमोक्षो धर्मविवाहानाम् इति द्वेषः । 03.3.19 प्रतिषिद्धा स्त्री दर्पमद्यक्रीडायां त्रिपणं दण्डं दद्यात् 03.3.20 दिवा स्त्रीप्रेक्षाविहारगमने षट्पणो दण्डः, पुरुषप्रेक्षाविहारगमने द्वादशपणः 03.3.21 रात्रौ द्विगुणः 03.3.22 सुप्तमत्तप्रव्रजने भर्तुरदाने च द्वारस्य द्वादशपणः 03.3.23 रात्रौ निष्कसने द्विगुणः 03.3.24 स्त्रीपुंसयोर्मैथुनार्थेनाङ्गविचेष्टायां रहोऽश्लीलसम्भाषायां वा चतुर्विंशतिपणः स्त्रिया दण्डः, पुंसो द्विगुणः 03.3.25 केशनीविदन्तनखालम्बनेषु पूर्वः साहसदण्डः, पुंसो द्विगुणः 03.3.26 शङ्कितस्थाने सम्भाषायां च पणस्थाने शिफादण्डः 03.3.27 स्त्रीणां ग्राममध्ये चण्डालः पक्षान्तरे पञ्चशिफा दद्यात् 03.3.28 पणिकं वा प्रहारं मोक्षयेत् इत्यतीचारः । 03.3.29 प्रतिषिद्धयोः स्त्रीपुंसयोरन्योन्योपकारे क्षुद्रकद्रव्याणां द्वादशपणो दण्डः, स्थूलकद्रव्याणां चतुर्विंशतिपणः, हिरण्यसुवर्णयोश्चतुष्पञ्चाशत्पणः स्त्रिया दण्डः, पुंसोर्द्विगुणः 03.3.30 तैवागम्ययोरर्धदण्डाः, तथा प्रतिषिद्धपुरुषव्यवहारेषु च इति प्रतिषेधः । 03.3.31 राजद्विष्टातिचाराभ्यामात्मापक्रमणेन च । स्त्रीधनानीतशुल्कानामस्वाम्यं जायते स्त्रियाः (इति) 03.3.32 Chapt . Leaving home, goi.g away(with a man), Short absence from home, Long absence from home पतिकुलान्निष्पतितायाः स्त्रियाः षट्पणो दण्डः, अन्यत्र विप्रकारात् 03.4.01 प्रतिषिद्धायां द्वादशपणः 03.4.02 प्रतिवेशगृहातिगतायाः षट्पणः 03.4.03 प्रातिवेशिकभिक्षुकवैदेहकानामवकाशभिक्षापण्यदाने द्वादशपणो दण्डः 03.4.04 प्रतिषिद्धानां पूर्वः साहसदण्डः 03.4.05 परगृहातिगतायाश्चतुर्विंशतिपणः 03.4.06 परभार्यावकाशदाने शत्यो दण्डः, अन्यत्रापद्भ्यः 03.4.07 वारणाज्ञानयोर्निर्दोषः 03.4.08 पतिविप्रकारात् पतिज्ञातिसुखावस्थग्रामिकान्वाधिभिक्षुकीज्ञातिकुलानामन्यतममपुरुषं गन्तुमदोषः इति आचार्याः 03.4.09 स-पुरुषं वा ज्ञातिकुलम् 03.4.10 कुतो हि साध्वीजनस्यच्छलम् 03.4.11 सुखमेतद् अवबोद्धुं, इति कौटिल्यः 03.4.12 प्रेतव्याधिव्यसनगर्भनिमित्तमप्रतिषिद्धमेव ज्ञातिकुलगमनम् 03.4.13 तन्निमित्तं वारयतो द्वादशपणो दण्डः 03.4.14 तत्रापि गूहमाना स्त्रीधनं जीयेत, ज्ञातयो वा छादयन्तः शुल्कशेषम् इति निष्पतनम् । 03.4.15 पतिकुलान्निष्पत्य ग्रामान्तरगमने द्वादशपणो दण्डः स्थाप्याऽऽभरणलोपश्च 03.4.16 गम्येन वा पुंसा सह प्रस्थाने चतुर्विंशतिपणः सर्वधर्मलोपश्च, अन्यत्र भर्मदानतीर्थगमनाभ्याम् 03.4.17 पुंसः पूर्वः साहसदण्डः तुल्यश्रेयसोः, पापीयसो मध्यमः 03.4.18 बन्धुर्ऽदण्ड्यः 03.4.19 प्रतिषेधेऽर्धदण्डाः 03.4.20 पथि व्यन्तरे गूढदेशाभिगमने मैथुनार्थेन शङ्कितप्रतिषिद्धायां वा पथ्यनुसरणे सङ्ग्रहणं विद्यात् 03.4.21 तालावचरचारणमत्स्यबन्धकलुब्धकगोपालकशौण्डिकानामन्येषां च प्रसृष्टस्त्रीकाणां पथ्यनुसरणमदोषः 03.4.22 प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्याः तैवार्धदण्डाः इति पथ्यनुसरणम् । 03.4.23 ह्रस्वप्रवासिनां शूद्रवैश्यक्षत्रियब्राह्मणानां भार्याः संवत्सरोत्तरं कालमाकाङ्क्षेरन् अप्रजाताः, संवत्सराधिकं प्रजाताः 03.4.24 प्रतिविहिता द्विगुणं कालम् 03.4.25 अप्रतिविहिताः सुखावस्था बिभृयुः, परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः 03.4.26 ततो यथादत्तमादाय प्रमुञ्चेयुः 03.4.27 ब्राह्मणमधीयानं दशवर्षाण्यप्रजाता, द्वादश प्रजाता, राजपुरुषमायुःक्षयाद् आकाङ्क्षेत 03.4.28 सवर्णतश्च प्रजाता नापवादं लभेत 03.4.29 कुटुम्ब।ऋद्धिलोपे वा सुखावस्थैर्विमुक्ता यथेष्टं विन्देत, जीवितार्थमापद्गता वा 03.4.30 धर्मविवाहात् कुमारी परिग्रहीतारमनाख्याय प्रोषितमश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत, संवत्सरं श्रूयमाणम् 03.4.31 आख्याय प्रोषितमश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत, दश श्रूयमाणम् 03.4.32 एकदेशदत्तशुल्कं त्रीणि तीर्थान्यश्रूयमाणं, श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत 03.4.33 दत्तशुल्कं पञ्च तीर्थान्यश्रूयमाणं, दश श्रूयमाणम् 03.4.34 ततः परं धर्मस्थैर्विसृष्टा यथेष्टं विन्देत 03.4.35 तीर्थोपरोधो हि धर्मवध इति कौटिल्यः इति ह्रस्वप्रवासः ॥ 03.4.36 दीर्घप्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत, संवत्सरं प्रजाता 03.4.37 ततः पतिसोदर्यं गच्छेत् 03.4.38 बहुषु प्रत्यासन्नं धार्मिकं भर्मसमर्थं कनिष्ठमभार्यं वा 03.4.39 तद्ऽभावेऽप्यसोदर्यं सपिण्डं कुल्यं वाऽऽसन्नम् 03.4.40 एतेषामेषैव क्रमः 03.4.41 एतान् उत्क्रम्य दायादान् वेदने जारकर्मणि । जारस्त्रीदातृवेत्तारः सम्प्राप्ताः सङ्ग्रहात्ययम् (इति) 03.4.42 Chapt . Partition of inheritance Order of inheritance अनीश्वराः पितृमन्तः स्थितपितृमातृकाः पुत्राः 03.5.01 तेषामूर्ध्वं पितृतो दायविभागः पितृद्रव्याणाम् 03.5.02 स्वयं।आर्जितमविभाज्यं, अन्यत्र पितृद्रव्याद् उत्थितेभ्यः 03.5.03 पितृद्रव्याद् अविभक्तोपगतानां पुत्राः पौत्रा वा आचतुर्थाद् इत्यंशभाजः 03.5.04 तावद् अविच्छिन्नः पिण्डो भवति 03.5.05 विच्छिन्नपिण्डाः सर्वे समं विभजेरन् 03.5.06 अपितृद्रव्या विभक्तपितृद्रव्या वा सह जीवन्तः पुनर्विभजेरन् 03.5.07 यतश्चोत्तिष्ठेत स द्व्यंशं लभेत 03.5.08 द्रव्यमपुत्रस्य सोदर्या भ्रातरः सहजीविनो वा हरेयुः कन्याश्च 03.5.09 रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः 03.5.10 तद्ऽभावे पिता धरमाणः 03.5.11 पित्र्ऽभावे भ्रातरो भ्रातृपुत्राश्च 03.5.12 अपितृका बहवोऽपि च भ्रातरो भ्रातृपुत्राश्च पितुरेकमंशं हरेयुः 03.5.13 सोदर्याणामनेकपितृकाणां पितृतो दायविभागः 03.5.14 पितृभ्रातृपुत्राणां पूर्वे विद्यमाने नापरमवलम्बन्ते, ज्येष्ठे च कनिष्ठमर्थग्राहिणम् 03.5.15 जीवद्विभागे पिता नैकं विशेषयेत् 03.5.16 न चैकमकारणान्निर्विभजेत 03.5.17 पितुरसत्यर्थे ज्येष्ठाः कनिष्ठान् अनुगृह्णीयुः, अन्यत्र मिथ्यावृत्तेभ्यः 03.5.18 प्राप्तव्यवहाराणां विभागः 03.5.19 अप्राप्तव्यवहाराणां देयविशुद्धं मातृबन्धुषु ग्रामवृद्धेषु वा स्थापयेयुः आव्यवहारप्रापणात्, प्रोषितस्य वा 03.5.20 सम्निविष्टसममसम्निविष्टेभ्यो नैवेशनिकं दद्युः, कन्याभ्यश्च प्रादानिकम् 03.5.21 ऋणरिक्थयोः समो विभागः 03.5.22 उदपात्राण्यपि निष्किञ्चना विभजेरन् इत्याचार्याः 03.5.23 छलमेतदिति कौटिल्यः 03.5.24 सतोऽर्थस्य विभागो नासतः 03.5.25 एतावान् अर्थः सामान्यः तस्यैतावान् प्रत्यंश इत्यनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत् 03.5.26 दुर्विभक्तमन्योन्यापहृतमन्तर्हितमविज्ञातोत्पन्नं वा पुनर्विभजेरन् 03.5.27 अदायादकं राजा हरेत् स्त्रीवृत्तिप्रेतकार्यवर्जं, अन्यत्र श्रोत्रियद्रव्यात् 03.5.28 तत् त्रैवेद्येभ्यः प्रयच्छेत् 03.5.29 पतितः पतिताज् जातः क्लीबश्चानंशाः, जडोन्मत्तान्धकुष्ठिनश्च 03.5.30 सति भार्यार्थे तेषामपत्यमतद्विधं भागं हरेत् 03.5.31 ग्रासाच्छादनमितरे पतितवर्जाः 03.5.32 तेषां च कृतदाराणां लुप्ते प्रजनने सति । सृजेयुर्बान्धवाः पुत्रांः तेषामंशान् प्रकल्पयेत् (इति) 03.5.33 Chapt . Division into shares एकस्त्रीपुत्राणां ज्येष्ठांशः - ब्राह्मणानामजाः, क्षत्रियाणामश्वाः, वैश्यानां गावः, शूद्राणामवयः 03.6.01 काणलङ्गाः तेषां मध्यमांशः, भिन्नवर्णाः कनिष्ठांशः 03.6.02 चतुष्पदाभावे रत्नवर्जानां दशानां भागं द्रव्याणामेकं ज्येष्ठो हरेत् 03.6.03 प्रतिमुक्तस्वधापाशो हि भवति 03.6.04 इत्यौशनसो विभागः 03.6.05 पितुः परिवापाद् यानमाभरणं च ज्येष्ठांशः, शयनासनं भुक्तकांस्यं च मध्यमांशः, कृष्णं धान्यायसं गृहपरिवापो गोशकटं च कनिष्ठांशः 03.6.06 शेषद्रव्याणामेकद्रव्यस्य वा समो विभागः 03.6.07 अदायादा भगिन्यः, मातुः परिवापाद् भुक्तकांस्याभरणभागिन्यः 03.6.08 मानुषहीनो ज्येष्ठः तृतीयमंशं ज्येष्ठांशाल्लभेत, चतुर्थमन्यायवृत्तिः, निवृत्तधर्मकार्यो वा 03.6.09 कामाचारः सर्वं जीयेत 03.6.10 तेन मध्यमकनिष्ठौ व्याख्यातौ 03.6.11 तयोर्मानुषोपेतो ज्येष्ठांशाद् अर्धं लभेत 03.6.12 नानास्त्रीपुत्राणां तु संस्कृतासंस्कृतयोः कन्याकृतक्षतयोरभावे चैकस्याः पुत्रयोर्यमयोर्वा पूर्वजन्मना ज्येष्ठभावः 03.6.13 सूतमागधव्रात्यरथकाराणामैश्वर्यतो विभागः 03.6.14 शेषाः तमुपजीवेयुः 03.6.15 अनीश्वराः समविभागाः 03.6.16 चातुर्वर्ण्यपुत्राणां ब्राह्मणीपुत्रश्चतुरोऽंशान् हरेत्, क्षत्रियापुत्रस्त्रीन् अंशान्, वैश्यापुत्रो द्वावंशौ, एकं शूद्रापुत्रः 03.6.17 तेन त्रिवर्णद्विवर्णपुत्रविभागः क्षत्रियवैश्ययोर्व्याख्यातः 03.6.18 ब्राह्मणस्यानन्तरापुत्रः तुल्यांशः 03.6.19 क्षत्रियवैश्ययोरर्धांशः तुल्यांशो वा मानुषोपेतः 03.6.20 तुल्यातुल्ययोरेकपुत्रः सर्वं हरेत्, बन्धूंश्च बिभृयात् 03.6.21 ब्राह्मणानां तु पारशवः तृतीयमंशं लभेत, द्वावंशौ सपिण्डः कुल्यो वाऽऽसन्नः, स्वधादानहेतोः 03.6.22 तद्ऽभावे पितुराचार्योऽन्तेवासी वा 03.6.23 क्षेत्रे वा जनयेद् अस्य नियुक्तः क्षेत्रजं सुतम् । मातृबन्धुः सगोत्रो वा तस्मै तत् प्रदिशेद् धनम् (इति) 03.6.24 Chapt . Classification of sons परपरिग्रहे बीजमुत्सृष्टं क्षेत्रिणः इत्याचार्याः 03.7.01 माता भस्त्रा, यस्य रेतः तस्यापत्यम् इत्यपरे 03.7.02 विद्यमानमुभयमिति कौटिल्यः 03.7.03 स्वयञ्जातः कृतक्रियायामौरसः 03.7.04 तेन तुल्यः पुत्रिकापुत्रः 03.7.05 सगोत्रेणान्यगोत्रेण वा नियुक्तेन क्षेत्रजातः क्षेत्रजः पुत्रः 03.7.06 जनयितुरसत्यन्यस्मिन् पुत्रे सैव द्विपितृको द्विगोत्रो वा द्वयोरपि स्वधारिक्थभाग् भवति 03.7.07 तत्सधर्मा बन्धूनां गृहे गूढजातः तु गूढजः 03.7.08 बन्धुनोत्सृष्टोऽपविद्धः संस्कर्तुः पुत्रः 03.7.09 कन्यागर्भः कानीनः 03.7.10 सगर्भोढायाः सहोढः 03.7.11 पुनर्भूतायाः पौनर्भवः 03.7.12 स्वयञ्जातः पितुर्बन्धूनां च दायादः 03.7.13 परजातः संस्कर्तुरेव न बन्धूनाम् 03.7.14 तत्सधर्मा मातापितृभ्यामद्भिर्मुक्तो दत्तः 03.7.15 स्वयं बन्धुभिर्वा पुत्रभावोपगतोपगतः 03.7.16 पुत्रत्वेऽधिकृतः कृतकः 03.7.17 परिक्रीतः क्रीतः इति । 03.7.18 औरसे तूत्पन्ने सवर्णाः तृतीयांशहराः, असवर्णा ग्रासाच्छादनभागिनः 03.7.19 ब्राह्मणक्षत्रिययोरनन्तरापुत्राः सवर्णाः, एकान्तरा असवर्णाः 03.7.20 ब्राह्मणस्य वैश्यायामम्बष्ठः, शूद्रायां निषादः पारशवो वा 03.7.21 क्षत्रियस्य शूद्रायामुग्रः 03.7.22 शूद्रैव वैश्यस्य 03.7.23 सवर्णासु चैषामचरितव्रतेभ्यो जाता व्रात्याः 03.7.24 इत्यनुलोमाः 03.7.25 शूद्राद् आयोगवक्षत्तचण्डालाः 03.7.26 वैश्यान् मागधवैदेहकौ 03.7.27 क्षत्रियात् सूतः 03.7.28 पौराणिकः त्वन्यः सूतो मागधश्च, ब्रह्मक्षत्राद् विशेषः 03.7.29 तैते प्रतिलोमाः स्वधर्मातिक्रमाद् राज्ञः सम्भवन्ति 03.7.30 उग्रान्नैषाद्यां कुक्कुटः, विपर्यये पुल्कसः 03.7.31 वैदेहिकायामम्बष्ठाद् वैणः, विपर्यये कुशीलवः 03.7.32 क्षत्तायामुग्रात्श्वपाकः 03.7.33 इत्येतेऽन्ये चान्तरालाः 03.7.34 कर्मणा वैश्यो रथकारः 03.7.35 तेषां स्वयोनौ विवाहः, पूर्वापरगामित्वं वृत्तानुवृत्तं च 03.7.36 शूद्रसधर्माणो वा, अन्यत्र चण्डालेभ्यः 03.7.37 केवलमेवं वर्तमानः स्वर्गमाप्नोति राजा, नरकमन्यथा 03.7.38 सर्वेषामन्तरालानां समो विभागः 03.7.39 देशस्य जात्याः सङ्घस्य धर्मो ग्रामस्य वापि यः । उचितः तस्य तेनैव दायधर्मं प्रकल्पयेत् (इति) 03.7.40 Chapt . Immovable property Dwelling-places सामन्तप्रत्यया वास्तुविवादाः 03.8.01 गृहं क्षेत्रमारामः सेतुबन्धः तटाकमाधारो वा वास्तुः 03.8.02 कर्णकीलायससम्बन्धोऽनुगृहं सेतुः 03.8.03 यथासेतुभोगं वेश्म कारयेत् 03.8.04 अभूतं वा परकुड्याद् अपक्रम्य द्वावरत्नी त्रिपदीं वा देशबन्धं कारयेत् 03.8.05 अवस्करं भ्रममुदपानं वा न गृहोचिताद् अन्यत्र, अन्यत्र सूतिकाकूपाद् आनिर्दशाहादिति 03.8.06 तस्यातिक्रमे पूर्वः साहसदण्डः 03.8.07 तेनेन्धनावघातनकृतं कल्याणकृत्येष्वाचामोदकमार्गाश्च व्याख्याताः 03.8.08 त्रिपदीप्रतिक्रान्तमध्यर्धमरत्निं वा गाढप्रसृतमुदकमार्गं प्रस्रवणप्रपातं वा कारयेत् 03.8.09 तस्यातिक्रमे चतुष्पञ्चाशत्पणो दण्डः 03.8.10 एकपदीप्रतिक्रान्तमरत्निं वा चक्रिचतुष्पदस्थानमग्निष्ठमुदञ्जरस्थानं रोचनीं कुट्टनीं वा कारयेत् 03.8.11 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः 03.8.12 सर्ववास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा 03.8.13 तयोश्चतुर्ऽङ्गुलं नीप्रान्तरम् नीव्रान्तरम् ? समारूढकं वा 03.8.14 किष्कुमात्रमाणिद्वारमन्तरिकायां खण्डफुल्लार्थमसम्पातं कारयेत् 03.8.15 प्रकाशार्थमल्पमूर्ध्वं वातायनं कारयेत् 03.8.16 तद्ऽवसिते वेश्मनिच्छादयेत् 03.8.17 सम्भूय वा गृहस्वामिनो यथेष्टं कारयेयुः, अनिष्टं वारयेयुः 03.8.18 वानलट्याश्चोर्ध्वमावार्यभागं कटप्रच्छन्नमवमर्शभित्तिं वा कारयेद् वर्षाबाधभयात् 03.8.19 तस्यातिक्रमे पूर्वः साहसदण्डः, प्रतिलोमद्वारवातायनबाधायां च, अन्यत्र राजमार्गरथ्याभ्यः 03.8.20 खातसोपानप्रणालीनिश्रेण्यवस्करभागैर्बहिर्बाधायां भोगनिग्रहे च 03.8.21 परकुड्यमुदकेनोपघ्नतो द्वादशपणो दण्डः, मूत्रपुरीषोपघाते द्विगुणः 03.8.22 प्रणालीमोक्षो वर्षति, अन्यथा द्वादशपणो दण्डः 03.8.23 प्रतिषिद्धस्य च वसतः, निरस्यतश्चावक्रयिणमन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणमिथ्याभोगेभ्यः 03.8.24 स्वयंऽभिप्रस्थितो वर्षावक्रयशेषं दद्यात् 03.8.25 सामान्ये वेश्मनि साहाय्यमप्रयच्छतः, सामान्यमुपरुन्धतो भोगं च गृहे द्वादशपणो दण्डः 03.8.26 विनाशयतः तद्द्विगुणः 03.8.27 कोष्ठकाङ्गणवर्चानामग्निकुट्टनशालयोः । विवृतानां च सर्वेषां सामान्यो भोगेष्यते (इति) 03.8.28 Chapt . sale of immovable property Fixing of boundaries Enchroachment and Damage ज्ञातिसामन्तधनिकाः क्रमेण भूमिपरिग्रहान् क्रेतुमभ्याभवेयुः 03.9.01 ततोऽन्ये बाह्याः 03.9.02 सामन्तचत्वारिंशत्कुल्येषु गृहप्रतिमुखे वेश्म श्रावयेयुः, सामन्तग्रामवृद्धेषु क्षेत्रमारामं सेतुबन्धं तटाकमाधारं वा मर्यादासु यथासेतुभोगमनेनार्घेण कः क्रेता इति 03.9.03 त्रिराघुषितमव्याहतं क्रेता क्रेतुं लभेत 03.9.04 स्पर्धया वा मूल्यवर्धने मूल्यवृद्धिः स-शुल्का कोशं गच्छेत् 03.9.05 विक्रयप्रतिक्रोष्टा शुल्कं दद्यात् 03.9.06 अस्वामिप्रतिक्रोशे चतुर्विंशतिपणो दण्डः 03.9.07 सप्तरात्राद् ऊर्ध्वमनभिसरतः प्रतिक्रुष्टो विक्रीणीत 03.9.08 प्रतिक्रुष्टातिक्रमे वास्तुनि द्विशतो दण्डः, अन्यत्र चतुर्विंशतिपणो दण्डः इति वास्तुविक्रयः । 03.9.09 सीमविवादं ग्रामयोरुभयोः सामन्ता पञ्चग्रामी दशग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात् 03.9.10 कर्षकगोपालकवृद्धाः पूर्वभुक्तिका वा बाह्याः सेतूनामभिज्ञा बहवैको वा निर्दिश्य सीमसेतून् विपरीतवेषाः सीमानं नयेयुः 03.9.11 उद्दिष्टानां सेतूनामदर्शने सहस्रं दण्डः । 03.9.12 तद् एव नीते सीमापहारिणां सेतुच्छिदां च कुर्यात् 03.9.13 प्रनष्टसेतुभोगं वा सीमानं राजा यथोपकारं विभजेत् इति सीमविवादः । 03.9.14 क्षेत्रविवादं सामन्तग्रामवृद्धाः कुर्युः 03.9.15 तेषां द्वैधीभावे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः 03.9.16 तद्।उभयपरोक्तं वास्तु राजा हरेत्, प्रनष्टस्वामिकं च 03.9.17 यथोपकारं वा विभजेत् 03.9.18 प्रसह्यादाने वास्तुनि स्तेयदण्डः 03.9.19 कारणादाने प्रयासमाजीवं च परिसङ्ख्याय बन्धं दद्यात् इति क्षेत्रविवादः । 03.9.20 मर्यादापहरणे पूर्वः साहसदण्डः 03.9.21 मर्यादाभेदे चतुर्विंशतिपणः 03.9.22 तेन तपोवनविवीतमहापथश्मशानदेवकुलयजनपुण्यस्थानविवादा व्याख्याताः इति मर्यादास्थापनम् । 03.9.23 सर्वैव विवादाः सामन्तप्रत्ययाः 03.9.24 विवीतस्थलकेदारषण्डखलवेश्मवाहनकोष्ठानां पूर्वम्पूर्वमाबाधं सहेत 03.9.25 ब्रह्मसोमारण्यदेवयजनपुण्यस्थानवर्जाः स्थलप्रदेशाः 03.9.26 आधारपरिवाहकेदारोपभोगैः परक्षेत्रकृष्टबीजहिंसायां यथोपघातं मूल्यं दद्युः 03.9.27 केदारारामसेतुबन्धानां परस्परहिंसायां हिंसाद्विगुणो दण्डः 03.9.28 पश्चान्निविष्टमधरतटाकं नोपरितटाकस्य केदारमुदकेनाप्लावयेत् 03.9.29 उपरिनिविष्टं नाधरतटाकस्य पूरास्रावं वारयेद्, अन्यत्र त्रिवर्षोपरतकर्मणः 03.9.30 तस्यातिक्रमे पूर्वः साहसदण्डः, तटाकवामनं च 03.9.31 पञ्चवर्षोपरतकर्मणः सेतुबन्धस्य स्वाम्यं लुप्येत, अन्यत्रापद्भ्यः 03.9.32 तटाकसेतुबन्धानां नवप्रवर्तने पाञ्चवर्षिकः परिहारः, भग्नोत्सृष्टानां चातुर्वर्षिकः, समुपारूढानां त्रैवर्षिकः, स्थलस्य द्वैवर्षिकः 03.9.33 स्वात्माधाने विक्रये च 03.9.34 खातप्रावृत्तिमनदीनिबन्धायतनतटाककेदारारामषण्डवापानां सस्यवर्णभागोत्तरिकमन्येभ्यो वा यथोपकारं दद्युः 03.9.35 प्रक्रयावक्रयाधिभागभोगनिषृष्टोपभोक्तारश्चैषां प्रतिकुर्युः 03.9.36 अर्पतीकारे हीनद्विगुणो दण्डः 03.9.37 सेतुभ्यो मुञ्चतः तोयमवारे षट्पणो दमः । वारे वा तोयमन्येषां प्रमादेनोपरुन्धतः (इति) 03.9.38 Chapt . Damage to pastures, fields and roads कर्मोदकमार्गमुचितं रुन्धतः कुर्वतोऽनुचितं वा पूर्वः साहसदण्डः, सेतुकूपपुण्यस्थानचैत्यदेवायतनानि च परभूमौ निवेशयतः 03.10.01 पूर्वानुवृत्तं धर्मसेतुमाधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहसदण्डः, श्रोतॄणामुत्तमः, अन्यत्र भग्नोत्सृष्टात् 03.10.02 स्वाम्यभावे ग्रामाः पुण्यशीला वा प्रतिकुर्युः 03.10.03 पथिप्रमाणं दुर्गनिवेशे व्याख्यातम् 03.10.04 क्षुद्रपशुमनुष्यपथं रुन्धतो द्वादशपणो दण्डः, महापशुपथं चतुर्विंशतिपणः, हस्तिक्षेत्रपथं चतुष्पञ्चाशत्पणः, सेतुवनपथं षट्शतः, श्मशानग्रामपथं द्विशतः, द्रोणमुखपथं पञ्चशतः, स्थानीयराष्ट्रविवीतपथं साहस्रः 03.10.05 अतिकर्षणे चैषां दण्डचतुर्था दण्डाः 03.10.06 कर्षणे पूर्वोक्ताः 03.10.07 क्षेत्रिकस्याक्षिपतः क्षेत्रमुपवासस्य वा त्यजतो बीजकाले द्वादशपणो दण्डः, अन्यत्र दोषोपनिपाताविषह्येभ्यः 03.10.08 करदाः करदेष्वाधानं विक्रयं वा कुर्युः, ब्रह्मदेयिका ब्रह्मदेयिकेषु 03.10.09 अन्यथा पूर्वः साहसदण्डः 03.10.10 करदस्य वाकरदग्रामं प्रविशतः 03.10.11 करदं तु प्रविशतः सर्वद्रव्येषु प्राकाम्यं स्यात्, अन्यत्रागारात् 03.10.12 तद् अप्यस्मै दद्यात् 03.10.13 अनादेयमकृषतोऽन्यः पञ्चवर्षाण्युपभुज्य प्रयासनिष्क्रयेण दद्यात् 03.10.14 अकरदाः परत्र वसन्तो भोगमुपजीवेयुः 03.10.15 ग्रामार्थेन ग्रामिकं व्रजन्तमुपवासाः पर्यायेणानुगच्छेयुः 03.10.16 अननुगच्छन्तः पणार्धपणिकं योजनं दद्युः 03.10.17 ग्रामिकस्य ग्रामाद् अस्तेनपारदारिकं निरस्यतश्चतुर्विंशतिपणो दण्डः, ग्रामस्योत्तमः 03.10.18 निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः 03.10.19 स्तम्भैः समन्ततो ग्रामाद् धनुःशतापकृष्टमुपसालं कारयेत् 03.10.20 पशुप्रचारार्थं विवीतमालवनेनोपजीवेयुः 03.10.21 विवीतं भक्षयित्वापसृतानामुष्ट्रमहिषाणां पादिकं रूपं गृह्णीयुः, गवाश्वखराणां चार्धपादिकं, क्षुद्रपशूनां षोडशभागिकम् 03.10.22 भक्षयित्वा निषण्णानामेतैव द्विगुणा दण्डाः, परिवसतां चतुर्गुणाः 03.10.23 ग्रामदेववृषा वानिर्दशाहा वा धेनुरुक्षाणो गोवृषाश्चादण्ड्याः 03.10.24 सस्यभक्षणे सस्योपघातं निष्पत्तितः परिसङ्ख्याय द्विगुणं दापयेत् 03.10.25 स्वामिनश्चानिवेद्य चारयतो द्वादशपणो दण्डः, प्रमुञ्चतश्चतुर्विंशतिपणः 03.10.26 पालिनामर्धदण्डाः 03.10.27 तद् एव षण्डभक्षणे कुर्यात् 03.10.28 वाटभेदे द्विगुणः वेश्मखलवलयगतानां च धान्यानां भक्षणे 03.10.29 हिंसाप्रतीकारं कुर्यात् 03.10.30 अभयवनमृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथावध्याः तथा प्रतिषेद्धव्याः 03.10.31 पशवो रश्मिप्रतोदाभ्यां वारयितव्याः 03.10.32 तेषामन्यथा हिंसायां दण्डपारुष्यदण्डाः 03.10.33 प्रार्थयमाना दृष्टापराधा वा सर्वोपायैर्नियन्तव्याः इति क्षेत्रपथहिंसा । 03.10.34 कर्षकस्य ग्राममभ्युपेत्याकुर्वतो ग्रामैवात्ययं हरेत् 03.10.35 कर्माकरणे कर्मवेतनद्विगुणं, हिरण्यादाने प्रत्यंशद्विगुणं, भक्ष्यपेयादाने च प्रहवणेषु द्विगुणमंशं दद्यात् 03.10.36 प्रेक्षायामनंशदः, स-स्वजनो न प्रेक्षेत 03.10.37 प्रच्छन्नश्रवण ईक्षणे च सर्वहिते च कर्मणि निग्रहेण द्विगुणमंशं दद्यात् 03.10.38 सर्वहितमेकस्य ब्रुवतः कुर्युराज्ञाम् 03.10.39 अकरणे द्वादशपणो दण्डः 03.10.40 तं चेत् सम्भूय वा हन्युः पृथग् एषामपराधद्विगुणो दण्डः 03.10.41 उपहन्तृषु विशिष्टः 03.10.42 ब्राह्मणश्चैषां ज्यैष्ठ्यं नियम्येत 03.10.43 प्रहवणेषु चैषां ब्राह्मणा नाकामाः कुर्युः, अंशं च लभेरन् 03.10.44 तेन देशजातिकुलसङ्घानां समयस्यानपाकर्म व्याख्यातम् 03.10.45 राजा देशहितान् सेतून् कुर्वतां पथि सङ्क्रमान् । ग्रामशोभाश्च रक्षाश्च तेषां प्रियहितं चरेत् (इति) 03.10.46 Chapt . Non-payment of debts सपादपणा धर्म्या मासवृद्धिः पणशतस्य, पञ्चपणा व्यावहारिकी, दशपणा कान्तारगाणां, विंशतिपणा सामुद्राणाम् 03.11.01 ततः परं कर्तुः कारयितुश्च पूर्वः साहसदण्डः, श्रोतॄणामेकैकं प्रत्यर्धदण्डः 03.11.02 राजन्ययोगक्षेमावहे तु धनिकधारणिकयोश्चरित्रमवेक्षेत 03.11.03 धान्यवृद्धिः सस्यनिष्पत्तावुपार्धा, परं मूल्यकृता वर्धेत 03.11.04 प्रक्षेपवृद्धिरुदयाद् अर्धं सन्निधानसन्ना वार्षिकी देया 03.11.05 चिरप्रवासः स्तम्भप्रविष्टो वा मूल्यद्विगुणं दद्यात् 03.11.06 अकृत्वा वृद्धिं साधयतो वर्धयतो वा, मूल्यं वा वृद्धिमारोप्य श्रावयतो बन्धचतुर्गुणो दण्डः 03.11.07 तुच्छश्रावणायामभूतचतुर्गुणः 03.11.08 तस्य त्रिभागमादाता दद्यात्, शेषं प्रदाता 03.11.09 दीर्घसत्त्रव्याधिगुरुकुलोपरुद्धं बालमसारं वा नऋणमनुवर्धेत 03.11.10 मुच्यमानं ऋणमप्रतिगृह्णतो द्वादशपणो दण्डः 03.11.11 कारणापदेशेन निवृत्तवृद्धिकमन्यत्र तिष्ठेत् 03.11.12 दशवर्षोपेक्षितं ऋणमप्रतिग्राह्यं, अन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः 03.11.13 प्रेतस्य पुत्राः कुसीदं दद्युः, दायादा वा रिक्थहराः, सहग्राहिणः, प्रतिभुवो वा 03.11.14 न प्रातिभाव्यमन्यत् 03.11.15 असारं बालप्रातिभाव्यम् 03.11.16 असङ्ख्यातदेशकालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः 03.11.17 जीवितविवाहभूमिप्रातिभाव्यमसङ्ख्यातदेशकालं तु पुत्राः पौत्रा वा वहेयुः 03.11.18 नानाऋणसमवाये तु नैकं द्वौ युगपद् अभिवदेयातां, अन्यत्र प्रतिष्ठमानात् 03.11.19 तत्रापि गृहीतानुपूर्व्या राजश्रोत्रियद्रव्यं वा पूर्वं प्रतिपादयेत् 03.11.20 दम्पत्योः पितापुत्रयोः भ्रातॄणां चाविभक्तानां परस्पर।कृतं ऋणमसाध्यम् 03.11.21 अग्राह्याः कर्मकालेषु कर्षका राजपुरुषाश्च 03.11.22 स्त्री चाप्रतिश्राविणी पतिकृतं ऋणं, अन्यत्र गोपालकार्धसीतिकेभ्यः 03.11.23 पतिः तु ग्राह्यः स्त्रीकृतं ऋणं, अप्रतिविधाय प्रोषित इति 03.11.24 सम्प्रतिपत्तावुत्तमः 03.11.25 अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोऽनुमता वा त्रयोऽवरार्ध्याः 03.11.26 पक्षानुमतौ वा द्वौ, ऋणं प्रति न त्वेवैकः 03.11.27 प्रतिषिद्धाः स्यालसहायान्वर्थिधनिकधारणिकवैरिन्यङ्गधृतदण्डाः, पूर्वे चाव्यवहार्याः 03.11.28 राजश्रोत्रियग्रामभृतककुष्ठिव्रणिनः पतितचण्डालकुत्सितकर्माणोऽन्धबधिरमूकाहंवादिनः स्त्रीराजपुरुषाश्च, अन्यत्र स्ववर्गेभ्यः 03.11.29 पारुष्यस्तेयसङ्ग्रहणेषु तु वैरिस्यालसहायवर्जाः 03.11.30 रहस्यव्यवहारेष्वेका स्त्री पुरुषोपश्रोतोपद्रष्टा वा साक्षी स्याद् राजतापसवर्जम् 03.11.31 स्वामिनो भृत्यानां ऋत्विग्।आचार्याः शिष्याणां मातापितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः, तेसामितरे वा 03.11.32 परस्पराभियोगे चैषामुत्तमाः परोक्ता दशबन्धं दद्युः, अवराः पञ्चबन्धम् इति साक्ष्यधिकारः ॥ 03.11.33 ब्राह्मणोदकुम्भाग्निसकाशे साक्षिणः परिगृह्णीयात् 03.11.34 तत्र ब्राह्मणं ब्रूयात् सत्यं ब्रूहि इति 03.11.35 राजन्यं वैश्यं वा मा तवेष्टापूर्तफलं, कपालहस्तः शत्रुकुलं भिक्षार्थी गच्छेः इति 03.11.36 शूद्रं जन्ममरणान्तरे यद् वः पुण्यफलं तद् राजानं गच्छेद्, राज्ञश्च किल्बिषं युष्मान् अन्यथावादे, दण्डश्चानुबद्धः, पश्चाद् अपि ज्ञायेत यथादृष्टश्रुतं, एकमन्त्राः सत्यमुपहरत इति 03.11.37 अनुपहरतां सप्तरात्राद् ऊर्ध्वं द्वादशपणो दण्डः, त्रिपक्षाद् ऊर्ध्वमभियोगं दद्युः 03.11.38 साक्षिभेदे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः, मध्यं वा गृह्णीयुः 03.11.39 तद् वा द्रव्यं राजा हरेत् 03.11.40 साक्षिणश्चेद् अभियोगाद् ऊनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात् 03.11.41 अतिरिक्तं वा ब्रूयुः तद्ऽतिरिक्तं राजा हरेत् 03.11.42 बालिश्याद् अभियोक्तुर्वा दुह्श्रुतं दुर्लिखितं प्रेताभिनिवेशं वा समीक्ष्य साक्षिप्रत्ययमेव स्यात् 03.11.43 साक्षिबालिष्येष्वेव पृथग्ऽनुयोगे देशकालकार्याणां पूर्वमध्यमोत्तमा दण्डाः इत्यौशनसाः 03.11.44 कूटसाक्षिणो यमर्थमभूतं कुर्युर्भूतं वा नाशयेयुः तद् दशगुणं दण्डं दद्युः इति मानवाः 03.11.45 बालिश्याद् वा विसंवादयतां चित्रो घातः इति बार्हस्पत्याः 03.11.46 न इति कौटिल्यः 03.11.47 ध्रुवं हि साक्षिभिः श्रोतव्यम् 03.11.48 अश‍ृण्वतां चतुर्विंशतिपणो दण्डः, ततोऽर्धमब्रुवाणानाम् 03.11.49 देशकालाविदूरस्थान् साक्षिणः प्रतिपादयेत् । दूरस्थान् अप्रसारान् वा स्वामिवाक्येन साधयेत् (इति) 03.11.50 Chapt . Deposits उपनिधिरृणेन व्याख्यातः 03.12.01 परचक्राटविकाभ्यां दुर्गराष्ट्रविलोपे वा, प्रतिरोधकैर्वा ग्रामसार्थव्रजविलोपे, चक्रयुक्तनाशे वा, ग्राममध्याग्न्य्।उदकाबाधे ज्वालावेगोपरुद्धे वा, नावि निमग्नायां मुषितायां वा स्वयमुपरूढो नोपनिधिमभ्यावहेत् 03.12.02 उपनिधिभोक्ता देशकालानुरूपं भोगवेतनं दद्यात्, द्वादशपणं च दण्डम् 03.12.03 उपभोगनिमित्तं नष्टं विनष्टं वाभ्यावहेत्, चतुर्विंशतिपणश्च दण्डः, अन्यथा वा निष्पतने 03.12.04 प्रेतं व्यसनगतं वा नोपनिधिमभ्यावहेत् 03.12.05 आधानविक्रयापव्ययनेषु चास्य चतुर्गुणपञ्चबन्धो दण्डः 03.12.06 परिवर्तने निष्पातने वा मूल्यसमः 03.12.07 तेनाधिप्रणाशोपभोगविक्रयाधानापहारा व्याख्याताः 03.12.08 नाधिः स-उपकारः सीदेत्, न चास्य मूल्यं वर्धेत, अन्यत्र निसर्गात् 03.12.09 निरुपकारः सीदेत्, मूल्यं चास्य वर्धेत 03.12.10 उपस्थितस्याधिमप्रयच्छतो द्वादशण्पणो दण्डः 03.12.11 प्रयोजकासन्निधाने वा ग्रामवृद्धेषु स्थापयित्वा निष्क्रयमाधिं प्रतिपद्येत 03.12.12 निवृत्तवृद्धिको वाऽऽधिः तत्कालकृतमूल्यः तत्रैवावतिष्ठेत, अनाशविनाशकरणाधिष्ठितो वा 03.12.13 धारणिकासन्निधाने वा विनाशभयाद् उद्गतार्घं धर्मस्थानुज्ञातो विक्रीणीत, आधिपालप्रत्ययो वा 03.12.14 स्थावरः तु प्रयासभोग्यः फलभोग्यो वा प्रक्षेपवृद्धिमूल्यशुद्धमाजीवममूल्यक्षयेणोपनयेत् 03.12.15 अनिसृष्टोपभोक्ता मूल्यशुद्धमाजीवं बन्धं च दद्यात् 03.12.16 शेषमुपनिधिना व्याख्यातम् 03.12.17 एतेनादेशोऽन्वाधिश्च व्याख्यातौ 03.12.18 सार्थेनान्वाधिहस्तो वा प्रदिष्टां भूमिमप्राप्तश्चोरैर्भग्नोत्सृष्टो वा नान्वाधिमभ्यावहेत् 03.12.19 अन्तरे वा मृतस्य दायादोऽपि नाभ्यावहेत् 03.12.20 शेषमुपनिधिना व्यकह्यातम् 03.12.21 याचितकमवक्रीतकं वा यथाविधं गृह्णीयुः तथाविधमेवार्पयेयुः 03.12.22 भ्रेषोपनिपाताभ्यां देशकालोपरोधि दत्तं नष्टं विनष्टं वा नाभ्यावहेयुः 03.12.23 शेषमुपनिधिना व्याख्यातम् 03.12.24 वैयावृत्यविक्रयः तु - वैयावृत्यकरा यथादेशकालं विक्रीणानाः पण्यं यथाजातं मूल्यमुदयं च दद्युः 03.12.25 देशकालातिपातने वा परिहीणं सम्प्रदानकालिकेनार्घेण मूल्यमुदयं च दद्युः 03.12.26 यथासम्भाषितं वा विक्रीणाना नोदयमधिगच्छेयुः, मूल्यमेव दद्युः 03.12.27 अर्घपतने वा परिहीणं यथापरिहीणं मूल्यमूनं दद्युः 03.12.28 सांव्यवहारिकेषु वा प्रात्ययिकेष्वराजवाच्येषु भ्रेषोपनिपाताभ्यां नष्टं विनष्टं वा मूल्यमपि न दद्युः 03.12.29 देशकालान्तरितानां तु पण्यानां क्षयव्ययविशुद्धं मूल्यमुदयं च दद्युः, पण्यसमवायानां च प्रत्यंशम् 03.12.30 शेषमुपनिधिना व्याख्यातम् 03.12.31 एतेन वैयावृत्यविक्रयो व्याख्यातः 03.12.32 निक्षेपश्चोपनिधिना 03.12.33 तमन्येन निक्ष्पितमन्यस्यार्पयतो हीयेत 03.12.34 निक्षेपापहारे पूर्वापदानं निक्षेप्तारश्च प्रमाणम् 03.12.35 अशुचयो हि कारवः 03.12.36 नैषां करणपूर्वो निक्षेपधर्मः 03.12.37 करणहीनं निक्षेपमपव्ययमानं गूढभित्तिन्यस्तान् साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत्, वनान्ते वा मद्यप्रहवणविश्वासेन 03.12.38 रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित् कृतलक्षणं द्रव्यमस्य हस्ते निक्षिप्यापगच्छेत् 03.12.39 तस्य प्रतिदेशेन पुत्रो भ्राता वाभिगम्य निक्षेपं याचेत 03.12.40 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात् 03.12.41 प्रव्रज्याभिमुखो वा श्रद्धेयः कश्चित् कृतलक्षणं द्रव्यमस्य हस्ते निक्षिप्य प्रतिष्ठेत 03.12.42 ततः कालान्तरागतो याचेत 03.12.43 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात् 03.12.44 कृतलक्षणेन वा द्रव्येण प्रत्यानयेद् एनम् 03.12.45 बालिशजातीयो वा रात्रौ राजदायिकाक्षणभीतः सारमस्य हस्ते निक्षिप्यापगच्छेत् 03.12.46 सैनं बन्धनागारगतो याचेत 03.12.47 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात् 03.12.48 अभिज्ञानेन चास्य गृहे जनमुभयं याचेत 03.12.49 अन्यतर्तादाने यथोक्तं पुरस्तात् 03.12.50 द्रव्यभोगानामागमं चास्यानुयुञ्जीत, तस्य चार्थस्य व्यवहारोपलिङ्गनं, अभियोक्तुश्चार्थसामर्थ्यम् 03.12.51 एतेन मिथःसमवायो व्याख्यातः 03.12.52 तस्मात् साक्षिमद् अच्छन्नं कुर्यात् सम्यग्विभाषितम् । स्वे परे वा जने कार्यं देशकालाग्रवर्णतः (इति) 03.12.53 Chapt . Law concerning slaves and labourers उदरदासवर्जमार्यप्राणमप्राप्तव्यवहारं शूद्रं विक्रयाधानं नयतः स्वजनस्य द्वादशपणो दण्डः, वैश्यं द्विगुणः, क्षत्रियं त्रिगुणः, ब्राह्मणं चतुर्गुणः 03.13.01 परजनस्य पूर्वमध्यमोत्तमवधा दण्डाः, क्रेतृश्रोतॄणां च 03.13.02 म्लेच्छानामदोषः प्रजां विक्रेतुमाधातुं वा 03.13.03 न त्वेवार्यस्य दासभावः 03.13.04 अथवाऽऽर्यमाधाय कुलबन्धनार्याणामापदि, निष्क्रयं चाधिगम्य बालं साहाय्यदातारं वा पूर्वं निष्क्रीणीरन् 03.13.05 सकृद्।आत्माधाता निष्पतितः सीदेत्, द्विरन्येनाहितकः, सकृद् उभौ परविषयाभिमुखौ 03.13.06 वित्तापहारिणो वा दासस्यार्यभावमपहरतोऽर्धदण्डः 03.13.07 निष्पतितप्रेतव्यसनिनामाधाता मूल्यं भजेत 03.13.08 प्रेतविण्मूत्रोच्छिष्टग्राहणमाहितस्य नग्नस्नापनं दण्डप्रेषणमतिक्रमणं च स्त्रीणां मूल्यनाशकरं, धात्रीपरिचारिकार्धसीतिकोपचारिकाणां च मोक्षकरम् 03.13.09 सिद्धमुपचारकस्याभिप्रजातस्यापक्रमणम् 03.13.10 धात्रीमाहितिकां वाकामां स्ववशां गच्छतः पूर्वः साहसदण्डः, परवशां मध्यमः 03.13.11 कन्यामाहितिकां वा स्वयमन्येन वा दुषयतो मूल्यनाशः शुल्कं तद्द्वुगुणश्च दण्डः 03.13.12 आत्मविक्रयिणः प्रजामार्यां विद्यात् 03.13.13 आत्माधिगतं स्वामिकर्माविरुद्धं लभेत, पित्र्यं च दायम् 03.13.14 मूल्येन चार्यत्वं गच्छेत् 03.13.15 तेनोदरदासाहितकौ व्याख्यातौ 03.13.16 प्रक्षेपानुरूपश्चास्य निष्क्रयः 03.13.17 दण्डप्रणीतः कर्मणा दण्डमुपनयेत् 03.13.18 आर्यप्राणो ध्वजाहृतः कर्मकालानुरूपेण मूल्यार्धेन वा विमुच्येत 03.13.19 गृहेजातदायागतलब्धक्रीतानामन्यतमं दासमूनाष्टवर्षं विबन्धुमकामं नीचे कर्मणि विदेशे दासीं वा सगर्भामप्रतिविहितगर्भभर्मण्यां विक्रयाधानं नयतः पूर्वः साहसदण्डः, क्रेतृश्रोतॄणां च 03.13.20 दासमनुरूपेण निष्क्रयेणार्यमकुर्वतो द्वादशपणो दण्डः, संरोधश्चाकरणात् 03.13.21 दासद्रव्यस्य ज्ञातयो दायादाः, तेषामभावे स्वामी 03.13.22 स्वामिनः स्वस्यां दास्यां जातं समातृकमदासं विद्यात् 03.13.23 गृह्या चेत् कुटुम्बार्थचिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः 03.13.24 दासं दासीं वा निष्क्रीय पुनर्विक्रयाधानं नयतो द्वादशपणो दण्डः, अन्यत्र स्वयंवादिभ्यः इति दासकल्पः । 03.13.25 कर्मकरस्य कर्मसम्बन्धमासन्ना विद्युः 03.13.26 यथासम्भाषितं वेतनं लभेत, कर्मकालानुरूपमसम्भाषितवेतनः 03.13.27 कर्षकः सस्यानां गोपालकः सर्पिषां वैदेहकः पण्यानामात्मना व्यवहृतानां दशभागमसम्भाषितवेतनो लभेत 03.13.28 सम्भाषितवेतनः तु यथासम्भाषितम् 03.13.29 कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपरिचारकादिराशाकारिकवर्गः तु यथान्यः तद्विधः कुर्याद् यथा वा कुशलाः कल्पयेयुः तथा वेतनं लभेत 03.13.30 साक्षिप्रत्ययमेव स्यात् 03.13.31 साक्षिणामभावे यतः कर्म ततोऽनुयुञ्जीत 03.13.32 वेतनादाने दशबन्धो दण्डः, षट्पणो वा 03.13.33 अपव्ययमाने द्वादशपणो दण्डः, पञ्चबन्धो वा 03.13.34 नदीवेगज्वालास्तेनव्यालोपरुद्धः सर्वस्वपुत्रदारात्मदानेनार्तः त्रातारमाहूय निष्तीर्णः कुशलप्रदिष्टं वेतनं दद्यात् 03.13.35 तेन सर्वत्रार्तदानानुशया व्याख्याताः 03.13.36 लभेत पुंश्चली भोगं सङ्गमस्योपलिङ्गनात् । अतियाच्ना तु जीयेत दौर्मत्याविनयेन वा (इति) 03.13.37 Chapt . Duties of servants Undertaking in partnership गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादशपणो दण्डः, संरोधश्चाकरणात् 03.14.01 अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वानुशयं लभेत, परेण वा कारयितुम् 03.14.02 तस्यव्ययकर्मणा लभेत भर्ता वा कारयितुम् 03.14.03 नान्यः त्वया कारयितव्यो, मया वा नान्यस्य कर्तव्यम् इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादशपणो दण्डः 03.14.04 कर्मनिष्ठापने भर्तुरन्यत्र गृहीतवेतनो नासकामः कुर्यात् 03.14.05 उपस्थितमकारयतः कृतमेव विद्याद् इत्याचार्याः 03.14.06 न इति कौटिल्यः 03.14.07 कृतस्य वेतनं नाकृतस्यास्ति 03.14.08 स चेद् अल्पमपि कारयित्वा न कारयेत् कृतमेवास्य विद्यात् 03.14.09 देशकालातिपातनेन कर्मणामन्यथाकरणे वा नासकामः कृतमनुमन्येत 03.14.10 सम्भाषिताद् अधिकक्रियायां प्रयासं न मोघं कुर्यात् 03.14.11 तेन सङ्घभृता व्याख्याताः 03.14.12 तेषामाधिः सप्तरात्रमासीत 03.14.13 ततोऽन्यमुपस्थापयेत्, कर्मनिष्पाकं च 03.14.14 न चानिवेद्य भर्तुः सङ्घः कञ्चित् परिहरेद् उपनयेद् वा 03.14.15 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः 03.14.16 सङ्घेन परिहृतस्यार्धदण्डः इति भृतकाधिकारः ॥ 03.14.17 सङ्घभृताः सम्भूयसमुत्थातारो वा यथासम्भाषितं वेतनं समं वा विभजेरन् 03.14.18 कर्षणवैदेहका वा सस्यपण्यारम्भपर्यवसानान्तरे सन्नस्य यथाकृतस्य कर्मणः प्रत्यंशं दद्युः 03.14.19 पुरुषोपस्थाने समग्रमंशं दद्युः 03.14.20 संसिद्धे तूद्धृतपण्ये सन्नस्य तदानीमेव प्रत्यंशं दद्युः 03.14.21 सामान्या हि पथिसिद्धिश्चासिद्धिश्च 03.14.22 प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादशपणो दण्डः 03.14.23 न च प्राकाम्यमपक्रमणे 03.14.24 चोरं त्वभयपूर्वं कर्मणः प्रत्यंशेन ग्राहयेद्, दद्यात् प्रत्यंशमभयं च 03.14.25 पुनःस्तेये प्रवासनं, अन्यत्रगमने च 03.14.26 महापराधे तु दूष्यवद् आचरेत् 03.14.27 याजकाः स्वाप्रचारद्रव्यवर्जं यथासम्भाषितं वेतनं समं वा विभजेरन् 03.14.28 अग्निष्टोमादिषु च क्रतुषु दीक्षणाद् ऊर्ध्वं तृतीयमंशं, मध्यमोपसदोर्ध्वमर्धमंशं, सुत्ये प्रातःसवनाद् ऊर्ध्वं पादोनमंशम् 03.14.29 माध्यन्दिनात् सवनाद् ऊर्ध्वं समग्रमंशं लभेत 03.14.30 नीता हि दक्षिणा भवन्ति 03.14.31 बृहस्पतिसववर्जं प्रतिसवनं हि दक्षिणा दीयन्ते 03.14.32 तेनाहर्गणदक्षिणा व्याख्याताः 03.14.33 सनानामादशाहोरात्रात्शेषभृताः कर्म कुर्युः, अन्ये वा स्वप्रत्ययाः 03.14.34 कर्मण्यसमाप्ते तु यजमानः सीदेद्, ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः 03.14.35 असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहसदण्डः 03.14.36 अनाहिताग्निः शतगुरुयज्वा च सहस्रगुः । सुरापो वृषलीभर्ता ब्रह्महा गुरुतल्पगः 03.14.37 असत्प्रतिग्रहे युक्तः स्तेनः कुत्सितयाजकः । अदोषः त्यक्तुमन्योन्यं कर्मसङ्करनिश्चयात् (इति) 03.14.38 Chapt . Rescission of sale and purchase विक्रीय पण्यमप्रयच्छतो द्वादशपणो दण्डः, अन्यत्र दोषोपनिपाताविषह्येभ्यः 03.15.01 पण्यदोषो दोषः 03.15.02 राजचोराग्न्य्।उदकबाधोपनिपातः 03.15.03 बहुगुणहीनमार्तकृतं वाविषह्यम् 03.15.04 वैदेहकानामेकरात्रमनुशयः, कर्षकाणां त्रिरात्रं, गोरक्षकाणां पञ्चरात्रम् 03.15.05 व्यामिश्राणामुत्तमानां च वर्णानां वृत्तिविक्रये सप्तरात्रम् 03.15.06 आतिपातिकानां पण्यानामन्यत्राविक्रेयम् इत्यवरोधेनानुशयो देयः 03.15.07 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः, पण्यदशभागो वा 03.15.08 क्रीत्वा पण्यमप्रतिगृह्णतो द्वादशपणो दण्डः, अन्यत्र दोषोपनिपाताविषह्येभ्यः 03.15.09 समानश्चानुशयो विक्रेतुरनुशयेन 03.15.10 विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणिग्रहणात् सिद्धमुपावर्तनं, शूद्राणां च प्रकर्मणः 03.15.11 वृत्तपाणिग्रहणयोरपि दोषमौपशायिकं दृष्ट्वा सिद्धमुपावर्तनम् 03.15.12 न त्वेवाभिप्रजातयोः 03.15.13 कन्यादोषमौपशायिकमनाख्याय प्रयच्छतः कन्यां षण्ँअवतिर्दण्डः, शुल्कस्त्रीधनप्रतिदानं च 03.15.14 वरयितुर्वा वरदोषमनाख्याय विन्दतो द्विगुणः, शुल्कस्त्रीधननाशश्च 03.15.15 द्विपदचतुष्पदानां तु कुण्ठव्याधिताशुचीनामुत्साहस्वास्थ्यशुचीनामाख्याने द्वादशपणो दण्डः 03.15.16 आत्रिपक्षादिति चतुष्पदानामुपावर्तनं, आसंवत्सरादिति मनुष्याणाम् 03.15.17 तावता हि कालेन शक्यं शौचाशौचे ज्ञातुम् 03.15.18 दाता प्रतिग्रहीता च स्यातां नोपहतौ यथा । दाने क्रये वानुशयं तथा कुर्युः सभासदः (इति) 03.15.19 Chapt . Non-conveyance of gifts sale without ownership Relation of ownership दत्तस्याप्रदानं ऋणादानेन व्याख्यातम् 03.16.01 दत्तमव्यवहार्यमेकत्रानुशये वर्तेत 03.16.02 सर्वस्वं पुत्रदारमात्मानं वा प्रदायानुशयिनः प्रयच्छेत् 03.16.03 धर्मदानमसाधुषु कर्मसु चोपघातिकेषु वा, अर्थदानमनुपकारिष्वपकारिषु वा, कामदानमनर्हेषु च 03.16.04 यथा च दाता प्रतिग्रहीता च नोपहतौ स्यातां तथानुशयं कुशलाः कल्पयेयुः 03.16.05 दण्डभयाद् आक्रोशभयाद् अनर्थभयाद् वा भयदानं प्रतिगृह्णतः स्तेयदण्डः, प्रयच्छतश्च 03.16.06 रोषदानं परहिंसायां, राज्ञामुपरि दर्पदानं च 03.16.07 तत्रोत्तमो दण्डः 03.16.08 प्रातिभाव्यं दण्डशुल्कशेषमाक्षिकं सौरिकं च नाकामः पुत्रो दायादो वा रिक्थहरो दद्यात् इति दत्तस्यानपाकर्म । 03.16.09 अस्वामिविक्रयः तु - नष्टापहृतमासाद्य स्वामी धर्मस्थेन ग्राहयेत् 03.16.10 देशकालातिपत्तौ वा स्वयं गृहीत्वोपहरेत् 03.16.11 धर्मस्थश्च स्वामिनमनुयुञ्जीत कुतः ते लब्धम् इति 03.16.12 स चेद् आचारक्रमं दर्शयेत, न विक्रेतारं, तस्य द्रव्यस्यातिसर्गेण मुच्येत 03.16.13 विक्रेता चेद् दृश्येत, मूल्यं स्तेयदण्डं च दद्यात् 03.16.14 स चेद् अपसारमधिगच्छेद् अपसरेद् आपसारक्षयात् 03.16.15 क्षये मूल्यं स्तेयदण्डं च दद्यात् 03.16.16 नाष्टिकश्च स्वकरणं कृत्वा नष्टप्रत्याहृतं लभेत 03.16.17 स्वकरणाभावे पञ्चबन्धो दण्डः 03.16.18 तच्च द्रव्यं राजधर्म्यं स्यात् 03.16.19 नष्टापहृतमनिवेद्योत्कर्षतः स्वामिनः पूर्वः साहसदण्डः 03.16.20 शुल्कस्थाने नष्टापहृतोत्पन्नं तिष्ठेत् 03.16.21 त्रिपक्षाद् ऊर्ध्वमनभिसारं राजा हरेत्, स्वामी वा स्वकरणेन 03.16.22 पञ्चपणिकं द्विपदरूपस्य निष्क्रयं दद्यात्, चतुष्पणिकमेकखुरस्य, द्विपणिकं गोमहिषस्य, पादिकं क्षुद्रपशूनाम् 03.16.23 रत्नसारफल्गुकुप्यानां पञ्चकं शतं दद्यात् 03.16.24 परचक्राटवीहृतं तु प्रत्यानीय राजा यथास्वं प्रयच्छेत् 03.16.25 चोरहृतमविद्यमानं स्वद्रव्येभ्यः प्रयच्छेत्, प्रत्यानेतुमशक्तो वा 03.16.26 स्वयङ्ग्राहेणाहृतं प्रत्यानीय तन्निष्क्रयं वा प्रयच्छेत् 03.16.27 परविषयाद् वा विक्रमेणानीतं यथाप्रदिष्टं राज्ञा भुञ्जीत, अन्यत्रार्यप्राणेभ्यो देवब्राह्मणतपस्विद्रव्येभ्यश्च इत्यस्वामिविक्रयः । 03.16.28 स्वस्वामिसम्बन्धः तु - भोगानुवृत्तिरुच्छिन्नदेशानां यथास्वं द्रव्याणाम् 03.16.29 यत् स्वं द्रव्यमन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत, हीयेतास्य, अन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः 03.16.30 विंशतिवर्षोपेक्षितमनवसितं वास्तु नानुयुञ्जीत 03.16.31 ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञामसंनिधौ परवास्तुषु विवसन्तो न भोगेन हरेयुः, उपनिधिमाधिं निधिं निक्षेपं स्त्रियं सीमानं राजश्रोत्रियद्रव्याणि च 03.16.32 आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परमबाधमाना वसेयुः 03.16.33 अल्पां बाधां सहेरन् 03.16.34 पूर्वागतो वा वासपर्यायं दद्यात् 03.16.35 अप्रदाता निरस्येत 03.16.36 वानप्रस्थयतिब्रह्मचारिणामाचार्यशिष्यधर्मभ्रातृसमानतीर्थ्या रिक्थभाजः क्रमेण 03.16.37 विवादपदेषु चैषां यावन्तः पणा दण्डाः तावती रात्रीः क्षपणाभिषेकाग्निकार्यमहाकच्छवर्धनानि राज्ञश्चरेयुः 03.16.38 अहिरण्यसुवर्णाः पाषढाः साधवः 03.16.39 ते यथास्वमुपवासव्रतैराराधयेयुः, अन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणेभ्यः 03.16.40 तेषु यथोक्ता दण्डाः कार्याः 03.16.41 प्रव्रज्यासु वृथाऽऽचारान् राजा दण्डेन वारयेत् । धर्मो ह्यधर्मोपहतः शास्तारं हन्त्युपेक्षितः (इति) 03.16.42 Chapt . Forcible seizure साहसमन्वयवत् प्रसभकर्म 03.17.01 निरन्वये स्तेयं, अपव्ययने च 03.17.02 रत्नसारफल्गुकुप्यानां साहसे मूल्यसमो दण्डः इति मानवाः 03.17.03 मूल्यद्विगुणः इत्यौशनसाः 03.17.04 यथापराध इति कौटिल्यः 03.17.05 पुष्पफलशाकमूलकन्दपक्वान्नचर्मवेणुमृद्भाण्डादीनां क्षुद्रकद्रव्याणां द्वाद्शपणावरश्चतुर्विंशतिपणपरो दण्डः 03.17.06 कालायसकाष्ठरज्जुद्रव्यक्षुद्रपशुपटादीनां स्थूलकद्रव्याणां चतुर्विंशतिपणावरोऽष्टचत्वारिंशत्पणपरो दण्डः 03.17.07 ताम्रवृत्तकंसकाचदन्तभाण्डादीनां स्थूलकद्रव्याणामष्टचत्वारिंशत्पणावरः षण्ँअवतिपरः पूर्वः साहसदण्डः 03.17.08 महापशुमनुष्यक्षेत्रगृहहिरण्यसुवर्णसूक्ष्मवस्त्रादीनां स्थूलकद्रव्याणां द्विशतावरः पञ्चशतपरो मध्यमः साहसदण्डः 03.17.09 स्त्रियं पुरुषं वाभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्चशतावरः सहस्रपरोत्तमः साहसदण्डः इत्याचार्याः ॥ 03.17.10 यः साहसं प्रतिपत्ता इति कारयति स द्विगुणं दद्यात् 03.17.11 यावद्द् हिरण्यमुपयोक्ष्यते तावद् दास्यामि इति स चतुर्गुणं दण्डं दद्यात् 03.17.12 यः एतावद्द् हिरण्यं दास्यामि इति प्रमाणमुद्दिश्य कारयति स यथोक्तं हिरण्यं दण्डं च दद्यात् इति बार्हस्पत्याः 03.17.13 स चेत् कोपं मदं मोहं वापदिशेद् यथोक्तवद् दण्डमेनं कुर्यादिति कौटिल्यः 03.17.14 दण्डकर्मसु सर्वेषु रूपमष्टपणं शतम् । शतात् परेषु व्याजीं च विद्यात् पञ्चपणं शतम् 03.17.15 प्रजानां दोषबाहुल्याद् राज्ञां वा भावदोषतः । रूपव्याज्यावधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता (इति) 03.17.16 Chapt . Verbal i~njury वाक्पारुष्यमुपवादः कुत्सनमभिभर्त्सनमिति 03.18.01 शरीरप्रकृतिश्रुतवृत्तिजनपदानां शरीरोपवादे काणखञ्जादिभिः सत्ये त्रिपणो दण्डः, मिथ्योपवादे षट्पणो दण्डः 03.18.02 शोभनाक्षिमन्तः इति काणखञ्जादीनां स्तुतिनिन्दायां द्वादशपणो दण्डः 03.18.03 कुष्ठोन्मादक्लैब्यादिभिः कुत्सायां च सत्यमिथ्यास्तुतिनिन्दासु द्वादशपणोत्तरा दण्डाः तुल्येषु 03.18.04 विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः 03.18.05 कुष्ठोन्मादयोश्चिकित्सकाः संनिकृष्टा पुमांसश्च प्रमाणं, क्लीबभावे स्त्रियो मूत्रफेनोऽप्सु विष्ठानिमज्जनं च 03.18.06 प्रकृत्य्।उपवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनामपरेण पूर्वस्य त्रिपणोत्तरा दण्डाः, पूर्वेणापरस्य द्विपणाधराः, कुब्राह्मणादिभिश्च कुत्सायाम् 03.18.07 तेन श्रुतोपवादो वाग्जीवनानां, कारुकुशीलवानां वृत्त्य्।उपवादः, प्राज्जूणकगान्धारादीनां च जनपदोपवादा व्याख्याताः 03.18.08 यः परमेवं त्वां करिष्यामि इति करणेनाभिभर्त्सयेद्, अकरणे यः तस्य करणे दण्डः ततोऽर्धदण्डं दद्यात् 03.18.09 अशक्तः कोपं मदं मोहं वापदिशेद् द्वादशपणं दण्डं दद्यात् 03.18.10 जातवैराशयः शक्तश्चापकर्तुं यावज्जीविकावस्थं दद्यात् 03.18.11 स्वदेशग्रामयोः पूर्वं मध्यमं जातिसङ्घयोः । आक्रोशाद् देवचैत्यानामुत्तमं दण्डमर्हति (इति) 03.18.12 Chapt . Physical i~njury दण्डपारुष्यं स्पर्शनमवगूर्णं प्रहतमिति 03.19.01 नाभेरधःकायं हस्तपङ्कभस्मपांसुभिरिति स्पृशतः त्रिपणो दण्डः, तैरेवामेध्यैः पादष्ठीविकाभ्यां च षट्पणः, छर्दिमूत्रपुरीषादिभिर्द्वादशपणः 03.19.02 नाभेरुपरि द्विगुणाः, शिरसि चतुर्गुणाः समेषु 03.19.03 विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः 03.19.04 पादवस्त्रहस्तकेशावलम्बनेषु षट्पणोत्तरा दण्डाः 03.19.05 पीडनावेष्टनाञ्चनप्रकर्षणाध्यासनेषु पूर्वः साहसदण्डः 03.19.06 पातयित्वापक्रामतोऽर्धदण्डः 03.19.07 शूद्रो येनाङ्गेन ब्राह्मणमभिहन्यात् तद् अस्यच्छेदयेत् 03.19.08 अवगूर्णे निष्क्रयः, स्पर्शेऽर्धदण्डः 03.19.09 तेन चण्डालाशुचयो व्याख्यातः 03.19.10 हस्तेनावगूर्णे त्रिपणावरो द्वादशपणपरो दण्डः, पादेन द्विगुणः, दुःखोत्पादनेन द्रव्येण पूर्वः साहसदण्डः, प्राणाबाधिकेन मध्यमः 03.19.11 काष्ठलोष्टपाषाणलोहदण्डरज्जुद्रव्याणामन्यतमेन दुःखमशोणितमुत्पादयतश्चतुर्विंशतिपणो दण्डः, शोणितोत्पादने द्विगुणः, अन्यत्र दुष्टशोणितात् 03.19.12 मृतकल्पमशोणितं घ्नतो हस्तपादपारञ्चिकं वा कुर्वतः पूर्वः साहसदण्डः, पाणिपाददन्तभङ्गे कर्णनासाच्छेदने व्रणविदारणे च्च, अन्यत्र दुष्टव्रणेभ्यः 03.19.13 सक्थिग्रीवाभञ्जने नेत्रभेदने वा वाक्यचेष्टाभोजनोपरोधेषु च मध्यमः साहसदण्डः समुत्थानव्ययश्च 03.19.14 विपत्तौ कण्टकशोधनाय नीयेत 03.19.15 महाजनस्यैकं घ्नतः प्रत्येकं द्विगुणो दण्डः 03.19.16 पर्युषितः कलहोऽनुप्रवेशो वा नाभियोज्यः इत्याचार्याः 03.19.17 नास्त्यपकारिणो मोक्ष इति कौटिल्यः 03.19.18 कलहे पूर्वागतो जयति, अक्षममाणो हि प्रधावति इत्याचार्याः 03.19.19 न इति कौटिल्यः 03.19.20 पूर्वं पश्चाद् वाभिगतस्य साक्षिणः प्रमाणं, असाक्षिके घातः कलहोपलिङ्गनं वा 03.19.21 घाताभियोगमप्रतिब्रुवतः तद् अहरेव पश्चात्कारः 03.19.22 कलहे द्रव्यमपहरतो दशपणो दण्डः, क्षुद्रकद्रव्यहिंसायां तच्च तावच्च दण्डः, स्थूलकद्रव्यहिंसायां तच्च द्विगुणश्च दण्डः, वस्त्राभरणहिरण्यसुवर्णभाण्डहिंसायां तच्च पूर्वश्च साहसदण्डः 03.19.23 परकुड्यमभिघातेन क्षोभयतः त्रिपणो दण्डः, छेदनभेदने षट्पणः, प्रतीकारश्च 03.19.24 दुःखोत्पादनं द्रव्यमन्यवेश्मनि प्रक्षिपतो द्वादशपणो दण्डः, प्राणाबाधिकं पूर्वः साहसदण्डः 03.19.25 क्षुद्रपशूनां काष्ठादिभिर्दुःखोत्पादने पणो द्विगुणो वा दण्डः, शोणितोत्पादने द्विगुणः 03.19.26 महापशूनामेतेष्वेव स्थानेष्व्द्विगुणो दण्डः समुत्थानव्ययश्च 03.19.27 पुरोपवनवनस्पतीनां पुष्पफलच्छायावतां प्ररोहच्छेदने षट्पणः, क्षुद्रशाखाच्छेदने द्वादशपणः, पीनशाखाच्च्छेदने चतुर्विंशतिपणः, स्कन्धवधे पूर्वः साहसदण्डः, समुच्छित्तौ मध्यमः 03.19.28 पुष्पफलच्छायावद्गुल्मलतास्वर्धदण्डाः, पुण्यस्थानतपोवनश्मशानद्रुमेषु च 03.19.29 सीमवृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च । तैव द्विगुणा दण्डाः कार्या राजवनेषु च (इति) 03.19.30 Chapt . Gambling and betting Mischellaneous द्यूताध्यक्षो द्यूतमेकमुखं कारयेत् 03.20.01 अन्यत्र दीव्यतो द्वादशपणो दण्डो गूढाजीविज्ञापनार्थम् 03.20.02 द्यूताभियोगे जेतुः पूर्वः साहसदण्डः, पराजितस्य मध्यमः 03.20.03 बालिशजातीयो ह्येष जेतुकामः पराजयं न क्षमते इत्याचार्याः 03.20.04 न इत्य्कौटिल्यः 03.20.05 पराजितश्चेद् द्विगुणदण्डः क्रियेत न कश्चन राजानमभिसरिष्यति 03.20.06 प्रायशो हि कितवाः कूटदेविनः 03.20.07 तेषामध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः 03.20.08 काकण्यक्षाणामन्योपधाने द्वादशपणो दण्डः, कूटकर्मणि पूर्वः साहसदण्डो जितप्रत्यादानं, उपधौ स्तेयदण्डश्च 03.20.09 जितद्रव्याद् अध्यक्षः पञ्चकं शतमाददीत, काकण्यक्षारालाशलाकावक्रयमुदकभूमिकर्मक्रयं च 03.20.10 द्रव्याणामाधानं विक्रयं च कुर्यात् 03.20.11 अक्षभूमिहस्तदोषाणां चाप्रतिषेधने द्विगुणो दण्डः 03.20.12 तेन समाह्वयो व्याख्यातः, अन्यत्र विद्याशिल्पसमाह्वयात् । इति 03.20.13 प्रकीर्णकं तु - याचितकावक्रीतकाहितकनिक्षेपकाणां यथादेशकालमदाने, यामच्छायासमुपवेशसंस्थितीनां वा देशकालातिपातने, गुल्मतरदेयं ब्राह्मणं साधयतः, प्रतिवेशानुवेशयोरुपरि निमन्त्रणे च द्वादशपणो दण्डः 03.20.14 सन्दिष्टमर्थमप्रयच्छतो, भ्रातृभार्यां हस्तेन लङ्घयतो, रूपाजीवामन्योपरुद्धां गच्छतः, परवक्तव्यं पण्यं क्रीणानस्य, समुद्रं गृहमुद्भिन्दतः, सामन्तचत्वारिंशत्कुल्याबाधामाचरतश्चाष्टचत्वारिंशत्पणो दण्डः 03.20.15 कुलनीवीग्राहकस्यापव्ययने, विधवां छन्दवासिनीं प्रसह्याधिचरतः, चण्डालस्यार्यां स्पृशतः, प्रत्यासन्नमापद्यनभिधावतो, निष्कारणमभिधावनं कुर्वतः, शाक्याजीवकादीन् वृषलप्रव्रजितान् देवपितृकार्येषु भोजयतः शत्यो दण्डः 03.20.16 शपथवाक्यानुयोगमनिषृष्टं कुर्वतः, युक्तकर्म चायुक्तस्य, क्षुद्रपशुवृषाणां पुंस्त्वोपघातिनः, दास्या गर्भमौषधेन पातयतश्च पूर्वः साहसदण्डः 03.20.17 पितापुत्रयोर्दम्पत्योर्भ्रातृभगिन्योर्मातुलभगिनेययोः शिष्याचार्ययोर्वा परस्परमपतितं त्यजतः, सार्थाभिप्रयातं ग्राममध्ये वा त्यजतः पूर्वः साहसदण्डः, कान्तारे मध्यमः, तन्निमित्तं भ्रेषयतोत्तमः, सहप्रस्थायिष्वन्येष्वर्धदण्डाः 03.20.18 पुरुषमबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो, बालमप्राप्तव्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः 03.20.19 पुरुषापराधविशेषेण दण्डविशेषः कार्यः 03.20.20 तीर्थकरः तपस्वी व्याधितः क्षुत्पिपासाध्वक्लान्तः तिरोजनपदो दण्डखेदी निष्किञ्चनश्चानुग्राह्याः 03.20.21 देवब्राह्मणतपस्विस्त्रीबालवृद्धव्याधितानामनाथानामनभिसरतां धर्मस्थाः कार्याणि कुर्युः, न च देशकालभोगच्छलेनातिहरेयुः 03.20.22 पूज्या विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः 03.20.23 एवं कार्याणि धर्मस्थाः कुर्युरच्छलदर्शिनः । समाः सर्वेषु भावेषु विश्वास्या लोकसम्प्रियाः (इति) 03.20.24 Book . suppression of criminals Chapt . keeping a watch over artisans प्रदेष्टारः त्रयः त्रयोऽमात्याः कण्टकशोधनं कुर्युः 04.1.01 अर्थ्यप्रतीकाराः कारुशासितारः संनिक्षेप्तारः स्ववित्तकारवः श्रेणीप्रमाणा निक्षेपं गृह्णीयुः 04.1.02 विपत्तौ श्रेणी निक्षेपं भजेत 04.1.03 निर्दिष्टदेशकालकार्यं च कर्म कुर्युः, अनिर्दिष्टदेशकालं कार्यापदेशम् 04.1.04 कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः 04.1.05 अन्यत्र भ्रेषोपनिपाताभ्यां नष्टं विनष्टं वाभ्यावहेयुः 04.1.06 कार्यस्यान्यथाकरणे वेतननाशः तद्द्विगुणश्च दण्डः 04.1.07 तन्तुवाया दशैकादशिकं सूत्रं वर्धयेयुः 04.1.08 वृद्धिच्छेदे छेदद्विगुणो दण्डः 04.1.09 सूत्रमूल्यं वानवेतनं, क्षौमकौशेयानामध्यर्धगुणं, पत्त्रोर्णाकम्बलदुकूलानां द्विगुणम् 04.1.10 मानहीने हीनावहीनं वेतनं तद्द्विगुणश्च दण्डः, तुलाहीने हीनचतुर्गुणो दण्डः, सूत्रपरिवर्तने मूल्यद्विगुणः 04.1.11 तेन द्विपटवानं व्याख्यातम् 04.1.12 ऊर्णातुलायाः पञ्चपलिको विहननच्छेदो रोमच्छेदश्च 04.1.13 रजकाः काष्ठफलकश्लक्ष्णशिलासु वस्त्राणि नेनिज्युः 04.1.14 अन्यत्र नेनिजतो वस्त्रोपघातं षट्पणं च दण्डं दद्युः 04.1.15 मुद्गराङ्काद् अन्यद् वासः परिदधानाः त्रिपणं दण्डं दद्युः 04.1.16 परवस्त्रविक्रयावक्रयाधानेषु च द्वादशपणो दण्डः, परिवर्तने मूल्यद्विगुणो वस्त्रदानं च 04.1.17 मुकुलावदातं शिलापट्टशुद्धं धौतसूत्रवर्णं प्रमृष्टश्वेतं चैकरात्रोत्तरं दद्युः 04.1.18 पञ्चरात्रिकं तनुरागं, षड्रात्रिकं नीलं, पुष्पलाक्षामञ्जिष्ठारक्तं गुरुपरिकर्म यत्नोपचार्यं जात्यं वासः सप्तरात्रिकम् 04.1.19 ततः परं वेतनहानिं प्राप्नुयुः 04.1.20 श्रद्धेया रागविवादेषु वेतनं कुशलाः कल्पयेयुः 04.1.21 परार्ध्यानां पणो वेतनं, मध्यमानामर्धपणः, प्रत्यवराणां पादः, स्थूलकानां माषकद्विमाषकं, द्विगुणं रक्तकानाम् 04.1.22 प्रथमनेजने चतुर्भागः क्षयः, द्वितीये पञ्चभागः 04.1.23 तेनोत्तरं व्याख्यातम् 04.1.24 रजकैः तुन्नवाया व्याख्याताः 04.1.25 सुवर्णकाराणामशुचिहस्ताद् रूप्यं सुवर्णमनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः, विरूपं चतुर्विंशतिपणः, चोरहस्ताद् अष्टचत्वारिंशत्पणः 04.1.26 प्रच्छन्नविरूपमूल्यहीनक्रयेषु स्तेयदण्डः, कृतभाण्डोपधौ च 04.1.27 सुवर्णान् माषकमपहरतो द्विशतो दण्डः, रूप्यधरणान् माषकमपहरतो द्वादशपणः 04.1.28 तेनोत्तरं व्याख्यातम् 04.1.29 वर्णोत्कर्षमपसारणं योगं वा साधयतः पञ्चशतो दण्डः 04.1.30 तयोरपचरणे रागस्यापहारं विद्यात् 04.1.31 माषको वेतनं रूप्यधरणस्य, सुवर्णस्याष्टभागः 04.1.32 शिक्षाविशेषेण द्विगुणो वेतनवृद्धिः 04.1.33 तेनोत्तरं व्याख्यातम् 04.1.34 ताम्रवृत्तकंसवैकृन्तकारकूटकानां पञ्चकं शतं वेतनम् 04.1.35 ताम्रपिण्डो दशभागक्षयः 04.1.36 पलहीने हीनद्विगुणो दण्डः 04.1.37 तेनोत्तरं व्याख्यातम् 04.1.38 सीसत्रपुपिण्डो विंशतिभागक्षयः 04.1.39 काकणी चास्य पलवेतनम् 04.1.40 कालायसपिण्डः पञ्चभागक्षयः 04.1.41 काकणीद्वयं चास्य पलवेतनम् 04.1.42 तेनोत्तरं व्याख्यातम् 04.1.43 रूपदर्शकस्य स्थितां पणयात्रामकोप्यां कोपयतः कोप्यामकोपयतो द्वादशपणो दण्डः 04.1.44 व्याजीपरिशुद्धौ पणयात्रा 04.1.45 पणान् माषकमुपजीवतो द्वादशपणो दण्डः 04.1.46 तेनोत्तरं व्याख्यातम् 04.1.47 कूटरूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः, कोशे प्रक्षिपतो वधः 04.1.48 चरकपांसुधावकाः सारत्रिभागं, द्वौ राजा रत्नं च 04.1.49 रत्नापहारोत्तमो दण्डः 04.1.50 खनिरत्ननिधिनिवेदनेषु षष्ठमंशं निवेत्ता लभेत, द्वादशमंशं भृतकः 04.1.51 शतसहस्राद् ऊर्ध्वं राजगामी निधिः 04.1.52 ऊने षष्ठमंशं दद्यात् 04.1.53 पौर्वपौरुषिकं निधिं जानपदः शुचिः स्वकरणेन समग्रं लभेत 04.1.54 स्वकरणाभावे पञ्चशतो दण्डः, प्रच्छन्नादाने सहस्रम् 04.1.55 भिषजः प्राणाबाधिकमनाख्यायोपक्रममाणस्य विपत्तौ पूर्वः साहसदण्डः, कर्मापराधेन विपत्तौ मध्यमः 04.1.56 मर्मवधवैगुण्यकरणे दण्डपारुष्यं विद्यात् 04.1.57 कुशीलवा वर्षारात्रमेकस्था वसेयुः 04.1.58 कामदानमतिमात्रमेकस्यातिवादं च वर्जयेयुः 04.1.59 तस्यातिक्रमे द्वादशपणो दण्डः 04.1.60 कामं देशजातिगोत्रचरणमैथुनावहासेन नर्मयेयुः 04.1.61 कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः 04.1.62 तेषामयःशूलेन यावतः पणान् अभिवदेयुः तावन्तः शिफाप्रहारा दण्डाः 04.1.63 शेषाणां कर्मणां निष्पत्तिवेतनं शिल्पिनां कल्पयेत् 04.1.64 एवं चोरान् अचोराख्यान् वणिक्कारुकुशीलवान् । भिक्षुकान् कुहकांश्चान्यान् वारयेद् देशपीडनात् (इति) 04.1.65 Chapt . keeping a watch overtraders संस्थाध्यक्षः पण्यसंस्थायां पुराणभाण्डानां स्वकरणविशुद्धानामाधानं विक्रयं वा स्थापयेत् 04.2.01 तुलामानभाण्डानि चावेक्षेत पौतवापचारात् 04.2.02 परिमाणीद्रोणयोरर्धपलहीनातिरिक्तमदोषः 04.2.03 पलहीनातिरिक्ते द्वादशपणो दण्डः 04.2.04 तेन पलोत्तरा दण्डवृद्धिर्व्याख्याता 04.2.05 तुलायाः कर्षहीनातिरिक्तमदोषः 04.2.06 द्विकर्षहीनातिरिक्ते षट्पणो दण्डः 04.2.07 तेन कर्षोत्तरा दण्डवृद्धिर्व्याख्याता 04.2.08 आढकस्यार्धकर्षहीनातिरिक्तमदोषः 04.2.09 कर्षहीनातिरिक्ते त्रिपणो दण्डः 04.2.10 तेन कर्षोत्तरा दण्डवृद्धिर्व्याख्याता 04.2.11 तुलामानविशेषाणामतोऽन्येषामनुमानं कुर्यात् 04.2.12 तुलामानाभ्यामतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य तैव द्विगुणा दण्डाः 04.2.13 गण्यपण्येष्वष्टभागं पण्यमूल्येष्वपहरतः षण्ँअवतिर्दण्डः 04.2.14 काष्ठलोहमणिमयं रज्जुचर्ममृण्मयं सूत्रवल्करोममयं वा जात्यमित्यजात्यं विक्रयाधानं नयतो मूल्याष्टगुणो दण्डः 04.2.15 सारभाण्डमित्यसारभाण्डं तज्जातमित्यतज्जातं राधायुक्तमित्युपधियुक्तं समुद्गपरिवर्तिमं वा विक्रयाधानं नयतो हीनमूल्यं चतुष्पञ्चाशत्पणो दण्डः, पणमूल्यं द्विगुणो, द्विपणमूल्यं द्विशतः 04.2.16 तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता 04.2.17 कारुशिल्पिनां कर्मगुणापकर्षमाजीवं विक्रयक्रयोपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः 04.2.18 वैदेहकानां वा सम्भूय पण्यमवरुन्धतामनर्घेण विक्रीणतां वा सहस्रं दण्डः 04.2.19 तुलामानान्तरमर्घवर्णान्तरं वा - धरकस्य मायकस्य वा पणमूल्याद् अष्टभागं हस्तदोषेणाचरतो द्विशतो दण्डः 04.2.20 तेन द्विशतोत्तरा दण्डवृद्धिर्व्याख्याता 04.2.21 धान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणां समवर्णोपधाने द्वादशपणो दण्डः 04.2.22 यन्निषृष्टमुपजीवेयुः तद् एषां दिवससञ्जातं सङ्ख्याय वणिक् स्थापयेत् 04.2.23 क्रेतृविक्रेत्रोरन्तरपतितमादायाद् अन्यद् भवति 04.2.24 तेन धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः 04.2.25 अन्यथानिचितमेषां पण्याध्यक्षो गृह्णीयात् 04.2.26 तेन धान्यपण्यविक्रये व्यवहरेतानुग्रहेण प्रजानाम् 04.2.27 अनुज्ञातक्रयाद् उपरि चैषां स्वदेशीयानां पण्यानां पञ्चकं शतमाजीवं स्थापयेत्, परदेशीयानां दशकम् 04.2.28 ततः परमर्घं वर्धयतां क्रये विक्रये वा भावयतां पणशते पञ्चपणाद् द्विशतो दण्डः 04.2.29 तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता 04.2.30 सम्भूयक्रये चैषामविक्रीते नान्यं सम्भूयक्रयं दद्यात् 04.2.31 पण्योपघाते चैषामनुग्रहं कुर्यात् 04.2.32 पण्यबाहुल्यात् पण्याध्यक्षः सर्वपण्यान्येकमुखानि विक्रीणीत 04.2.33 तेष्वविक्रीतेषु नान्ये विक्रीणीरन् 04.2.34 तानि दिवसवेतनेन विक्रीणीरन्न् अनुग्रहेण प्रजानाम् 04.2.35 देशकालान्तरितानां तु पण्यानां - प्रक्षेपं पण्यनिष्पत्तिं शुल्कं वृद्धिमवक्रयम् । व्ययान् अन्यांश्च सङ्ख्याय स्थापयेद् अर्घमर्घवित् (इति) 04.2.36 Chapt . Remedial measures during calamities दैवान्यष्टौ महाभयानि - अग्निरुदकं व्याधिर्दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसि इति 04.3.01 तेभ्यो जनपदं रक्षेत् 04.3.02 ग्रीष्मे बहिर्ऽधिश्रयणं ग्रामाः कुर्युः, दशमूलीसङ्ग्रहेणाधिष्ठिता वा 04.3.03 नागरिकप्रणिधावग्निप्रतिषेधो व्याख्यातः, निशान्तप्रणिधौ राजपरिग्रहे च 04.3.04 बलिहोमस्वस्तिवाचनैः पर्वसु चाग्निपूजाः कारयेत् 04.3.05 वर्षारात्रमानूपग्रामाः पूरवेलामुत्सृज्य वसेयुः 04.3.06 काष्ठवेणुनावश्चोपगृह्णीयुः 04.3.07 उह्यमानमलाबुदृतिप्लवगण्डिकावेणिकाभिः तारयेयुः 04.3.08 अनभिसरतां द्वादशपणो दण्डः, अन्यत्र प्लवहीनेभ्यः 04.3.09 पर्वसु च नदीपूजाः कारयेत् 04.3.10 मायायोगविदो वेदविदो वा वर्षमभिचरेयुः 04.3.11 वर्षावग्रहे शचीनाथगङ्गापर्वतमहाकच्छपूजाः कारयेत् 04.3.12 व्याधिभयमौपनिषदिकैः प्रतीकारैः प्रतिकुर्युः, औषधैश्चिकित्सकाः शान्तिप्रायश्चित्तैर्वा सिद्धतापसाः 04.3.13 तेन मरको व्याख्यातः 04.3.14 तीर्थाभिषेचनं महाकच्छवर्धनं गवां श्मशानावदोहनं कबन्धदहनं देवरात्रिं च कारयेत् 04.3.15 पशुव्याधिमरके स्थानार्थनीराजनं स्वदैवतपूजनं च कारयेत् 04.3.16 दुर्भिक्षे राजा बीजभक्तोपग्रहं कृत्वानुग्रहं कुर्यात्, दुर्गसेतुकर्म वा भक्तानुग्रहेण, भक्तसंविभागं वा, देशनिक्षेपं वा 04.3.17 मित्राणि वा व्यपाश्रयेत, कर्शनं वमनं वा कुर्यात् 04.3.18 निष्पन्नसस्यमन्यविषयं वा सजनपदो यायात्, समुद्रसरस्तटाकानि वा संश्रयेत 04.3.19 धान्यशाकमूलफलावापान् वा सेतुषु कुर्वीत, मृगपशुपक्षिव्यालमत्स्यारम्भान् वा 04.3.20 मूषिकभये मार्जारनकुलोत्सर्गः 04.3.21 तेषां ग्रहणहिंसायां द्वादशपणो दण्डः, शुनामनिग्रहे चान्यत्रारण्यचरेभ्यः 04.3.22 स्नुहिक्षीरलिप्तानि धान्यानि विसृजेद्, उपनिषद्योगयुक्तानि वा 04.3.23 मूषिककरं वा प्रयुञ्जीत 04.3.24 शान्तिं वा सिद्धतापसाः कुर्युः 04.3.25 पर्वसु च मूषिकपूजाः कारयेत् 04.3.26 तेन शलभपक्षिक्रिमिभयप्रतीकारा व्याख्याताः 04.3.27 व्यालभये मदनरसयुक्तानि पशुशवानि प्रसृजेत्, मदनकोद्रवपूर्णान्यौदर्याणि वा 04.3.28 लुब्धकाः श्वगणिनो वा कूटपञ्जरावपातैश्चरेयुः 04.3.29 आवरणिनः शस्त्रपाणयो व्यालान् अभिहन्युः 04.3.30 अनभिसर्तुर्द्वादशपणो दण्डः 04.3.31 सैव लाभो व्यालघातिनः 04.3.32 पर्वसु च पर्वतपूजाः कारयेत् 04.3.33 तेन मृगपशुपक्षिसङ्घग्राहप्रतीकारा व्याख्याताः 04.3.34 सर्पभये मन्त्रैरोषधिभिश्च जाङ्गुलीविदश्चरेयुः 04.3.35 सम्भूय वापि सर्पान् हन्युः 04.3.36 अथर्ववेदविदो वाभिचरेयुः 04.3.37 पर्वसु च नागपूजाः कारयेत् 04.3.38 तेनोदकप्राणिभयप्रतीकारा व्याख्याताः 04.3.39 रक्षोभये रक्षोघ्नान्यथर्ववेदविदो मायायोगविदो वा कर्माणि कुर्युः 04.3.40 पर्वसु च वितर्दिच्छत्रोल्लोपिकाहस्तपताकाच्छागोपहारैश्चैत्यपूजाः कारयेत् 04.3.41 चरुं वश्चरामः इत्येवं सर्वभयेष्वहोरात्रं चरेयुः 04.3.42 सर्वत्र चोपहतान् पितेवानुगृह्णीयात् 04.3.43 मायायोगविदः तस्माद् विषये सिद्धतापसाः । वसेयुः पूजिता राज्ञा दैवापत्प्रतिकारिणः (इति) 04.3.44 Chapt . Guarding against persons with secret means of income समाहर्तृप्रणिधौ जनपदरक्षणमुक्तम् 04.4.01 तस्य कण्टकशोधनं वक्ष्यामः 04.4.02 समाहर्ता जनपदे सिद्धतापसप्रव्रजितचक्रचरचारणकुहकप्रच्छन्दककार्तान्तिकनैमित्तिकमौहूर्तिकचिकित्सकोन्मत्तमूकबधिरजडान्धवैदेहककारुशिल्पिकुशीलववेशशौण्डिकापूपिकपाक्वमांसिकोदनिकव्यञ्जनान् प्रणिदध्यात् 04.4.03 ते ग्रामाणामध्यक्षाणां च शौचाशौचं विद्युः 04.4.04 यं चात्र गूढाजीविनं शङ्केत तं सत्त्रिणापसर्पयेत् 04.4.05 धर्मस्थं विश्वासोपगतं सत्त्री ब्रूयात् - असौ मे बन्धुरभियुक्तः, तस्यायमनर्थः प्रतिक्रियतां, अयं चार्थः प्रतिगृह्यताम् इति 04.4.06 स चेत् तथा कुर्याद् उपदाग्राहक इति प्रवास्येत 04.4.07 तेन प्रदेष्टारो व्याख्याताः 04.4.08 ग्रामकूटमध्यक्षं वा सत्त्री ब्रूयात् - असौ जाल्मः प्रभूतद्रव्यः, तस्यायमनर्थः, तेनैनमाहारयस्व इति 04.4.09 स चेत् तथा कुर्याद् उत्कोचक इति प्रवास्येत 04.4.10 कृतकाभियुक्तो वा कूटसाक्षिणोऽभिज्ञातानर्थवैपुल्येनारभेत 04.4.11 ते चेत् तथा कुर्युः कूटसाक्षिण इति प्रवास्येरन् 04.4.12 तेन कूटश्रावणकारका व्याख्याताः 04.4.13 यं वा मन्त्रयोगमूलकर्मभिः श्माशानिकैर्वा संवदनकरकं मन्येत तं सत्त्री ब्रूयात् - अमुष्य भार्यां स्नुषां दुहितरं वा कामये, सा मां प्रतिकामयतां, अयं चार्थः प्रतिगृह्यताम् इति 04.4.14 स चेत् तथा कुर्यात् संवदनकारक इति प्रवास्येत 04.4.15 तेन कृत्याभिचारशीलौ व्याख्यातौ 04.4.16 यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्याहारव्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् - असौ मे शत्रुः, तस्योपघातः क्रियतां, अयं चार्थः प्रतिगृह्यताम् इति 04.4.17 स चेत् तथा कुर्याद् रसद इति प्रवास्येत 04.4.18 तेन मदनयोगव्यवहारी व्याख्यातः 04.4.19 यं वा नानालोहक्षाराणामङ्गारभस्मासन्दंशमुष्टिकाधिकरणीबिम्ब।टङ्कमूषाणामभीक्ष्णक्रेतारं मषीभस्मधूमदिग्धहस्तवस्त्रलिङ्गं कर्मारोपकरणसंसर्गं कूटरूपकारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत् 04.4.20 प्रज्ञातः कूटरूपकारक इति प्रवास्येत 04.4.21 तेन रागस्यापहर्ता कूटसुवर्णव्यवहारी च व्याख्यातः 04.4.22 आरब्धारः तु हिंसायां गूढाजीवाः त्रयोदश । प्रवास्या निष्क्रयार्थं वा दद्युर्दोषविशेषतः (इति) 04.4.23 Chapt . Detection of criminals througH secret agents in the disguise of holymen सत्त्रिप्रयोगाद् ऊर्ध्वं सिद्धव्यञ्जना माणवान् माणवविद्याभिः प्रलोभयेयुः, प्रस्वापनान्तर्धानद्वारापोहमन्त्रेण प्रतिरोधकान्, संवदनमन्त्रेण पारतल्पिकान् 04.5.01 तेषां कृतोत्साहानां महान्तं सङ्घमादाय रात्रावन्यं ग्राममुद्दिश्यान्यं ग्रामं कृतकस्त्रीपुरुषं गत्वा ब्रूयुः - इहैव विद्याप्रभावो दृश्यतां, कृच्छ्रः परग्रामो गन्तुम् इति 04.5.02 ततो द्वारापोहमन्त्रेण द्वाराण्यपोह्य प्रविश्यताम् इति ब्रूयुः 04.5.03 अन्तर्धानमन्त्रेण जाग्रतामारक्षिणां मध्येन माणवान् अतिक्रामयेयुः 04.5.04 प्रस्वापनमन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः सञ्चारयेयुः 04.5.05 संवदनमन्त्रेण भार्याव्यञ्जनाः परेषां माणवैः सम्मोदयेयुः 04.5.06 उपलब्धविद्याप्रभावाणां पुरश्चरणाऽऽद्यादिशेयुरभिज्ञानार्थम् 04.5.07 कृतलक्षणद्रव्येषु वा वेश्मसु कर्म कारयेयुः 04.5.08 अनुप्रविष्टा वैकत्र ग्राहयेयुः 04.5.09 कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसुरामत्तान् वा ग्राहयेयुः 04.5.10 गृहीतान् पूर्वापदानसहायान् अनुयुञ्जीत 04.5.11 पुराणचोरव्यञ्जना वा चोरान् अनुप्रविष्टाः तथैव कर्म कारयेयुर्ग्राहयेयुश्च 04.5.12 गृहीतान् समाहर्ता पौरजानपदानां दर्शयेत् - चोरग्रहणीं विद्यामधीते राजा, तस्योपदेशाद् इमे चोरा गृहीताः, भूयश्च ग्रहीष्यामि, वारयितव्यो वः स्वजनः पापाचारह् इति 04.5.13 यं चात्रापसर्पोपदेशेन शम्याप्रतोदादीनामपहर्तारं जानीयात् तमेषां प्रत्यादिशेत् एष राज्ञः प्रभावः इति 04.5.14 पुराणचोरगोपालकव्याधश्वगणिनश्च वनचोराटविकान् अनुप्रविष्टाः प्रभूतकूटहिरण्यकुप्यभाण्डेषु सार्थव्रजग्रामेष्वेनान् अभियोजयेयुः 04.5.15 अभियोगे गूढबलैर्घातयेयुः, मदनरसयुक्तेन वा पथ्यदनेन 04.5.16 गृहीतलोप्त्रभारान् आयतगतपरिश्रान्तान् प्रस्वपतः प्रहवणेषु योगसुरामत्तान् वा ग्राहयेयुः 04.5.17 पूर्ववच्च गृहीत्वैनान् समाहर्ता प्ररूपयेत् । सर्वज्ञख्यापनं राज्ञः कारयन् राष्ट्रवासिषु (इति) 04.5.18 Chapt . Arrest on suspicion, with the stolen article and by indication of the act सिद्धप्रयोगाद् ऊर्ध्वं शङ्कारूपकर्माभिग्रहः 04.6.01 क्षीणदायकुटुम्बं, अल्पनिर्वेशं, विपरीतदेशजातिगोत्रनामकर्मापदेशं, प्रच्छन्नवृत्तिकर्माणं, मांससुराभक्ष्यभोजनगन्धमाल्यवस्त्रविभूषणेषु प्रसक्तं, अतिव्ययकर्तारं, पुंश्चलीद्यूतशौण्डिकेषु प्रसक्तं, अभीक्ष्णप्रवासिनं, अविज्ञातस्थानगमनं, एकान्तारण्यनिष्कुटविकालचारिणं, प्रच्छन्ने सामिषे वा देशे बहुमन्त्रसंनिपातं, सद्यःक्षतव्रणानां गूढप्रतीकारकारयितारं, अन्तर्गृहनित्यं, अभ्यधिगन्तारं, कान्तापरं, परपरिग्रहाणां परस्त्रीद्रव्यवेश्मनामभीक्ष्णप्रष्टारं, कुत्सितकर्मशास्त्रोपकरणसंसर्गं, विरात्रे छन्नकुड्यच्छायासञ्चारिणं, विरूपद्रव्याणामदेशकालविक्रेतारं, जातवैरशयं, हीनकर्मजातिं, विगूहमानरूपं, लिङ्गेनालिङ्गिनं, लिङ्गिनं वा भिन्नाचारं, पूर्वकृतापदानं, स्वकर्मभिरपदिष्टं, नागरिकमहामात्रदर्शने गुहमानमपसरन्तमनुच्छ्वासोपवेशिनमाविग्नं शुष्कभिन्नस्वरमुखवर्णं, शस्त्रहस्तमनुष्यसम्पातत्रासिनं, हिंस्रस्तेननिधिनिक्षेपापहारपरप्रयोगगूढाजीविनामन्यतमं शङ्केत इति शङ्काभिग्रहः ॥ 04.6.02 रूपाभिग्रहः तु - नष्टापहृतमविद्यमानं तज्जातव्यवहारिषु निवेदयेत् 04.6.03 तच्चेन्निवेदितमासाद्य प्रच्छादयेयुः साचिव्यकरदोषमाप्नुयुः 04.6.04 अजानन्तोऽस्य द्रव्यस्यातिसर्गेण मुच्येरन् 04.6.05 न चानिवेद्य संस्थाध्यक्षस्य पुराणभाण्डानामाधानं विक्रयं वा कुर्युः 04.6.06 तच्चेन्निवेदितमासाद्येत, रूपाभिगृहीतमागमं पृच्छेत् कुतः ते लब्धम् इति 04.6.07 स चेत् ब्रूयात् दायाद्याद् अवाप्तं, अमुष्माल्लब्धं क्रीतं कारितमाधिप्रच्छन्नं, अयमस्य देशः कालश्चोपसम्प्राप्तेः, अयमस्यार्घः प्रमाणं लक्षणं मूल्यं च इति, तस्यागमसमाधौ मुच्येत 04.6.08 नाष्टिकश्चेत् तद् एव प्रतिसन्दध्यात्, यस्या पूर्वो दीर्घश्च परिभोगः शुचिर्वा देशः तस्य द्रव्यमिति विद्यात् 04.6.09 चतुष्पदद्विपदानामपि हि रूपलिङ्गसामान्यं भवति, किमङ्ग पुनरेकयोनिद्रव्यकर्तृप्रसूतानां कुप्याभरणभाण्डानामिति 04.6.10 स चेद् ब्रूयात् याचितकमवक्रीतकमाहितकं निक्षेपमुपनिधिं वैयावृत्यकर्म वामुष्य इति, तस्यापसारप्रतिसन्धानेन मुच्येत 04.6.11 नैवम् इत्यपसारो वा ब्रूयात्, रूपाभिगृहीतः परस्य दानकारणमात्मनः प्रतिग्रहकारणमुपलिङ्गनं वा दायकदापकनिबन्धकप्रतिग्राहकोपद्रष्टृभिरुपश्रोतृभिर्वा प्रतिसमानयेत् 04.6.12 उज्झितप्रनष्टनिष्पतितोपलब्धस्य देशकाललाभोपलिङ्गनेन शुद्धिः 04.6.13 अशुद्धः तच्च तावच्च दण्डं दद्यात् 04.6.14 अन्यथा स्तेयदण्डं भजेत इति रूपाभिग्रहः । 04.6.15 कर्माभिग्रहः तु - मुषितवेश्मनः प्रवेशनिष्कसनमद्वारेण, द्वारस्य सन्धिना बीजेन वा वेधं, उत्तमागारस्य जालवातायननीप्रवेधं, आरोहणावतरणे च कुड्यस्य वेधं, उपखननं वा गूढद्रव्यनिक्षेपणग्रहणोपायं, उपदेशोपलभ्यमभ्यन्तरच्छेदोत्करपरिमर्दोपकरणमभ्यन्तरकृतं विद्यात् 04.6.16 विपर्यये बाह्यकृतं, उभयतोभयकृतम् 04.6.17 अभ्यन्तरकृते पुरुषमासन्नं व्यसनिनं क्रूरसहायं तस्करोपकरणसंसर्गं, स्त्रियं वा दरिद्रकुलामन्यप्रसक्तां वा, परिचारकजनं वा तद्विधाचारं, अतिस्वप्नं, निद्राक्लान्तं, आविग्नम् । शुष्कभिन्नस्वरमुखवर्णं, अनवस्थितं, अतिप्रलापिनं, उच्चारोहणसंरब्धगात्रं, विलूननिघृष्टभिन्नपाटितशरीरवस्त्रं, जातकिणसंरब्धहस्तपादं, पांसुपूर्णकेशनखं विलूनभुग्नकेशनखं वा, सम्यक्स्नातानुलिप्तं तैलप्रमृष्टगात्रं सद्योदौतहस्तपादं वा, पांसुपिच्छिलेषु तुल्यपादपदनिक्षेपं, प्रवेशनिष्कसनयोर्वा तुल्यमाल्यमद्यगन्धवस्त्रच्छेदविलेपनस्वेदं परीक्षेत 04.6.18 चोरं पारदारिकं वा विद्यात् 04.6.19 सगोपस्थानिको बाह्यं प्रदेष्टा चोरमार्गणम् । कुर्यान्नागरिकश्चान्तर्दुर्गे निर्दिष्टहेतुभिः (इति) 04.6.20 Chapt . In quest of sudden deaths तैलाभ्यक्तमाशुमृतकं परीक्षेत 04.7.01 निष्कीर्णमूत्रपुरीषं वातपूर्णकोष्ठत्वक्कं शूनपादपाणिमान् मीलिताक्षं सव्यञ्जनकण्ठं पीटननिरुद्धोच्छ्वासहतं विद्यात् 04.7.02 तमेव सङ्कुचितबाहुसक्थिमुद्बन्धहतं विद्यात् 04.7.03 शूनपाणिपादोदरमपगताक्षमुद्वृत्तनाभिमवरोपितं विद्यात् 04.7.04 निस्तब्धगुदाक्षं सन्दष्टजिह्वमाध्मातोदरमुदकहतं विद्यात् 04.7.05 शोणितानुसिक्तं भग्नभिन्नगात्रं काष्ठैरश्मभिर्वा हतं विद्यात् 04.7.06 सम्भग्नस्फुटितगात्रमवक्षिप्तं विद्यात् 04.7.07 श्यावपाणिपाददन्तनखं शिथिलमांसरोमचर्माणं फेनोपदिग्धमुखं विषहतं विद्यात् 04.7.08 तमेव स-शोणितदंशं सर्पकीटहतं विद्यात् । 04.7.09 विक्षिप्तवस्त्रगात्रमतिवन्तविरिक्तं मदनयोगहतं विद्यात् 04.7.10 अतोऽन्यतमेन कारणेन हतं हत्वा वा दण्डभयाद् उद्बद्धनिकृत्तकण्ठं विद्यात् 04.7.11 विषहतस्य भोजनशेषं वयोभिः परीक्षेत 04.7.12 हृदयाद् उद्धृत्याग्नौ प्रक्षिप्तं चिटिचिटायद्।इन्द्रधनुर्वर्णं वा विषयुक्तं विद्यात्, दग्धस्य हृदयमदग्धं दृष्ट्वा वा 04.7.13 तस्य परिचारकजनं वाग्दण्डपारुष्यातिलब्धं मार्गेत, दुःखोपहतमन्यप्रसक्तं वा स्त्रीजनं, दायवृत्तिस्त्रीजनाभिमन्तारं वा बन्धुम् 04.7.14 तद् एव हतोद्बद्धस्य परीक्षेत 04.7.15 स्वयमुद्बद्धस्य वा विप्रकारमयुक्तं मार्गेत 04.7.16 सर्वेषां वा स्त्रीदायाद्यदोषः कर्मस्पर्धा प्रतिपक्षद्वेषः पण्यसंस्थासमवायो वा विवादपदानामन्यतमद् वा रोषस्थानम् 04.7.17 रोषनिमित्तो घातः 04.7.18 स्वयं।आदिष्टपुरुषैर्वा, चोरैरर्थनिमित्तं, सादृश्याद् अन्यवैरिभिर्वा हतस्य घातमासन्नेभ्यः परीक्षेत 04.7.19 येनाहूतः सह स्थितः प्रस्थितो हतभूमिमानीतो वा तमनुयुञ्जीत 04.7.20 ये चास्य हतभूमावासन्नचराः तान् एकैकशः पृच्छेत् केनायमिहानीतो हतो वा, कः सशस्त्रः सङ्गूहमानोद्विग्नो वा युष्माभिर्दृष्टः इति 04.7.21 ते यथा ब्रूयुः तथानुयुञ्जीत 04.7.22 अनाथस्य शरीरस्थमुपभोगं परिच्छदम् । वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्व्यवहारिणः 04.7.23 अनुयुञ्जीत संयोगं निवासं वासकारणम् । कर्म च व्यवहारं च ततो मार्गणमाचरेत् 04.7.24 रज्जुशस्त्रविषैर्वापि कामक्रोधवशेन यः । घातयेत् स्वयमात्मानं स्त्री वा पापेन मोहिता 04.7.25 रज्जुना राजमार्गे तांश्चण्डालेनापकर्षयेत् । न श्मशानविधिः तेषां न सम्बन्धिक्रियाः तथा 04.7.26 बन्धुः तेषां तु यः कुर्यात् प्रेतकार्यक्रियाविधिम् । तद्गतिं स चरेत् पश्चात् स्वजनाद् वा प्रमुच्यते 04.7.27 संवत्सरेण पतति पतितेन समाचरन् । याजनाध्यापनाद् यौनात् तैश्चान्योऽपि समाचरन् (इति) 04.7.28 Chapt . Investigation througH interrogation and througH torture मुषितसंनिधौ बाह्यानामभ्यन्तराणां च साक्षिणामभिशस्तस्य देशजातिगोत्रनामकर्मसारसहायनिवासान् अनुयुञ्जीत 04.8.01 तांश्चापदेशैः प्रतिसमानयेत् 04.8.02 ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च ग्रहणाद् इत्यनुयुञ्जीत 04.8.03 तस्यापसारप्रतिसन्धाने शुद्धः स्यात्, अन्यथा कर्मप्राप्तः 04.8.04 त्रिरात्राद् ऊर्ध्वमग्राह्यः शङ्कितकः पृच्छाभावाद् अन्यत्रोपकरणदर्शनात् 04.8.05 अचोरं चोर इत्यभिव्याहरतश्चोरसमो दण्डः, चोरं प्रच्छादयतश्च 04.8.06 चोरेणाभिशस्तो वैरद्वेषाभ्यामपदिष्टकः शुद्धः स्यात् 04.8.07 शुद्धं परिवासयतः पूर्वः साहसदण्डः 04.8.08 शङ्कानिष्पन्नमुपकरणमन्त्रिसहायरूपवैयावृत्यकरान्निष्पादयेत् 04.8.09 कर्मणश्च प्रदेशद्रव्यादानांशविभागैः प्रतिसमानयेत् 04.8.10 एतेषां कारणानामनभिसन्धाने विप्रलपन्तमचोरं विद्यात् 04.8.11 दृश्यते ह्यचोरोऽपि चोरमार्गे यदृच्छया संनिपाते चोरवेषशस्त्रभाण्डसामान्येन गृह्यमाणश्चोरभाण्डस्योपवासेन वा, यथाणिमाण्डव्यः कर्मक्लेशभयाद् अचोरः चोरोऽस्मि इति ब्रुवाणः 04.8.12 तस्मात् समाप्तकरणं नियमयेत् 04.8.13 मन्दापराधं बालं वृद्धं व्याधितं मत्तमुन्मत्तं क्षुत्पिपासाध्वक्लान्तमत्याशितमामकाशितं दुर्बलं वा न कर्म कारयेत् 04.8.14 तुल्य शीलपुंश्चलीप्रापाविककथावकाशभोजनदातृभिरपसर्पयेत् 04.8.15 एवमतिसन्दध्यात्, यथा वा निक्षेपापहारे व्याख्यातम् 04.8.16 आप्तदोषं कर्म कारयेत्, न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मासावरप्रजाताम् 04.8.17 स्त्रियाः त्वर्धकर्म, वाक्यानुयोगो वा 04.8.18 ब्राह्मणस्य सत्त्रिपरिग्रहः श्रुतवतः तपस्विनश्च 04.8.19 तस्यातिक्रमोत्तमो दण्डः कर्तुः कारयितुश्च, कर्मणा व्यापादनेन च 04.8.20 व्यावहारिकं कर्मचतुष्कं - षड् दण्डाः, सप्त कशाः, द्वावुपरिनिबन्धौ, उदकनालिका च 04.8.21 परं पापकर्मणां नव वेत्रलताः, द्वादश कशाः, द्वावूरुवेष्टौ, विंशतिर्नक्तमाललताः, द्वात्रिंशत्तलाः, द्वौ वृश्चिकबन्धौ, उल्लम्बने च द्वे, सूची हस्तस्य, यवागूपीतस्यैकपर्वदहनमङ्गुल्याः, स्नेहपीतस्य प्रतापनमेकमहः, शिशिररात्रौ बल्बजाग्रशय्या च 04.8.22 इत्यष्टादशकं कर्म 04.8.23 तस्योपकरणं प्रमाणं प्रहरणं प्रधरणमवधारणं च खरपट्टाद् आगमयेत् 04.8.24 दिवसान्तरमेकैकं च कर्म कारयेत् 04.8.25 पूर्वकृतापदानं प्रतिज्ञायापहरन्तमेकदेशदृष्टद्रव्यं कर्मणा रूपेण वा गृहीतं राजकोशमवस्तृणन्तं कर्मवध्यं वा राजवचनात् समस्तं व्यस्तमभ्यस्तं वा कर्म कारयेत् 04.8.26 सर्वापराधेष्वपीडनीयो ब्राह्मणः 04.8.27 तस्याभिशस्ताङ्को ललाटे स्याद् व्यवहारपतनाय, स्तेयो श्वा, मनुष्यवधे कबन्धः, गुरुतल्पे भगं, सुरापाने मद्यध्वजः 04.8.28 ब्राह्मणं पापकर्माणमुद्घुष्याङ्ककृतव्रणम् । कुर्यान्निर्विषयं राजा वासयेद् आकरेषु वा (इति) 04.8.29 Chapt . keeping a watch over officers of all departments समाहर्तृप्रदेष्टारः पूर्वमध्यक्षाणामध्यक्षपुरुषाणां च नियमनं कुर्युः 04.9.01 खनिसारकर्मान्तेभ्यः सारं रत्नं वापहरतः शुद्धवधः 04.9.02 फल्गुद्रव्यकर्मान्तेभ्यः फल्गु द्रव्यमुपस्करं वा पूर्वः साहसदण्डः 04.9.03 पण्यभूमिभ्यो वा राजपण्यं माषमूल्याद् ऊर्ध्वमापादमूल्याद् इत्यपहरतो द्वादशपणो दण्डः, आद्विपादमूल्यादिति चतुर्विंशतिपणः, आत्रिपादमूल्यादिति षट्त्रिंशत्पणः, आपणमूल्याद् इत्यष्टचत्वारिंशत्पणः, आद्विपणमूल्यादिति पूर्वः साहसदण्डः, आचतुष्पणमूल्यादिति मध्यमः, आष्टपणमूल्याद् इत्युत्तमः, आदशपणमूल्यादिति वधः 04.9.04 कोष्ठपण्यकुप्यायुधागारेभ्यः कुप्यभाण्डोपस्करापहारेष्वर्धमूल्येषु एतैव दण्डाः 04.9.05 कोशभाण्डागाराक्षशालाभ्यश्चतुर्भागमूल्येषु एतैव द्विगुणा दण्डाः 04.9.06 चोराणामभिप्रधर्षणे चित्रो घातः 04.9.07 इति राजपरिग्रहेषु व्याख्यातम् 04.9.08 बाह्येषु तु - प्रच्छन्नमहनि क्षेत्रखलवेश्मापणेभ्यः कुप्यभाण्डमुपस्करं वा माषमूल्याद् ऊर्ध्वमापादमूल्याद् इत्यपहरतः त्रिपणो दण्डः, गोमयप्रदेहेन वा प्रलिप्यावघोषणम् आद्विपादमूल्यादिति षट्पणः, गोमयभस्मना वा प्रलिप्यावघोषणं, आत्रिपादमूल्यादिति नवपणः, गोमयभस्मना वा प्रलिप्यावघोषणं, शरावमेखलया वा।आपणमूल्यादिति द्वादशपणः, मुण्डनं प्रव्राजनं वा।आद्विपणमूल्यादिति चतुर्विंशतिपणः, मुण्डस्येष्टकाशकलेन प्रव्राजनं वा।आचतुष्पणमूल्यादिति षट्त्रिंशत्पणः आपञ्चपणमूल्याद् इत्यष्टचत्वारिंशत्पणः, आदशपणमूल्यादिति पूर्वः साहसदण्डः आविंशतिपणमूल्याद् इत् द्विशतः आत्रिंशत्पणमूल्यादिति पञ्चशतः आचत्वारिंशत्पणमूल्यादिति साहस्रः आपञ्चाशत्पणमूल्यादिति वधः 04.9.09 प्रसह्य दिवा रात्रौ वाऽऽन्तर्यामिकमपहरतोऽर्धमूल्येषु एतैव दण्डाः 04.9.10 प्रसह्य दिवा रात्रौ वा स-शस्त्रस्यापहरतश्चतुर्भागमूल्येषु एतैव द्विगुणा दण्डाः 04.9.11 कुटुम्बिकाध्यक्षमुख्यस्वामिनां कूटशासनमुद्राकर्मसु पूर्वमध्योत्तमवधा दण्डाः, यथापराधं वा 04.9.12 धर्मस्थश्चेद् विवदमानं पुरुषं तर्जयति भर्त्सयत्यपसारयत्यभिग्रसते वा पूर्वमस्मै साहसदण्डं कुर्यात्, वाक्पारुष्ये द्विगुणम् 04.9.13 पृच्छ्यं न पृच्छति, अपृच्छ्यं पृच्छति, पृष्ट्वा वा विसृजति, शिक्षयति, स्मारयति, पूर्वं ददाति वा, इति मध्यममस्मै साहसदण्डं कुर्यात् 04.9.14 देयं देशं न पृच्छति, अदेयं देशं पृच्छति, कार्यमदेशेनातिवाहयति, छलेनातिहरति, कालहरणेन श्रान्तमपवाहयति, मार्गापन्नं वाक्यमुत्क्रमयति, मतिसाहाय्यं साक्षिभ्यो ददाति, तारितानुशिष्टं कार्यं पुनरपि गृह्णाति, उत्तममस्मै साहसदण्डं कुर्यात् 04.9.15 पुनर्ऽपराधे द्विगुणं स्थानाद् व्यवरोपणं च 04.9.16 लेखकश्चेद् उक्तं न लिखति, अनुक्तं लिखति, दुरुक्तमुपलिखति, सूक्तमुल्लिखति, अर्थोत्पत्तिं वा विकल्पयति, इति पूर्वमस्मै साहसदण्डं कुर्याद्, यथापराधं वा 04.9.17 धर्मस्थः प्रदेष्टा वा हैरण्यदण्डमदण्ड्ये क्षिपति क्षेपद्विगुणमस्मै दण्डं कुर्यात्, हीनातिरिक्ताष्टगुणं वा 04.9.18 शरीरदण्डं क्षिपति शारीरमेव दण्डं भजेत, निष्क्रयद्विगुणं वा 04.9.19 यं वा भूतमर्थं नाशयति अभूतमर्थं करोति तद्ऽष्टगुणं दण्डं दद्यात् 04.9.20 धर्मस्थीये चारके बन्धनागारे वा शय्याऽऽसनभोजनोच्चारसञ्चाररोधबन्धनेषु त्रिपणोत्तरा दण्डाः कर्तुः कारयितुश्च 04.9.21 चारकाद् अभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहसदण्डः, अभियोगदानं च, बन्धनागारात् सर्वस्वं वधश्च 04.9.22 बन्धनागाराध्यक्षस्य संरुद्धकमनाख्याय चारयतश्चतुर्विंशतिपणो दण्डः, कर्म कारयतो द्विगुणः, स्थानान्यत्वं गमयतोऽन्नपानं वा रुन्धतः षण्ँअवतिर्दण्डः, परिक्लेशयतोत्कोटयतो वा मध्यमः साहसदण्डः, घ्नतः साहस्रः 04.9.23 परिगृहीतां दासीमाहितिकां वा संरुद्धिकामधिचरतः पूर्वः साहसदण्डः, चोरड़ामरिकभार्यां मध्यमः, संरुद्धिकामार्यामुत्तमः 04.9.24 संरुद्धस्य वा तत्रैव घातः 04.9.25 तद् एवाक्षणगृहीतायामार्यायां विद्यात्, दास्यां पूर्वः साहसदण्डः 04.9.26 चारकमभित्त्वा निष्पातयतो मध्यमः, भित्त्वा वधः, बन्धनागारात् सर्वस्वं वधश्च 04.9.27 एवमर्थचरान् पूर्वं राजा दण्डेन शोधयेत् । शोधयेयुश्च शुद्धाः ते पौरजानपदान् दमैः (इति) 04.9.28 Chapt . Redemption from the cutting of individual limbs तीर्थघातग्रन्थिभेदोर्ध्वकराणां प्रथमेऽपराधे सन्देशच्छेदनं चतुष्पञ्चाशत्पणो वा दण्डः, द्वितीये छेदनं पणस्य शत्यो वा दण्डः, तृतीये दक्षिणहस्तवधश्चतुःशतो वा दण्डः, चतुर्थे यथाकामी वधः 04.10.01 पञ्चविंशतिपणावरेषु कुक्कुटनकुलमार्जारश्वसूकरस्तेयेषु हिंसायां वा चतुष्पञ्चाशत्पणो दण्डः, नासाग्रच्छेदनं वाचण्डालारण्यचराणामर्धदण्डाः 04.10.02 पाशजालकूटावपातेषु बद्धानां मृगपशुपक्षिव्यालमत्स्यानामादाने तच्च तावच्च दण्डः 04.10.03 मृगद्रव्यवनान् मृगद्रव्यापहारे शात्यो दण्डः 04.10.04 बिम्बविहारमृगपक्षिस्तेये हिंसायां वा द्विगुणो दण्डः 04.10.05 कारुशिल्पिकुशीलवतपस्विनां क्षुद्रकद्रव्यापहारे शत्यो दण्डः, स्थूलकद्रव्यापहारे द्विशतः, कृषिद्रव्यापहारे च 04.10.06 दुर्गमकृतप्रवेशस्य प्रविशतः प्राकारच्छिद्राद् वा निक्षेपं गृहीत्वापसरतः काण्डरावधो, द्विशातो वा दण्डः 04.10.07 चक्रयुक्तं नावं क्षुद्रपशुं वापहरतैकपादवधः, त्रिशतो वा दण्डः 04.10.08 कूटकाकण्यक्षारालाशलाकाहस्तविषमकारिणैकहस्तवधः, चतुःशतो वा दण्डः 04.10.09 स्तेनपारदारिकयोः साचिव्यकर्मणि स्त्रियाः सङ्गृहीतायाश्च कर्णनासाच्छेदनं, पञ्चशतो वा दण्डः, पुंषो द्विगुणः 04.10.10 महापशुमेकं दासं दासीं वापहरतः प्रेतभाण्डं वा विक्रीणानस्य द्विपादवधः, षट्छतो वा दण्डः 04.10.11 वर्णोत्तमानां गुरूणां च हस्तपादलङ्घने राजयानवाहनाद्य्।आरोहणे चैकहस्तपादवधः, सप्तशतो वा दण्डः 04.10.12 शूद्रस्य ब्राह्मणवादिनो देवद्रव्यमवस्तृणतो राजद्विष्टमादिशतो द्विनेत्रभेदिनश्च योगाञ्जनेनान्धत्वं, अष्टशतो वा दण्डः 04.10.13 चोरं पारदारिकं वा मोक्षयतो राजशासनमूनमतिरिक्तं वा लिखतः कन्यां दासीं वा स-हिरण्यमपरहतः कूटव्यवहारिणो विमांसविक्रयिणश्च वामहस्तद्विपादवधो, नवशतो वा दण्डः 04.10.14 मानुषमांसविक्रये वधः 04.10.15 देवपशुप्रतिमामनुष्यक्षेत्रगृहहिरण्यसुवर्णरत्नसस्यापहारिणोत्तमो दण्डः, शुद्धवधो वा 04.10.16 पुरुषं चापराधं च कारणं गुरुलाघवम् । अनुबन्धं तदात्वं च देशकालौ समीक्ष्य च 04.10.17 उत्तमावरमध्यत्वं प्रदेष्टा दण्डकर्मणि । राज्ञश्च प्रकृतीनां च कल्पयेद् अन्तरा स्थितः (इति) 04.10.18 Chapt . Law of capital punishment, simple and with torture कलहे घ्नतः पुरुषं चित्रो घातः 04.11.01 सप्तरात्रस्यान्तर्मृते शुद्धवधः, पक्षस्यान्तरुत्तमः, मासस्यान्तः पञ्चशतः समुत्थानव्ययश्च 04.11.02 शस्त्रेण प्रहरतोत्तमो दण्डः 04.11.03 मदेन हस्तवधः, मोहेन द्विशतः 04.11.04 वधे वधः 04.11.05 प्रहारेण गर्भं पातयतोत्तमो दण्डः, भैषज्येन मध्यमः, परिक्लेशेन पूर्वः साहसदण्डः 04.11.06 प्रसभस्त्रीपुरुषघातकाभिसारकनिग्राहकावघोषकावस्कन्दकोपवेधकान् पथिवेश्मप्रतिरोधकान् राजहस्त्यश्वरथानां हिंसकान् स्तेनान् वा शूलान् आरोहयेयुः 04.11.07 यश्चैनान् दहेद् अपनयेद् वा स तमेव दण्डं लभेत, साहसमुत्तमं वा 04.11.08 हिंस्रस्तेनानां भक्तवासोपकरणाग्निमन्त्रदानवैयावृत्यकर्मसूत्तमो दण्डः, परिभाषणमविज्ञाते 04.11.09 हिंस्रस्तेनानां पुत्रदारमसमन्त्रं विसृजेत्, समन्त्रमाददीत 04.11.10 राज्यकामुकमन्तःपुरप्रधर्षकमटव्यमित्रोत्साहकं दुर्गराष्ट्रदण्डकोपकं वा शिरोहस्तप्रदीपिकं घातयेत् 04.11.11 ब्राह्मणं तमः प्रवेशयेत् 04.11.12 मातृपितृपुत्रभ्रात्र्।आचार्यतपस्विघातकं वात्वक्षिरःप्रादीपिकं घातयेत् 04.11.13 तेषामाक्रोशे जिह्वाच्छेदः, अङ्गाभिरदने तद्ऽङ्गान् मोच्यः 04.11.14 यदृच्छाघाते पुंसः पशुयूथस्तेये च शुद्धवधः 04.11.15 दशावरं च यूथं विद्यात् 04.11.16 उदकधारणं सेतुं भिन्दतः तत्रैवाप्सु निमज्जनं, अनुदकमुत्तमः साहसदण्डः, भग्नोत्सृष्टकं मध्यमः 04.11.17 विषदायकं पुरुषं स्त्रियं च पुरुषघ्नीमपः प्रवेशयेद् अगर्भिणीं, गर्भिणीं मासावरप्रजाताम् 04.11.18 पतिगुरुप्रजाघातिकामग्निविषदां सन्धिच्छेदिकां वा गोभिः पाटयेत् 04.11.19 विवीतक्षेत्रखलवेश्मद्रव्यहस्तिवनादीपिकमग्निना दाहयेत् 04.11.20 राजाक्रोशकमन्त्रभेदकयोरनिष्टप्रवृत्तिकस्य ब्राह्मणमहानसावलेहिनश्च जिह्वामुत्पाटयेत् 04.11.21 प्रहरणावरणस्तेनमनायुधीयमिषुभिर्घातयेत् 04.11.22 आयुधीयस्योत्तमः 04.11.23 मेढ्रफलोपघातिनः तद् एवच्छेदयेत् 04.11.24 जिह्वानासोपघाते सन्दंशवधः 04.11.25 एते शास्त्रेष्वनुगताः क्लेशदण्डा महात्मनाम् । अक्लिष्टानां तु पापानां धर्म्यः शुद्धवधः स्मृतः (इति) 04.11.26 Chapt . Violation of maidens सवर्णामप्राप्तफलां प्रकुर्वतो हस्तवधः, चतुःशतो वा दण्डः 04.12.01 मृतायां वधः 04.12.02 प्राप्तफलां प्रकुर्वतो मध्यमाप्रदेशिनीवधो, द्विशतो वा दण्डः 04.12.03 पितुश्चावहीनं दद्यात् 04.12.04 न च प्राकाम्यमकामायां लब्भेत 04.12.05 सकामायां चतुष्पञ्चाशत्पणो दण्डः, स्त्रियाः त्वर्धदण्डः 04.12.06 परशुल्कावरुद्धायां हस्तवधः, चतुःशतो वा दण्डः, शुल्कदानं च 04.12.07 सप्तार्तवप्रजातां वरणाद् ऊर्ध्वमलभमानः प्रकृत्य प्राकामी स्यात्, न च पितुरवहीनं दद्यात् 04.12.08 ऋतुप्रतिरोधिभिः स्वाम्याद् अपक्रामति 04.12.09 त्रिवर्षप्रजातार्तवायाः तुल्यो गन्तुमदोषः, ततः परमतुल्योऽप्यनलङ्कृतायाः 04.12.10 पितृद्रव्यादाने स्तेयं भजेत 04.12.11 परमुद्दिश्यान्यस्य विन्दतो द्विशतो दण्डः 04.12.12 न च प्राकांयमकामायां लभेत 04.12.13 कन्यामन्यां दर्शयित्वान्यां प्रयच्छतः शत्यो दण्डः तुल्यायां, हीनायां द्विगुणः 04.12.14 प्रकर्मण्यकुमार्याश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कव्ययकर्मणी च प्रतिदद्यात् 04.12.15 अवस्थाय तज्जातं पश्चात्कृता द्विगुणं दद्यात् 04.12.16 अन्यशोणितोपधाने द्विशतो दण्डः, मिथ्याभिशंसिनश्च पुंसः 04.12.17 शुल्कव्ययकर्मणी च जीयेत 04.12.18 न च प्राकांयमकामायां लभेत 04.12.19 स्त्रीप्रकृता सकामा समाना द्वादशपणं दण्डं दद्यात्, प्रकर्त्री द्विगुणम् 04.12.20 अकामायाः शत्यो दण्डात्मरागार्थं, शुल्कदानं च 04.12.21 स्वयं प्रकृता राजदास्यं गच्छेत् 04.12.22 बहिर्ग्रामस्य प्रकृतायां मिथ्याभिशंसने च द्विगुणो दण्डः 04.12.23 प्रसह्य कन्यामपहरतो द्विशतः, स-सुवर्णामुत्तमः 04.12.24 बहूनां कन्यापहारिणां पृथग् यथोक्ता दण्डाः 04.12.25 गणिकादुहितरं प्रकुर्वतश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कं मातुर्भोगः षोडशगुणः 04.12.26 दासस्य दास्या वा दुहितरमदासीं प्रकुर्वतश्चतुर्विंशतिपणो दण्डः शुल्काबन्ध्यदानं च 04.12.27 निष्क्रयानुरूपां दासीं प्रकुर्वतो द्वादशपणो दण्डो वस्त्राबन्ध्यदानं च 04.12.28 साचिव्यावकाशदाने कर्तृसमो दण्डः 04.12.29 प्रोषितपतिकामपचरन्तीं पतिबन्धुः तत्पुरुषो वा सङ्गृह्णीयात् 04.12.30 सङ्गृहीता पतिमाकाङ्क्षेत 04.12.31 पतिश्चेत् क्षमेत विसृज्येतोभयम् 04.12.32 अक्षमायां स्त्रियाः कर्णनासाच्छेदनं, वधं जारश्च प्राप्नुयात् 04.12.33 जारं चोर इत्यभिहरतः पञ्चशतो दण्डः, हिरण्येन मुञ्चतः तद्ऽष्टगुणः 04.12.34 केशाकेशिकं सङ्ग्रहणं, उपलिङ्गनाद् वा शरीरोपभोगानां, तज्जातेभ्यः(तज्ज्ञातेभ्यः? chf.N12.60), स्त्रीवचनाद् वा 04.12.35 परचक्राटवीहृतामोघप्रव्यूढामरण्येषु दुर्भिक्षे वा त्यक्तां प्रेतभावोत्सृष्टां वा परस्त्रियं निस्तारयित्वा यथासम्भाषितं समुपभुञ्जीत 04.12.36 जातिविशिष्टामकामामपत्यवतीं निष्क्रयेण दद्यात् 04.12.37 चोरहस्तान्नदीवेगाद् दुर्भिक्षाद् देशविभ्रमात् । निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृता इति वा 04.12.38 भुञ्जीत स्त्रियमन्येषां यथासम्भाषितं नरः । न तु राजप्रतापेन प्रमुक्तां स्वजनेन वा 04.12.39 न चोत्तमां न चाकामां पूर्वापत्यवतीं न च । ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् (इति) 04.12.40 Chapt . Punishments for transgressions ब्राह्मणमपेयमभक्ष्यं वा ग्रासयतोत्तमो दण्डः, क्षत्रियं मध्यमः, वैश्यं पूर्वः साहसदण्डः, शूद्रं चतुष्पञ्चाशत्पणो दण्डः 04.13.01 स्वयं ग्रसितारो निर्विषयाः कार्याः 04.13.02 परगृहाभिगमने दिवा पूर्वः साहसदण्डः, रात्रौ मध्यमः 04.13.03 दिवा रात्रौ वा सशस्त्रस्य प्रविशतोत्तमो दण्डः 04.13.04 भिक्षुकवैदेहकौ मत्तोन्मत्तौ बलाद् आपदि चातिसंनिकृष्टाः प्रवृत्तप्रवेशाश्चादण्ड्याः, अन्यत्र प्रतिषेधात् 04.13.05 स्ववेश्मनो विरात्राद् ऊर्ध्वं परिवारमारोहतः पूर्वः साहसदण्डः, परवेश्मनो मध्यमः, ग्रामारामवाटभेदिनश्च 04.13.06 ग्रामेष्वन्तः सार्थिका ज्ञातसारा वसेयुः 04.13.07 मुषितं प्रवासितं चैषामनिर्गतं रात्रौ ग्रामस्वामी दद्यात् 04.13.08 ग्रामान्तरेषु वा मुषितं प्रवासितं विवीताध्यक्षो दद्यात् 04.13.09 अविवीतानां चोररज्जुकः 04.13.10 तथाप्यगुप्तानां सीमावरोधेन विचयं दद्युः 04.13.11 असीमावरोधे पञ्चग्रामी दशग्रामी वा 04.13.12 दुर्बलं वेश्म शकटमनुत्तब्धमूर्धस्तम्भं शस्त्रमनपाश्रयमप्रतिच्छन्नं श्वभ्रं कूपं कूटावपातं वा कृत्वा हिंसायां दण्डपारुष्यं विद्यात् 04.13.13 वृक्षच्छेदने दंयरश्मिहरणे चतुष्पदानामदान्तसेवने वाहने वा काष्ठलोष्टपाषाणदण्डबाणबाहुविक्षेपणेषु याने हस्तिना च स्मघट्टनेऽपेहि इति प्रकोशन्न् अदण्ड्यः 04.13.14 हस्तिना रोषितेन हतो द्रोणान्नं मद्यकुम्भं माल्यानुलेपनं दन्तप्रमार्जनं च पटं दद्यात् 04.13.15 अश्वमेधावभृथस्नानेन तुल्यो हस्तिना वध इति पादप्रक्षालनम् 04.13.16 उदासीनवधे यातुरुत्तमो दण्डः 04.13.17 श‍ृङ्गिणा दंष्ट्रिणा वा हिंस्यमानममोक्षयतः स्वामिनः पूर्वः साहसदण्डः, प्रतिक्रुष्टस्य द्विगुणः 04.13.18 श‍ृङ्गिदंष्ट्रिभ्यामन्योन्यं घातयतः तच्च तावच्च दण्डः 04.13.19 देवपशुं ऋषभमुक्षाणं गोकुमारीं वा वाहयतः पञ्चशतो दण्डः, प्रवासयतोत्तमः 04.13.20 लोमदोहवाहनप्रजननोपकारिणां क्षुद्रपशूनामदाने तच्च तावच्च दण्डः, प्रवासने च, अन्यत्र देवपितृकार्येभ्यः 04.13.21 छिन्ननस्यं भग्नयुगं तिर्यक्प्रतिमुखागतं प्रत्यासरद् वा चक्रयुक्तं याता पशुमनुष्यसम्बाधे वा हिंसायामदण्ड्यः 04.13.22 अन्यथा यथोक्तं मानुषप्राणिहिंसायां दण्डमभ्यावहेत् 04.13.23 अमानुषप्राणिवधे प्राणिदानं च 04.13.24 बाले यातरि यानस्थः स्वामी दण्ड्यः, अस्वामिनि यानस्थः, प्राप्तव्यवहारो वा याता 04.13.25 बालाधिष्ठितमपुरुषं वा यानं राजा हरेत् 04.13.26 कृत्याभिचाराभ्यां यत्परमापादयेत् तद्।आपादयितव्यः 04.13.27 कामं भार्यायामनिच्छन्त्यां कन्यायां वा दारार्थिनो भर्तरि भार्याया वा संवदनकरणम् 04.13.28 अन्यथाहिंसायां मध्यमः साहसदण्डः 04.13.29 मातापित्रोर्भगिनीं मातुलानीमाचार्याणीं स्नुषां दुहितरं भगिनीं वाधिचरतः त्रिलिङ्गच्छेदनं वधश्च 04.13.30 सकामा तद् एव लभेत, दासपरिचारकाहितकभुक्ता च 04.13.31 ब्राह्मण्यामगुप्तायां क्षत्रियस्योत्तमः, सर्वस्वं वैश्यस्य, शूद्रः कटाग्निना दह्येत 04.13.32 सर्वत्र राजभार्यागमने कुम्भीपाकः 04.13.33 श्वपाकीगमने कृतकबन्धाङ्कः परविषयं गच्छेत्, श्वपाकत्वं वा शूद्रः 04.13.34 श्वपाकस्यार्यागमने वधः, स्त्रियाः कर्णनासाच्छेदनम् 04.13.35 प्रव्रजितागमने चतुर्विंशतिपणो दण्डः 04.13.36 सकामा तद् एव लभेत 04.13.37 रूपाजीवायाः प्रसह्योपभोगे द्वादशपणो दण्डः 04.13.38 बहूनामेकामधिचरतां पृथक् चतुर्विंशतिपणो दण्डः 04.13.39 स्त्रियमयोनौ गच्छतः पूर्वः साहसदण्डः, पुरुषमधिमेहतश्च 04.13.40 मैथुने द्वादशपणः तिर्यग्योनिष्वनात्मनः । दैवतप्रतिमानां च गमने द्विगुणः स्मृतः 04.13.41 अदण्ड्यदण्डने राज्ञो दण्डः त्रिंशद्गुणोऽम्भसि । वरुणाय प्रदातव्यो ब्राह्मणेभ्यः ततः परम् 04.13.42 तेन तत् पूयते पापं राज्ञो दण्डापचारजम् । शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु (इति) 04.13.43 Book . Chapt . Infliction of secret punishment दुर्गराष्ट्रयोः कण्टकशोधनमुक्तम् 05.1.01 राजराज्ययोर्वक्ष्यामः 05.1.02 राजानमवगृह्योपजीविनः शत्रुसाधारणा वा ये मुख्याः तेषु गूढपुरुषप्रणिधिः कृत्यपक्षोपग्रहो वा सिद्धिः यथोक्तं पुरस्ताद्, उपजापोऽपसर्पो वा यथा पारग्रामिके वक्ष्यामः 05.1.03 राज्योपघातिनः तु वल्लभाः संहता वा ये मुख्याः प्रकाशमशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्मरुचिरुपांशुदण्डं प्रयुञ्जीत 05.1.04 दूष्यमहामात्रभ्रातरमसत्कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् 05.1.05 तं राजा दूष्यद्रव्योपभोगातिसर्गेण दूष्ये विक्रमयेत् 05.1.06 शस्त्रेण रसेन वा विक्रान्तं तत्रैव घातयेद् भ्रातृघातकोऽयम् इति 05.1.07 तेन पारशवः परिचारिकापुत्रश्च व्याख्यातौ 05.1.08 दूष्यंमहामात्रं वा सत्त्रिप्रोत्साहितो भ्राता दायं याचेत 05.1.09 तं दूष्यगृहप्रतिद्वारि रात्रावुपशयानमन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद् हतोऽयं दायकामुकः इति 05.1.10 ततो हतपक्षमुपगृह्य इतरं निगृह्णीयात् 05.1.11 दूष्यसमीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः 05.1.12 तं रात्रौ इति समानम् 05.1.13 दूष्यमहामात्रयोर्वा यः पुत्रः पितुः पिता वा पुत्रस्य दारान् अधिचरति, भ्राता वा भ्रातुः, तयोः कापटिकमुखः कलहः पूर्वेण व्याख्यातः 05.1.14 दूष्यमहामात्रपुत्रमात्मसम्भावितं वा सत्त्री राजपुत्रः त्वं, शत्रुभयाद् इह न्यस्तोऽसि इत्युपजपेत् 05.1.15 प्रतिपन्नं राजा रहसि पूजयेत् प्राप्तयौवराज्यकालं त्वां महामात्रभयान्नाभिषिञ्चामि इति 05.1.16 तं सत्त्री महामात्रवधे योजयेत् 05.1.17 विक्रान्तं तत्रैव घातयेत् पितृघातकोऽयम् इति 05.1.18 भिक्षुकी वा दूष्यभार्यां सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसन्दध्यात् 05.1.19 इत्याप्यप्रयोगः 05.1.20 दूष्यमहामात्रमटवीं परग्रामं वा हन्तुं कान्तारव्यवहिते वा देशे राष्ट्रपालमन्तपालं वा स्थापयितुं नागरस्थानं वा कुपितमवग्राहितुं सार्थातिवाह्यं प्रत्यन्ते वा स-प्रत्यादेयमादातुं फल्गुबलं तीक्ष्णयुक्तं प्रेषयेत् 05.1.21 रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधकव्यञ्जना वा हन्युः अभियोगे हतः इति 05.1.22 यात्राविहारगतो वा दूष्यमहामात्रान् दर्शनायाह्वयेत् 05.1.23 ते गूढशस्त्रैः तीक्ष्णैः सह प्रविष्टा मध्यमकक्ष्यायामात्मविचयमन्तःप्रवेशनार्थं दद्युः 05.1.24 ततो दौवारिकाभिगृहीताः तीक्ष्णाः दूष्यप्रयुक्ताः स्म इति ब्रूयुः 05.1.25 ते तद्ऽभिविख्याप्य दूष्यान् हन्युः 05.1.26 तीक्ष्णस्थाने चान्ये वध्याः 05.1.27 बहिर्विहारगतो वा दूष्यान् आसन्नावासान् पूजयेत् 05.1.28 तेषां देवीव्यञ्जना वा दुःस्त्री रात्रावावासेषु गृह्येत इति समानं पूर्वेण 05.1.29 दूष्यमहामात्रं वा सूदो भक्षकारो वा ते शोभनः इति स्तवेन भक्ष्यभोज्यं याचेत, बहिर्वा क्वचिद् अध्वगतः पानीयम् 05.1.30 तद्।उभयं रसेन योजयित्वा प्रतिस्वादने तावेवोपयोजयेत् 05.1.31 तद्ऽभिविख्याप्य रसदौ इति घातयेत् 05.1.32 अभिचारशीलं वा सिद्धव्यञ्जनो गोधाकूर्मकर्कटककूटानां लक्षण्यानामन्यतमप्राशनेन मनोरथान् अवाप्स्यसि इति ग्राहयेत् 05.1.33 प्रतिपन्नं कर्मणि रसेन लोहमुसलैर्वा घातयेत् कर्मव्यापदा हतः इति 05.1.34 चिकित्सकव्यञ्जनो वा दौरात्मिकमसाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्याहारयोगेषु रसेनातिसन्दध्यात् 05.1.35 सूदारालिकव्यञ्जना वा प्रणिहिता दूष्यं रसेनातिसन्दध्युः 05.1.36 इत्युपनिषत्प्रतिषेधः 05.1.37 उभयदूष्यप्रतिषेधः तु 05.1.38 यत्र दूष्यः प्रतिषेद्धव्यः तत्र दूष्यमेव फल्गुबलतीक्ष्णयुक्तं प्रेषयेत्, गच्छ, अमुष्मिन् दुर्गे राष्ट्रे वा सैन्यमुत्थापय हिरण्यं वा, वल्लभाद् वा हिरण्यमाहारय, वल्लभकन्यां वा प्रसह्यानय, दुर्गसेतुवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्मणामन्यतमद् वा कारय राष्ट्रपाल्यमन्तपाल्यं वायश्च त्वा प्रतिषेधयेन्न वा ते साहाय्यं दद्यात् स बन्धव्यः स्यात् इति 05.1.39 तथैव इतरेषां प्रेषयेद् अमुष्याविनयः प्रतिषेद्धव्यः इति 05.1.40 तमेतेषु कलहस्थानेषु कर्मप्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः 05.1.41 तेन दोषेण इतरे नियन्तव्याः 05.1.42 पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमाक्षेत्रखलवेश्ममर्यादासु द्रव्योपकरणसस्यवाहनहिंसासु प्रेक्षाकृत्योत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः एवं क्रियन्ते येऽमुना कलहायन्ते: इति 05.1.43 तेन दोषेण इतरे नियन्तव्याः 05.1.44 येषां वा दूष्याणां जातमूलाः कलहाः तेषां क्षेत्रखलवेश्मान्यादीपयित्वा बन्धुसम्बन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः अमुना प्रयुक्ताः स्मः इति 05.1.45 तेन दोषेण इतरे नियन्तव्याः 04.4.46 दुर्गराष्ट्रदूष्यान् वा सत्त्रिणः परस्परस्यावेशनिकान् कारयेयुः 05.1.47 तत्र रसदा रसं दद्युः 05.1.48 तेन दोषेण इतरे नियन्तव्याः 05.1.49 भिक्षुकी वा दूष्यराष्ट्रमुख्यं दूष्यराष्ट्रमुख्यस्य भार्या स्नुषा दुहिता वा कामयते इत्युपजपेत् 05.1.50 प्रतिपन्नस्याभरणमादाय स्वामिने दर्शयेत् असौ ते मुख्यो यौवनोत्सिक्तो भार्यां स्नुषां दुहितरं वाभिमन्यते इति 05.1.51 तयोः कलहो रात्रौ इति समानम् 05.1.52 दूष्यदण्डोपनतेषु तु - युवराजः सेनापतिर्वा किञ्चिद् अपकृत्यापक्रान्तो विक्रमेत 05.1.53 ततो राजा दूष्यदण्डोपनतान् एव प्रेषयेत् फल्गुबलतीक्ष्णयुक्तान् इति समानाः सर्वैव योगाः 05.1.54 तेषां च पुत्रेष्वनुक्षियत्सु यो निर्विकारः स पितृदायं लभेत 05.1.55 एवमस्य पुत्रपौत्रान् अनुवर्तते राज्यमपास्तपुरुषदोषम् 05.1.56 स्वपक्षे परपक्षे वा तूष्णीं दण्डं प्रयोजयेत् । आयत्यां च तदात्वे च क्षमावान् अविशङ्कितः (इति) 05.1.57 Chapt . Replenishment of the treasury कोशमकोशः प्रत्युत्पन्नार्थकृच्छ्रः सङ्गृह्णीयात् 05.2.01 जनपदं महान्तमल्पप्रमाणं वादेवमातृकं प्रभूतधान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत, यथासारं मध्यमवरं वा 05.2.02 दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्मोपकारिणं प्रत्यन्तमल्पप्रमाणं वा न याचेत 05.2.03 धान्यपशुहिरण्यादि निविशमानाय दद्यात् 05.2.04 चतुर्थमंशं धान्यानां बीजभक्तशुद्धं च हिरण्येन क्रीणीयात् 05.2.05 अरण्यजातं श्रोत्रियस्वं च परिहरेत् 05.2.06 तद् अप्यनुग्रहेण क्रीणीयात् 05.2.07 तस्याकरणे वा समाहर्तृपुरुषा ग्रीष्मे कर्षकाणामुद्वापं कारयेयुः 05.2.08 प्रमादावस्कन्नस्यात्ययं द्विगुणमुदाहरन्तो बीजकाले बीजलेख्यं कुर्युः 05.2.09 निष्पन्ने हरितपक्वादानं वारयेयुः, अन्यत्र शाककटभङ्गमुष्टिभ्यां देवपितृपूजादानार्थं गवार्थं वा 05.2.10 भिक्षुकग्रामभृतकार्थं च राशिमूलं परिहरेयुः 05.2.11 स्वसस्यापहारिणः प्रतिपातोऽष्टगुणः 05.2.12 परसस्यापहारिणः पञ्चाशद्गुणः सीतात्ययः, स्ववर्गस्य, बाह्यस्य तु वधः 05.2.13 चतुर्थमंशं धान्यानां षष्ठं वन्यानां तूललाक्षाक्षौमवल्ककार्पासरौमकौशेयकौषधगन्धपुष्पफलशाकपण्यानां काष्ठवेणुमांसवल्लूराणां च गृह्णीयुः, दन्ताजिनस्यार्धम् 05.2.14 तद् अनिसृष्टं विक्रीणानस्य पूर्वः साहसदण्डः 05.2.15 इति कर्षकेषु प्रणयः 05.2.16 सुवर्णरजतवज्रमणिमुक्ताप्रवालाश्वहस्तिपण्याः पञ्चाशत्कराः 05.2.17 सूत्रवस्त्रताम्रवृत्तकंसगन्धभैषज्यशीधुपण्याश्चत्वारिंशत्कराः 05.2.18 धान्यरसलोहपण्याः शकटव्यवहारिणश्च त्रिंशत्कराः 05.2.19 काचव्यवहारिणो महाकारवश्च विंशतिकराः 05.2.20 क्षुद्रकारवो बन्धकीपोषकाश्च दशकराः 05.2.21 काष्ठवेणुपाषाणमृद्भाण्डपक्वान्नहरितपण्याः पञ्चकराः 05.2.22 कुशीलवा रूपाजीवाश्च वेतनार्धं दद्युः 05.2.23 हिरण्यकरं कर्मण्यान् आहारयेयुः, न चैषां कञ्चिद् अपराधं परिहरेयुः 05.2.24 ते ह्यपरिगृहीतमभिनीय विक्रीणीरन् 05.2.25 इति व्यवहारिषु प्रणयः 05.2.26 कुक्कुटसूकरमर्धं दद्यात्, क्षुद्रपशवः षड्भागं, गोमहिषाश्वतरखरोष्ट्राश्च दशभागम् 05.2.27 बन्धकीपोषका राजप्रेष्याभिः परमरूपयौवनाभिः कोशं संहरेयुः 05.2.28 इति योनिपोषकेषु प्रणयः 05.2.29 सकृद् एव न द्विः प्रयोज्यः 05.2.30 तस्याकरणे वा समाहर्ता कार्यमपदिश्य पौरजानपदान् भिक्षेत 05.2.31 योगपुरुषाश्चात्र पूर्वमतिमात्रं दद्युः 05.2.32 एतेन प्रदेशेन राजा पौरजानपदान् भिक्षेत 05.2.33 कापटिकाश्चैनान् अल्पं प्रयच्छतः कुत्सयेयुः 05.2.34 सारतो वा हिरण्यमाढ्यान् याचेत, यथोपकारं वा, स्ववशा वा यद् उपहरेयुः 05.2.35 स्थानच्छत्रवेष्टनविभूषाश्चैषां हिरण्येन प्रयच्छेत् 05.2.36 पाषण्डसङ्घद्रव्यमश्रोत्रियोपभोग्यं देवद्रव्यं वा कृत्यकराः प्रेतस्य दग्धगृहस्य वा हस्ते न्यस्तमित्युपहरेयुः 05.2.37 देवताध्यक्षो दुर्गराष्ट्रदेवतानां यथास्वमेकस्थं कोशं कुर्यात्, तथैव चोपहरेत् 05.2.38 दैवतचैत्यं सिद्धपुण्यस्थानमौपपादिकं वा रात्रावुत्थाप्य यात्रासमाजाभ्यामाजीवेत् 05.2.39 चैत्योपवनवृक्षेण वा देवताभिगमनमनार्तवपुष्पफलयुक्तेन ख्यापयेत् 05.2.40 मनुष्यकरं वा वृक्षे रक्षोभयं प्ररूपयित्वा सिद्धव्यञ्जनाः पौरजानपदानां हिरण्येन प्रतिकुर्युः 05.2.41 सुरुङ्गायुक्ते वा कूपे नागमनियतशिरस्कं हिरण्योपहारेण दर्शयेत् 05.2.42 नागप्रतिमायामन्तश्छन्नायां चैत्यच्छिद्रे वल्मीकच्छिद्रे वा सर्पदर्शनमाहारेण प्रतिबद्धसंज्ञं कृत्वा श्रद्दधानानां दर्शयेत् 05.2.43 अश्रद्दधानानामाचमनप्रोक्षणेषु रसमुपचार्य देवताभिशापं ब्रूयात्, अभित्यक्तं वा दंशयित्वा 05.2.44 योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात् 05.2.45 वैदेहकव्यञ्जनो वा प्रभूतपण्यान्तेवासी व्यवहरेत 05.2.46 स यदा पण्यमूल्ये निक्षेपप्रयोगैरुपचितः स्यात् तदैनं रात्रौ मोषयेत् 05.2.47 एतेन रूपदर्शकः सुवर्णकारश्च व्याख्यातौ 05.2.48 वैदेहकव्यञ्जनो वा प्रख्यातव्यवहारः प्रहवणनिमित्तं याचितकमवक्रीतकं वा रूप्यसुवर्णभाण्डमनेकं गृह्णीयात् 05.2.49 समाजे वा सर्वपण्यसन्दोहेन प्रभूतं हिरण्यसुवर्णं ऋणं गृह्णीयात्, प्रतिभाण्डमूल्यं च 05.2.50 तद् उभयं रात्रौ मोषयेत् 05.2.51 साध्वीव्यञ्जनाभिः स्त्रीभिर्दूष्यान् उन्मादयित्वा तासामेव वेश्मस्वभिगृह्य सर्वस्वान्याहरेयुः 05.2.52 दूष्यकुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः 05.2.53 तेन दोषेण इतरे पर्यादातव्याः 05.2.54 दूष्यमभित्यक्तो वा श्रद्धेयापदेशं पण्यं हिरण्यनिक्षेपं ऋणप्रयोगं दायं वा याचेत 05.2.55 दासशब्देन वा दूष्यमालम्बेत, भार्यामस्य स्नुषां दुहितरं वा दासीशब्देन भार्याशब्देन वा 05.2.56 तं दूष्यगृहप्रतिद्वारि रात्रावुपशयानमन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात् हतोऽयमर्थकामुकः इति 05.2.57 तेन दोषेण इतरे पर्यादातव्याः 05.2.58 सिद्धव्यञ्जनो वा दूष्यं जम्भकविद्याभिः प्रलोभयित्वा ब्रूयात् अक्षयहिरण्यं राजद्वारिकं स्त्रीहृदयमरिव्याधिकरमायुष्यं पुत्रीयं वा कर्म जानामि इति 05.2.59 प्रतिपन्नं चैत्यस्थाने रात्रौ प्रभूतसुरामांसगन्धमुपहारं कारयेत् 05.2.60 एकरूपं चात्र हिरण्यं पूर्वनिखातं प्रेताङ्गं प्रेतशिशुर्वा यत्र निहितः स्यात्, ततो हिरण्यमस्य दर्शयेद् अत्यल्पम् इति च ब्रूयात् 05.2.61 प्रभूतहिरण्यहेतोः पुनरुपहारः कर्तव्य इति स्वयमेवैतेन हिरण्येन श्वोभूते प्रभूतमौपहारिकं क्रीणीहि इति 05.2.62 स तेन हिरण्येनोपहारिकक्रये गृह्येत 05.2.63 मातृव्यञ्जनया वा पुत्रो मे त्वया हतः इत्यवकुपिता स्यात् 05.2.64 संसिद्धमेवास्य रात्रियागे वनयागे वनक्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तमतिनयेयुः 05.2.65 दूष्यस्य वा भृतकव्यञ्जनो वेतनहिरण्ये कूटरूपं प्रक्षिप्य प्ररूपयेत् 05.2.66 कर्मकरव्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेनकूटरूपकारकोपकरणमुपनिदध्यात्, चिकित्सकव्यञ्जनो वा गरमगदापदेशेन 05.2.67 प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितमभिषेकभाण्डममित्रशासनं च कापटिकमुखेनाचक्षीत, कारणं च ब्रूयात् 05.2.68 एवं दूष्येष्वधार्मिकेषु च वर्तेत, न इतरेषु 05.2.69 पक्वं पक्वमिवारामात् फलं राज्याद् अवाप्नुयात् । आत्मच्छेदभयाद् आमं वर्जयेत् कोपकारकम् (इति) 05.2.70 Chapt . Salaries of state servants दुर्गजनपदशक्त्या भृत्यकर्म समुदयपादेन स्थापयेत्, कार्यसाधनसहेन वा भृत्यलाभेन 05.3.01 शरीरमवेक्षेत, न धर्मार्थौ पीडयेत् 05.3.02 ऋत्विग्।आचार्यमन्त्रिपुरोहितसेनापतियुवराजराजमातृराजमहिष्योऽष्टचत्वारिंशत्साहस्राः 05.3.03 एतावता भरणेनानास्पद्यत्वमकोपकं चैषां भवति 05.3.04 दौवारिकान्तर्वंशिकप्रशास्तृसमाहर्तृसंनिधातारश्चतुर्विंशतिसाहस्राः 05.3.05 एतावता कर्मण्या भवन्ति 05.3.06 कुमारकुमारमातृनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषद्राष्ट्रान्तपालाश्च द्वादशसाहस्राः 05.3.07 स्वामिपरिबन्धबलसहाया ह्येतावता भवन्ति 05.3.08 श्रेणीमुख्या हस्त्यश्वरथमुख्याः प्रदेष्टारश्चाष्टसाहस्राः 05.3.09 स्ववर्गानुकर्षिणो ह्येतावता भवन्ति 05.3.10 पत्त्यश्वरथहस्त्यध्यक्षा द्रव्यहस्तिवनपालाश्च चतुःसाहस्राः 05.3.11 रथिकानीकस्थचिकित्सकाश्वदमकवर्धकयो योनिपोषकाश्च द्विसाहस्राः 05.3.12 कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिकसूतमागधाः पुरोहितपुरुषाः सर्वाध्यक्षाश्च साहस्राः 05.3.13 शिल्पवन्तः पादाताः सङ्ख्यायकलेखकादिवर्गश्च पञ्चशताः 05.3.14 कुशीलवाः त्वर्धतृतीयशताः, द्विगुणवेतनाश्चैषां तूर्यकराः 05.3.15 कारुशिल्पिनो विंशतिशतिकाः 05.3.16 चतुष्पदद्विपदपरिचारकपारिकर्मिकोपस्थायिकपालकविष्टिबन्धकाः षष्टिवेतनाः, आर्ययुक्तारोहकमाणवकशैलखनकाः सर्वोपस्थायिनश्च 05.3.17 आचार्या विद्यावन्तश्च पूजावेतनानि यथार्हं लभेरन् पञ्चशतावरं सहस्रपरम् 05.3.18 दशपणिको योजने दूतो मध्यमः, दशोत्तरे द्विगुणवेतनायोजनशतादिति 05.3.19 समानविद्येभ्यः त्रिगुणवेतनो राजा राजसूयादिषु क्रतुषु 05.3.20 राज्ञः सारथिः साहस्रः 05.3.21 कापटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनाः साहस्राः 05.3.22 ग्रामभृतकसत्त्रितीक्ष्णरसदभिक्षुक्यः पञ्चशताः 05.3.23 चारसञ्चारिणोऽर्धतृतीयशताः, प्रयासवृद्धवेतना वा 05.3.24 शतवर्गसहस्रवर्गाणामध्यक्षा भक्तवेतनलाभमादेशं विक्षेपं च कुर्युः 05.3.25 अविक्षेपो राजपरिग्रहदुर्गराष्ट्ररक्षावेक्षणेषु च 05.3.26 नित्यमुख्याः स्युरनेकमुख्याश्च 05.3.27 कर्मसु मृतानां पुत्रदारा भक्तवेतनं लभेरन् 05.3.28 बालवृद्धव्याधिताश्चैषामनुग्राह्याः 05.3.29 प्रेतव्याधितसूतिकाकृत्येषु चैषामर्थमानकर्म कुर्यात् 05.3.30 अल्पकोशः कुप्यपशुक्षेत्राणि दद्यात्, अल्पं च हिरण्यम् 05.3.31 शून्यं वा निवेशयितुमभ्युत्थितो हिरण्यमेव दद्यात्, न ग्रामं ग्रामसञ्जातव्यवहारस्थापनार्थम् 05.3.32 एतेन भृतानामभृतानां च विद्याकर्मभ्यां भक्तवेतनविशेषं च कुर्यात् 05.3.33 षष्टिवेतनस्याढकं कृत्वा हिरण्यानुरूपं भक्तं कुर्यात् 05.3.34 पत्त्यश्वरथद्विपाः सूर्योदये बहिः सन्धिदिवसवर्जं शिल्पयोग्याः कुर्युः 05.3.35 तेषु राजा नित्ययुक्तः स्यात्, अभीक्ष्णं चैषां शिल्पदर्शनं कुर्यात् 05.3.36 कृतनरेन्द्राङ्कं शस्त्रावरणमायुधागारं प्रवेशयेत् 05.3.37 अशस्त्राश्चरेयुः, अन्यत्र मुद्रानुज्ञातात् 05.3.38 नष्टंविनष्टं वा द्विगुणं दद्यात् 05.3.39 विध्वस्तगणनां च कुर्यात् 05.3.40 सार्थिकानां शस्त्रावरणमन्तपाला गृह्णीयुः, समुद्रमवचारयेयुर्वा 05.3.41 यात्रामभ्युत्थितो वा सेनामुद्योजयेत् 05.3.42 ततो वैदेहकव्यञ्जनाः सर्वपण्यान्यायुधीयेभ्यो यात्राकाले द्विगुणप्रत्यादेयानि दद्युः 05.3.43 एवं राजपण्ययोगविक्रयो वेतनप्रत्यादानं च भवति 05.3.44 एवमवेक्षितायव्ययः कोशदण्डव्यसनं नावाप्नोति 05.3.45 इति भक्तवेतनविकल्पः 05.3.46 सत्त्रिणश्चायुधीयानां वेश्याः कारुकुशीलवाः । दण्डवृद्धाश्च जानीयुः शौचाशौचमतन्द्रिताः (इति) 05.3.47 Chapt . Proper conduct fora dependant लोकयात्राविद् राजानमात्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत 05.4.01 यं वा मन्येत यथाहमाश्रय ईप्सुरेवमसौ विनय ईप्सुराभिगामिकगुणयुक्तः इति, द्रव्यप्रकृतिहीनमप्येनमाश्रयेत, न त्वेवानात्मसम्पन्नम् 05.4.02 अनात्मवा हि नीतिशास्त्रद्वेषाद् अनर्थ्यसंयोगाद् वा प्राप्यापि महद् ऐश्वर्यं न भवति 05.4.03 आत्मवति लब्धावकाशः शास्त्रानुयोगं दद्यात् 05.4.04 अविसंवादाद्द् हि स्थानस्थैर्यमवाप्नोति 05.4.05 मतिकर्मसु पृष्ठः तदात्वे चायत्यां च धर्मार्थसंयुक्तं समर्थं प्रवीणवद् अपरिषद्भीरुः कथयेत् 05.4.06 ईप्सितः पणेत धर्मार्थानुयोगमविशिष्टेषु बलवत्संयुक्तेषु दण्डधारणं मत्संयोगे तदात्वे च दण्डधारणमिति न कुर्याः, पक्षं वृत्तिं गुह्यं च मे नोपहन्याः, संज्ञया च त्वां कामक्रोधदण्डनेषु वारयेयम् इति 05.4.07 आदिष्टः प्रदिष्टायां भूमावनुज्ञातः प्रविशेत्, उपविशेच्च पार्श्वतः संनिकृष्टविप्रकृष्टः परासनम् 05.4.08 विगृह्य कथनमसभ्यमप्रत्यक्षमश्रद्धेयमनृतं च वाक्यमुच्चैरनर्मणि हासं वातष्ठीवने च शब्दवती न कुर्यात् 05.4.09 मिथः कथनमन्येन, जनवादे द्वन्द्वकथनं, राज्ञो वेषमुद्धतकुहकानां च, रत्नातिशयप्रकाशाभ्यर्थनं, एकाक्ष्य्।ओष्ठनिर्भोगं भ्रुकुटीकर्म वाक्यावक्षेपणं च ब्रुवति, बलवत् संयुक्तविरोधं, स्त्रीभिः स्त्रीदर्शिभिः सामन्तदूतैर्द्वेष्यपक्षावक्षिप्तान् अर्थ्यैश्च प्रतिसंसर्गमेकार्थचर्यां सङ्घातं च वर्जयेत् 05.4.10 अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह । परार्थं देशकाले च ब्रूयाद् धर्मार्थसंहितम् 05.4.11 पृष्टः प्रियहितं ब्रूयान्न ब्रूयाद् अहितं प्रियम् । अप्रियं वा हितं ब्रूयात्श‍ृण्वतोऽनुमतो मिथः 05.4.12 तूष्णीं वा प्रतिवाक्ये स्याद् वेष्यादींश्च न वर्णयेत् । अप्रिया अपि दक्षाः स्युः तद्भावाद् ये बहिष्कृताः 05.4.13 अनर्थ्याश्च प्रिया दृष्टाश्चित्तज्ञानानुवर्तिनः । अभिहास्येष्वभिहसेद्घोरहासांश्च वर्जयेत् (इति) 05.4.14 परात् सङ्क्रामयेद्घोरं न च घोरं परे वदेत् । तितिक्षेतात्मनश्चैव क्षमावान् पृथिवीसमः 05.4.15 आत्मरक्षा हि सततं पूर्वं कार्या विजानता । अग्नाविव हि सम्प्रोक्ता वृत्ती राजोपजीविनाम् 05.4.16 एकदेशं दहेद् अग्निः शरीरं वा परं गतः । स-पुत्रदारं राजा तु घातयेद् अर्धयेत वा (इति) 05.4.17 Chapt . Proper behaviour for a courtier नियुक्तः कर्मसु व्ययविशुद्धमुदयं दर्शयेत् 05.5.01 आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यमात्ययिकमुपेक्षितव्यं वा कार्यमिदमेवम् इति विशेषयेच्च 05.5.02 मृगयाद्यूतमद्यस्त्रीषु प्रसक्तं नैनमनुवर्तेत प्रशंसाभिः 05.5.03 आसन्नश्चास्य व्यसनोपघाते प्रयतेत, परोपजापातिसन्धानोपधिभ्यश्च रक्षेत् 05.5.04 इङ्गिताकारौ चास्य लक्षयेत् 05.5.05 कामद्वेषहर्षदैन्यव्यवसायभयद्वन्द्वविपर्यासमिङ्गिताकाराभ्यां हि मन्त्रसंवरणार्थमाचरति प्राज्ञः 05.5.06 दर्शने प्रसीदति, वाक्यं प्रतिगृह्णाति, आसनं ददाति, विविक्तो दर्शयते, शङ्कास्थाने नातिशङ्कते, कथायां रमते, परिज्ञाप्येष्ववेक्षते, पथ्यमुक्तं सहते, स्मयमानो नियुङ्क्ते, हस्तेन स्पृशति, श्लाघ्ये नोपहसति, परोक्षं गुणं ब्रवीति, भक्ष्येषु स्मरति, सह विहारं याति, व्यसनेऽभ्युपपद्यते, तद्भक्तीन् पूजयति, गुह्यमाचष्टे, मानं वर्धयति, अर्थं करोति, अनर्थं प्रतिहन्ति - इति तुष्टज्ञानम् 05.5.07 एतद् एव विपरीतमतुष्टस्य, भूयश्च वक्ष्यामः 05.5.08 सन्दर्शने कोपः, वाक्यस्याश्रवणप्रतिषेधौ, आसनचक्षुषोरदानं, वर्णस्वरभेदः, एकाक्षिभ्रुकुट्य्।ओष्ठनिर्भोगः, स्वेदश्वासस्मितानामस्थानोत्पत्तिः, परमन्त्रणं, अकस्माद्व्रजनं, वर्धनमन्यस्य, भूमिगात्रविलेखनं, अन्यस्योपतोदनं, विद्यावर्णदेशकुत्सा, समदोषनिन्दा, प्रतिदोषनिन्दा, प्रतिलोमस्तवः, सुकृतानवेक्षणं, दुष्कृतानुकीर्तनं, पृष्ठावधानं, अतित्यागः, मिथ्याभिभाषणं, राजदर्शिनां च तद्वृत्तान्यत्वम् 05.5.09 वृत्तिविकारं चावेक्षेताप्यमानुषाणाम् 05.5.10 अयमुच्चैः सिञ्चतीति कात्यायनः प्रवव्राज, क्रौञ्चोऽपसव्यम् इति कणिङ्को भारद्वाजः, तृणम् इति दीर्घश्चारायणः, शीता शाटी इति घोटमुखः, हस्ती प्रत्यौक्षीत् इति किञ्जल्कः, रथाश्वं प्राशंसीत् इति पिशुनः, प्रतिरवणे शुनः पिशुनपुत्रः 05.5.11 अर्थमानावक्षेपे च परित्यागः 05.5.12 स्वामिशीलमात्मनश्च किल्बिषमुपलभ्य वा प्रतिकुर्वीत 05.5.13 मित्रमुपकृष्टं वास्य गच्छेत् 05.5.14 तत्रस्थो दोषनिर्घातं मित्रैर्भर्तरि चाचरेत् । ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् (इति) 05.5.15 Chapt . Continuance of the kingdom Continuous sovereignty राजव्यसनमेवममात्यः प्रतिकुर्वीत 05.6.01 प्राग् एव मरणाबाधभयाद् राज्ञः प्रियहितोपग्रहेण मासद्विमासान्तरं दर्शनं स्थापयेद् देशपीडापहममित्रापहमायुष्यं पुत्रीयं वा कर्म राजा साधयति इत्यपदेशेन 05.6.02 राजव्यञ्जनमरूपवेलायां प्रकृतीनां दर्शयेत्, मित्रामित्रदूतानां च 05.6.03 तैश्च यथोचितां सम्भाषाममात्यमुखो गच्छेत् 05.6.04 दौवारिकान्तर्वंशिकमुखश्च यथोक्तं राजप्रणिधिमनुवर्तयेत् 05.6.05 अपकारिषु च हेडं प्रसादं वा प्रकृतिकान्तं दर्शयेत्, प्रसादमेवोपकारिषु 05.6.06 आप्तपुरुषाधिष्ठितौ दुर्गप्रत्यन्तस्थौ वा कोशदण्डावेकस्थौ कारयेत्, कुल्यकुमारमुख्यांश्चान्यापदेशेन 05.6.07 यश्च मुख्यः पक्षवान् दुर्गाटवीस्थो वा वैगुण्यं भजेत तमुपग्राहयेत् 05.6.08 बह्व्।आबाधं वा यात्रां प्रेषयेत्, मित्रकुलं वा 05.6.09 यस्माच्च सामन्ताद् आबाधं पश्येत् तमुत्सवविवाहहस्तिबन्धनाश्वपण्यभूमिप्रदानापदेशेनावग्राहयेत्, स्वमित्रेण वा 05.6.10 ततः सन्धिमदूष्यं कारयेत् 05.6.11 आटविकामित्रैर्वा वैरं ग्राहयेत् 05.6.12 तत्कुलीनमपरुद्धं वा भूंय्।एकदेशेनोपग्राहयेत् 05.6.13 कुल्यकुमारमुख्योपग्रहं कृत्वा वा कुमारमभिषिक्तमेव दर्शयेत् 05.6.14 दाण्डकर्मिकवद् वा राज्यकण्टकान् उद्धृत्य राज्यं कारयेत् 05.6.15 यदि वा कश्चिन् मुख्यः सामन्तादीनामन्यतमः कोपं भजेत तमेहि, राजानं त्वा करिष्यामि इत्यावाहयित्वा घातयेत् 05.6.16 आपत्प्रतीकारेण वा साधयेत् 05.6.17 युवराजे वा क्रमेण राज्यभारमारोप्य राजव्यसनं ख्यापयेत् 05.6.18 परभूमौ राजव्यसने मित्रेणामित्रव्यञ्जनेन शत्रोः सन्धिमवस्थाप्यापगच्छेत् 05.6.19 सामन्तादीनामन्यतमं वास्य दुर्गे स्थापयित्वापगच्छेत् 05.6.20 कुमारमभिषिच्य वा प्रतिव्यूहेत 05.6.21 परेणाभियुक्तो वा यथोक्तमापत्प्रतीकारं कुर्यात् 05.6.22 एवमेकैश्वर्यममात्यः कारयेदिति कौटिल्यः 05.6.23 नैवम् इति भारद्वाजः 05.6.24 प्रम्रियमाणे वा राजन्यमात्यः कुल्यकुमारमुख्यान् परस्परं मुख्येषु वा विक्रमयेत् 05.6.25 विक्रान्तं प्रकृतिकोपेन घातयेत् 05.6.26 कुल्यकुमारमुख्यान् उपांशुदण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् 05.6.27 राज्यकारणाद्द् हि पिता पुत्रान् पुत्राश्च पितरमभिद्रुह्यन्ति, किमङ्ग पुनरमात्यप्रकृतिर्ह्येकप्रग्रहो राज्यस्य 05.6.28 तत् स्वयमुपस्थितं नावमन्येत 05.6.29 स्वयमारूढा हि स्त्री त्यज्यमानाभिशपतीति लोकप्रवादः 05.6.30 कालश्च सकृद् अभ्येति यं नरं कालकाङ्क्षिणम् । दुर्लभः स पुनः तस्य कालः कर्म चिकीर्षतः 05.6.31 प्रकृतिकोपकमधर्मिष्ठमनैकान्तिकं चैतदिति कौटिल्यः 05.6.32 राजपुत्रमात्मसम्पन्नं राज्ये स्थापयेत् 05.6.33 सम्पन्नाभावेऽव्यसनिनं कुमारं राजकन्यां गर्भिणीं देवीं वा पुरस्कृत्य महामात्रान् संनिपात्य ब्रूयात् अयं वो निक्षेपः, पितरमस्यावेक्षध्वं सत्त्वाभिजनमात्मनश्च, ध्वजमात्रोऽयं भवन्तैव स्वामिनः, कथं वा क्रियताम् इति 05.6.34 तथा ब्रुवाणं योगपुरुषा ब्रूयुः कोऽन्यो भवत्पुरोगाद् अस्माद् राज्ञश्चातुर्वर्ण्यमर्हति पालयितुम् इति 05.6.35 तथा इत्यमात्यः कुमारं राजकन्यां गर्भिणीं देवीं वाधिकुर्वीत, बन्धुसम्बन्धिनां मित्रामित्रदूतानां च दर्शयेत् 05.6.36 भक्तवेतनविशेषममात्यानामायुधीयानां च कारयेत्, भूयश्चायं वृद्धः करिष्यतीति ब्रूयात् 05.6.37 एवं दुर्गराष्ट्रमुख्यान् आभाषेत, यथार्हं च मित्रामित्रपक्षम् 05.6.38 विनयकर्मणि च कुमारस्य प्रयतेत 05.6.39 कन्यायां समानजातीयाद् अपत्यमुत्पाद्य वाभिषिञ्चेत् 05.6.40 मातुश्चित्तक्षोभभयात् कुल्यमल्पसत्त्वं छात्रं च लक्षण्यमुपनिदध्यात् 05.6.41 ऋतौ चैनां रक्षेत् 05.6.42 न चात्मार्थं कञ्चिद् उत्कृष्टमुपभोगं कारयेत् 05.6.43 राजार्थं तु यानवाहनाभरणवस्त्रस्त्रीवेश्मपरिवापान् कारयेत् 05.6.44 यौवनस्थं च याचेत विश्रमं चित्तकारणात् । परित्यजेद् अतुष्यन्तं तुष्यन्तं चानुपालयेत् 05.6.45 निवेद्य पुत्ररक्षार्थं गूढसारपरिग्रहान् । अरण्यं दीर्घसत्त्रं वा सेवेतारुच्यतां गतः 05.6.46 मुख्यैरवगृहीतं वा राजानं तत्प्रियाश्रितः । इतिहासपुराणाभ्यां बोधयेद् अर्थशास्त्रवित् 05.6.47 सिद्धव्यञ्जनरूपो वा योगमास्थाय पार्थिवम् । लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकमाचरेत् (इति) 05.6.48 Book . मण्डलयोनिः षष्ठमधिकरणम् Chapt . षण्ँअवतितमं प्रकरणं - प्रकृतिसम्पदः स्वाम्यमात्यजनपददुर्गकोशदण्डमित्राणि प्रकृतयः 06.1.01 तत्र स्वामिसम्पत् 06.1.02 महाकुलीनो दैवबुद्धिसत्त्वसम्पन्नो वृद्धदर्शी धार्मिकः सत्यवाग् अविसंवादकः कृतज्ञः स्थूललक्षो महोत्साहोऽदीर्घसूत्रः शक्यसामन्तो दृढबुद्धिरक्षुद्रपरिषत्को विनयकाम इत्याभिगामिका गुणाः 06.1.03 शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणाः 06.1.04 शौर्यममर्षः शीघ्रता दाक्ष्यं चोत्साहगुणाः 06.1.05 वाग्मी प्रगल्भः स्मृतिमतिबलवान् उदग्रः स्व्ऽवग्रहः कृतशिल्पोऽव्यसनो दण्डनाय्युपकारापकारयोर्दृष्टप्रतीकारी ह्रीमान् आपत्प्रकृत्योर्विनियोक्ता दीर्घदूरदर्शी देशकालपुरुषकारकार्यप्रधानः सन्धिविक्रमत्यागसंयमपणपरच्छिद्रविभागी संवृतोऽदीनाभिहास्यजिह्मभ्रुकुटीक्षणः कामक्रोधलोभस्तम्भचापलोपतापपैशुन्यहीनः शक्लः स्मितोदग्राभिभाषी वृद्धोपदेशाचार इत्यात्मसम्पत् 06.1.06 अमात्यसम्पद् उक्ता पुरस्तात् 06.1.07 मध्ये चान्ते च स्थानवान् आत्मधारणः परधारणश्चापदि स्वारक्षः स्वाजीवः शत्रुद्वेषी शक्यसामन्तः पङ्कपाषाणोषरविषमकण्टकश्रेणीव्यालमृगाटवीहीनः कान्तः सीताखनिद्रव्यहस्तिवनवान् गव्यः पौरुषेयो गुप्तगोचरः पशुमान् अदेवमातृको वारिस्थलपथाभ्यामुपेतः सारचित्रबहुपण्यो दण्डकरसहः कर्मशीलकर्षकोऽबालिशस्वाम्यवरवर्णप्रायो भक्तशुचिमनुष्य इति जनपदसम्पत् 06.1.08 दुर्गसम्पद् उक्ता पुरस्तात् 06.1.09 धर्माधिगतः पूर्वैः स्वयं वा हेमरूप्यप्रायश्चित्रस्थूलरत्नहिरण्यो दीर्घामप्यापदमनायतिं सहेत इति कोशसम्पत् 06.1.10 पितृपैतामहो नित्यो वश्यः तुष्टभृतपुत्रदारः प्रवासेष्वविसंवादितः सर्वत्राप्रतिहतो दुःखसहो बहुयुद्धः सर्वयुद्धप्रहरणविद्याविशारदः सहवृद्धिक्षयिकत्वाद् अद्वैध्यः क्षत्रप्राय इति दण्डसम्पत् 06.1.11 पितृपैतामहं नित्यं वश्यमद्वैध्यं महल्लघुसमुत्थमिति मित्रसम्पत् 06.1.12 अराजबीजी लुब्धः क्षुद्रपरिषत्को विरक्तप्रकृतिरन्यायवृत्तिरयुक्तो व्यसनी निरुत्साहो दैवप्रमाणो यत्किञ्चनकार्यगतिरननुबन्धः क्लीबो नित्यापकारी च इत्यमित्रसम्पत् 06.1.13 एवम्भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति 06.1.14 अरिवर्जाः प्रकृतयः सप्तैताः स्वगुणोदयाः । उक्ताः प्रत्यङ्गभूताः ताः प्रकृता राजसम्पदः 06.1.15 सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः । विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान् 06.1.16 ततः स दुष्टप्रकृतिश्चातुरन्तोऽप्यनात्मवान् । हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशम् 06.1.17 आत्मवांः त्वल्पदेशोऽपि युक्तः प्रकृतिसम्पदा । नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते (इति) 06.1.18 Chapt . शमव्यायामिकम् शमव्यायामौ योगक्षेमयोर्योनिः 06.2.01 कर्मारम्भाणां योगाराधनो व्यायामः 06.2.02 कर्मफलोपभोगानां क्षेमाराधनः शमः 06.2.03 शमव्यायामयोर्योनिः षाड्गुण्यम् 06.2.04 क्षयः स्थानं वृद्धिरित्युदयाः तस्य 06.2.05 मानुषं नयापनयौ, दैवमयानयौ 06.2.06 दैवमानुषं हि कर्म लोकं यापयति 06.2.07 अदृष्टकारितं दैवम् 06.2.08 तस्मिन्न् इष्टेन फलेन योगोऽयः, अनिष्टेनानयः 06.2.09 दृष्टकारितं मानुषम् 06.2.10 तस्मिन् योगक्षेमनिष्पत्तिर्नयः, विपत्तिरपनयः 06.2.11 तच्चिन्त्यं, अचिन्त्यं दैवम् 06.2.12 राजा आत्मद्रव्यप्रकृतिसम्पन्नो नयस्याधिष्ठानं विजिगीषुः 06.2.13 तस्य समन्ततो मण्डलीभूता भूम्यनन्तरा अरिप्रकृतिः 06.2.14 तथैव भूम्य्।एकान्तरा मित्रप्रकृतिः 06.2.15 अरिसम्पद्युक्तः सामन्तः शत्रुः, व्यसनी यातव्यः, अनपाश्रयो दुर्बलाश्रयो वोच्छेदनीयः, विपर्यये पीडनीयः कर्शनीयो वा 06.2.16 इत्यरिविशेषाः 06.2.17 तस्मान् मित्रमरिमित्रं मित्रमित्रमरिमित्रमित्रं चानन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात्, पश्चात् पार्ष्णिग्राहाक्रन्दः पार्ष्णिग्राहासाराक्रन्दासारः 06.2.18 भूम्यनन्तरः प्रकृतिमित्रः, तुल्याभिजनः सहजः, विरुद्धो विरोधयिता वा कृत्रिमः 06.2.19 भूम्य्।एकान्तरं प्रकृतिमित्रं, मातापितृसम्बद्धं सहजं, धनजीवितहेतोराश्रितं कृत्रिमम् 06.2.20 अरिविजिगीष्वोर्भूम्यनन्तरः संहतासंहतयोरनुग्रहसमर्थो निग्रहे चासंहतयोर्मध्यमः 06.2.21 अरिविजिगीषुमध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहतासंहतानामरिविजिगीषुमध्यमानामनुग्रहसमर्थो निग्रहे चासंहतानामुदासीनः 06.2.22 इति प्रकृतयः 06.2.23 विजिगीषुर्मित्रं मित्रमित्रं वास्य प्रकृतयः तिस्रः 06.2.24 ताः पञ्चभिरमात्यजनपददुर्गकोशदण्डप्रकृतिभिरेकैकशः संयुक्ता मण्डलमष्टादशकं भवति 06.2.25 अनेन मण्डलपृथक्त्वं व्याख्यातमरिमध्यमोदासीनानाम् 06.2.26 एवं चतुर्मण्डलसङ्क्षेपः 06.2.27 द्वादश राजप्रकृतयः षष्टिर्द्रव्यप्रकृतयः, सङ्क्षेपेण द्विसप्ततिः 06.2.28 तासां यथास्वं सम्पदः 06.2.29 शक्तिः सिद्धिश्च 06.2.30 बलं शक्तिः 06.2.31 सुखं सिद्धिः 06.2.32 शक्तिः त्रिविधा - ज्ञानबलं मन्त्रशक्तिः, कोशदण्डबलं प्रभुशक्तिः, विक्रमबलमुत्साहशक्तिः 06.2.33 एवं सिद्धिः त्रिविधैव - मन्त्रशक्तिसाध्या मन्त्रसिद्धिः, प्रभुशक्तिसाध्या प्रभुसिद्धिः, उत्साहशक्तिसाध्योत्साहसिद्धिः 06.2.34 ताभिरभ्युच्चितो ज्यायान् भवति, अपचितो हीनः, तुल्यशक्तिः समः 06.2.35 तस्मात्शक्तिं सिद्धिं च घटेतात्मन्यावेशयितुं, साधारणो वा द्रव्यप्रकृतिष्वानन्तर्येण शौचवशेन वा 06.2.36 दूष्यामित्राभ्यां वापक्रष्टुं यतेत 06.2.37 यदि वा पश्येत् अमित्रो मे शक्तियुक्तो वाग्दण्डपारुष्यार्थदूषणैः प्रकृतीरुपहनिष्यति, सिद्धियुक्तो वा मृगयाद्यूतमद्यस्त्रीभिः प्रमादं गमिष्यति, स विरक्तप्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति, विग्रहाभियुक्तो वा सर्वसन्दोहेनैकस्थोऽदुर्गस्थो वा स्थास्यति, स संहतसैन्यो मित्रदुर्गवियुक्तः साध्यो मे भविष्यति, बलवान् वा राजा परतः शत्रुमुच्छेत्तुकामः तमुच्छिद्य मामुच्छिन्द्यादिति बलवता प्रार्थितस्य मे विपन्नकर्मारम्भस्य वा साहाय्यं दास्यति, मध्यमलिप्सायां च, इत्येवं।आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं चेच्छेत् 06.2.38 नेमिमेकान्तरान् राज्ञः कृत्वा चानन्तरान् अरान् । नाभिमात्मानमायच्छेन्नेता प्रकृतिमण्डले 06.2.39 मध्ये ह्युपहितः शत्रुर्नेतुर्मित्रस्य चोभयोः । उच्छेद्यः पीडनीयो वा बलवान् अपि जायते (इति) 06.2.40 Book . Chapt . षाड्गुण्यसमुद्देशः - क्षयस्थानवृद्धिनिश्चयः षाड्गुण्यस्य प्रकृतिमण्डलं योनिः 07.1.01 सन्धिविग्रहासनयानसंश्रयद्वैधीभावाः षाड्गुण्यम् इत्याचार्याः 07.1.02 द्वैगुण्यम् इति वातव्याधिः 07.1.03 सन्धिविग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते इति 07.1.04 षाड्गुण्यमेवैतद् अवस्थाभेदादिति कौटिल्यः 07.1.05 तत्र पणबन्धः सन्धिः 07.1.06 अपकारो विग्रहः 07.1.07 उपेक्षणमासनम् 07.1.08 अभ्युच्चयो यानम् 07.1.09 परार्पणं संश्रयः 07.1.10 सन्धिविग्रहोपादानं द्वैधीभावः 07.1.11 इति षड्गुणाः 07.1.12 परस्माद्द् हीयमानः सन्दधीत 07.1.13 अभ्युच्चीयमानो विगृह्णीयात् 07.1.14 न मां परो नाहं परमुपहन्तुं शक्तः इत्यासीत 07.1.15 गुणातिशययुक्तो यायात् 07.1.16 शक्तिहीनः संश्रयेत 07.1.17 सहायसाध्ये कार्ये द्वैधीभावं गच्छेत् 07.1.18 इति गुणावस्थापनम् 07.1.19 तेषां यस्मिन् वा गुणे स्थितः पश्येत् इहस्थः शक्ष्यामि दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्माण्यात्मनः प्रवर्तयितुं, परस्य चैतानि कर्माण्युपहन्तुम् इति तमातिष्ठेत् 07.1.20 सा वृद्धिः 07.1.21 आशुतरा मे वृद्धिर्भूयस्तरा वृद्ध्य्।उदयतरा वा भविष्यति, विपरीता परस्य इति ज्ञात्वा परवृद्धिमुपेक्षेत 07.1.22 तुल्यकालफलोदयायां वा वृद्धौ सन्धिमुपेयात् 07.1.23 यस्मिन् वा गुणे स्थितः स्वकर्मणामुपघातं पश्येन्न इतरस्य तस्मिन्न तिष्ठेत् 07.1.24 एष क्षयः 07.1.25 चिरतरेणाल्पतरं वृद्ध्य्।उदयतरं वा क्षेष्ये, विपरीतं परः इति ज्ञात्वा क्षयमुपेक्षेत 07.1.26 तुल्यकालफलोदये वा क्षये सन्धिमुपेयात् 07.1.27 यस्मिन् वा गुणे स्थितः स्वकर्मवृद्धिं क्षयं वा नाभिपश्येद् एतत्स्थानम् 07.1.28 ह्रस्वतरं वृद्ध्य्।उदयतरं वा स्थास्यामि, विपरीतं परः इति ज्ञात्वा स्थानमुपेक्षेत 07.1.29 तुल्यकालफलोदये वा स्थाने सन्धिमुपेयाद् इत्याचार्याः 07.1.30 नैतद् विभाषितमिति कौटिल्यः 07.1.31 यदि वा पश्येत् सन्धौ स्थितो महाफलैः स्वकर्मभिः परकर्माण्युपहनिष्यामि, महाफलानि वा स्वकर्माण्युपभोक्ष्ये, परकर्माणि वा, सन्धिविश्वासेन वा योगोपनिषत्प्रणिधिभिः परकर्माण्युपहनिष्यामि, सुखं वा सानुग्रहपरिहारसौकर्यं फललाभभूयस्त्वेन स्वकर्मणां परकर्मयोगावहं जनमास्रावयिष्यामि - बलिनातिमात्रेण वा संहितः परः स्वकर्मोपघातं प्राप्स्यति, येन वा विगृहीतो मयासन्धत्ते तेनास्य विग्रहं दीर्घं करिष्यामि, मया वा संहितस्य मद्द्वेषिणो जनपदं पीडयिष्यति - परोपहतो वास्य जनपदो मामागमिष्यति, ततः कर्मसु वृद्धिं प्राप्स्यामि, विपन्नकर्मारम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत - परतः प्रवृत्तकर्मारम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि, शत्रुप्रतिबद्धं वा शत्रुणा सन्धिं कृत्वा मण्डलं भेत्स्यामि - भिन्नमवाप्स्यामि, दण्डानुग्रहेण वा शत्रुमुपगृह्य मण्डललिप्सायां विद्वेषं ग्राहयिष्यामि, विद्विष्टं तेनैव घातयिष्यामि इति सन्धिना वृद्धिमातिष्ठेत् 07.1.32 यदि वा पश्येत् आयुधीयप्रायः श्रेणीप्रायो वा मे जनपदः शैलवननदीदुर्गैकद्वारारक्षो वा शक्ष्यति पराभियोगं प्रतिहन्तुं, विषयान्ते दुर्गमविषह्यमपाश्रितो वा शक्ष्यामि परकर्माण्युपहन्तुं - व्यसनपीडोपहतोत्साहो वा परः सम्प्राप्तकर्मोपघातकालः, विगृहीतस्यान्यतो वा शक्ष्यामि जनपदमपवाहयितुम् इति विग्रहे स्थितो वृद्धिमातिष्ठेत् 07.1.33 यदि वा मन्येत न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्मोपघाती वा, व्यसनमस्य, श्ववराहयोरिव कलहे वा, स्वकर्मानुष्ठानपरो वा वर्धिष्ये इत्यासनेन वृद्धिमातिष्ठेत् 07.1.34 यदि वा मन्येत यानसाध्यः कर्मोपघातः शत्रोः, प्रतिविहितस्वकर्मारक्षश्चास्मि इति यानेन वृद्धिमातिष्ठेत् 07.1.35 यदि वा मन्येत नास्मि शक्तः परकर्माण्युपहन्तुं, स्वकर्मोपघातं वा त्रातुम् इति, बलवन्तमाश्रितः स्वकर्मानुष्ठानेन क्षयात् स्थानं स्थानाद् वृद्धिं चाकाङ्क्षेत 07.1.36 यदि वा मन्येत सन्धिनैकतः स्वकर्माणि प्रवर्तयिष्यामि, विग्रहेणैकतः परकर्माण्युपहनिष्यामि इति द्वैधीभावेन वृद्धिमातिष्ठेत् 07.1.37 एवं षड्भिर्गुणैरेतैः स्थितः प्रकृतिमण्डले । पर्येषेत क्षयात् स्थानं स्थानाद् वृद्धिं च कर्मसु (इति) 07.1.38 Chapt . संश्रयवृत्ति सन्धिविग्रहयोः तुल्यायां वृद्धौ सन्धिमुपेयात् 07.2.01 विग्रहे हि क्षयव्ययप्रवासप्रत्यवाया भवन्ति 07.2.02 तेनासनयानयोरासनं व्याख्यातम् 07.2.03 द्वैधीभावसंश्रययोर्द्वैधीभावं गच्छेत् 07.2.04 द्वैधीभूतो हि स्वकर्मप्रधानात्मनैवोपकरोति, संश्रितः तु परस्योपकरोति, नात्मनः 07.2.05 यद्बलः सामन्तः तद्विशिष्टबलमाश्रयेत् 07.2.06 तद्विशिष्टबलाभावे तमेवाश्रितः कोशदण्डभूमीनामन्यतमेनास्योपकर्तुमदृष्टः प्रयतेत 07.2.07 महादोषो हि विशिष्टबलसमागमो राज्ञां, अन्यत्रारिविगृहीतात् 07.2.08 अशक्ये दण्डोपनतवद् वर्तेत 07.2.09 यदा चास्य प्राणहरं व्याधिमन्तःकोपं शत्रुवृद्धिं मित्रव्यसनमुपस्थितं वा तन्निमित्तामात्मनश्च वृद्धिं पश्येत् तदा सम्भाव्यव्याधिधर्मकार्यापदेशेनापयायात् 07.2.10 स्वविषयस्थो वा नोपगच्छेत् 07.2.11 आसन्नो वास्य च्छिद्रेषु प्रहरेत् 07.2.12 बलीयसोर्वा मध्यगतः त्राणसमर्थमाश्रयेत, यस्य वान्तर्धिः स्यात्, उभौ वा 07.2.13 कपालसंश्रयः तिष्ठेत्, मूलहरमितरस्य इतरमपदिशन् 07.2.14 भेदमुभयोर्वा परस्परापदेशं प्रयुञ्जीत, भिन्नयोरुपांशुदण्डम् 07.2.15 पार्श्वस्थो वा बलस्थयोरासन्नभयात् प्रतिकुर्वीत 07.2.16 दुर्गापाश्रयो वा द्वैधीभूतः तिष्ठेत् 07.2.17 सन्धिविग्रहक्रमहेतुभिर्वा चेष्टेत 07.2.18 दूष्यामित्राटविकान् उभयोरुपगृह्णीयात् 07.2.19 एतयोरन्यतरं गच्छंः तैरेवान्यतरस्य व्यसने प्रहरेत् 07.2.20 द्वाभ्यामुपहतो वा मण्डलापाश्रयः तिष्ठेत्, मध्यममुदासीनं वा संश्रयेत 07.2.21 तेन सहैकमुपगृह्य इतरमुच्छिन्द्याद्, उभौ वा 07.2.22 द्वाभ्यामुच्छिन्नो वा मध्यमोदासीनयोः तत्पक्षीयाणां वा राज्ञां न्यायवृत्तिमाश्रयेत 07.2.23 तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनं, यत्रस्थो वा शक्नुयाद् आत्मानमुद्धर्तुं, यत्र वा पूर्वपुरुषोचिता गतिरासन्नः सम्बन्धो वा, मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः 07.2.24 प्रियो यस्य भवेद् यो वा प्रियोऽस्य कतरः तयोः । प्रियो यस्य स तं गच्छेद् इत्याश्रयगतिः परा (इति) 07.2.25 Chapt . समहीनज्यायसां गुणाभिनिवेशः - हीनसन्धयः विजिगीषुः शक्त्यपेक्षः षाड्गुण्यमुपयुञ्जीत 07.3.01 समज्यायोभ्यां सन्धीयेत, हीनेन विगृह्णीयात् 07.3.02 विगृहीतो हि ज्यायसा हस्तिना पादयुद्धमिवाभ्युपैति 07.3.03 समेन चामं पात्रमामेनाहतमिवोभयतः क्षयं करोति 07.3.04 कुम्भेनेवाश्मा हीनेनैकान्तसिद्धिमवाप्नोति 07.3.05 ज्यायांश्चेन्न सन्धिमिच्छेद् दण्डोपनतवृत्तमाबलीयसं वा योगमातिष्ठेत् 07.3.06 समश्चेन्न सन्धिमिच्छेद् यावन्मात्रमपकुर्यात् तावन्मात्रमस्य प्रत्यपकुर्यात् 07.3.07 तेजो हि सन्धानकारणम् 07.3.08 नातप्तं लोहं लोहेन सन्धत्त इति 07.3.09 हीनश्चेत् सर्वत्रानुप्रणतः तिष्ठेत् सन्धिमुपेयात् 07.3.10 आरण्योऽग्निरिव हि दुःखामर्षजं तेजो विक्रमयति 07.3.11 मण्डलस्य चानुग्राह्यो भवति 07.3.12 संहितश्चेत् परप्रकृतयो लुब्धक्षीणापचरिताः प्रत्यादानभयाद् वा नोपगच्छन्तीति पश्येद्द् हीनोऽपि विगृह्णीयात् 07.3.13 विगृहीतश्चेत् परप्रकृतयो लुब्धक्षीणापचरिता विग्रहोद्विग्ना वा मां नोपगच्छन्तीति पश्येज् ज्यायान् अपि सन्धीयेत, विग्रहोद्वेगं वा शमयेत् 07.3.14 व्यसनयौगपद्येऽपि गुरुव्यसनोऽस्मि, लघुव्यसनः परः सुखेन प्रतिकृत्य व्यसनमात्मनोऽभियुञ्ज्यादिति पश्येज् ज्यायान् अपि सन्धीयेत 07.3.15 सन्धिविग्रहयोश्चेत् परकर्शनमात्मोपचयं वा नाभिपश्येज् ज्यायान् अप्यासीत 07.3.16 परव्यसनमप्रतिकार्यं चेत् पश्येद्द् हीनोऽप्यभियायात् 07.3.17 अप्रतिकार्यासन्नव्यसनो वा ज्यायान् अपि संश्रयेत 07.3.18 सन्धिनैकतो विग्रहेणैकतश्चेत् कार्यसिद्धिं पश्येज् ज्यायान् अपि द्वैधीभूतः तिष्ठेत् 07.3.19 एवं समस्य षाड्गुण्योपयोगः 07.3.20 तत्र तु प्रतिविशेषः 07.3.21 प्रवृत्तचक्रेणाक्रान्तो राज्ञा बलवताबलः । सन्धिनोपनमेत् तूर्णं कोशदण्डात्मभूमिभिः 07.3.22 स्वयं सङ्ख्यातदण्डेन दण्डस्य विभवेन वा । उपस्थातव्यमित्येष सन्धिरात्मामिषो मतः 07.3.23 सेनापतिकुमाराभ्यामुपस्थातव्यमित्ययम् । पुरुषान्तरसन्धिः स्यान्नात्मना इत्यात्मरक्षणः 07.3.24 एकेनान्यत्र यातव्यं स्वयं दण्डेन वा इत्ययम् । अदृष्टपुरुषः सन्धिर्दण्डमुख्यात्मरक्षणः 07.3.25 मुख्यस्त्रीबन्धनं कुर्यात् पूर्वयोः पश्चिमे त्वरिम् । साधयेद्गूढमित्येते दण्डोपनतसन्धयः 07.3.26 कोशदानेन शेषाणां प्रकृतीनां विमोक्षणम् । परिक्रयो भवेत् सन्धिः सैव च यथासुखम् 07.3.27 स्कन्धोपनेयो बहुधा ज्ञेयः सन्धिरुपग्रहः । निरुद्धो देशकालाभ्यामत्ययः स्याद् उपग्रहः 07.3.28 विषह्यदानाद् आयत्यां क्षमः स्त्रीबन्धनाद् अपि । सुवर्णसन्धिर्विश्वासाद् एकीभावगतो भवेत् 07.3.29 विपरीतः कपालः स्याद् अत्यादानाभिभाषितः । पूर्वयोः प्रणयेत् कुप्यं हस्त्यश्वं वा गरान्वितम् 07.3.30 तृतीये प्रणयेद् अर्थं कथयन् कर्मणां क्षयम् । तिष्ठेच्चतुर्थ इत्येते कोशोपनतसन्धयः 07.3.31 भूम्य्।एकदेशत्यागेन शेषप्रकृतिरक्षणम् । आदिष्टसन्धिः तत्रेष्टो गूढस्तेनोपघातिनः 07.3.32 भूमीनामात्तसाराणां मूलवर्जं प्रणामनम् । उच्छिन्नसन्धिः तत्रेष्टः परव्यसनकाङ्क्षिणः 07.3.33 फलदानेन भूमीनां मोक्षणं स्याद् अवक्रयः । फलातिमुक्तो भूमिभ्यः सन्धिः स परिदूषणः 07.3.34 कुर्याद् अवेक्षणं पूर्वौ पश्चिमौ त्वाबलीयसम् । आदाय फलमित्येते देशोपनतसन्धयः 07.3.35 स्वकार्याणां वशेनैते देशे काले च भाषिताः । आबलीयसिकाः कार्याः त्रिविधा हीनसन्धयः (इति) 07.3.36 Chapt . विगृह्यासनं - सन्धायासनं - विगृह्ययानं - सन्धाययानं - सम्भूयप्रयाणम् सन्धिविग्रहयोरासनं यानं च व्याख्यातम् 07.4.01 स्थानमासनमुपेक्षणं च इत्यासनपर्यायाः 07.4.02 विशेषः तु - गुणैकदेशे स्थानं, स्ववृद्धिप्राप्त्यर्थमासनं, उपायानामप्रयोगोपेक्षणम् 07.4.03 अतिसन्धानकामयोररिविजिगीष्वोरुपहन्तुमशक्तयोर्विगृह्यासनं सन्धाय वा 07.4.04 यदा वा पश्येत् स्वदण्डैर्मित्राटवीदण्डैर्वा समं ज्यायांसं वा कर्शयितुमुत्सहे इति तदा कृतबाह्याभ्यन्तरकृत्यो विगृह्यासीत 07.4.05 यदा वा पश्येत् उत्साहयुक्ता मे प्रकृतयः संहता विवृद्धाः स्वकर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्तीति तदा विगृह्यासीत 07.4.06 यदा वा पश्येत् परस्यापचरिताः क्षीणा लुब्धाः स्वचक्रस्तेनाटवीव्यथिता वा प्रकृतयः स्वयमुपजापेन वा मामेष्यन्ति, सम्पन्ना मे वार्त्ता, विपन्ना परस्य, तस्य प्रकृतयो दुर्भिक्षोपहता मामेष्यन्ति; विपन्ना मे वार्त्ता, सम्पन्ना परस्य, - तं मे प्रकृतयो न गमिष्यन्ति, विगृह्य चास्य धान्यपशुहिरण्यान्याहरिष्यामि, स्वपण्योपघातीनि वा परपण्यानि निवर्तयिष्यामि, - परवणिक्पथाद् वा सरवन्ति मामेष्यन्ति विगृहीते, न इतरं, दूष्यामित्राटवीनिग्रहं वा विगृहीतो न करिष्यति, तैरेव वा विग्रहं प्राप्स्यति, - मित्रं मे मित्रभाव्यभिप्रयातो बह्व्ऽल्पकालं तनुक्षयव्ययमर्थं प्राप्स्यति, गुणवतीमादेयां वा भूमिं, - सर्वसन्दोहेन वा मामनादृत्य प्रयातुकामः कथं न यायादिति परवृद्धिप्रतिघातार्थं प्रतापार्थं च विगृह्यासीत 07.4.07 तमेव हि प्रत्यावृत्तो ग्रसते इत्याचार्याः 07.4.08 न इति कौटिल्यः 07.4.09 कर्शनमात्रमस्य कुर्याद् अव्यसनिनः, परवृद्ध्या तु वृद्धः समुच्छेदनम् 07.4.10 एवं परस्य यातव्योऽस्मै साहाय्यमविनष्टः प्रयच्छेत् 07.4.11 तस्मात् सर्वसन्दोहप्रकृतं विगृह्यासीत 07.4.12 विगृह्यासनहेतुप्रातिलोम्ये सन्धायासीत 07.4.13 विगृह्यासनहेतुभिरभ्युच्चितः सर्वसन्दोहवर्जं विगृह्य यायात् 07.4.14 यदा वा पश्येत् व्यसनी परः, प्रकृतिव्यसनं वास्य शीषप्रकृतिभिरप्रतिकार्यं, स्वचक्रपीडिता विरक्ता वास्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद् वा भिन्नाः शक्या लोभयितुं, अग्न्य्।उदकव्याधिमरकदुर्भिक्षनिमित्तं क्षीणयुग्यपुरुषनिचयरक्षाविधानः परः इति तदा विगृह्य यायात् 07.4.15 यदा वा पश्येत् मित्रमाक्रन्दश्च मे शूरवृद्धानुरक्तप्रकृतिः, विपरीतप्रकृतिः परः पार्ष्णिग्राहश्चासारश्च, शक्ष्यामि मित्रेणासारमाक्रन्देन पार्ष्णिग्राहं वा विगृह्य यातुम् इति तदा विगृह्य यायात् 07.4.16 यदा वा फलमेकहार्यमल्पकालं पश्येत् तदा पार्ष्णिग्राहासाराभ्यां विगृह्य यायात् 07.4.17 विपर्यये सन्धाय यायात् 07.4.18 यदा वा पश्येत् न शक्यमेकेन यातुमवश्यं च यातव्यम् इति तदा समहीनज्यायोभिः सामवायिकैः सम्भूय यायाद्, एकत्र निर्दिष्टेनांशेन, अनेकत्रानिर्दिष्टेनांशेन 07.4.19 तेषामसमवाये दण्डमन्यतमस्मान्निविष्टांशेन याचेत 07.4.20 सम्भूयाभिगमनेन वा निर्विश्येत, ध्रुवे लाभे निर्दिष्टेनांशेन, अध्रुवे लाभांशेन 07.4.21 अंशो दण्डसमः पूर्वः प्रयाससमोत्तमः । विलोपो वा यथालाभं प्रक्षेपसमैव वा (इति) 07.4.22 Chapt . यातव्यामित्रयोरभिग्रहचिन्ताः - क्षयलोभविरागहेतवः प्रकृतीनां - सामवायिकविपरिमर्शः तुल्यसामन्तव्यसने यातव्यममित्रं वा इत्यमित्रमभियायात्, तत्सिद्धौ यातव्यम् 07.5.01 अमित्रसिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्यसिद्धौ 07.5.02 गुरुव्यसनं यातव्यं लघुव्यसनममित्रं वा इति गुरुव्यसनं सौकर्यतो यायाद् इत्याचार्याः 07.5.03 न इति कौटिल्यः 07.5.04 लघुव्यसनममित्रं यायात् 07.5.05 लघ्वपि हि व्यसनमभियुक्तस्य कृच्छ्रं भवति 07.5.06 सत्यं गुर्वपि गुरुतरं भवति 07.5.07 अनभियुक्तः तु लघुव्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यमभिसरेत्, पार्ष्णिं वा गृह्णीयात् 07.5.08 यातव्ययौगपद्ये गुरुव्यसनं न्यायवृत्तिं लघुव्यसनमन्यायवृत्तिं विरक्तप्रकृतिं वा इति विरक्तप्रकृतिं यायात् 07.5.09 गुरुव्यसनं न्यायवृत्तिमभियुक्तं प्रकृतयोऽनुगृह्णन्ति, लघुव्यसनमन्यायवृत्तिमुपेक्षन्ते, विरक्ता बलवन्तमप्युच्छिन्दन्ति 07.5.10 तस्माद् विरक्तप्रकृतिमेव यायात् 07.5.11 क्षीणलुब्धप्रकृतिमपचरितप्रकृतिं वा इति क्षीणलुब्धप्रकृतिं यायात्, क्षीणलुब्धा हि प्रकृतयः सुखेनोपजापं पीडां वोपगच्छन्ति, नापचरिताः प्रधानावग्रहसाध्याः इत्याचार्याः 07.5.12 न इति कौटिल्यः 07.5.13 क्षीणलुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृहिते तिष्ठन्ति, उपजापं वा विसंवादयन्ति, अनुरागे सार्वगुण्यमिति 07.5.14 तस्माद् अपचरितप्रकृतिमेव यायात् 07.5.15 बलवन्तमन्यायवृत्तिं दुर्बलं वा न्यायवृत्तिमिति बलवन्तमन्यायवृत्तिं यायात् 07.5.16 बलवन्तमन्यायवृत्तिमभियुक्तं प्रकृतयो नानुगृह्णन्ति, निष्पातयन्ति, अमित्रं वास्य भजन्ते 07.5.17 दुर्बलं तु न्यायवृत्तिमभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा 07.5.18 अवक्षेपेण हि सतामसतां प्रग्रहेण च । अभूतानां च हिंसानामधर्म्याणां प्रवर्तनैः 07.5.19 उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः । अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च 07.5.20 अकार्याणां च करणैः कार्याणां च प्रणाशनैः । अप्रदानैश्च देयानामदेयानां च साधनैः 07.5.21 अदण्डनैश्च दण्ड्यानामदण्ड्यानां च दण्डनैः । अग्राह्याणामुपग्राहैर्ग्राह्याणां चानभिग्रहैः 07.5.22 अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः । अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः 07.5.23 पातैः पुरुषकाराणां कर्मणां गुणदूषणैः । उपघातैः प्रधानानां मान्यानां चावमाननैः 07.5.24 विरोधनैश्च वृद्धानां वैषम्येणानृतेन च । कृतस्याप्रतिकारेण स्थितस्याकरणेन च 07.5.25 राज्ञः प्रमादालस्याभ्यां योगक्षेमवधेन वा । प्रकृतीनां क्षयो लोभो वैराग्यं चोपजायते 07.5.26 क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् । विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम् 07.5.27 तस्मात् प्रकृतीनां क्षयलोभविरागकारणानि नोत्पादयेत्, उत्पन्नानि वा सद्यः प्रतिकुर्वीत 07.5.28 क्षीणा लुब्धा विरक्ता वा प्रकृतय इति 07.5.29 क्षीणाः पीडनोच्छेदनभयात् सद्यः सन्धिं युद्धं निष्पतनं वा रोचयन्ते 07.5.30 लुब्धा लोभेनासन्तुष्टाः परोपजापं लिप्सन्ते 07.5.31 विरक्ताः पराभियोगमभ्युत्तिष्ठन्ते 07.5.32 तासां हिरण्यधान्यक्षयः सर्वोपघाती कृच्छ्रप्रतीकारश्च, युग्यपुरुषक्षयो हिरण्यधान्यसाध्यः 07.5.33 लोभैकदेशिको मुख्यायत्तः परार्थेषु शक्यः प्रतिहन्तुमादातुं वा 07.5.34 विरागः प्रधानावग्रहसाध्यः 07.5.35 निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषां, अनापत्सहाः तु 07.5.36 प्रकृतिमुख्यप्रग्रहैः तु बहुधा भिन्ना गुप्ता भवन्त्यापत्सहाश्च 07.5.37 सामवायिकानामपि सन्धिविग्रहकारणान्यवेक्ष्य शक्तिशौचयुक्तैः सम्भूय यायात् 07.5.38 शक्तिमान् हि पार्ष्णिग्रहणे यात्रासाहाय्यदाने वा शक्तः, शुचिः सिद्धौ चासिद्धौ च यथास्थितकारी इति 07.5.39 तेषां ज्यायसैकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यमिति द्वाभ्यां समाभ्यां श्रेयः 07.5.40 ज्यायसा ह्यवगृहीतश्चरति, समाभ्यामतिसन्धानाधिक्ये वा 07.5.41 तौ हि सुखौ भेदयितुं, दुष्टश्चैको द्वाभ्यां नियन्तुं भेदोपग्रहं चोपगन्तुमिति 07.5.42 समेनैकेन द्वाभ्यां हीनाभ्यां वा इति द्वाभ्यां हीनाभ्यां श्रेयः 07.5.43 तौ हि द्विकार्यसाधकौ वश्यौ च भवतः 07.5.44 कार्यसिद्धौ तु - कृतार्थाज् ज्यायसो गूढः सापदेशमपस्रवेत् । अशुचेः शुचिवृत्तात् तु प्रतीक्षेता विसर्जनात् 07.5.45 सत्त्राद् अपसरेद् यत्तः कलत्रमपनीय वा । समाद् अपि हि लब्धार्थाद् विश्वः तस्य भयं भवेत् 07.5.46 ज्यायस्त्वे चापि लब्धार्थः समोऽपि परिकल्पते । अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्तविकारिणी 07.5.47 विशिष्टाद् अल्पमप्यंशं लब्ध्वा तुष्टमुखो व्रजेत् । अनंशो वा ततोऽस्याङ्के प्रहृत्य द्विगुणं हरेत् 07.5.48 कृतार्थः तु स्वयं नेता विसृजेत् सामवायिकान् । अपि जीयेत न जयेन् मण्डलेष्टः तथा भवेत् (इति) 07.5.49 Chapt . संहितप्रयाणिकं - परिपणितापरिपणितापसृताः सन्धयः विजिगीषुर्द्वितीयां प्रकृतिमेवमतिसन्दध्यात् 07.6.01 सामन्तं संहितप्रयाणे योजयेत् त्वमितो याहि, अहमितो यास्यामि, समानो लाभः इति 07.6.02 लाभसाम्ये सन्धिः, वैषम्ये विक्रमः 07.6.03 सन्धिः परिपणितश्चापरिपणितश्च 07.6.04 त्वमेतं देशं याहि, अहमिमं देशं यास्यामि इति परिपणितदेशः 07.6.05 त्वमेतावन्तं कालं चेष्टस्व, अहमेतावन्तं कालं चेष्टिष्ये इति परिपणितकालः 07.6.06 त्वमेतावत्कार्यं साधय, अहमिदं कार्यं साधयिष्यामि इति परिपणितार्थः 07.6.07 यदि वा मन्येत शैलवननदीदुर्गमटवीव्यवहितं छिन्नधान्यपुरुषवीवधासारमयवसेन्धनोदकमविज्ञातं प्रकृष्टमन्यभावदेशीयं वा सैन्यव्यायामानामलब्धभौमं वा देशं परो यास्यति, विपरीतमहम् इत्येतस्मिन् विशेषे परिपणितदेशं सन्धिमुपेयात् 07.6.08 यदि वा मन्येत प्रवर्षोष्णशीतमतिव्याधिप्रायमुपक्षीणाहारोपभोगं सैन्यव्यायामानां चोपरोधिकं कार्यसाधनानामूनमतिरिक्तं वा कालं परश्चेष्टिष्यते, विपरीतमहम् इत्येतस्मिन् विशेषे परिपणितकालं सन्धिमुपेयात् 07.6.09 यदि वा मन्येत प्रत्यादेयं प्रकृतिकोपकं दीर्घकालं महाक्षयव्ययमल्पमनर्थानुबन्धमकल्यमधर्म्यं मध्यमोदासीनविरुद्धं मित्रोपघातकं वा कार्यं परः साधयिष्यति, विपरीतमहम् इत्येतस्मिन् विशेषे परिपणितार्थं सन्धिमुपेयात् 07.6.10 एवं देशकालयोः कालकार्ययोर्देशकार्ययोर्देशकालकार्याणां चावस्थापनात् सप्तविधः परिपणितः 07.6.11 तस्मिन् प्राग् एवारभ्य प्रतिष्ठाप्य च स्वकर्माणि परकर्मसु विक्रमेत 07.6.12 व्यसनत्वरावमानालस्ययुक्तमज्ञं वा शत्रुमतिसन्धातुकामो देशकालकार्याणामनवस्थापनात् संहितौ स्वः इति सन्धिविश्वासेन परच्छिद्रमासाद्य प्रहरेद् इत्यपरिपणितः 07.6.13 तत्रैतद् भवति 07.6.14 सामन्तेनैव सामन्तं विद्वान् आयोज्य विग्रहे । ततोऽन्यस्य हरेद् भूमिं छित्त्वा पक्षं समन्ततः 07.6.15 सन्धेरकृतचिकीर्षा कृतश्लेषणं कृतविदूषणमवशीर्णक्रिया च 07.6.16 विक्रमस्य प्रकाशयुद्धं कूटयुद्धं तूष्णींयुद्धम् 07.6.17 इति सन्धिविक्रमौ 07.6.18 अपूर्वस्य सन्धेः सानुबन्धैः सामादिभिः पर्येषणं समहीनज्यायसां च यथाबलमवस्थापनमकृतचिकीर्षा 07.6.19 कृतस्य प्रियहिताभ्यामुभयतः परिपालनं यथासम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च कथं परस्मान्न भिद्येत इति कृतश्लेषणम् 07.6.20 परस्यापसन्धेयतां दूष्यातिसन्धानेन स्थापयित्वा व्यतिक्रमः कृतविदूषणम् 07.6.21 भृत्येन मित्रेण वा दोषापसृतेन प्रतिसन्धानमवशीर्णक्रिया 07.6.22 तस्यां गतागतश्चतुर्विधः - कारणाद्गतागतो, विपरीतः, कारणाद्गतोऽकारणाद् आगतो, विपरीतश्च इति 07.6.23 स्वामिनो दोषेण गतो गुणेनागतः परस्य गुणेन गतो दोषेणागत इति कारणाद्गतागतः सन्धेयः 07.6.24 स्वदोषेण गतागतो गुणमुभयोः परित्यज्याकारणाद्गतागतः चलबुद्धिरसन्धेयः 07.6.25 स्वामिनो दोषेण गतः परस्मात् स्वदोषेणागत इति कारणाद्गतोऽकारणाद् आगतः तर्कयितव्यः परप्रयुक्तः स्वेन वा दोषेणापकर्तुकामः, परस्योच्छेत्तारममित्रं मे ज्ञात्वा प्रतिघातभयाद् आगतः, परं वा मामुच्छेत्तुकामं परित्यज्यानृशंस्याद् आगतः इति 07.6.26 ज्ञात्वा कल्याणबुद्धिं पूजयेद्, अन्यथाबुद्धिमपकृष्टं वासयेत् 07.6.27 स्वदोषेण गतः परदोषेणागत इत्यकारणाद्गतः कारणाद् आगतः तर्कयितव्यः छिद्रं मे पूरयिष्यति, उचितोऽयमस्य वासः, परत्रास्य जनो न रमते, मित्रैर्मे संहितः, शत्रुभिर्विगृहीतः, लुब्धक्रूराद् आविग्नः शत्रुसंहिताद् वा परस्मात् इति 07.6.28 ज्ञात्वा यथाबुद्ध्यवस्थापयितव्यः 07.6.29 कृतप्रणाशः शक्तिहानिर्विद्यापण्यत्वमाशानिर्वेदो देशलौल्यमविश्वासो बलवद्विग्रहो वा परित्यागस्थानम् इत्याचार्याः 07.6.30 भयमवृत्तिरमर्ष इति कौटिल्यः 07.6.31 इहापकारी त्याज्यः, परापकारी सन्धेयः, उभयापकारी तर्कयितव्य इति समानम् 07.6.32 असन्धेयेन त्ववश्यं सन्धातव्ये यतः प्रभावः ततः प्रतिविदध्यात् 07.6.33 सोपकारं व्यवहितं गुप्तमायुःक्षयादिति । वासयेद् अरिपक्षीयमवशीर्णक्रियाविधौ 07.6.34 विक्रमयेद् भर्तरि वा सिद्धं वा दण्डचारिणम् कुर्याद् अमित्राटवीषु प्रत्यन्ते वान्यतः क्षिपेत् 07.6.35 पण्यं कुर्याद् असिद्धं वा सिद्धं वा तेन संवृतम् तस्यैव दोषेणादूष्य परसन्धेयकारणात् 07.6.36 अथ वा शमयेद् एनमायत्यर्थमुपांशुना आयत्यां च वधप्रेप्सुं दृष्ट्वा हन्याद्गतागतम् 07.6.37 अरितोऽभ्यागतो दोषः शत्रुसंवासकारितः सर्पसंवासधर्मित्वान्नित्योद्वेगेन दूषितः 07.6.38 जायते प्लक्षबीजाशात् कपोताद् इव शाल्मलेः उद्वेगजननो नित्यं पश्चाद् अपि भयावहः 07.6.39 प्रकाशयुद्धं निर्दिष्टे देशे काले च विक्रमः विभीषणमवस्कन्दः प्रमादव्यसनार्दनम् 07.6.40 एकत्र त्यागघातौ च कूटयुद्धस्य मातृका योगगूढोपजापार्थं तूष्णींयुद्धस्य लक्षणम् (इति) 07.6.41 Chapt . द्वैधीभाविकाः सन्धिविक्रमाः विजिगीषुर्द्वितीयां प्रकृतिमेवमुपगृह्णीयात् 07.7.01 सामन्तं सामन्तेन सम्भूय यायात्, यदि वा मन्येत पार्ष्णिं मे न ग्रहीष्यति, पार्ष्णिग्राहं वारयिष्यति, यातव्यं नाभिसरिष्यति, बलद्वैगुण्यं मे भविष्यति, वीवधासारौ मे प्रवर्तयिष्यति, परस्य वारयिष्यति, बह्व्।आबाधे मे पथि कण्टकान् मर्दयिष्यति, दुर्गाटव्यपसारेषु दण्डेन चरिष्यति, यातव्यमविषह्ये दोषे सन्धौ वा 07.7.02 स्थापयिष्यति, लब्धलाभांशो वा शत्रून् अन्यान् मे विश्वासयिष्यतीति द्वैधीभूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानामन्यतमाल्लिप्सेत 07.7.03 तेषां ज्यायसोऽधिकेनांशेन समात् समेन हीनाद्द् हीनेन इति समसन्धिः 07.7.04 विपर्यये विषमसन्धिः 07.7.05 तयोर्विशेषलाभाद् अतिसन्धिः 07.7.06 व्यसनिनमपायस्थाने सक्तमनर्थिनं वा ज्यायांसं हीनो बलसमेन लाभेन पणेत 07.7.07 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात् 07.7.08 एवम्भूतो वा हीनशक्तिप्रतापपूरणार्थं सम्भाव्यार्थाभिसारी मूलपार्ष्णित्राणार्थं वा ज्यायांसं हीनो बलसमाद् विशिष्टेन लाभेन पणेत 07.7.09 पणितः कल्याणबुद्धिमनुगृह्णीयात्, अन्यथा विक्रमेत 07.7.10 जातव्यसनप्रकृतिरन्ध्रमुपस्थितानर्थं वा ज्यायांसं हीनो दुर्गमित्रप्रतिष्टब्धो वा ह्रस्वमध्वानं यातुकामः शत्रुमयुद्धमेकान्तसिद्धिं वा लाभमादातुकामो बलसमाद्द् हीनेन लाभेन पणेत 07.7.11 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात् 07.7.12 अरन्ध्रव्यसनो वा ज्यायान् दुर्।आरब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामो दूष्यदण्डं प्रवासयितुकामो दूष्यदण्डमावाहयितुकामो वा पीडनीयमुच्छेदनीयं वा हीनेन व्यथयितुकामः सन्धिप्रधानो वा कल्याणबुद्धिर्हीनं लाभं प्रतिगृह्णीयात् 07.7.13 कल्याणबुद्धिना सम्भूयार्थं लिप्सेत, अन्यथा विक्रमेत 07.7.14 एवं समः सममतिसन्दध्याद् अनुगृह्णीयाद् वा 07.7.15 परानीकस्य प्रत्यनीकं मित्राटवीनां वा, शत्रोर्विभूमीनां देशिकं मूलपार्ष्णित्राणार्थं वा समो बलसमेन लाभेन पणेत 07.7.16 पणितः कल्याणबुद्धिमनुगृह्णीयात्, अन्यथा विक्रमेत 07.7.17 जातव्यसनप्रकृतिरन्ध्रमनेकविरुद्धमन्यतो लभमानो वा समो बलसमाद्द् हीनेन लाभेन पणेत 07.7.18 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात् 07.7.19 एवम्भूतो वा समः सामन्तायत्तकार्यः कर्तव्यबलो वा बलसमाद् विशिष्टेन लाभेन पणेत 07.7.20 पणितः कल्याणबुद्धिमनुगृह्णीयात् अन्यथा विक्रमेत 07.7.21 जातव्यसनप्रकृतिरन्ध्रमभिहन्तुकामः स्व्।आरब्धमेकान्तसिद्धिं वास्य कर्मोपहन्तुकामो मूले यात्रायां वा प्रहर्तुकामो यातव्याद्भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत 07.7.22 भूयो वा याचितः स्वबलरक्षार्थं दुर्धर्षमन्यदुर्गमासारमटवीं वा परदण्डेन मर्दितुकामः प्रकृष्टेऽध्वनि काले वा परदण्डं क्षयव्ययाभ्यां योक्तुकामः परदण्डेन वा विवृद्धः तमेवोच्छेत्तुकामः परदण्डमादातुकामो वा भूयो दद्यात् 07.7.23 ज्यायान् वा हीनं यातव्यापदेशेन हस्ते कर्तुकामः परमुच्छिद्य वा तमेवोच्छेत्तुकामः, त्यागं वा कृत्वा प्रत्यादातुकामो बलसमाद् विशिष्टेन लाभेन पणेत 07.7.24 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात् 07.7.25 यातव्यसंहितो वा तिष्ठेत्, दूष्यामित्राटवीदण्डं वास्मै दद्यात् 07.7.26 जातव्यसनप्रकृतिरन्ध्रो वा ज्यायान् हीनं बलसमेन लाभेन पणेत 07.7.27 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात् 07.7.28 एवम्भूतं हीनं ज्यायान् बलसमाद्द् हीनेन लाभेन पणेत 07.7.29 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात् 07.7.30 आदौ बुध्येत पणितः पणमानश्च कारणम् ततो वितर्क्योभयतो यतः श्रेयश्ततो व्रजेत् (इति) 07.7.31 Chapt . यातव्यवृत्तिः - अनुग्राह्यमित्रविशेषाः यातव्योऽभियास्यमानः सन्धिकारणमादातुकामो विहन्तुकामो वा सामवायिकानामन्यतमं लाभद्वैगुण्येन पणेत 07.8.01 पणमानः क्षयव्ययप्रवासप्रत्यवायपरोपकारशरीराबाधांश्चास्य वर्णयेत् 07.8.02 प्रतिपन्नमर्थेन योजयेत् 07.8.03 वैरं वा परैर्ग्राहयित्वा विसंवादयेत् 07.8.04 दुरारब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामः स्व्।आरब्धां वा यात्रासिद्धिं विघातयितुकामो मूले यात्रायां वा प्रहर्तुकामो यातव्यसंहितः पुनर्याचितुकामः प्रत्युत्पन्नार्थकृच्छ्रः तस्मिन्न् अविश्वस्तो वा तदात्वे लाभमल्पमिच्छेत्, आयत्यां प्रभूतम् 07.8.05 मित्रोपकारममित्रोपघातमर्थानुबन्धमवेक्षमाणः पूर्वोपकारकं कारयितुकामो भूयः तदात्वे महान्तं लाभमुत्सृज्यायत्यामल्पमिच्छेत् 07.8.06 दूष्यामित्राभ्यां मूलहरेण वा ज्यायसा विगृहीतं त्रातुकामः तथाविधमुपकारं कारयितुकामः सम्बन्धावेक्षी वा तदात्वे चायत्यां च लाभं न प्रतिगृह्णीयात् 07.8.07 कृतसन्धिरतिक्रमितुकामः परस्य प्रकृतिकर्शनं मित्रामित्रसन्धिविश्लेषणं वा कर्तुकामः पराभियोगात्शङ्कमानो लाभमप्राप्तमधिकं वा याचेत 07.8.08 तमितरः तदात्वे चायत्यां च क्रममवेक्षेत 07.8.09 तेन पूर्वे व्याख्याताः 07.8.10 अरिविजिगीष्वोः तु स्वं स्वं मित्रमनुगृह्णतोः शक्यकल्यभव्यारम्भिस्थिरकर्मानुरक्तप्रकृतिभ्यो विशेषः 07.8.11 शक्यारम्भी विषह्यं कर्मारभते, कल्यारम्भी निर्दोषं, भव्यारम्भी कल्याणोदयम् 07.8.12 स्थिरकर्मा नासमाप्य कर्मोपरमते 07.8.13 अनुरक्तप्रकृतिः सुसहायत्वाद् अल्पेनाप्यनुग्रहेण कार्यं साधयति 07.8.14 तैते कृतार्थाः सुखेन प्रभूतं चोपकुर्वन्ति 07.8.15 अतः प्रतिलोमा नानुग्राह्याः 07.8.16 तयोरेकपुरुषानुग्रहे यो मित्रं मित्रतरं वानुगृह्णाति सोऽतिसन्धत्ते 07.8.17 मित्राद् आत्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपरोपकारान् इतरः 07.8.18 कृतार्थश्च शत्रुर्वैगुण्यमेति 07.8.19 मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वानुगृह्णाति सोऽतिसन्धत्ते 07.8.20 मित्राद् आत्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपरोपकारान् इतरः 07.8.21 मध्यमश्चेद् अनुगृहीतो विगुणः स्याद् अमित्रोऽतिसन्धत्ते 07.8.22 कृतप्रयासं हि मध्यमामित्रमपसृतमेकार्थोपगतं प्राप्नोति 07.8.23 तेनोदासीनानुग्रहो व्याख्यातः 07.8.24 मध्यमोदासीनयोर्बलांशदाने यः शूरं कृतास्त्रं दुःखसहमनुरक्तं वा दण्डं ददाति सोऽतिसन्धीयते 07.8.25 विपरीतोऽतिसन्धत्ते 07.8.26 यत्र तु दण्डः प्रहितः तं वा चार्थमन्यांश्च साधयति तत्र मौलभृतश्रेणीमित्राटवीबलानामन्यतममुपलब्धदेशकालं दण्डं दद्यात्, अमित्राटवीबलं वा व्यवहितदेशकालम् 07.8.27 यं तु मन्येत कृतार्थो मे दण्डं गृह्णीयाद्, अमित्राटव्यभूम्यनृतुषु वा वासयेद्, अफलं वा कुर्यादिति, दण्डव्यासङ्गापदेशेन नैनमनुगृह्णीयात् 07.8.28 एवमवश्यं त्वनुग्रहीतव्ये तत्कालसहमस्मै दण्डं दद्यात् 07.8.29 आसमाप्तेश्चैनं वासयेद् योधयेच्च बलव्यसनेभ्यश्च रक्षेत् 07.8.30 कृतार्थाच्च सापदेशमपस्रावयेत् 07.8.31 दूष्यामित्राटवीदण्डं वास्मै दद्यात् 07.8.32 यातव्येन वा सन्धायैनमतिसन्दध्यात् 07.8.33 समे हि लाभे सन्धिः स्याद् विषमे विक्रमो मतः समहीनविशिष्टानामित्युक्ताः सन्धिविक्रमाः (इति) 07.8.34 Chapt . मित्रहिरण्यभूमिकर्मसन्धयः, तत्र मित्रसन्धिः हिरण्यसन्धिश्च संहितप्रयाणे मित्रहिरण्यभूमिलाभानामुत्तरोत्तरो लाभः श्रेयान् 07.9.01 मित्रहिरण्ये हि भूमिलाभाद् भवतः, मित्रं हिरण्यलाभात् 07.9.02 यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति 07.9.03 त्वं चाहं च मित्रं लभावहे इत्येवं।आदिद्ः समसन्धिः 07.9.04 त्वं मित्रम् इत्येवं।आदिर्विषमसन्धिः 07.9.05 तयोर्विशेषलाभाद् अतिसन्धिः 07.9.06 समसन्धौ तु यः सम्पन्नं मित्रं मित्रकृच्छ्रे वा मित्रमवाप्नोति सोऽतिसन्धत्ते 07.9.07 आपद्द् हि सौहृदस्थैर्यमुत्पादयति 07.9.08 मित्रकृच्छ्रेऽपि नित्यमवश्यमनित्यं वश्यं वा इति नित्यमवश्यं श्रेयः, तद्द् हि अनुपकुर्वद् अपि नापकरोति इत्याचार्याः 07.9.09 न इति कौटिल्यः 07.9.10 वश्यमनित्यं श्रेयः 07.9.11 यावद् उपकरोति तावन् मित्रं भवति, उपकारलक्षणं मित्रमिति 07.9.12 वश्ययोरपि महाभोगमनित्यमल्पभोगं वा नित्यमिति महाभोगमनित्यं श्रेयः, महाभोगमनित्यमल्पकालेन महद्।उपकुर्वन् महान्ति व्ययस्थानानि प्रतिकरोति इत्याचार्याः ॥ 07.9.13 न इति कौटिल्यः 07.9.14 नित्यमल्पभोगं श्रेयः 07.9.15 महाभोगमनित्यमुपकारभयाद् अपक्रामति, उपकृत्य वा प्रत्यादातुमीहते 07.9.16 नित्यमल्पभोगं सातत्याद् अल्पमुपकुर्वन् महता कालेन महद् उपकरोति 07.9.17 गुरुसमुत्थं महन् मित्रं लघुसमुत्थमल्पं वा इति गुरुसमुत्थं महन् मित्रं प्रतापकरं भवति, यदा चोत्तिष्ठते तदा कार्यं साधयति इत्याचार्याः 07.9.18 न इति कौटिल्यः 07.9.19 लघुसमुत्थमल्पं श्रेयः 07.9.20 लगुसमुत्थमल्पं मित्रं कार्यकालं नातिपातयति दौर्बल्याच्च यथेष्टभोग्यं भवति, न इतरत् प्रकृष्टभौमम् 07.9.21 विक्षिप्तसैन्यमवश्यसैन्यं वा इति विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद् इत्याचार्याः 07.9.22 न इति कौटिल्यः 07.9.23 अवश्यसैन्यं श्रेयः 07.9.24 अवश्यं हि शक्यं सामादिभिर्वश्यं कर्तुं, न इतरत् कार्यव्यासक्तं प्रतिसंहर्तुम् 07.9.25 पुरुषभोगं हिरण्यभोगं वा मित्रमिति पुरुषभोगं मित्रं श्रेयः, प्रुषभोगं मित्रं प्रतापकरं भवति, यदा चोत्तिष्ठते तदा कार्यं साधयति इत्याचार्याः 07.9.26 न इति कौटिल्यः 07.9.27 हिरण्यभोगं मित्रं श्रेयः 07.9.28 नित्यो हि हिरण्येन योगः कदाचिद् दण्डेन 07.9.29 दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति 07.9.30 हिरण्यभोगं भूमिभोगं वा मित्रमिति हिरण्यभोगं गतिमत्त्वात् सर्वव्ययप्रतीकारकरम् इत्याचार्याः 07.9.31 न इति कौटिल्यः 07.9.32 मित्रहिरण्ये हि भूमिलाभाद् भवत इत्युक्तं पुरस्ताद् 07.9.33 तस्माद् भूमिभोगं मित्रं श्रेय इति 07.9.34 तुल्ये पुरुषभोगे विक्रमः क्लेशसहत्वमनुरागः सर्वबललाभो वा मित्रकुलाद् विशेषः 07.9.35 तुल्ये हिरण्यभोगे प्रार्थितार्थता प्राभूत्यमल्पप्रयसता सातत्यं च विशेषः 07.9.36 तत्रैतद् भवति 07.9.37 नित्यं वश्यं लघु।उत्थानं पितृपैतामहं महत् । अद्वैध्यं च इति सम्पन्नं मित्रं षड्गुणमुच्यते 07.9.38 ऋते यद् अर्थं प्रणयाद् रक्ष्यते यच्च रक्षति । पूर्वोपचितसम्बन्धं तन् मित्रं नित्यमुच्यते 07.9.39 सर्वचित्रमहाभोगं त्रिविधं वश्यमुच्यते । एकतोभोग्युभयतः सर्वतोभोगि चापरम् 07.9.40 आदातृ वा दात्र्ऽपि वा जीवत्यरिषु हिंसया । मित्रं नित्यमवश्यं तद्दुर्गाटव्यपसारि च 07.9.41 अन्यतो विगृहीतं यल्लघुव्यसनमेव वा । सन्धत्ते चोपकाराय तन् मित्रं वश्यमध्रुवम् 07.9.42 एकार्थेनाथ सम्बद्धमुपकार्यविकारि च । मित्रभावि भवत्येतन् मित्रमद्वैध्यमापदि 07.9.43 मित्रभावाद् ध्रुवं मित्रं शत्रुसाधारणाच्चलम् । न कस्यचिद् उदासीनं द्वयोरुभयभावि तत् 07.9.44 विजिगीषोरमित्रं यन् मित्रमन्तर्धितां गतम् । उपकारेऽनिविष्टं वाशक्तं वानुपकारि तत् 07.9.45 प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धमेव वा । अनुगृह्णाति यन् मित्रं शत्रुसाधारणं हि तत् 07.9.46 प्रकृष्टभौमं सन्तुष्टं बलवच्चालसं च यत् । उदासीनं भवत्येतद् व्यसनाद् अवमानितम् 07.9.47 अरेर्नेतुश्च यद् वृद्धिं दौर्बल्याद् अनुवर्तते । उभयस्याप्यविद्विष्टं विद्याद् उभयभावि तत् 07.9.48 कारणाकारणध्वस्तं कारणाकारणागतम् । यो मित्रं समुपेक्षेत स मृत्युमुपगूहति 07.9.49 क्षिप्रमल्पो लाभश्चिरान् महान् इति वा क्षिप्रमल्पो लाभः कार्यदेशकालसंवादकः श्रेयान् इत्याचार्याः 07.9.50 न इति कौटिल्यः 07.9.51 चिराद् अविनिपाती बीजसधर्मा महाम्ल्लाभः श्रेयान्, विपर्यये पूर्वः 07.9.52 एवं दृष्ट्वा ध्रुवे लाभे लाभांशे च गुणोदयम् । स्वार्थसिद्धिपरो यायात् संहितः सामवायिकैः (इति) 07.9.53 Chapt . मित्रहिरण्यभूमिकर्मसन्धयः, तत्र भूमिसन्धिः त्वं चाहं च भूमिं लभावहे इति भूमिसन्धिः 07.10.01 तयोर्यः प्रत्युपस्थितार्थः सम्पन्नां भूमिमवाप्नोति सोऽतिसन्धत्ते 07.10.02 तुल्ये सम्पन्नालाभे यो बलवन्तमाक्रम्य भूमिमवाप्नोति सोऽतिसन्धत्ते 07.10.03 भूमिलाभं शत्रुकर्शनं प्रतापं च हि प्राप्नोति 07.10.04 दुर्बलाद्भूमिलाभे सत्यं सौकर्यं भवति 07.10.05 दुर्बलैव च भूमिलाभः, तत्सामन्तश्च मित्रममित्रभावं गच्छति 07.10.06 तुल्ये बलीयस्त्वे यः स्थितशत्रुमुत्पाट्य भूमिमवाप्नोति सोऽतिसन्धत्ते 07.10.07 दुर्गावाप्तिर्हि स्वभूमिरक्षणममित्राटवीप्रतिषेधं च करोति 07.10.08 चलामित्राद्भूमिलाभे शक्यसामन्ततो विशेषः 07.10.09 दुर्बलसामन्ता हि क्षिप्राप्यायनयोगक्षेमा भवति 07.10.10 विपरीता बलवत् सामन्ता कोशदण्डावच्छेदनी च भूमिर्भवति 07.10.11 सम्पन्ना नित्यामित्रा मन्दगुणा वा भूमिरनित्यामित्रा इति सम्पन्ना नित्यामित्रा श्रेयसी भूमिः सम्पन्ना हि कोशदण्डौ सम्पादयति, तौ चामित्रप्रतिघातकौ इत्याचार्याः 07.10.12 न इति कौटिल्यः 07.10.13 नित्यामित्रालाभे भूयान् शत्रुलाभो भवति 07.10.14 नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति, अनित्यः तु शत्रुरुपकाराद् अनपकाराद् वा शाम्यति 07.10.15 यस्या हि भूमेर्बहुदुर्गाश्चोरगणैर्म्लेच्छाटवीभिर्वा नित्याविरहिताः प्रत्यन्ताः सा नित्यामित्रा, विपर्यये त्वनित्यामित्रा 07.10.16 अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी 07.10.17 सुखा हि प्राप्तुं पालयितुमभिसारयितुं च भवति 07.10.18 विपरीता व्यवहिता 07.10.19 व्यवहितयोरपि दण्डधारणाऽऽत्मधारणा वा भूमिरिति आत्मधारणा श्रेयसी 07.10.20 सा हि स्वसमुत्थाभ्यां कोशदण्डाभ्यां धार्यते 07.10.21 विपरीता दण्डधारणा दण्डस्थानम् 07.10.22 बालिशात् प्राज्ञाद् वा भूमिलाभ इति बालिशाद्भूमिलाभः श्रेयान् 07.10.23 सुप्राप्यानुपाल्या हि भवति, अप्रत्यादेया च 07.10.24 विपरीता प्राज्ञाद् अनुरक्ता 07.10.25 पीडनीयोच्छेदनीययोरुच्छेदनीयाद् भूमिलाभः श्रेयान् 07.10.26 उच्छेदनीयो ह्यनपाश्रयो दुर्बलापाश्रयो वाभियुक्तः कोशदण्डावादायापसर्तुकामः प्रकृतिभिः त्यज्यते, न पीडनीयो दुर्गमित्रप्रतिष्टब्धः 07.10.27 दुर्गप्रतिष्टब्धयोरपि स्थलनदीदुर्गीयाभ्यां स्थलदुर्गीयाद् भूमिलाभः श्रेयान् 07.10.28 स्थालेयं हि सुरोधावमर्दावस्कन्दमनिह्श्राविशत्रु च 07.10.29 नदीदुर्गं तु द्विगुणक्लेशकरं, उदकं च पातव्यं वृत्तिकरं चामित्रस्य 07.10.30 नदीपर्वतदुर्गीयाभ्यां नदीदुर्गीयाद् ब्भूमिलाभः श्रेयान् 07.10.31 नदीदुर्गं हि हस्तिस्तम्भसङ्क्रमसेतुबन्धनौभिः साध्यमनित्यगाम्भीर्यमवस्राव्युदकं च 07.10.32 पार्वतं तु स्व्।आरक्षं दुरुपरोधि कृच्छ्रारोहणं, भग्ने चैकस्मिन्न सर्ववधः, शिलावृक्षप्रमोक्षश्च महापकारिणाम् 07.10.33 निम्नस्थलयोधिभ्यो निम्नयोधिभ्यो भूमिलाभः श्रेयान् 07.10.34 निम्नयोधिनो ह्युपरुद्धदेशकालाः, स्थलयोधिनः तु सर्वदेशकालयोधिनः 07.10.35 खनकाकाशयोधिभ्यः खनकेभ्यो भूमिलाभः श्रेयान् 07.10.36 खनका हि खातेन शस्त्रेण चोभयथा युध्यन्ते, शस्त्रेणैवाकाशयोधिनः 07.10.37 एवंविध्येभ्यः पृथिवीं लभमानोऽर्थशास्त्रवित् । संहितेभ्यः परेभ्यश्च विशेषमधिगच्छति (इति) 07.10.38 Chapt . मित्रहिरण्यभूमिकर्मसंधयः - तत्रानवसितसंधिः त्वं चाहं च शून्यं निवेशयावहे इत्यनवसितसन्धिः 07.11.01 तयोर्यः प्रत्युपस्थितार्थो यथोक्तगुणां भूमिं निवेशयति सोऽतिसन्धत्ते 07.11.02 तत्रापि स्थलमौदकं वा इति महतः स्थलाद् अल्पमौदकं श्रेयः, सातत्याद् अवस्थितत्वाच्च फलानाम् 07.11.03 स्थलयोरपि प्रभूतपूर्वापरसस्यमल्पवर्षपाकमसक्तारम्भं श्रेयः 07.11.04 औदकयोरपि धान्यवापमधान्यवापात्श्रेयः 07.11.05 तयोरल्पबहुत्वे धान्यकान्ताद् अल्पान् महद् अधान्यकान्तं श्रेयः 07.11.06 महत्यवकाशे हि स्थाल्याश्चानूप्याश्चोषधयो भवन्ति 07.11.07 दुर्गादीनि च कर्माणि प्रभूत्येन क्रियन्ते 07.11.08 कृत्रिमा हि भूमिगुणाः 07.11.09 खनिधान्यभोगयोः खनिभोगः कोशकरः, धान्यभोगः कोशकोष्ठागारकरः 07.11.10 धान्यमूला हि दुर्गादीनां कर्मणामारम्भाः 07.11.11 महाविषयविक्रयो वा खनिभोगः श्रेयान् 07.11.12 द्रव्यहस्तिवनभोगयोर्द्रव्यवनभोगः सर्वकर्मणां योनिः प्रभूतनिधानक्षमश्च, विपरीतो हस्तिवनभोगः इत्याचार्याः 07.11.13 न इति कौटिल्यः 07.11.14 शक्यं द्रव्यवनमनेकमनेकस्यां भूमौ वापयितुं, न हस्तिवनम् 07.11.15 हस्तिप्रधानो हि परानीकवध इति 07.11.16 वारिस्थलपथभोगयोरनित्यो वारिपथभोगः, नित्यः स्थलपथभोगः 07.11.17 भिन्नमनुष्या श्रेणीमनुष्या वा भूमिरिति भिन्नमनुष्या श्रेयसी 07.11.18 भिन्नमनुष्या भोग्या भवति, अनुपजाप्या चान्येषां, अनापत्सहा तु 07.11.19 विपरीता श्रेणीमनुष्या, कोपे महादोषा 07.11.20 तस्यां चातुर्वर्ण्यनिवेशे सर्वभोगसहत्वाद् अवरवर्णप्राया श्रेयसी, बाहुल्याद् ध्रुवत्वाच्च कृष्याः कर्षकवती, कृष्याश्चान्येषां चारम्भाणां प्रयोजकत्वात् गोरक्षकवती, पण्यनिचय।ऋणानुग्रहाद् आढ्यवणिग्वती 07.11.21 भूमिगुणानामपाश्रयः श्रेयान् 07.11.22 दुर्गापाश्रया पुरुषापाश्रया वा भूमिरिति पुरुषापाश्रया श्रेयसी 07.11.23 पुरुषवद् धि राज्यम् 07.11.24 अपुरुषा गौर्वन्ध्येव किं दुहीत 07.11.25 महाक्षयव्ययनिवेशां तु भूमिमवाप्तुकामः पूर्वमेव क्रेतारं पणेत दुर्बलमराजबीजिनं निरुत्साहमपक्षमन्यायवृत्तिं व्यसनिनं दैवप्रमाणं यत्किञ्चनकारिणं वा 07.11.26 महाक्षयव्ययनिवेशायां हि भूमौ दुर्बलो राजबीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षयव्ययेनावसीदति 07.11.27 बलवान् अराजबीजी क्षयव्ययभयाद् असगन्धाभिः प्रकृतिभिः त्यज्यते 07.11.28 निरुत्साहः तु दण्डवान् अपि दण्डस्याप्रणेता सदण्डः क्षयव्ययेनावभज्यते 07.11.29 कोशवान् अप्यपक्षः क्षयव्ययानुग्रहहीनत्वान्न कुतश्चित् प्राप्नोति 07.11.30 अन्यायवृत्तिर्निविष्टमप्युत्थापयेत् 07.11.31 स कथमनिविष्टं निवेशयेत् 07.11.32 तेन व्यसनी व्याख्यातः 07.11.33 दैवप्रमाणो मानुषहीनो निरारम्भो विपन्नकर्मारम्भो वावसीदति 07.11.34 यत्किञ्चनकारी न किञ्चिद् आसादयति 07.11.35 स चैषां पापिष्ठतमो भवति 07.11.36 यत्किञ्चिद्।आरभमाणो हि विजिगीषोः कदाचिच्छिद्रमासादयेद् इत्याचार्याः 07.11.37 यथा छिद्रं तथा विनाशमप्यासादयेदिति कौटिल्यः 07.11.38 तेषामलाभे यथा पार्ष्णिग्राहोपग्रहे वक्ष्यामः तथा भूमिमवस्थापयेत् 07.11.39 इत्यभिहितसन्धिः 07.11.40 गुणवतीमादेयां वा भूमिं बलवता क्रयेण याचितः सन्धिमवस्थाप्य दद्यात् 07.11.41 इत्यनिभृतसन्धिः 07.11.42 समेन वा याचितः कारणमवेक्ष्य दद्यात् प्रत्यादेया मे भूमिर्वश्या वा, अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमिविक्रयाद् वा मित्रहिरण्यलाभः कार्यसामर्थ्यकरो मे भविष्यतीति 07.11.43 तेन हीनः क्रेता व्याख्यातः 07.11.44 एवं मित्रं हिरण्यं च सजनामजनां च गाम् । लभमानोऽतिसन्धत्ते शास्त्रवित् सामवायिकान् (इति) 07.11.45 Chapt . मित्रहिरण्यभूमिकर्मसंधयः, तत्र कर्मसंधिः त्वं चाहं च दुर्गं कारयावहे इति कर्मसन्धिः 07.12.01 तयोर्यो दैवकृतमविषह्यमल्पव्ययारम्भं दुर्गं कारयति सोऽतिसन्धत्ते 07.12.02 तत्रापि स्थलनदीपर्वतदुर्गाणामुत्तरोत्तरं श्रेयः 07.12.03 सेतुबन्धयोरप्याहार्योदकात् सहोदकः श्रेयान् 07.12.04 सहोदकयोरपि प्रभूतवापस्थानः श्रेयान् 07.12.05 द्रव्यवनयोरपि यो महत्सारवद्द्रव्याटवीकं विषयान्ते नदीमातृकं द्रव्यवनं छेदयति सोऽतिसन्धत्ते 07.12.06 नदीमातृकं हि स्व्।आजीवमपाश्रयश्चापदि भवति 07.12.07 हस्तिवनयोरपि यो बहुशूरमृगं दुर्बलप्रतिवेशंऽनन्तावक्लेशि विषयान्ते हस्तिवनं बध्नाति सोऽतिसन्धत्ते 07.12.08 तत्रापि बहुकुण्ठाल्पशूरयोः अल्पशूरं श्रेयः, शूरेषु हि युद्धं, अल्पाः शूरा बहून् अशूरान् भञ्जन्ति, ते भग्नाः स्वसैन्यावघातिनो भवन्ति इत्याचार्याः 07.12.09 न इति कौटिल्यः 07.12.10 कुण्ठा बहवः श्रेयांसः, स्कन्धविनियोगाद् अनेकं कर्म कुर्वाणाः स्वेषामपाश्रयो युद्धे, परेषां दुर्धर्षा विभीषणाश्च 07.12.11 बहुषु हि कुण्ठेषु विनयकर्मणा शक्यं शौर्यमाधातुं, न त्वेवाल्पेषु शूरेषु बहुत्वमिति 07.12.12 खन्योरपि यः प्रभूतसारामदुर्गमार्गामल्पव्ययारम्भां खनिं खानयति, सोऽतिसन्धत्ते 07.12.13 तत्रापि महासारमल्पमल्पसारं वा प्रभूतमिति महासारमल्पं श्रेयः, वज्रमणिमुक्ताप्रवालहेमरूप्यधातुर्हि प्रभूतमल्पसारमत्यर्घेण ग्रसते इत्याचार्याः 07.12.14 न इति कौटिल्यः 07.12.15 चिराद् अल्पो महासारस्य क्रेता विद्यते, प्रभूतः सातत्याद् अल्पसारस्य 07.12.16 एतेन वणिक्पथो व्याख्यातः 07.12.17 तत्रापि वारिस्थलपथयोर्वारिपथः श्रेयान्, अल्पव्ययव्यायामः प्रभूतपण्योदयश्च इत्याचार्याः 07.12.18 न इति कौटिल्यः 07.12.19 सम्रुद्धगतिरसार्वकालिकः प्रकृष्टभययोनिर्निष्प्रतीकारश्च वारिपथः, विपरीतः स्थलपथः 07.12.20 वारिपथे तु कूलसंयानपथयोः कूलपथः पण्यपत्तनबाहुल्यात्श्रेयान्, नदीपथो वा, सातत्याद् विषह्याबाधत्वाच्च 07.12.21 स्थलपथेऽपि हैमवतो दक्षिणापथात्श्रेयान्, हस्त्यश्वगन्धदन्ताजिनरूप्यसुवर्णपण्याः सारवत्तराः इत्याचार्याः 07.12.22 न इति कौटिल्यः 07.12.23 कम्बलाजिनाश्वपण्यवर्जाः शङ्खवज्रमणिमुक्तासुवर्णपण्याश्च प्रभूततरा दक्षिणापथे 07.12.24 दक्षिणापथेऽपि बहुखनिः सारपण्यः प्रसिद्धगतिरल्पव्ययव्यायामो वा वणिक्पथः श्रेयान्, प्रभूतविषयो वा फल्गुपुण्यः 07.12.25 तेन पूर्वः पश्चिमश्च वणिक्पथो व्याख्यातः 07.12.26 तत्रापि चक्रपादपथयोश्चक्रपथो विपुलारम्भत्वात्श्रेयान्, देशकालसम्भावनो वा खरोष्ट्रपथः 07.12.27 आभ्यामंसपथो व्याख्यातः 07.12.28 परकर्मोदयो नेतुः क्षयो वृद्धिर्विपर्यये 07.12.29 तुल्ये कर्मपथे स्थानं ज्ञेयं स्वं विजिगीषुणा 07.12.30 अल्पागमातिव्ययता क्षयो वृद्धिर्विपर्यये 07.12.31 समायव्ययता स्थानं कर्मसु ज्ञेयमात्मनः 07.12.32 तस्माद् अल्पव्ययारम्भं दुर्गादिषु महोदयम् 07.12.33 कर्म लब्ध्वा विशिष्टः स्याद् इत्युक्ताः कर्मसन्धयः (इति) 07.12.34 Chapt . पार्ष्णिग्राह्चिन्ता संहत्यारिविजिगीष्वोरमित्रयोः पराभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्तिसम्पन्नस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते 07.13.01 शक्तिसम्पन्नो ह्यमित्रमुच्छिद्य पार्ष्णिग्राहमुच्छिन्द्यात्, न हीनशक्तिरलब्धलाभः 07.13.02 शक्तिसाम्ये यो विपुलारम्भस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते 07.13.03 विपुलारम्भो ह्यमित्रमुच्छिद्य पार्ष्णिग्राहमुच्छिन्द्यात्, नाल्पारम्भः सक्तचक्रः 07.13.04 आरम्भसाम्ये यः सर्वसन्दोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते 07.13.05 शून्यमूलो ह्यस्य सुकरो भवति, नैकदेशबलप्रयातः कृतपार्ष्णिप्रतिविधानः 07.13.06 बलोपादानसाम्ये यश्चलामित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते 07.13.07 चलामित्रं प्रयातो हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहमुच्छिन्द्यात्, न स्थितामित्रं प्रयातः 07.13.08 असौ हि दुर्गप्रतिहतः पार्ष्णिग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते 07.13.09 तेन पूर्वे व्याख्याताः 07.13.10 शत्रुसाम्ये यो धार्मिकाभियोगिनः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते 07.13.11 धार्मिकाभियोगी हि स्वेषां परेषां च द्वेष्यो भवति, अधार्मिकाभियोगी सम्प्रियः 07.13.12 तेन मूलहरतादात्विककदर्याभियोगिनां पार्ष्णिग्रहणं व्याख्यातम् 07.13.13 मित्राभियोगिनोः पार्ष्णिग्रहणे तैव हेतवः 07.13.14 मित्रममित्रं चाभियुञ्जानयोर्यो मित्राभियोगिनः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते 07.13.15 मित्राभियोगी हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहमुच्छिन्द्यात् 07.13.16 सुकरो हि मित्रेण सन्धिर्नामित्रेण 07.13.17 मित्रममित्रं चोद्धरतोर्योऽमित्रोद्धारिणः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते 07.13.18 वृद्धमित्रो ह्यमित्रोद्धारी पार्ष्णिग्राहमुच्छिन्द्यात्, न इतरः स्वपक्षोपघाती 07.13.19 तयोरलब्धलाभापगमने यस्यामित्रो महतो लाभाद् वियुक्तः क्षयव्ययाधिको वा स पार्ष्णिग्राहोऽतिसन्धत्ते 07.13.20 लब्धलाभापगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णिग्राहोऽतिसन्धत्ते, यस्य वा यातव्यः शत्रोर्विग्रहापकारसमर्थः स्यात् 07.13.21 पार्ष्णिग्राहयोरपि यः शक्यारम्भबलोपादानाधिकः स्थितशत्रुः पार्श्वस्थायी वा सोऽतिसन्धत्ते 07.13.22 पार्श्वस्थायी हि यातव्याभिसारो मूलाबाधकश्च भवति, मूलाबाधकैव पश्चात्स्थायी 07.13.23 पार्ष्णिग्राहाः त्रयो ज्ञेयाः शत्रोश्चेष्टानिरोधकाः । सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः 07.13.24 अरेर्नेतुश्च मध्यस्थो दुर्बलोऽन्तर्धिरुच्यते । प्रतिघातो बलवतो दुर्गाटव्यपसारवान् 07.13.25 मध्यमं त्वरिविजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्धलाभापगमने यो मध्यमं मित्राद् वियोजयत्यमित्रं च मित्रमाप्नोति सोऽतिसन्धत्ते 07.13.26 सन्धेयश्च शत्रुरुपकुर्वाणो, न मित्रं मित्रभावाद् उत्क्रान्तम् 07.13.27 तेनोदासीनलिप्सा व्याख्याता 07.13.28 पार्ष्णिग्रहणाभियानयोः तु मन्त्रयुद्धाद् अभ्युच्चयः 07.13.29 व्यायामयुद्धे हि क्षयव्ययाभ्यामुभयोरवृद्धिः 07.13.30 जित्वापि हि क्षिणदण्डकोशः पराजितो भवति इत्याचार्याः 07.13.31 न इति कौटिल्यः 07.13.32 सुमहतापि क्षयव्ययेन शत्रुविनाशोऽभ्युपगन्तव्यः 07.13.33 तुल्ये क्षयव्यये यः पुरस्ताद् दूष्यबलं घातयित्वा निह्शल्यः पश्चाद् वश्यबलो युध्येत सोऽतिसन्धत्ते 07.13.34 द्वयोरपि पुरस्ताद् दूष्यबलघातिनोर्यो बहुलतरं शक्तिमत्तरमत्यन्तदूष्यं च घातयेत् सोऽतिसन्धत्ते 07.13.35 तेनामित्राटवीबलघातो व्याख्यातः 07.13.36 पार्ष्णिग्राहोऽभियोक्ता वा यातव्यो वा यदा भवेत् । विजिगीषुः तदा तत्र नेत्रमेतत् समाचरेत् 07.13.37 पार्ष्णिग्राहो भवेन्नेता शत्रोर्मित्राभियोगिनः । विग्राह्य पूर्वमाक्रन्दं पार्ष्णिग्राहाभिसारिणा 07.13.38 आक्रन्देनाभियुञ्जानः पार्ष्णिग्राहं निवारयेत् । तथाऽऽक्रन्दाभिसारेण पार्ष्णिग्राहाभिसारिणम् 07.13.39 अरिमित्रेण मित्रं च पुरस्ताद् अवघट्टयेत् । मित्रमित्रमरेश्चापि मित्रमित्रेण वारयेत् 07.13.40 मित्रेण ग्राहयेत् पार्ष्णिमभियुक्तोऽभियोगिनः । मित्रमित्रेण चाक्रन्दं पार्ष्णिग्राहान्निवारयेत् 07.13.41 एवं मण्डलमात्मार्थं विजिगीषुर्निवेशयेत् । पृष्ठतश्च पुरस्ताच्च मित्रप्रकृतिसम्पदा 07.13.42 कृत्स्ने च मण्डले नित्यं दूतान् गूढांश्च वासयेत् । मित्रभूतः सपत्नानां हत्वा हत्वा च संवृतः 07.13.43 असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः । निह्संशयं विपद्यन्ते भिन्नप्लवेवोदधौ (इति) 07.13.44 Chapt . हीनशक्तिपूरणम् सामवायिकैरेवमभियुक्तो विजिगीषुर्यः तेषां प्रधानः तं ब्रूयात् त्वया मे सन्धिः, इदं हिरण्यं, अहं च मित्रं, द्विगुणा ते वृद्धिः, नार्हस्यात्मक्षयेण मित्रमुखान् अमित्रान् वर्धयितुं, एते हि वृद्धाः त्वामेव परिभविष्यन्तीति 07.14.01 भेदं वा ब्रूयात् अनपकारो यथाहमेतैः सम्भूयाभियुक्तः तथा त्वामप्येते संहितबलाः स्वस्था व्यसने वाभियोक्ष्यन्ते, बलं हि चित्तं विकरोति, तद् एषां विघातय इति 07.14.02 भिन्नेषु प्रधानमुपगृह्य हीनेषु विक्रमयेत्, हीनान् अनुग्राह्य वा प्रधाने, यथा वा श्रेयोऽभिमन्येत तथा 07.14.03 वैरं वा परैर्ग्राहयित्वा विसंवादयेत् 07.14.04 फलभूयस्त्वेन वा प्रधानमुपजाप्य सन्धिं कारयेत् 07.14.05 अथोभयवेतनाः फलभूयस्त्वं दर्शयन्तः सामवायिकान् अतिसंहिताः स्थ इत्युद्द्दूषयेयुः 07.14.06 दुष्टेषु सन्धिं दूषयेत् 07.14.07 अथोभयवेतना भूयो भेदमेषां कुर्युः एवं तद् यद् अस्माभिर्दर्शितम् इति 07.14.08 भिन्नेष्वन्यतमोपग्रहेण चेष्टेत 07.14.09 प्रधानाभावे सामवायिकानामुत्साहयितारं स्थिरकर्माणमनुरक्तप्रकृक्तिं लोभाद् भयाद् वा सङ्घातमुपागतं विजिगीषोर्भीतं राज्यप्रतिसम्बद्धं मित्रं चलामित्रं वा पूर्वान् उत्तराभावे साधयेत् - उत्साहयितारमात्मनिसर्गेण, स्थिरकर्माणं सान्त्वप्रणिपातेन, अनुरक्तप्रकृतिं कन्यादानयापनाभ्यां, लुब्धमंशद्वैगुण्येन, भीतमेभ्यः कोशदण्डानुग्रहेण, स्वतो भीतं विश्वास्य प्रतिभूप्रदानेन, राज्यप्रतिसम्बद्धमेकीभावोपगमनेन, मित्रमुभयतः प्रियहिताभ्यां, उपकारत्यागेन वा, चलामित्रमवधृतमनपकारोपकाराभ्याम् 07.14.10 यो वा यथायोगं भजेत तं तथा साधयेत्, सामदानभेददण्डैर्वा यथाऽऽपत्सु व्याख्यास्यामः 07.14.11 व्यसनोपघातत्वरितो वा कोशदण्डाभ्यां देशे काले कार्ये वावधृतं सन्धिमुपेयात् 07.14.12 कृतसन्धिर्हीनमात्मानं प्रतिकुर्वीत 07.14.13 पक्षे हीनो बन्धुमित्रपक्षं कुर्वीत, दुर्गमविषह्यं वा 07.14.14 दुर्गमित्रप्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति 07.14.15 मन्त्रशक्तिहीनः प्राज्ञपुरुषोपचयं विद्यावृद्धसंयोगं वा कुर्वीत 07.14.16 तथा हि सद्यः श्रेयः प्राप्नोति 07.14.17 प्रभावहीनः प्रकृतियोगक्षेमसिद्धौ यतेत 07.14.18 जनपदः सर्वकर्मणां योनिः, ततः प्रभावः 07.14.19 तस्य स्थानमात्मनश्चापदि दुर्गम् 07.14.20 सेतुबन्धः सस्यानां योनिः 07.14.21 नित्यानुषक्तो हि वर्षगुणलाभः सेतुवापेषु 07.14.22 वणिक्पथः परातिसन्धानस्य योनिः 07.14.23 वणिक्पथेन हि दण्डगूढपुरुषातिनयनं शस्त्रावरणयानवाहनक्रयश्च क्रियते, प्रवेशो निर्णयनं च 07.14.24 खनिः सङ्ग्रामोपकरणानां योनिः, द्रव्यवनं दुर्गकर्मणां यानरथयोश्च, हस्तिवनं हस्तिनां, गवाश्वखरोष्ट्राणां च व्रजः 07.14.25 तेषामलाभे बन्धुमित्रकुलेभ्यः समार्जनम् 07.14.26 उत्साहहीनः श्रेणीप्रवीरपुरुषाणां चोरगणाटविकम्लेच्छजातीनां परापकारिणां गूढपुरुषाणां च यथालाब्भमुपचयं कुर्वीत 07.14.27 परमिश्राप्रतीकारमाबलीयसं वा परेषु प्रयुञ्जीत 07.14.28 एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च । सम्पन्नः प्रतिनिर्गच्छेत् परावग्रहमात्मनः (इति) 07.14.29 Chapt . विगृह्योपरोधहेतवः - दण्डोपनतवृत्तम् दुर्बलो राजा बलवताभियुक्तः तद्विशिष्टबलमाश्रयेत यमितरो मन्त्रशक्त्या नातिसन्दध्यात् 07.15.01 तुल्यमन्त्रशक्तीनामायत्तसम्पदो वृद्धसंयोगाद् वा विशेषः 07.15.02 विशिष्टबलाभावे समबलैः तुल्यबलसङ्घैर्वा बलवतः सम्भूय तिष्ठेद् यान्न मन्त्रप्रभावशक्तिभ्यामतिसन्दध्यात् 07.15.03 तुल्यमन्त्रप्रभावशक्तीनां विपुलारम्भतो विशेषः 07.15.04 समबलाभावे हीनबलैः शुचिभिरुत्साहिभिः प्रत्यनीकभूतैर्बलवतः सम्भूय तिष्ठेद् यान्न मन्त्रप्रभावोत्साहशक्तिभिरतिसन्दध्यात् 07.15.05 तुल्योत्साहशक्तीनां स्वयुद्धभूमिलाभाद् विशेषः 07.15.06 तुल्यभूमीनां स्वयुद्धकाललाभाद् विशेषः 07.15.07 तुल्यदेशकालानां युग्यशस्त्रावरणतो विशेषः 07.15.08 सहायाभावे दुर्गमाश्रयेत यत्रामित्रः प्रभूतसैन्योऽपि भक्तयवसेन्धनोदकोपरोधं न कुर्यात् स्वयं च क्षयव्ययाभ्यां युज्येत 07.15.09 तुल्यदुर्गाणां निचयापसारतो विशेषः 07.15.10 निचयापसारसम्पन्नं हि मनुष्यदुर्गमिच्छेदिति कौटिल्यः 07.15.11 तद् एभिः कार्णैराश्रयेत - पार्ष्णिग्राहमासारं मध्यममुदासीनं वा प्रतिपादयिष्यामि, सामन्ताटविकतत्कुलीनापरुद्धानामन्यतमेनास्य राज्यं हारयिष्यामि घातयिष्यामि वा - कृत्यपक्षोपग्रहेण वास्य दुर्गे राष्ट्रे स्कन्धावारे वा कोपं समुत्थापयिष्यामि, शस्त्राग्निरसप्रणिधानैरौपनिषदिकैर्वा यथेष्टमासन्नं हनिष्यामि - स्वयंऽधिष्ठितेन वा योगप्रणिधानेन क्षयव्ययमेनमुपनेष्यामि, क्षयव्ययप्रवासोपतप्ते वास्य मित्रवर्गे सैन्ये वा क्रमेणोपजापं प्राप्स्यामि - वीवधासारप्रसारवधेन वास्य स्कन्धावारावग्रहं करिष्यामि, दण्डोपनयेन वास्य रन्ध्रमुत्थाप्य सर्वसन्दोहेन प्रहरिष्यामि, प्रतिहतोत्साहेन वा यथेष्टं सन्धिमवाप्स्यामि, मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति - निरासारं वास्य मूलं मित्राटवीदण्डैरुद्धातयिष्यामि, महतो वा देशस्य योगक्षेममिहस्थः पालयिष्यामि, स्वविक्षिप्तं मित्रविक्षिप्तं वा मे सैन्यमिहस्थस्यैकस्थमविषह्यं भविष्यति, निम्नखातरात्रियुद्धविशारदं वा मे सैन्यं पथ्याबाधमुक्तमासन्ने कर्म करिष्यति - विरुद्धदेशकालमिहागतो वा स्वयमेव क्षयव्ययाभ्यां न भविष्यति, महाक्षयव्ययाभिगम्योऽयं देशो दुर्गाटव्यपसारबाहुल्यात् - परेषां व्याधिप्रायः सैन्यव्यायामानामलब्धभौमश्च, तमापद्गतः प्रवेक्ष्यति, प्रविष्टो वा न निर्गमिष्यतीति 07.15.12 कारणाभावे बलसमुच्छ्रये वा परस्य दुर्गमुन्मुच्यापगच्छेत् 07.15.13 अग्निपतङ्गवद् अमित्रे वा प्रविशेत् 07.15.14 अन्यतरसिद्धिर्हि त्यक्तात्मनो भवति इत्याचार्याः 07.15.15 न इति कौटिल्यः 07.15.16 सन्धेयतामात्मनः परस्य चोपलभ्य सन्दधीत 07.15.17 विपर्यये विक्रमेण सन्धिमपसारं वा लिप्सेत 07.15.18 सन्धेयस्य वा दूतं प्रेषयेत् 07.15.19 तेन वा प्रेषितमर्थमानाभ्यां सत्कृत्य ब्रूयात् इदं राज्ञः पण्यागारं, इदं देवीकुमाराणां, देवीकुमारवचनात्, इदं राज्यमहं च त्वद्ऽर्पणः इति 07.15.20 लब्धसंश्रयः समयाचारिकवद् भर्तरि वर्तेत 07.15.21 दुर्गादीनि च कर्माणि आवाहविवाहपुत्राभिषेकाश्वपण्यहस्तिग्रहणसत्त्रयात्राविहारगमनानि चानुज्ञातः कुर्वीत 07.15.22 स्वभूम्यवस्थितप्रकृतिसन्धिमुपघातमपसृतेषु वा सर्वमनुज्ञातः कुर्वीत 07.15.23 दुष्टपौरजानपदो वा न्यायवृत्तिरन्यां भूमिं याचेत 07.15.24 दुष्यवद् उपांशुदण्डेन वा प्रतिकुर्वीत 07.15.25 उचितां वा मित्राद् भूमिं दीयमानां न प्रतिगृह्णीयात् 07.15.26 मन्त्रिपुरोहितसेनापतियुवराजानामन्यतममदृश्यमाने भर्तरि पश्येत्, यथाशक्ति चोपकुर्यात् 07.15.27 दैवतस्वस्तिवाचनेषु तत्परा आशिषो वाचयेत् 07.15.28 सर्वत्रात्मनिसर्गं गुणं ब्रूयात् 07.15.29 संयुक्तबलवत्सेवी विरुद्धः शङ्कितादिभिः । वर्तेत दण्डोपनतो भर्तर्येवमवस्थितः (इति) 07.15.30 Chapt . दण्डोपनायिवृत्तम् अनुज्ञातसन्धिपणोद्वेगकरं बलवान् विजिगीषमाणो यतः स्वभूमिः स्व।ऋतुवृत्तिश्च स्वसैन्यानां, अदुर्गापसारः शत्रुर्ऽपार्ष्णिरनासारश्च, ततो यायात् 07.16.01 विपर्यये कृतप्रतीकारो यायात् 07.16.02 सामदानाभ्यां दुर्बलान् उपनमयेत्, भेददण्डाभ्यां बलवतः 07.16.03 नियोगविकल्पसमुच्चयैश्चोपायानामनन्तरैकान्तराः प्रकृतीः साधयेत् 07.16.04 ग्रामारण्योपजीविव्रजवणिक्पथानुपालनमुज्झितापसृतापकारिणां चार्पणमिति सान्त्वमाचरेत् 07.16.05 भूमिद्रव्यकन्यादानमभयस्य च इति दानमाचरेत् 07.16.06 सामन्ताटविकतत्कुलीनापरुद्धानामन्यतमोपग्रहेण कोशदण्डभूमिदाययाचनमिति भेदमाचरेत् 07.16.07 प्रकाशकूटतूष्णींयुद्धदुर्गलम्भोपायैरमित्रप्रग्रहणमिति दण्डमाचरेत् 07.16.08 एवमुत्साहवतो दण्डोपकारिणः स्थापयेत्, स्वप्रभाववतः कोशोपकारिणः, प्रज्ञावतो भूम्य्।उपकारिणः 07.16.09 तेषां पण्यपत्तनग्रामखनिसञ्जातेन रत्नसारफल्गुकुप्येन द्रव्यहस्तिवनव्रजसमुत्थेन यानवाहनेन वा यद् बहुशोपकरोति तच्चित्रभोगम् 07.16.10 यद् दण्डेन कोशेन वा महद् उपकरोति तन् महाभोगम् 07.16.11 यद् दण्डकोशभूमीभिरुपकरोति तत् सर्वभोगम् 07.16.12 यद् अमित्रमेकतः प्रतिकरोति तद् एकतोभोगि 07.16.13 यद् अमित्रमासारं चोभयतः प्रतिकरोति तद् उभयतोभोगि 07.16.14 यद् अमित्रासारप्रतिवेशाटविकान् सर्वतः प्रतिकरोति तत् सर्वतोभोगि 07.16.15 पार्ष्णिग्राहश्चाटविकः शत्रुमुख्यः शत्रुर्वा भूमिदानसाध्यः कश्चिद् आसाद्येत, निर्गुणया भूम्यैनमुपग्राहयेत्, अप्रतिसम्बद्धया दुर्गस्थं, निरुपजीव्ययाऽऽटविकं - प्रत्यादेयया तत्कुलीनं शत्रोः, अपच्छिन्नया शत्रोरपरुद्धं नित्यामित्रया श्रेणीबलं, बलवत्सामन्तया संहतबलं, उभाभ्यां युद्धे प्रतिलोमं, - अलब्धव्यायामयोत्साहिनं, शूययारिपक्षीयं, कर्शितयापवाहितं, महाक्षयव्ययनिवेशया गतप्रत्यागतं, अनपाश्रयया प्रत्यपसृतं, परेणानधिवास्यया स्वयमेव भर्तारमुपग्राहयेत् 07.16.16 तेषां महोपकारं निर्विकारं चानुवर्तयेत् 07.16.17 प्रतिलोममुपांशुना साधयेत् 07.16.18 उपकारिणमुपकारशक्त्या तोषयेत् 07.16.19 प्रयासतश्चार्थमानौ कुर्याद्, व्यसनेषु चानुग्रहम् 07.16.20 स्वयं।आगतानां यथेष्टदर्शनं प्रतिविधानं च कुर्यात् 07.16.21 परिभवोपघातकुत्सातिवादांश्चैषु न प्रयुञ्जीत 07.16.22 दत्त्वा चाभयं पितेवानुगृह्णीयात् 07.16.23 यश्चास्यापकुर्यात् तद् दोषमभिविख्याप्य प्रकाशमेनं घातयेत् 07.16.24 परोद्वेगकारणाद् वा दाण्डकर्मिकवच्चेष्टेत 07.16.25 न च हतस्य भूमिद्रव्यपुत्रदारान् अभिमन्येत 07.16.26 कुल्यान् अप्यस्य स्वेषु पात्रेषु स्थापयेत् 07.16.27 कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् 07.16.28 एवमस्य दण्डोपनताः पुत्रपौत्रान् अनुवर्तन्ते 07.16.29 यः तूपनतान् हत्वा बद्ध्वा वा भूमिद्रव्यपुत्रदारान् अभिमन्येत तस्योद्विग्नं मण्डलमभावायोत्तिष्ठते 07.16.30 ये चास्यामात्याः स्वभूमिष्वायत्ताः ते चास्योद्विग्ना मण्डलमाश्रयन्ते 07.16.31 स्वयं वा राज्यं प्राणान् वास्याभिमन्यन्ते 07.16.32 स्वभूमिषु च राजानः तस्मात् साम्नानुपालिताः । भवन्त्यनुगुणा राज्ञः पुत्रपौत्रानुवर्तिनः (इति) 07.16.33 Chapt . संधिकर्म -समाधिमोक्षः शमः सन्धिः समाधिरित्येकोऽर्थः 07.17.01 राज्ञां विश्वासोपगमः शमः सन्धिः समाधिरिति 07.17.02 सत्यं शपथो वा चलः सन्धिः, प्रतिभूः प्रतिग्रहो वा स्थावरः इत्याचार्याः 07.17.03 न इति कौटिल्यः 07.17.04 सत्यं शपथो वा परत्रेह च स्थावरः सन्धिः, इहार्थैव प्रतिभूः प्रतिग्रहो वा बलापेक्षः 07.17.05 संहिताः स्मः इति सत्यसन्धाः पूर्वे राजानः सत्येन सन्दधिरे 07.17.06 तस्यातिक्रमे शपथेनाग्न्य्।उदकसीताप्राकारलोष्टहस्तिस्कन्धाश्वपृष्टरथोपस्थशस्त्ररत्नबीजगन्धरससुवर्णहिरण्यान्यालेभिरे हन्युरेतानि त्यजेयुश्चैनं यः शपथमतिक्रामेत् इति 07.17.07 शपथातिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्यबन्धः प्रतिभूः 07.17.08 तस्मिन् यः परावग्रहसमर्थान् प्रतिभुवो गृह्णाति, सोऽतिसन्धत्ते 07.17.09 विपरीतोऽतिसन्धीयते 07.17.10 बन्धुमुख्यप्रग्रहः प्रतिग्रहः 07.17.11 तस्मिन् यो दूष्यामात्यं दूष्यापत्यं वा ददाति, सोऽतिसन्धत्ते 07.17.12 विपरीतोऽतिसन्धीयते 07.17.13 प्रतिग्रहग्रहणविश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति 07.17.14 अपत्यसमाधौ तु कन्यापुत्रदाने ददत् तु कन्यामतिसन्धत्ते 07.17.15 कन्या ह्यदायादा परेषामेवार्थायाक्लेश्या(?) च 07.17.16 विपरीतः पुत्रः 07.17.17 पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृतास्त्रमेकपुत्रं वा ददाति सोऽतिसन्धीयते 07.17.18 विपरीतोऽतिसन्धत्ते 07.17.19 जात्याद् अजात्यो हि लुप्तदायादसन्तानत्वाद् आधातुं श्रेयान्, प्राज्ञाद् अप्राज्ञो मन्त्रशक्तिलोपात्, शूराद् अशूरोत्साहशक्तिलोपात्, कृतास्त्राद् अकृतास्त्रः प्रहर्तव्यसम्पल्लोपात्, एकपुत्राद् अनेकपुत्रो निरपेक्षत्वात् 07.17.20 जात्यप्राज्ञयोर्जात्यमप्राज्ञमैश्वर्यप्रकृतिरनुवर्तते, प्राज्ञमजात्यं मन्त्राधिकारः 07.17.21 मन्त्राधिकारेऽपि वृद्धसंयोगाज् जात्यः प्राज्ञमतिसन्धत्ते 07.17.22 प्राज्ञशूरयोः प्राज्ञमशूरं मतिकर्मणां योगोऽनुवर्तते, शूरमप्राज्ञं विक्रमाधिकारः 07.17.23 विक्रमाधिकारेऽपि हस्तिनमिव लुब्धकः प्राज्ञः शूरमतिसन्धत्तेश् 07.17.24 शूरकृतास्त्रयोः शूरमकृतास्त्रं विक्रमव्यवसायोऽनुवर्तते, कृतास्त्रमशूरं लक्ष्यलम्भाधिकारः 07.17.25 लक्ष्यलम्भाधिकारेऽपि स्थैर्यप्रतिपत्त्यसम्मोषैः शूरः कृतास्त्रमतिसन्धत्ते 07.17.26 बह्व्।एकपुत्रयोर्बहुपुत्रैकं दत्त्वा शेषप्रतिष्टब्धः सन्धिमतिक्रामति, न इतरः 07.17.27 पुत्रसर्वस्वदाने सन्धिश्चेत् पुत्रफलतो विशेषः 07.17.28 समफलयोः शक्तप्रजननतो विशेषः 07.17.29 शक्तप्रजननयोरप्युपस्थितप्रजननतो विशेषः 07.17.30 शक्तिमत्येकपुत्रे तु लुप्तपुत्रोत्पत्तिरात्मानमादध्यात्, न चैकपुत्रमिति 07.17.31 अभ्युच्चीयमानः समाधिमोक्षं कारयेत् 07.17.32 कुमारासन्नाः सत्त्रिणः कारुशिल्पिव्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारमपहरेयुः 07.17.33 नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिका वा पूर्वप्रणिहिताः परमुपतिष्ठेरन् 07.17.34 ते कुमारं परम्परयोपतिष्ठेरन् 07.17.35 तेषामनियतकालप्रवेशस्थाननिर्गमनानि स्थापयेत् 07.17.36 ततः तद्व्यञ्जनो वा रात्रौ प्रतिष्ठेत 07.17.37 तेन रूपाजीवा भार्याव्यञ्जनाश्च व्याख्याताः 07.17.38 तेषां वा तूर्यभाण्डफेलां गृहीत्वा निर्गच्छेत् 07.17.39 सूदारालिकस्नापकसंवाहकास्तरककल्पकप्रसाधकोदकपरिचारकैर्वा द्रव्यवस्त्रभाण्डफेलाशयनासनसम्भोगैर्निर्ह्रियेत 07.17.40 परिचारकच्छद्मना वा किञ्चिद् अरूपवेलायामादाय निर्गच्छेत्, सुरुङ्गामुखेन वा निशोपहारेण 07.17.41 तोयाशये वा वारुणं योगमातिष्ठेत् 07.17.42 वैदेहकव्यञ्जना वा पक्वान्नफलव्यवहारेणारक्षिषु रसमुपचारयेयुः 07.17.43 दैवतोपहारश्राद्धप्रहवणनिमित्तमारक्षिषु मदनयोगयुक्तमन्नपानं रसं वा प्रयुज्यापगच्छेत्, आरक्षकप्रोत्साहनेन वा 07.17.44 नागरककुशीलवचिकित्सकापूपिकव्यञ्जना वा रात्रौ समृद्धगृहाण्यादीपयेयुः आरक्षिणां वा 07.17.45 वैदेहकव्यञ्जना वा पण्यसंस्थामादीपयेयुः 07.17.46 अन्यद् वा शरीरं निक्षिप्य स्वगृहमादीपयेद् अनुपातभयात् 07.17.47 ततः सन्धिच्छेदखातसुरुङ्गाभिरपगच्छेत् 07.17.48 काचकुम्भभाण्डभारव्यञ्जनो वा रात्रौ प्रतिष्ठेत 07.17.49 मुण्डजटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्व्यञ्जनः प्रतिष्ठेत, विरूपव्याधिकरणारण्यचरच्छद्मनामन्यतमेन वा 07.17.50 प्रेतव्यञ्जनो वा गूढैर्निर्ह्रियेत 07.17.51 प्रेतं वा स्त्रीवेषेणानुगच्छेत् 07.17.52 वनचरव्यञ्जनाश्चैनमन्यतो यान्तमन्यतोऽपदिशेयुः 07.17.53 ततोऽन्यतो गच्छेत् 07.17.54 चक्रचराणां वा शकटवाटैरपगच्छेत् 07.17.55 आसन्ने चानुपाते सत्त्रं वा गृह्णीयात् 07.17.56 सत्त्राभावे हिरण्यं रसविद्धं वा भक्ष्यजातमुभयतःपन्थानमुत्सृजेत् 07.17.57 ततोऽन्यतोऽपगच्छेत् 07.17.58 गृहीतो वा सामादिभिरनुपातमतिसन्दध्यात्, रसविद्धेन वा पथ्यदनेन 07.17.59 वारुणयोगाग्निदाहेषु वा शरीरमन्यद् आधाय शत्रुमभियुञ्जीत पुत्रो मे त्वया हतः इति 07.17.60 उपात्तच्छन्नशस्त्रो वा रात्रौ विक्रम्य रक्षिषु शीघ्रपातैरपसरेद्गूढप्रणिहितैः सह (इति) 07.17.61 Chapt . मध्यमचरितं - उदासीनचरितं - मण्डलचरितम् मध्यमस्यात्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः 07.18.01 द्वितीया चतुर्थी षष्ठी च विकृतयः 07.18.02 तच्चेद् उभयं मध्यमोऽनुगृह्णीयात्, विजिगीषुर्मध्यमानुलोमः स्यात् 07.18.03 न चेद् अनुगृह्णीयात्, प्रकृत्यनुलोमः स्यात् 07.18.04 मद्यमश्चेद् विजिगीषोर्मित्रं मित्रभावि लिप्सेत, मित्रस्यात्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत 07.18.05 मण्डलं वा प्रोत्साहयेत् अतिप्रवृद्धोऽयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः, सम्भूयास्य यात्रां विहनाम इति 07.18.06 तच्चेन् मण्डलमनुगृह्णीयात्, मध्यमावग्रहेणात्मानमुपबृंहयेत् 07.18.07 न चेद् अनुगृह्णीयात्, कोशदण्डाभ्यां मित्रमनुगृह्य ये मध्यमद्वेषिणो राजानः परस्परानुगृहीता वा बहवः तिष्ठेयुः, एकसिद्धौ वा बहवः सिध्येयुः, परस्पराद् वा शङ्किता नोत्तिष्ठेरन्, तेषां प्रधानमेकमासन्नं वा सामदानाभ्यां लभेत 07.18.08 द्विगुणो द्वितीयं त्रिगुनः तृतीयम् 07.18.09 एवमभ्युच्चितो मध्यममवगृह्णीयात् 07.18.10 देशकालातिपत्तौ वा सन्धाय मध्यमेन मित्रस्य साचिव्यं कुर्यात्, दूष्येषु वा कर्मसन्धिम् 07.18.11 कर्शनीयं वास्य मित्रं मध्यमो लिप्सेत, प्रतिस्तम्भयेद् एनमहं त्वा त्रायेय इति आकर्शनात् 07.18.12 कर्शितमेनं त्रायेत 07.18.13 उच्छेदनीयं वास्य मित्रं मध्यमो लिप्सेत, कर्शितमेनं त्रायेत मध्यमवृद्धिभयात् 07.18.14 उच्छिन्नं वा भूम्यनुग्रहेण हस्ते कुर्याद् अन्यत्रापसारभयात् 07.18.15 कर्शनीयोच्छेदनीययोश्चेन् मित्राणि मध्यमस्य साचिव्यकराणि स्युः, पुरुषान्तरेण सन्धीयेत 07.18.16 विजिगीषोर्वा तयोर्मित्राण्यवग्रहसमर्थानि स्युः, सन्धिमुपेयात् 07.18.17 अमित्रं वास्य मध्यमो लिप्सेत, सन्धिमुपेयात् 07.18.18 एवं स्वार्थश्च कृतो भवति मध्यमस्य प्रियं च 07.18.19 मध्यमश्चेत् स्वमित्रं मित्रभावि लिप्सेत, पुरुषान्तरेण सन्दध्यात् 07.18.20 सापेक्षं वा नार्हसि मित्रमुच्छेत्तुम् इति वारयेत् 07.18.21 उपेक्षेत वा मण्डलमस्य कुप्यतु स्वपक्षवधात् इति 07.18.22 अमित्रमात्मनो वा मध्यमो लिप्सेत, कोशदण्डाभ्यामेनमदृश्यमानोऽनुगृह्णीयात् 07.18.23 उदासीनं वा मध्यमो लिप्सेत, अस्मै साहाय्यं दद्याद् उदासीनाद् भिद्यताम् इति 07.18.24 मध्यमोदासीनयोर्यो मण्डलस्याभिप्रेतः तमाश्रयेत 07.18.25 मध्यमचरितेनोदासीनचरितं व्याख्यातम् 07.18.26 उदासीनश्चेन् मध्यमं लिप्सेत, यतः शत्रुमतिसन्दध्यान् मित्रस्योपकारं कुर्याद् उदासीनं वा दण्डोपकारिणं लभेत ततः परिणमेत 07.18.27 एवमुपबृह्यात्मानमरिप्रकृतिं कर्शयेन् मित्रप्रकृतिं चोपगृह्णीयात् 07.18.28 सत्यप्यमित्रभावे तस्यानात्मवान्नित्यापकारी शत्रुः शत्रुसंहितः पार्ष्णिग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरिभाविनः, एकार्थाभिप्रयातः पृथग्ऽर्थाभिप्रयातः सम्भूययात्रिकः संहितप्रयाणिकः स्वार्थाभिप्रयातः सामुत्थायिकः कोशदण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधीभाविक इति मित्रभाविनः, - सामन्तो बलवतः प्रतिघातोऽन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णिग्राहो वा स्वयमुपनतः प्रतापोपनतो वा दण्डोपनत इति भृत्यभाविनः सामन्ताः 07.18.29 तैर्भूम्य्।एकान्तरा व्याख्याताः 07.18.30 तेषां शत्रुविरोधे यन् मित्रमेकार्थतां व्रजेत् । शक्त्या तद्ऽनुगृह्णीयाद् विषहेत यया परम् 07.18.31 प्रसाध्य शत्रुं यन् मित्रं वृद्धं गच्छेद् अवश्यताम् । सामन्तैकान्तराभ्यां तत्प्रकृतिभ्यां विरोधयेत् 07.18.32 तत्कुलीनापरुद्धाभ्यां भूमिं वा तस्य हारयेत् । यथा वानुग्रहापेक्षं वश्यं तिष्ठेत् तथा चरेत् 07.18.33 नोपकुर्याद् अमित्रं वा गच्छेद् यद् अतिकर्शितम् । तद् अहीनमवृद्धं च स्थापयेन् मित्रमर्थवित् 07.18.34 अर्थयुक्त्या चलं मित्रं सन्धिं यद् उपगच्छति । तस्यापगमने हेतुं विहन्यान्न चलेद् यथा 07.18.35 अरिसाधारणं यद् वा तिष्ठेत् तद् अरितः शठम् । भेदयेद् भिन्नमुच्छिन्द्यात् ततः शत्रुमनन्तरम् 07.18.36 उदासीनं च यत्तिष्ठेत् सामन्तैः तद् विरोधयेत् । ततो विग्रहसन्तप्तमुपकारे निवेशयेत् 07.18.37 अमित्रं विजिगीषुं च यत् सञ्चरति दुर्बलम् । तद् बलेनानुगृह्णीयाद् यथा स्यान्न परान्मुखम् 07.18.38 अपनीय ततोऽन्यस्यां भूमौ वा सम्निवेशयेत् । निवेश्य पूर्वं तत्रान्यद् दण्डानुग्रहहेतुना 07.18.39 अपकुर्यात् समर्थं वा नोपकुर्याद् यद् आपदि । उच्छिन्द्याद् एव तन्मित्रं विश्वस्याङ्कमुपस्थितम् 07.18.40 मित्रव्यसनतो वारिरुत्तिष्ठेद् योऽनवग्रहः । मित्रेणैव भवेत् साध्यश्छादितव्यसनेन सः 07.18.41 अमित्रव्यसनान् मित्रमुत्थितं यद् विरज्यति । अरिव्यसनसिद्ध्या तत्शत्रुणैव प्रसिध्यति 07.18.41 वृद्धिं क्षयं च स्थानं च कर्शनोच्छेदनं तथा सर्वोपायान् समादध्याद् एतान् यश्चार्थशास्त्रवित् । 07.18.42 एवमन्योन्यसञ्चारं षाड्गुण्यं योऽनुपश्यति स बुद्धिनिगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः (इति) 07.18.43 Book . Chapt . प्रकृतिव्यसनवर्गः व्यसनयौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वा इति व्यसनचिन्ता 08.1.01 दैवं मानुषं वा प्रकृतिव्यसनमनयापनयाभ्यां सम्भवति 08.1.02 गुणप्रातिलोम्यमभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनम् 08.1.03 व्यस्यत्येनं श्रेयस इति व्यसनम् 08.1.04 स्वाम्यमात्यजनपददुर्गकोशदण्डमित्रव्यसनानां पूर्वं पूर्वं गरीयः इत्याचार्याः 08.1.05 न इति भरद्वाजः 08.1.06 स्वाम्यमात्यव्यसनयोरमात्यव्यसनं गरीयः 08.1.07 मन्त्रो मन्त्रफलावाप्तिः कर्मानुष्ठानमायव्ययकर्म दण्डप्रणयनममित्राटवीप्रतिषेधो राज्यरक्षणं व्यसनप्रतीकारः कुमाररक्षणमभिषेकश्च कुमाराणामायत्तममात्येषु 08.1.08 तेषामभावे तद्ऽभावः, छिन्नपक्षस्येव राज्ञश्चेष्टानाशश्च 08.1.09 व्यसनेषु चासन्नः परोपजापः 08.1.10 वैगुण्ये च प्राणाबाधः प्राणान्तिकचरत्वाद् राज्ञः इति 08.1.11 न इति कौटिल्यः 08.1.12 मन्त्रिपुरोहितादिभृत्यवर्गमध्यक्षप्रचारं पुरुषद्रव्यप्रकृतिव्यसनप्रतीकारमेधनं च राजैव करोति 08.1.13 व्यसनिषु वामात्येष्वन्यान् अव्यसनिनः करोति 08.1.14 पूज्यपूजने दूष्यावग्रहे च नित्ययुक्तः तिष्ठति 08.1.15 स्वामी च सम्पन्नः स्वसम्पद्भिः प्रकृतीः सम्पादयति 08.1.16 स यत्शीलः तत्शीलाः प्रकृतयो भवन्ति, उत्थाने प्रमादे च तद्।आयत्तत्वात् 08.1.17 तत्कूटस्थानीयो हि स्वामी इति 08.1.18 अमात्यजनपदव्यसनयोर्जनपदव्यसनं गरीयः इति विशालाक्षः 08.1.19 कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जनपदाद् उत्तिष्ठन्ते 08.1.20 तेषामभावो जनपदाभावे, स्वाम्यमात्ययोश्चानन्तरः इति 08.1.21 न इति कौटिल्यः 08.1.22 अमात्यमूलाः सर्वारम्भाः - जनपदस्य कर्मसिद्धयः स्वतः परतश्च योगक्षेमसाधनं व्यसनप्रतीकारः शून्यनिवेशोपचयौ दण्डकरानुग्रहश्च इति 08.1.23 जनपददुर्गव्यसनयोर्दुर्गव्यसनम् इति पाराशराः 08.1.24 दुर्गे हि कोशदण्डोत्पत्तिरापदि स्थानं च जनपदस्य 08.1.25 शक्तिमत्तराश्च पौरा जानपदेभ्यो नित्याश्चापदि सहाया राज्ञः 08.1.26 जानपदाः त्वमित्रसाधारणाः इति 08.1.27 न इति कौटिल्यः 08.1.28 जनपदमूला दुर्गकोशदण्डसेतुवार्त्ताऽऽरम्भाः 08.1.29 शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु 08.1.30 पर्वतान्तर्द्वीपाश्च दुर्गा नाध्युष्यन्ते जनपदाभावात् 08.1.31 कर्षकप्राये तु दुर्गव्यसनं, आयुधीयप्राये तु जनपदे जनपदव्यसनमिति 08.1.32 दुर्गकोशव्यसनयोः कोशव्यसनम् इति पिशुनः 08.1.33 कोशमूलो हि दुर्गसंस्कारो दुर्गरक्षणं जनपदमित्रामित्रनिग्रहो देशान्तरितानामुत्साहनं दण्डबलव्यवहारश्च 08.1.34 दुर्गः कोशाद् उपजाप्यः परेषाम् 08.1.35 कोशमादाय च व्यसने शक्यमपयातुं, न दुर्गम् इति 08.1.36 न इति कौटिल्यः 08.1.37 दुर्गार्पणः कोशो दण्डः तूष्णींयुद्धं स्वपक्षनिग्रहो दण्डबलव्यवहारासारप्रतिग्रहः परचक्राटवीप्रतिषेधश्च 08.1.38 दुर्गाभावे च कोशः परेषाम् 08.1.39 दृश्यते हि दुर्गवतामनुच्छित्तिरिति 08.1.40 कोशदण्डव्यसनयोर्दण्डव्यसनम् इति कौणपदन्तः 08.1.41 दण्डमूलो हि मित्रामित्रनिग्रहः परदण्डोत्साहनं स्वदण्डप्रतिग्रहश्च 08.1.42 दण्डाभावे च ध्रुवः कोशविनाशः 08.1.43 कोशाभावे च शक्यः कुप्येन भूम्या परभूमिस्वयङ्ग्राहेण वा दण्डः पिण्डयितुं, दण्डवता च कोशः 08.1.44 स्वामिनश्चासन्नवृत्तित्वाद् अमात्यसधर्मा दण्डः इति 08.1.45 न इति कौटिल्यः 08.1.46 कोशमूलो हि दण्डः 08.1.47 कोशाभावे दण्डः परं गच्छति, स्वामिनं वा हन्ति 08.1.48 सर्वाभियोगकरश्च कोशो धर्मकामहेतुः 08.1.49 देशकालकार्यवशेन तु कोशदण्डयोरन्यतरः प्रमाणीभवति 08.1.50 लम्भपालनो हि दण्डः कोशस्य, कोशः कोशस्य दण्डस्य च भवति 08.1.51 सर्वद्रव्यप्रयोजकत्वात् कोशव्यसनं गरीय इति 08.1.52 दण्डमित्रव्यसनयोर्मित्रव्यसनम् इति वातव्याधिः 08.1.53 मित्रमभृतं व्यवहितं च कर्म करोति, पार्ष्णिग्राहमासारममित्रमाटविकं च प्रतिकरोति, कोशदण्डभूमिभिश्चोपकरोति व्यसनावस्थायोगम् इति 08.1.54 न इति कौटिल्यः 08.1.55 दण्डवतो मित्रं मित्रभावे तिष्ठति, अमित्रो वा मित्रभावे 08.1.56 दण्डमित्रयोः तु साधारणे कार्ये सारतः स्वयुद्धदेशकाललाभाद् विशेषः 08.1.57 शीघ्राभियाने त्वमित्राटविकानभ्यन्तरकोपे च न मित्रं विद्यते 08.1.58 व्यसनयौगपद्ये परवृद्धौ च मित्रमर्थयुक्तौ तिष्ठति 08.1.59 इति प्रकृतिव्यसनसम्प्रधारणमुक्तम् 08.1.60 प्रकृत्यवयवानां तु व्यसनस्य विशेषतः । बहुभावोऽनुरागो वा सारो वा कार्यसाधकः 08.1.61 द्वयोः तु व्यसने तुल्ये विशेषो गुणतः क्षयात् । शेषप्रकृतिसाद्गुण्यं यदि स्यान्नाविधेयकम् 08.1.62 शेषप्रकृतिनाशः तु यत्रैकव्यसनाद् भवेत् । व्यसनं तद्गरीयः स्यात् प्रधानस्य इतरस्य वा (इति) 08.1.63 Chapt . राजराज्ययोर्व्यसनचिन्ता राजा राज्यमिति प्रकृतिसङ्क्षेपः 08.2.01 राज्ञोऽभ्यन्तरो बाह्यो वा कोप इति 08.2.02 अहिभयाद् अभ्यन्तरः कोपो बाह्यकोपात् पापीयान्, अन्तर्ऽमात्यकोपश्चान्तःकोपात् 08.2.03 तस्मात् कोशदण्डशक्तिमात्मसंस्थां कुर्वीत 08.2.04 द्वैराज्यवैराज्ययोर्द्वैराज्यमन्योन्यपक्षद्वेषानुरागाभ्यां परस्परसङ्घर्षेण वा विनश्यति, वैराज्यं तु प्रकृतिचित्तग्रहणापेक्षि यथास्थितमन्यैर्भुज्यते इत्याचार्याः 08.2.05 न इति कौटिल्यः 08.2.06 पितापुत्रयोर्भ्रात्रोर्वा द्वैराज्यं तुल्ययोगक्षेमममात्यावग्रहं वर्तयति 08.2.07 वैराज्यं तु जीवतः परस्याच्छिद्य नैतन् मम इति मन्यमानः कर्शयति, अपवाहयति, पण्यं वा करोति, विरक्तं वा परित्यज्यापगच्छतीति 08.2.08 अन्धश्चलितशास्त्रो वा राजा इति अशास्त्रचक्षुरन्धो यत्किञ्चनकारी दृढाभिनिवेशी परप्रणेयो वा राज्यमन्यायेनोपहन्ति, चलितशास्त्रः तु यत्र शास्त्राच्चलितमतिर्भवति शक्यानुनयो भवति इत्याचार्याः 08.2.09 न इति कौटिल्यः 08.2.10 अन्धो राजा शक्यते सहायसम्पदा यत्र तत्र वा पर्यवस्थापयितुम् 08.2.11 चलितशास्त्रः तु शास्त्राद् अन्यथाभिनिविष्टबुद्धिरन्यायेन राज्यमात्मानं चोपहन्तीति 08.2.12 व्याधितो नवो वा राजा इति व्याधितो राजा राज्योपघातममात्यमूलं प्राणाबाधं वा राज्यमूलमवाप्नोति, नवः तु राजा स्वधर्मानुग्रहपरिहारदानमानकर्मभिः प्रकृतिरञ्जनोपकारैश्चरति इत्याचार्याः 08.2.13 न इति कौटिल्यः 08.2.14 व्याधितो राजा यथाप्रवृत्तं राजप्रणिधिमनुवर्तयति 08.2.15 नवः तु राजा बलावर्जितं ममेदं राज्यम् इति यथेष्टमनवग्रहश्चरति 08.2.16 सामुत्थायिकैरवगृहीतो वा राज्योपघातं मर्षयति 08.2.17 प्रकृतिष्वरूढः सुखमुच्छेत्तुं भवतीति 08.2.18 व्याधिते विशेषः पापरोग्यपापरोगी च 08.2.19 नवेऽप्यभिजातोऽनभिजात इति 08.2.20 दुर्बलोऽभिजातो बलवान् अनभिजातो राजा इति दुर्बलस्याभिजातस्योपजापं दौर्बल्यापेक्षाः प्रकृतयः कृच्छ्रेणोपगच्छन्ति, बलवतश्चानभिजातस्य बलापेक्षाः सुखेन इत्याचार्याः 08.2.21 न इति कौटिल्यः 08.2.22 दुर्बलमभिजातं प्रकृतयः स्वयमुपनमन्ति, जात्यमैश्वर्यप्रकृतिरनुवर्तत इति 08.2.23 बलवतश्चानभिजातस्योपजापं विसंवादयन्ति, अनुरागे सार्वगुण्यमिति 08.2.24 प्रयासवधात् सस्यवधो मुष्टिवधात् पापीयान्, निराजीवत्वाद् अवृष्टिरतिवृष्टितः 08.2.25 द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बलाबलम् । पारम्पर्यक्रमेणोक्तं याने स्थाने च कारणम् (इति) 08.2.26 Chapt . पुरुषव्यसनवर्गः अविद्याविनयः पुरुषव्यसनहेतुः 08.3.01 अविनीतो हि व्यसनदोषान्न पश्यति 08.3.02 तान् उपदेक्ष्यामः 08.3.03 कोपजः त्रिवर्गः, कामजश्चतुर्वर्गः 08.3.04 तयोः कोपो गरीयान् 08.3.05 सर्वत्र हि कोपश्चरति 08.3.06 प्रायशश्च कोपवशा राजानः प्रकृतिकोपैर्हताः श्रूयन्ते, कामवशाः क्षयनिमित्तमरिव्याधिभिरिति 08.3.07 न इति भारद्वाजः 08.3.08 सत्पुरुषाचारः कोपो वैरयातनमवज्ञावधो भीतमनुष्यता च 08.3.09 नित्यश्च कोपेन सम्बन्धः पापप्रतिषेधार्थः 08.3.10 कामः सिद्धिलाभः सान्त्वं त्यागशीलता सम्प्रियभावश्च 08.3.11 नित्यश्च कामेन सम्बन्धः कृतकर्मणः फलोपभोगार्थः इति 08.3.12 न इति कौटिल्यः 08.3.13 द्वेष्यता शत्रुवेदनं दुःखासङ्गश्च कोपः 08.3.14 परिभवो द्रव्यनाशः पाटच्चरद्यूतकारलुब्धकगायनवादकैश्चानर्थ्यैः संयोगः कामः 08.3.15 तयोः परिभवाद् द्वेष्यता गरीयसी 08.3.16 परिभूतः स्वैः परैश्चावगृह्यते, द्वेष्यः समुच्छिद्यत इति 08.3.17 द्रव्यनाशात्शत्रुवेदनं गरीयः 08.3.18 द्रव्यनाशः कोशाबाधकः, शत्रुवेदनं प्राणाबाधकमिति 08.3.19 अनर्थ्यसंयोगाद् दुःखसंयोगो गरीयान् 08.3.20 अनर्थ्यसंयोगो मुहूर्तप्रतीकारो, दीर्घक्लेशकरो दुःखानामासङ्ग इति 08.3.21 तस्मात् कोपो गरीयान् 08.3.22 वाक्पारुष्यमर्थदूषणं दण्डपारुष्यमिति 08.3.23 वाक्पारुष्यार्थदूषणयोर्वाक्पारुष्यं गरीयः इति विशालाक्षः 08.3.24 परुषमुक्तो हि तेजस्वी तेजसा प्रत्यारोहति 08.3.25 दुरुक्तशल्यं हृदि निखातं तेजःसन्दीपनमिन्द्रियोपतापि च इति 08.3.26 न इति कौटिल्यः 08.3.27 अर्थपूजा वाक्षल्यमपहन्ति, वृत्तिविलोपः त्वर्थदूषणम् 08.3.28 अदानमादानं विनाशः परित्यागो वार्थस्य इत्यर्थदूषणम् 08.3.29 अर्थदूषणदण्डपारुष्ययोरर्थदूषणं गरीयः इति पाराशराः 08.3.30 अर्थमूलौ धर्मकामौ 08.3.31 अर्थप्रतिबद्धश्च लोको वर्तते 08.3.32 तस्योपघातो गरीयान् इति 08.3.33 न इति कौटिल्यः 08.3.34 सुमहताप्यर्थेन न कश्चन शरीरविनाशमिच्छेत् 08.3.35 दण्डपारुष्याच्च तमेव दोषमन्येभ्यः प्राप्नोति 08.3.36 इति कोपजः त्रिवर्गः 08.3.37 कामजः तु मृगया द्यूतं स्त्रियः पानमिति चतुर्वर्गः 08.3.38 तस्य मृगयाद्यूतयोर्मृगया गरीयसी इति पिशुनः 08.3.39 स्तेनामित्रव्यालदावप्रस्खलनभयदिन्मोहाः क्षुत्पिपासे च प्राणाबाधः तस्याम् 08.3.40 द्यूते तु जितमेवाक्षविदुषा यथा जयत्सेनदुर्योधनाभ्याम् इति 08.3.41 न इत्य्कौटिल्यः 08.3.42 तयोरप्यन्यतरपराजयोऽस्तीति नलयुधिष्ठिराभ्यां व्याख्यातम् 08.3.43 तद् एव विजितद्रव्यमामिषं वैरानुबन्धश्च 08.3.44 सतोऽर्थस्य विप्रतिपत्तिरसतश्चार्जनमप्रतिभुक्तनाशो मूत्रपुरीषधारणबुभुक्षाऽऽदिभिश्च व्याधिलाभ इति द्यूतदोषाः 08.3.45 मृगयायां तु व्यायामः श्लेष्मपित्तमेदःस्वेदनाशश्चले स्थिते च काये लक्षपरिचयः कोपभयस्थानेषु च मृगाणां चित्तज्ञानमनित्ययानं च इति 08.3.46 द्यूतस्त्रीव्यसनयोः कैतवव्यसनम् इति कौणपदन्तः 08.3.47 सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः 08.3.48 कृच्छ्रे च प्रतिपृष्टः कुप्यति 08.3.49 स्त्रीव्यसने तु स्नानप्रतिकर्मभोजनभूमिषु भवत्येव धर्मार्थपरिप्रश्नः 08.3.50 शक्या च स्त्री राजहितेनियोक्तुं, उपांशुदण्डेन व्याधिना वा व्यावर्तयितुमवस्रावयितुं वा इति 08.3.51 न इति कौटिल्यः 08.3.52 सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्रीव्यसनम् 08.3.53 अदर्शनं कार्यनिर्वेदः कालातिपातनाद् अनर्थो धर्मलोपश्च तन्त्रदौर्बल्यं पानानुबन्धश्च इति 08.3.54 स्त्रीपानव्यसनयोः स्त्रीव्यसनम् इति वातव्याधिः 08.3.55 स्त्रीषु हि बालिश्यमनेकविधं निशान्तप्रणिधौ व्याख्यातम् 08.3.56 पाने तु शब्दादीनामिन्द्रियार्थानामुपभोगः प्रीतिदानं परिजनपूजनं कर्मश्रमवधश्च इति 08.3.57 न इति कौटिल्यः 08.3.58 स्त्रीव्यसने भवत्यपत्योत्पत्तिरात्मरक्षणं चान्तर्दारेषु, विपर्ययो वा बाह्येषु, अगम्येषु सर्वोच्छित्तिः 08.3.59 तद् उभयं पानव्यसने 08.3.60 पानसम्पत् - संज्ञानाशोऽनुन्मत्तस्योन्मत्तत्वमप्रेतस्य प्रेतत्वं कौपीनदर्शनं श्रुतप्रज्ञाप्राणवित्तमित्रहानिः सद्भिर्वियोगोऽनर्थ्यसंयोगः तन्त्रीगीतनैपुण्येषु चार्थघ्नेषु प्रसङ्ग इति 08.3.61 द्यूतमद्ययोर्द्यूतम् 08.3.62 एकेषां पणनिमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्षद्वैधेन प्रकृतिकोपं करोति 08.3.63 विशेषतश्च सङ्घानां सङ्घधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदः तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्रदौर्बल्यादिति 08.3.64 असतां प्रग्रहः कामः कोपश्चावग्रहः सताम् । व्यसनं दोषबाहुल्याद् अत्यन्तमुभयं मतम् 08.3.65 तस्मात् कोपं च कामं च व्यसनारम्भमात्मवान् । परित्यजेन् मूलहरं वृद्धसेवी जितेन्द्रियः (इति) 08.3.66 Chapt . पीडनवर्गः - स्तम्भवर्गः - कोशसंगवर्गः दैवपीडनं - अग्निरुदकं व्याधिर्दुर्भिक्षं मरक इति 08.4.01 अग्न्य्।उदकयोरग्निपीडनमप्रतिकार्यं सर्वदाहि च, शक्यापगमनं तार्याबाधमुदकपीडनम् इत्याचार्याः 08.4.02 न इत् कौटिल्यः 08.4.03 अग्निर्ग्राममर्धग्रामं वा दहति, उदकवेगः तु ग्रामशतप्रवाही इति 08.4.04 व्याधिदुर्भिक्षयोर्व्याधिः प्रेतव्याधितोपसृष्टपरिचारकव्यायामोपरोधेन कर्माण्युपहन्ति, दुर्भिक्षं पुनरकर्मोपघाति हिरण्यपशुकरदायि च इत्याचार्याः 08.4.05 न इति कौटिल्यः 08.4.06 एकदेशपीडनो व्याधिः शक्यप्रतीकारश्च, सर्वदेशपीडनं दुर्भिक्षं प्राणिनामजीवनाय इति 08.4.07 तेन मरको व्याख्यातः 08.4.08 क्षुद्रकमुख्यक्षययोः क्षुद्रकक्षयः कर्मणामयोगक्षेमं करोति, मुख्यक्षयः कर्मानुष्ठानोपरोधधर्मा इत्याचार्याः 08.4.09 न इति कौटिल्यः 08.4.10 शक्यः क्षुद्रकक्षयः प्रतिसन्धातुं बाहुल्यात् क्षुद्रकाणां, न मुख्यक्षयः 08.4.11 सहस्रेषु हि मुख्यो भवत्येको न वा सत्त्वप्रज्ञाऽऽधिक्यात् तद्।आश्रयत्वात् क्षुद्रकाणामिति 08.4.12 स्वचक्रपरचक्रयोः स्वचक्रमतिमात्राभ्यां दण्डकराभ्यां पीडयत्यशक्यं च वारयितुं, परचक्रं तु शक्यं प्रैयोद्धुमुपसारेण सन्धिना वा मोक्षयितुम् इत्याचार्याः 08.4.13 न इति कौटिल्यः 08.4.14 स्वचक्रपीडनं प्रकृतिपुरुषमुख्योपग्रहविघाताभ्यां शक्यते वारयितुमेकदेशं वा पीडयति, सर्वदेशपीडनं तु परचक्रं विलोपघातदाहविध्वंसनापवाहनैः पीडयतीति 08.4.15 प्रकृतिराजविवादयोः प्रकॄतिविवादः प्रकृतीनां भेदकः पराभियोगान् आवहति, राजविवादः तु प्रकृतीनां द्विगुणभक्तवेतनपरिहारकरो भवति इत्याचार्याः 08.4.16 न इति कौटिल्यः 08.4.17 शक्यः प्रकृतिविवादः प्रकृतिमुख्योपग्रहेण कलहस्थानापनयनेन वा वारयितुम् 08.4.18 विवदमानाः तु प्रकृतयः परस्परसङ्घर्षेणोपकुर्वन्ति 08.4.19 राजविवादः तु पीडनोच्छेदनाय प्रकृतीनां द्विगुणव्यायामसाध्य इति 08.4.20 देशराजविहारयोर्देशविहारः त्रैकाल्येन कर्मफलोपघातं करोति, राजविहारः तु कारुशिल्पिकुशीलववाग्जीवनरूपाजीवावैदेहकोपकारं करोति इत्याचार्याः 08.4.21 न इति कौटिल्यः 08.4.22 देशविहारः कर्मश्रममवधार्थमल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति, राजविहारः तु स्वयं वल्लभैश्च स्वयङ्ग्राहप्रणयपण्यागारकार्योपग्रहैः पीडयतीति 08.4.23 सुभगाकुमारयोः कुमारः स्वयं वल्लभैश्च स्वयङ्ग्राहप्रणयपण्यागारकार्योपग्रहैः पीडयति, सुभगा विलासोपभोगेन इत्याचार्याः 08.4.24 न इति कौटिल्यः 08.4.25 शक्यः कुमारो मन्त्रिपुरोहिताभ्यां वारयितुं, न सुभगा बालिश्याद् अनर्थ्यजनसंयोगाच्च इति 08.4.26 श्रेणीमुख्ययोः श्रेणी बाहुल्याद् अनवग्रहा स्तेयसाहसाभ्यां पीडयति, मुख्यः कार्यानुग्रहविघाताभ्याम् इत्याचार्याः 08.4.27 न इति कौटिल्यः 08.4.28 सुव्यावर्त्या श्रेणी समानशीलव्यसनत्वात्, श्रेणीमुख्यैकदेशोपग्रहेण वा 08.4.29 स्तम्भयुक्तो मुख्यः परप्राणद्रव्योपघाताभ्यां पीडयतीति 08.4.30 सन्निधातृसमाहर्त्रोः सन्निधाता कृतविदूषणात्ययाभ्यां पीडयति, समाहर्ता करणाधिष्ठितः प्रदिष्टफलोपभोगी भवति इत्याचार्याः 08.4.31 न इति कौटिल्यः 08.4.32 सन्निधाता कृतावस्थमन्यैः कोशप्रवेश्यं प्रतिगृह्णाति, समाहर्ता तु पूर्वमर्थमात्मनः कृत्वा पश्चाद् राजार्थं करोति प्रणाशयति वा, परस्वादाने च स्वप्रत्ययश्चरतीति 08.4.33 अन्तपालवैदेहकयोरन्तपालश्चोरप्रसर्गदेयात्यादानाभ्यां वणिक्पथं पीडयति, वैदेहकाः तु पण्य।प्रतिपण्यानुग्रहैः प्रसाधयन्ति इत्याचार्याः 08.4.34 न इति कौटिल्यः 08.4.35 अन्तपालः पण्यसम्पातानुग्रहेण वर्तयति, वैदेहकाः तु सम्भूय पण्यानामुत्कर्षापकर्षं कुर्वाणाः पणे पणशतं कुम्भे कुम्भशतमित्याजीवन्ति 08.4.36 अभिजातोपरुद्धा भूमिः पशुव्रजोपरुद्धा वा इति अभिजातोपरुद्धा भूमिः महाफलाप्यायुधीयोपकारिणी न क्षमा मोक्षयितुं व्यसनाबाधभयात्, पशुव्रजोपरुद्धा तु कृषियोग्या क्षमा मोक्षयितुम् 08.4.37 विवीतं हि क्षेत्रेण बाध्यते इत्याचार्याः 08.4.38 न इति कौटिल्यः 08.4.39 अभिजातोपरुद्धा भूमिरत्यन्तमहोपकारापि क्षमा मोक्षयितुं व्यसनाबाधभयात्, पशुव्रजोपरुद्धा तु कोशवाहनोपकारिणी न क्षमा मोक्षयितुं, अन्यत्र सस्यवापोपरोधादिति 08.4.40 प्रतिरोधकाटविकयोः प्रतिरोधका रात्रिसत्त्रचराः शरीराक्रमिणो नित्याः शतसहस्राहपारिणः प्रधानकोपकाश्च व्यवहिताः प्रत्यन्तरारण्यचराश्चाटविकाः प्रकाशा दृस्याश्चरन्ति, एकदेशघातकाश्च इत्याचार्याः 08.4.41 न इति कौटिल्यः 08.4.42 प्रतिरोधकाः प्रमत्तस्यापरहन्ति, अल्पाः कुण्ठाः सुखा ज्ञातुं ग्रहीतुं च, स्वदेशस्थाः प्रभूता विक्रान्ताश्चाटविकाः प्रकाशयोदिनोऽपहर्तारो हन्तारश्च देशानां राजसधर्माण इति 08.4.43 मृगहस्तिवनयोः मृगाः प्रभूताः प्रभूतमांसचर्मोपकारिणो मन्दग्रासावक्लेशिनः सुनियम्याश्च 08.4.44 विपरीता हस्तिनो गृह्यमाणा दुष्टाश्च देशविनाशाय इति 08.4.45 स्वपरस्थानीयोपकारयोः स्वस्थानीयोपकारो धान्यपशुहिरण्यकुप्योपकारो जानपदानामापद्यात्मधारणः 08.4.46 विपरीतः परस्थानीयोपकारः 08.4.47 इति पीडनानि - आभ्यन्तरो मुख्यस्तम्भो बाह्योऽमित्राटवीस्तम्भः इति स्तम्भवर्गह् 08.4.48 ताभ्यां पीडनैर्यथोक्तैश्च पीडितः, सक्तो मुख्येषु, परिहारोपहतः, प्रकीर्णो, मिथ्यासंहृतः, सामन्ताटवीहृत इति कोशसङ्गवर्गः 08.4.49 पीडनानामनुत्पत्तावुत्पन्नानां च वारणे । यतेत देशवृद्ध्यर्थं नाशे च स्तम्भसङ्गयोः (इति) 08.4.50 Chapt . बलव्यसनवर्गः - मित्रव्यसनवर्गः बलव्यसनानि - अमानितं, विमानितं, अभृतं, व्याधितं, नवागतं, दूरायातं, परिश्रान्तं, परिक्षीणं, प्रतिहतं, हताग्रवेगं, अनृतुप्राप्तं, अभूमिप्राप्तं, आशानिर्वेदि, परिसृप्तं, कलत्रगर्भि, अन्तःशल्यं, कुपितमूलं, भिन्नगर्भं, अपसृतं, अतिक्षिप्तं, उपनिविष्टं, समाप्तं, उपरुद्धं, परिक्षिप्तं, छिन्नधान्यपुरुषवीवधं, स्वविक्षिप्तं, मित्रविक्षिप्तं, दूष्ययुक्तं, दुष्टपार्ष्णिग्राहं, शून्यमूलं, अस्वामिसंहतं, भिन्नकूटं, अन्धमिति 08.5.01 तेषाममानितविमानितानियतयोरमानितं कृतार्थमानं युध्येत, न विमानितमन्तःकोपम् 08.5.02 अभृतव्याधितयोरभृतं तदात्वकृतवेतनं युध्येत, न व्याधितमकर्मण्यम् 08.5.03 नवागतदूरायातयोर्नवागतमन्यतोपलब्धदेशमनवमिश्रं युध्येत, न दूरायतमायतगतपरिक्लेशम् 08.5.04 परिश्रान्तपरिक्षीणयोः परिश्रान्तं स्नानभोजनस्वप्नलब्धविश्रामं युध्येत, न परिक्षीणमन्यत्राहवे क्षीणयुग्यपुरुषम् 08.5.05 प्रतिहतहताग्रवेगयोः प्रतिहतमग्रपातभग्नं प्रवीरपुरुषसंहतं युध्येत, न हताग्रवेगमग्रपातहतवीरम् 08.5.06 अनृत्व्ऽभूमिप्राप्तयोरनृतुप्राप्तं यथ।ऋतुयुग्यशस्त्रावरणं युध्येत, नाभूमिप्राप्तमवरुद्धप्रसारव्यायामम् 08.5.07 आशानिर्वेदिपरिसृप्तयोराशानिर्वेदि लब्धाभिप्रायं युध्येत, न परिसृप्तमपसृतमुख्यम् 08.5.08 कलत्रगर्भ्यन्तःशल्ययोः कलत्रगर्भि उन्मुच्य कलत्रं युध्येत, नान्तःशल्यमन्तरमित्रम् 08.5.09 कुपितमूलभिन्नगर्भयोः कुपितमूलं प्रशमितकोपं सामादिभिर्युध्येत, न भिन्नगर्भमन्योन्यस्माद् भिन्नम् 08.5.10 अपसृतातिक्षिप्तयोरपसृतमेकराज्यातिक्रान्तं मन्त्रव्यायामाभ्यां सत्त्रमित्रापाश्रयं युध्येत, नातिक्षिप्तमनेकराज्यातिक्रान्तं बह्व्।आबाधत्वात् 08.5.11 उपनिविष्टसमाप्तयोरुपनिविष्टं पृथग्यानस्थानमतिसन्धायारिं युध्येत, न समाप्तमरिणैकस्थानयानम् 08.5.12 उपरुद्धपरिक्षिप्तयोरुपरुद्धमन्यतो निष्क्रम्योपरोद्धारं प्रतियुध्येत, न परिक्षिप्तं सर्वतः प्रतिरुद्धम् 08.5.13 छिन्नधान्यपुरुषवीवधयोः छिन्नधान्यमन्यतो धान्यमानीय जङ्गमस्थावराहारं वा युध्येत, न छिन्नपुरुषवीवधमनभिसारम् 08.5.14 स्वविक्षिप्तमित्रविक्षिप्तयोः स्वविक्षिप्तं स्वभूमौ विक्षिप्तं सैन्यमापदि शक्यमावाहयितुं, न मित्रविक्षिप्तं विप्रकृष्टदेशकालत्वात् 08.5.15 दूष्ययुक्तदुष्टपार्ष्णिग्राहयोर्दूष्ययुक्तमाप्तपुरुषाधिष्ठितमसंहतं युध्येत, न दुष्टपार्ष्णिग्राहं पृष्ठाभिघातत्रस्तम् 08.5.16 शून्यमूलास्वामिसंहतयोः शून्यमूलं कृतपौरजानपदारक्षं सर्वसन्दोहेन युध्येत, नास्वामिसंहतं राजसेनापतिहीनम् 08.5.17 भिन्नकूटान्धयोर्भिन्नकूटमन्याधिष्ठितं युध्येत, नान्धमदेशिकं - इति 08.5.18 दोषशुद्धिर्बलावापः सत्त्रस्थानातिसंहितम् । सन्धिश्चोत्तरपक्षस्य बलव्यसनसाधनम् 08.5.19 रक्षेत् स्वदण्डं व्यसने शत्रुभ्यो नित्यमुत्थितः । प्रहरेद् दण्डरन्ध्रेषु शत्रूणां नित्यमुत्थितः 08.5.20 यतो निमित्तं व्यसनं प्रकृतीनामवाप्नुयात् । प्राग् एव प्रतिकुर्वीत तन्निमित्तमतन्द्रितः । 08.5.21 अभियातं स्वयं मित्रं सम्भूयान्यवशेन वा परित्यक्तमशक्त्या वा लोभेन प्रणयेन वा । 08.5.22 विक्रीतमभियुञ्जाने सङ्ग्रामे वापवर्तिना द्वैधीभावेन वामित्रं यास्यता वान्यमन्यतः । 08.5.23 पृथग् वा सहयाने वा विश्वासेनातिसंहितम् भयावमानालस्यैर्वा व्यसनान्न प्रमोक्षितम् । 08.5.24 अवरुद्धं स्वभूमिभ्यः समीपाद् वा भयाद्गतम् आच्छेदनाद् अदानाद् वा दत्त्वा वाप्यवमानितम् । 08.5.25 अत्याहारितमर्थं वा स्वयं परमुखेन वा अतिभारे नियुक्तं वा भङ्क्त्वा परमुपस्थितम् । 08.5.26 उपेक्षितमशक्त्या वा प्रार्थयित्वा विरोधितम् कृच्छ्रेण साध्यते मित्रं सिद्धं चाशु विरज्यति । 08.5.27 कृतप्रयासं मान्यं वा मोहान् मित्रममानितम् । मानितं वा न सदृशं शक्तितो वा निवारितम् 08.5.28 मित्रोपघातत्रस्तं वा शङ्कितं वारिसंहितात् । दूष्यैर्वा भेदितुं मित्रं साध्यं सिद्धं च तिष्ठति 08.5.29 तस्मान्नोत्पादयेद् एनान् दोषान् मित्रोपघातकान् । उत्पन्नान् वा प्रशमयेद्गुणैर्दोषोपघातिभिः (इति) 08.5.30 Book . Chapt . शक्तिदेशकालबलाबलज्ञानं - यात्राकालाः विजिगीषुरात्मनः परस्य च बलाबलं शक्तिदेशकालयात्राकालबलसमुद्दानकालपश्चात्कोपक्षयव्ययलाभापदां ज्ञात्वा विशिष्टबलो यायात्, अन्यथाऽऽसीत 09.1.01 उत्साहप्रभावयोरुत्साहः श्रेयान् 09.1.02 स्वयं हि राजा शूरो बलवान् अरोगः कृतास्त्रो दण्डद्वितीयोऽपि शक्तः प्रभाववन्तं राजानं जेतुम् 09.1.03 अल्पोऽपि चास्य दण्डः तेजसा कृत्यकरो भवति 09.1.04 निरुत्साहः तु प्रभाववान् राजा विक्रमाभिपन्नो नश्यति इत्याचार्याः 09.1.05 न इति कौटिल्यः 09.1.06 प्रभाववान् उत्साहवन्तं राजानं प्रभावेनातिसन्धत्ते तद्विशिष्टमन्यं राजानमावाह्य भृत्वा क्रीत्वा प्रवीरपुरुषान् 09.1.07 प्रभूतप्रभावहयहस्तिरथोपकरणसम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति 09.1.08 उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोऽन्धाश्च पृथिवीं जिग्युरिति 09.1.09 प्रभावमन्त्रयोः प्रभावः श्रेयान् 09.1.10 मन्त्रशक्तिसम्पन्नो हि वन्ध्यबुद्धिरप्रभावो भवति 09.1.11 मन्त्रकर्म चास्य निश्चितमप्रभावो गर्भधान्यमवृष्टिरिवोपहन्ति इत्याचार्याः 09.1.12 न इति कौटिल्यः 09.1.13 मन्त्रशक्तिः श्रेयसी 09.1.14 प्रज्ञाशास्त्रचक्षुर्हि राजाल्पेनापि प्रयत्नेन मन्त्रमाधातुं शक्तः परान् उत्साहप्रभाववतश्च सामादिभिर्योगोपनिषद्भ्यां चातिसन्धातुम् 09.1.15 एवमुत्साहप्रभावमन्त्रशक्तीनामुत्तरोत्तराधिकोऽतिसन्धत्ते 09.1.16 देशः पृथिवी 09.1.17 तस्यां हिमवत्समुद्रान्तरमुदीचीनं योजनसहस्रपरिमाणं तिर्यक् चक्रवर्तिक्षेत्रम् 09.1.18 तत्रारण्यो ग्राम्यः पर्वतोदको भौमः समो विषम इति विशेषाः 09.1.19 तेषु यथास्वबलवृद्धिकरं कर्म प्रयुञ्जीत 09.1.20 यत्रात्मनः सैन्यव्यायामानां भूमिः, अभूमिः परस्य, सोत्तमो देशः, विपरीतोऽधमः, साधारणो मध्यमः 09.1.21 कालः शीतोष्णवर्षात्मा 09.1.22 तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगमिति विशेषाः 09.1.23 तेषु यथास्वबलवृद्धिकरं कर्मप्रयुञ्जीत 09.1.24 यत्रात्मनः सैन्यव्यायामानां ऋतुः अनृतुः परस्य, सोत्तमः कालः, विपरीतोऽधमः, साधारणो मध्यमः 09.1.25 शक्तिदेशकालानां तु शक्तिः श्रेयसी इत्याचार्याः 09.1.26 शक्तिमान् हि निम्नस्थलवतो देशस्य शीतोष्णवर्षवतश्च कालस्य शक्तः प्रतीकारे भवति 09.1.27 देशः श्रेयान् इत्येके 09.1.28 स्थलगतो हि श्वा नक्रं विकर्षति, निम्नगतो नक्रः श्वानम् इति 09.1.29 कालः श्रेयान् इत्येके 09.1.30 दिवा काकः कौशिकं हन्ति, रात्रौ कौशिकः काकम् इति 09.1.31 न इति कौटिल्यः 09.1.32 परस्परसाधका हि शक्तिदेशकालाः 09.1.33 तैरभ्युच्चितः तृतीयं चतुर्थं वा दण्डस्यांशं मूले पार्ष्ण्यां प्रत्यन्ताटवीषु च रक्षा विधाय कार्यसाधनसहं कोशदण्डं चादाय क्षीणपुराणभक्तमगृहीतनवभक्तमसंस्कृतदुर्गममित्रं वार्षिकं चास्य सस्यं हैमनं च मुष्टिमुपहन्तुं मार्गशीर्षीं यात्रां यायात् 09.1.34 हैमानं चास्य सस्यं वासन्तिकं च मुष्टिमुपहन्तुं चैत्रीं यात्रां यायात् 09.1.35 क्षीणकृणकाष्ठोदकमसंस्कृतदुर्गममित्रं वासन्तिकं चास्य सस्यं वार्षिकीं च मुष्टिमुपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् 09.1.36 अत्युष्णमल्पयवसेन्धनोदकं वा देशं हेमन्ते यायात् 09.1.37 तुषारदुर्दिनमगाधनिम्नप्रायं गहनतृणवृक्षं वा देशं ग्रीष्मे यायात् 09.1.38 स्वसैन्यव्यायामयोग्यं परस्यायोग्यं वर्षति यायात् 09.1.39 मार्गशीर्षीं तैषीं चान्तरेण दीर्घकालां यात्रां यायात्, चैत्रीं वैशाखीं चान्तरेण मध्यमकालां, ज्येष्ठामूलीयामाषाढीं चान्तरेण ह्रस्वकालां, उपोषिष्यन् व्यसने चतुर्थीम् 09.1.40 व्यसनाभियानं विगृह्ययाने व्याख्यातम् 09.1.41 प्रायशश्चाचार्याः परव्यसने यातव्यम् इत्युपदिशन्ति 09.1.42 शक्त्य्।उदये यातव्यमनैकान्न्तिकत्वाद् व्यसनानामिति कौटिल्यः 09.1.43 यदा वा प्रयातः कर्शयितुमुच्छेतुं वा शक्नुयाद् अमित्रं तदा यायात् 09.1.44 अत्युष्णोपक्षीणे काले हस्तिबलप्रायो यायात् 09.1.45 हस्तिनो ह्यन्तःस्वेदाः कुष्ठिनो भवन्ति 09.1.46 अनवगाहमानाः तोयमपिबन्तश्चान्तर्ऽवक्षाराच्चान्धीभवन्ति 09.1.47 तस्मात् प्रभूतोदके देशे वर्षति च हस्तिबलप्रायो यायात् 09.1.48 विपर्यये खरोष्ट्राश्वबलप्रायो देशमल्पवर्षपङ्कम् 09.1.49 वर्षति मरुप्रायं चतुर्ऽङ्गबलो यायात् 09.1.50 समविषमनिम्नस्थलह्रस्वदीर्घवशेन वाध्वनो यात्रां विभजेत् 09.1.51 सर्वा वा ह्रस्वकालाः स्युर्यातव्याः कार्यलाघवात् । दीर्घाः कार्यगुरुत्वाद् वा वर्षावासः परत्र च (इति) 09.1.52 Chapt . बलोपादानकालाः -सम्नाहगुणाः -प्रतिबलकर्म मौलभृतकश्रेणीमित्रामित्राटवीबलानां समुद्दानकालाः 09.2.01 मूलरक्षणाद् अतिरिक्तं मौलबलं, अत्यावापयुक्ता वा मौला मूले विकुर्वीरन्, बहुलानुरक्तमौलबलः सारबलो वा प्रतियोद्धा, व्यायामेन योद्धव्यं, प्रकृष्टेऽध्वनि काले वा क्षयव्ययसहत्वान् मौलानां, बहुलानुरक्तसम्पाते च यातव्यस्योपजापभयाद् अन्यसैन्यानां भृतादीनामविश्वासे, बलक्षये वा सर्वसैन्यानां - इति मौलबलकालः 09.2.02 प्रभूतं मे भृतबलमल्पं च मौलबलम्ण् परस्याल्पं विरक्तं वा मौलबलं, फल्गुप्रायमसारं वा भृतसैन्यम्ण् मन्त्रेण योद्धव्यमल्पव्यायामेनण् ह्रस्वो देशः कालो वा तनुक्षयव्ययह्ण् अल्पावापं शान्तोपजापं विश्वस्तं वा मे सैन्यम्ण् परस्याल्पः प्रसारो हन्तव्यह्ण् - इति भृतबलकालः 09.2.03 प्रभूतं मे श्रेणीबलं, शक्यं मूले यात्रायां चाधातुम्ण् ह्रस्वः प्रवासः, श्रेणीबलप्रायः प्रतियोद्धा मन्त्रव्यायामाभ्यां प्रतियोद्धुकामः, दण्डबलव्यवहारः - इति श्रेणीबलकालः 09.2.04 प्रभूतं मे मित्रबलं शक्यं मूले यात्रायां चाधातुम्ण् अल्पः प्रवासो मन्त्रयुद्धाच्च भूयो व्यायामयुद्धम्ण् मित्रबलेन वा पूर्वमटवीं नगरस्थानमासारं वा योधयित्वा पश्चात् स्वबलेन योद्धयिष्यामिण् मित्रसाधारणं वा मे कार्यम्ण् मित्रायत्ता वा मे कार्यसिद्धिह्ण् आसन्नमनुग्राह्यं वा मे मित्रम्ण् अत्यावापं वास्य सादयिष्यामि - इति मित्रबलकालः 09.2.05 प्रभूतं मे शत्रुबलं, शत्रुबलेन योधयिष्यामि नगरस्थानमटवीं वा, तत्र मे श्ववराहयोः कलहे चण्डालस्येवान्यतरसिद्धिर्भविष्यतिण् आसाराणामटवीनां वा कण्टकमर्दनमेतत् करिष्यामिण् - अत्युपचितं वा कोपभयान्नित्यमासन्नमरिबलं वासयेद्, अन्यत्राभ्यन्तरकोपशङ्कायाः - शत्रुयुद्धावरयुद्धकालश्च - इत्यमित्रबलकालः 09.2.06 तेनाटवीबलकालो व्याख्यातः 09.2.07 मार्गादेशिकं, परभूमियोग्यं, अरियुद्धप्रतिलोमं, अटवीबलप्रायः शत्रुर्वा, बिल्वं बिल्वेन हन्यताम्ण् अल्पः प्रसारो हन्तव्यः - इत्यटवीबलकालः 09.2.08 सैन्यमनेकमनेकस्थमुक्तमनुक्तं वा विलोपार्थं यद् उत्तिष्ठति तद् औत्साहिकं - अभक्तवेतनं विलोपविष्टिप्रतापकरं भेद्यं परेषां, अभेद्यं तुल्यदेशजातिशिल्पप्रायं संहतं महत् इति बलोपादानकालाह् 09.2.09 तेषां कुप्यभृतममित्राटवीबलं विलोपभृतं वा कुर्यात् 09.2.10 अमित्रस्य वा बलकाले प्रत्युत्पन्ने शत्रुबलमवगृह्णीयात्, अन्यत्र वा प्रेषयेत्, अफलं वा कुर्यात्, विक्षिप्तं वा वासयेत्, काले वातिक्रान्ते विसृजेत् 09.2.11 परस्य चैतद् बलसमुद्दानं विघातयेत्, आत्मनः सम्पादयेत् 09.2.12 पूर्वं पूर्वं चैषां श्रेयः सम्नाहयितुम् 09.2.13 तद्भावभावित्वान्नित्यसत्कारानुगमाच्च मौलबलं भृतबलात्श्रेयः 09.2.14 नित्यानन्तरं क्षिप्रोत्थायि वश्यं व भृतबलं श्रेणीबलात्श्रेयः 09.2.15 जानपदमेकार्थोपगतं तुल्यसङ्घर्षामर्षसिद्धिलाभं च श्रेणीबलं मित्रबलात्श्रेयः 09.2.16 अपरिमितदेशकालमेकार्थोपगमाच्च मित्रबलममित्रबलात्श्रेयः 09.2.17 आर्याधिष्ठितममित्रबलमटवीबलात्श्रेयः 09.2.18 तद् उभयं विलोपार्थम् 09.2.19 अविलोपे व्यसने च ताभ्यामहिभयं स्यात् 09.2.20 ब्राह्मणक्षत्रियवैश्यशूद्रसैन्यानां तेजःप्राधान्यात् पूर्वं पूर्वं श्रेयः सम्नाहयितुम् इत्याचार्याः 09.2.21 न इति कौटिल्यः 09.2.22 प्रणिपातेन ब्राह्मणबलं परोऽभिहारयेत् 09.2.23 प्रहरणविद्याविनीतं तु क्षत्रियबलं श्रेयः, बहुलसारं वा वैश्यशूद्रबलमिति 09.2.24 तस्माद् एवम्बलः परः, तस्यैतत् प्रतिबलमिति बलसमुद्दानं कुर्यात् 09.2.25 हस्तियन्त्रशकटगर्भकुन्तप्रासहाटकवेणुशल्यवद् हस्तिबलस्य प्रतिबलम् 09.2.26 तद् एव पाषाणलगुडावरणाङ्कुशकचग्रहणीप्रायं रथबलस्य प्रतिबलम् 09.2.27 तद् एवाश्वानां प्रतिबलं, वर्मिणो वा हस्तिनोऽश्वा वा वर्मिणः 09.2.28 कवचिनो रथा आवरणिनः पत्तयश्च चतुर्ऽङ्गबलस्य प्रतिबलम् 09.2.29 एवं बलसमुद्दानं परसैन्यनिवारणम् । विभवेन स्वसैन्यानां कुर्याद् अङ्गविकल्पशः (इति) 09.2.30 Chapt . पश्चात्कोपचिन्ता - बाह्याभ्यन्तरप्रकृतिकोपप्रतीकारः अल्पः पश्चात्कोपो महान् पुरस्ताल्लाभ इति अल्पः पश्चात्कोपो गरीयान् 09.3.01 अल्पं पश्चात्कोपं प्रयातस्स्य दूष्यामित्राटविका हि सर्वतः समेधयन्ति, प्रकृतिकोपो वा 09.3.02 लब्धमपि च महान्तं पुरस्ताल्लाहमेवम्भूते भृत्यमित्रक्षयव्यया ग्रसन्ते 09.3.03 तस्मात् सहस्रैकीयः पुरस्ताल्लाभस्यायोगः शतैकीयो वा पश्चात्कोप इति न यायात् 09.3.04 सूचीमुखा ह्यनर्था इति लोकप्रवादः 09.3.05 पश्चात्कोपे सामदानभेददण्डान् प्रयुञ्जीत 09.3.06 पुरस्ताल्लाभे सेनापतिं कुमारं वा दण्डचारिणं कुर्वीत 09.3.07 बलवान् वा राजा पश्चात्कोपावग्रहसमर्थः पुरस्ताल्लाभमादातुं यायात् 09.3.08 अभ्यन्तरकोपशङ्कायां शङ्कितान् आदाय यायात्, बाह्यकोपशङ्कायां वा पुत्रदारमेषाम् 09.3.09 अभ्यन्तरावग्रहं कृत्वा शून्यपालमनेकबलवर्गमनेकमुख्यं च स्थापयित्वा यायात्, न वा यायात् 09.3.10 अभ्यन्तरकोपो बाह्यकोपात् पापीयान् इत्युक्तं पुरस्तात् 09.3.11 मन्त्रपुरोहितसेनापतियुवराजानामन्यतमकोपोऽभ्यन्तरकोपः 09.3.12 तमात्मदोषत्यागेन परशक्त्यपराधवशेन वा साधयेत् 09.3.13 महापराधेऽपि पुरोहिते सम्रोधनमवस्रावणं वा सिद्धिः, युवराजे सम्रोधनं निग्रहो वा गुणवत्यन्यस्मिन् सति पुत्रे 09.3.14 पुत्रं भ्रातरमन्यं वा कुल्यं राजग्राहिणमुत्साहेन साधयेत्, उत्साहाब्भावे गृहीतानुवर्तनसन्धिकर्मभ्यामरिसन्धानभयात् 09.3.15 अन्येभ्यः तद्विधेभ्यो वा भूमिदानैर्विश्वासयेद् एनम् 09.3.16 तद्विशिष्टं स्वयङ्ग्राहं दण्डं वा प्रेषयेत्, सामन्ताटविकान् वा, तैर्विगृहीतमतिसन्दध्यात् 09.3.17 अपरुद्धादानं पारग्रामिकं वा योगमातिष्ठेत् 09.3.18 एतेन मन्त्रसेनापती व्याख्यातौ 09.3.19 मन्त्र्य्।आदिवर्जानामन्तर्ऽमात्यानामन्यतमकोपोऽन्तर्ऽमात्यकोपः 09.3.20 तत्रापि यथार्हमुपायान् प्रयुञ्जीत 09.3.21 राष्ट्रमुख्यान्तपालाटविकदण्डोपनतानामन्यतमकोपो बाह्यकोपः 09.3.22 तमन्योन्येनावग्राहयेत् 09.3.23 अतिदुर्गप्रतिष्टब्धं वा सामन्ताटविकतत्कुलीनापरुद्धानामन्यतमेनावग्राहयेत् 09.3.24 मित्रेणोपग्राहयेद् वा यथा नामित्रं गच्छेत् 09.3.25 अमित्राद् वा सत्त्री भेदयेद् एनं - अयं त्वा योगपुरुषं मन्यमानो भर्तर्येव विक्रमयिष्यति, अवाप्तार्थो दण्डचारिणममित्राटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति, विपुत्रदारमन्ते वा वासयिष्यति 09.3.26 प्रतिहतविक्रमं त्वां भर्तर्य्पण्यं करिष्यति, त्वया वा सन्धिं कृत्वा भर्तारमेव प्रसादयिष्यति 09.3.27 मित्रमुपकृष्टं वास्य गच्छ इति 09.3.28 प्रतिपन्नमिष्टाभिप्रायैः पूजयेत् 09.3.29 अप्रतिपन्नस्य संश्रयं भेदयेद् असौ ते योगपुरुषः प्रणिहितः इति 09.3.30 सत्त्री चैनमभित्यक्तशासनैर्घातयेत्, गूढपुरुषैर्वा 09.3.31 सहप्रस्थायिनो वास्य प्रवीरपुरुषान् यथाभिप्रायकरणेनावाहयेत् 09.3.32 तेन प्रणिहितान् सत्त्री ब्रूयात् 09.3.33 इति सिद्धिः 09.3.34 परस्य चैनान् कोपान् उत्थापयेत्, आत्मनश्च शमयेत् 09.3.35 यः कोपं कर्तुं शमयितुं वा शक्तः तत्रोपजापः कार्यः 09.3.36 यः सत्यसन्धः शक्तः कर्मणि फलावाप्तौ चानुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः, तर्कयितव्यश्च कल्याणबुद्धिरुताहो शठ इति 09.3.37 शठो हि बाह्योऽभ्यन्तरमेवमुपजपति - भर्तारं चेद्द् हत्वा मां प्रतिपादयिष्यति शत्रुवधो भूमिलाभश्च मे द्विविधो लाभो भविष्यति, अथ वा शत्रुरेनमाहनिष्यतीति हतबन्धुपक्षः तुल्यदोषदण्डेनोद्विग्नश्च मे भूयान् अकृत्यपक्षो भविष्यति, तद्विधे वान्यस्मिन्न् अपि शङ्कितो भविष्यति, अन्यमन्यं चास्य मुख्यमभित्यक्तशासनेन घातयिष्यामि इति 09.3.38 अभ्यन्तरो वा शठो बाह्यमेवमुपजपति - कोशमस्य हरिष्यामि, दण्डं वास्य हनिष्यामि, दुष्टं वा भर्तारमनेन घातयिष्यामि, प्रतिपन्नं बाह्यममित्राटविकेषु विक्रमयिष्यामि चक्रमस्य सज्यतां, वैरमस्य प्रसज्यतां, ततः स्वाधीनो मे भविष्यति, ततो भर्तारमेव प्रसादयिष्यामि, स्वयं वा राज्यं ग्रहीष्यामिण् बद्ध्वा वा बाह्यभूमिं भर्तृभूमिं चोभयमवाप्स्यामि, विरुद्धं वाऽऽवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि, शून्यं वास्य मूलं हरिष्यामि इति 09.3.39 कल्याणबुद्धिः तु सहजीव्यर्थमुपजपति 09.3.40 कल्याणबुद्धिना सन्दधीत, शठं तथा इति प्रतिगृह्यातिसन्दध्यात् - इति 09.3.41 एवमुपलभ्य - परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे । रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यमात्मा विपश्चिता (इति) 09.3.42 Chapt . क्षयव्ययलाभविपरिमर्शः युग्यपुरुषापचयः क्षयः 09.4.01 हिरण्यधान्यापचयो व्ययः 09.4.02 ताभ्यां बहुगुणविशिष्टे लाभे यायात् 09.4.03 आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्वकालः तनुक्षयोऽल्पव्ययो महान् वृद्ध्य्।उदयः कल्यो धर्म्यः पुरोगश्च इति लाभसम्पत् 09.4.04 सुप्राप्यानुपाल्यः परेषामप्रत्यादेय इत्यादेयः 09.4.05 विपर्यये प्रत्यादेयः 09.4.06 तमाददानः तत्रस्थो वा विनाशं प्राप्नोति 09.4.07 यदि वा पश्येत् प्रत्यादेयमादाय कोशदण्डनिचयरक्षाविधानान्यवस्रावयिष्यामि, खनिद्रव्यहस्तिवनसेतुबन्धवणिक्पथान् उद्धृतसारान् करिष्यामि, प्रकृतीरस्य कर्शयिष्यामि, अपवाहयिष्यामि, आयोगेनाराधयिष्यामि वा, ताः परं प्रतियोगेन कोपयिष्यति, प्रतिपक्षे वास्य पण्यमेनं करिष्यामि, मित्रमपरुद्धं वास्य प्रतिपादयिष्यामि, मित्रस्य स्वस्य वा देशस्य पीडामत्रस्थः तस्करेभ्यः परेभ्यश्च प्रतिकरिष्यामि, मित्रमाश्रयं वास्य वैगुण्यं ग्राहयिष्यामि, तद् अमित्रविरक्तं तत्कुलीनं प्रतिपत्स्यते, सत्कृत्य वास्मै भूमिं दास्यामि इति संहितसमुत्थितं मित्रं मे चिराय भविष्यतीति प्रत्यादेयमपि लाभमाददीत 09.4.08 इत्यादेयप्रत्यादेयौ व्याख्यातौ 09.4.09 अधार्मिकाद् धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति 09.4.10 विपरीतः प्रकोपक इति 09.4.11 मन्त्रिणामुपदेशाल्लाभोऽलभ्यमानः कोपको भवति अयमस्माभिः क्षयव्ययौ ग्राहितः इति 09.4.12 दूष्यमन्त्रिणामनादराल्लाभो लभ्यमानः कोपको भवति सिद्धार्थोऽयमस्मान् विनाशयिष्यतीति 09.4.13 विपरीतः प्रसादकः 09.4.14 इति प्रसादककोपकौ व्याख्यातौ 09.4.15 गमनमात्रसाध्यत्वाद् ह्रस्वकालः 09.4.16 मन्त्रसाध्यत्वात् तनुक्षयः 09.4.17 भक्तमात्रव्ययत्वाद् अल्पव्ययः 09.4.18 तदात्ववैपुल्यान् महान् 09.4.19 अर्थानुबन्धकत्वाद् वृद्ध्य्।उदयः 09.4.20 निराबाधकत्वात् कल्यः 09.4.21 प्रशस्तोपादानाद् धर्म्यः 09.4.22 सामवायिकानामनिर्बन्धगामित्वात् पुरोगः - इति 09.4.23 तुल्ये लाभे देशकालौ शक्त्य्।उपायौ प्रियाप्रियौ जवाजवौ सामीप्यविप्रकर्षौ तदात्वानुबन्धौ सारत्वसातत्ये बाहुल्यबाहुगुण्ये च विमृश्य बहुगुणयुक्तं लाभमाददीत 09.4.24 लाभविघ्नाः - कामः कोपः साध्वसं कारुण्यं ह्रीरनार्यभावो मानः सानुक्रोशता परलोकापेक्षा धार्मिकत्वमत्यागित्वं दैन्यमसूया हस्तगतावमानो दौरात्म्यमविश्वासो भयमप्रतीकारः शीतोष्णवर्षाणामाक्षम्यं मङ्गलतिथिनक्षत्रेष्टित्वमिति 09.4.25 नक्षत्रमति पृच्छन्तं बालमर्थोऽतिवर्तते । अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः 09.4.26 नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्नशतैरपि । अर्थैरर्था प्रबध्यन्ते गजाः प्रजिगजैरिव (इति) 09.4.27 Chapt . बाह्याभ्यन्तराश्चापदः सन्ध्य्।आदीनामयथोद्देशावस्थापनमपनयः 09.5.01 तस्माद् आपदः सम्भवन्ति 09.5.02 बाह्योत्पत्तिरभ्यन्तरप्रतिजापा, अभ्यन्तरोत्पत्तिर्बाह्यप्रतिजापा, बाह्योत्पत्तिर्बाह्यप्रतिजापा, अभ्यन्तरोत्पत्तिरभ्यन्तरप्रतिजापा - इत्यापदः 09.5.03 यत्र बाह्या अभ्यन्तरानुपजपन्ति, अभ्यन्तरा वा बाह्यान्, तत्रोभययोगे प्रतिजपतः सिद्धिर्विशेषवती 09.5.04 सुव्याजा हि प्रतिजपितारो भवन्ति, नोपजपितारः 09.5.05 तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुमुपजपितारः 09.5.06 कृच्छ्रोपजापा हि बाह्यानामभ्यन्तराः तेषामितरे वा 09.5.07 महतश्च प्रयत्नस्य वधः परेषां, अर्थानुबन्धश्चात्मन इति 09.5.08 अभ्यन्तरेषु प्रतिजपत्सु सामदाने प्रयुञ्जीत 09.5.09 स्थानमानकर्म सान्त्वम् 09.5.10 अनुग्रहपरिहारौ कर्मस्वायोगो वा दानम् 09.5.11 बाह्येषु प्रतिजपत्सु भेददण्डौ प्रयुञ्जीत 09.5.12 सत्त्रिणो मित्रव्यञ्जना वा बाह्यानां चारमेषां ब्रूयुः अयं वो राजा दूष्यव्यञ्जनैरतिसन्धातुकामः, बुध्यध्वम् इति 09.5.13 दूष्येषु वा दूष्यव्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर्भेदयेयुः, बाह्यान् वा दूष्यैः 09.5.14 दूष्यान् अनुप्रविष्टा वा तीक्ष्णाः शस्त्ररसाभ्यां हन्युः 09.5.15 आहूय वा बाह्यान् घातयेयुः 09.5.16 यत्र बाह्या बाह्यान् उपजपन्ति, अभ्यन्तरान् अभ्यन्तरा वा, तत्रैकान्तयोगोपजपितुः सिद्धिर्विशेषवती 09.5.17 दोषशुद्धौ हि दूष्या न विद्यन्ते 09.5.18 दूष्यशुद्धौ हि दोषः पुनरन्यान् दूषयति 09.5.19 तस्माद् बाह्येषूपजपत्सु भेददण्डौ प्रयुञ्जीत 09.5.20 सत्त्रिणो मित्रव्यञ्जना वा ब्रूयुः अयं वो राजा स्वयमादातुकामः, विगृहीताः स्थानेन राज्ञा, बुध्यध्वम् इति 09.5.21 प्रतिजपितुर्वा दूतदण्डान् अनुप्रविष्टाः तीक्ष्णाः शस्त्ररसादिभिरेषां छिद्रेषु प्रहरेयुः 09.5.22 ततः सत्त्रिणः प्रतिजपितारमभिशंसेयुः 09.5.23 अभ्यन्तरान् अभ्यन्तरेषूपजपत्सु यथार्हमुपायं प्रयुञ्जीत 09.5.24 तुष्टलिङ्गमतुष्टं विपरीतं वा साम प्रयुञ्जीत 09.5.25 शौचसामर्थ्यापदेशेन व्यसनाभ्युदयावेक्षणेन वा प्रतिपूजनमिति दानम् 09.5.26 मित्रव्यञ्जनो वा ब्रूयाद् एतान् चित्तज्ञानार्थमुपधास्यति वो राजा, तद् अस्याख्यातव्यमिति 09.5.27 परस्पराद् वा भेदयेद् एनान् असौ चासौ च वो राजन्येवमुपजपति - इति भेदः 09.5.28 दाण्डकर्मिकवच्च दण्डः 09.5.29 एतासां चतसृणामापदामभ्यन्तरामेव पूर्वं साधयेत् 09.5.30 अहिभयाद् अभ्यन्तरकोपो बाह्यकोपात् पापीयान् इत्युक्तं पुरस्ताद् 09.5.31 पूर्वां पूर्वां विजानीयाल्लघ्वीमापदमापदाम् । उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये (इति) 09.5.32 Chapt . दूष्यशत्रुसंयुक्ताः दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा 09.6.01 दूष्यशुद्धायां पौरेषु जानपदेषु वा दण्डवर्जान् उपायान् प्रयुञ्जीत 09.6.02 दण्डो हि महाजने क्षेप्तुमशक्यः 09.6.03 क्षिप्तो वा तं चार्थं न कुर्यात्, अन्यं चानर्थमुत्पादयेत् 09.6.04 मुख्येषु त्वेषां दाण्डकर्मिकवच्चेष्टेत 09.6.05 शत्रुशुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः सामादिभिः सिद्धिं लिप्सेत 09.6.06 स्वामिन्यायत्ता प्रधानसिद्धिः, मन्त्रिष्वायत्ताऽऽयत्तसिद्धिः, उभयायत्ता प्रधानायत्तसिद्धिः 09.6.07 दूष्यादूष्याणामामिश्रितत्वाद् आमिश्रा 09.6.08 आमिश्रायामदूष्यतः सिद्धिः 09.6.09 आलम्बनाभावे ह्यालम्बिता न विद्यन्ते 09.6.10 मित्रामित्राणामेकीभावात् परमिश्रा 09.6.11 परमिश्रायां मित्रतः सिद्धिः 09.6.12 सुकरो हि मित्रेण सन्धिः, नामित्रेण इति 09.6.13 मित्रं चेन्न सन्धिमिच्छेद् अभीक्ष्णमुपजपेत् 09.6.14 ततः सत्त्रिभिरमित्राद् भेदयित्वा मित्रं लभेत 09.6.15 मित्रसङ्घस्य वा योऽन्तस्थायी तं लभेत 09.6.16 अन्तस्थायिनि लब्धे मध्यस्थायिनो भिद्यन्ते 09.6.17 मध्यस्थायिनं वा लभेत 09.6.18 मध्यस्थायिनि लब्धे नान्तस्थायिनः संहन्यन्ते 09.6.19 यथा चैषामाश्रयभेदः तान् उपायान् प्रयुञ्जीत 09.6.20 धार्मिकं जातिकुलश्रुतवृत्तस्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्योपकारान् अपकाराभ्यां वा सान्त्वयेत् 09.6.21 निवृत्तोत्साहं विग्रहश्रान्तं प्रतिहतोपायं क्षयव्ययाभ्यां प्रवासेन चोपतप्तं शौचेनान्यं लिप्समानमन्यस्माद् वा शङ्कमानं मैत्रीप्रधानं वा कल्याणबुद्धिं साम्ना साधयेत् 09.6.22 लुब्धं क्षीणं वा तपस्विमुख्यावस्थापनापूर्वं दानेन साधयेत् 09.6.23 तत् पञ्चविधं - देयविसर्गो गृहीतानुवर्तनमात्तप्रतिदानं स्वद्रव्यदानमपूर्वं परस्वेषु स्वयङ्ग्राहदानं च 09.6.24 इति दानकर्म 09.6.25 परस्परद्वेषवैरभूमिहरणशङ्कितमतोऽन्यतमेन भेदयेत् 09.6.26 भीरुं वा प्रतिघातेन कृतसन्धिरेष त्वयि कर्मकरिष्यति, मित्रमस्य निसृष्टं, सन्धौ वा नाभ्यन्तरः इति 09.6.27 यस्य वा स्वदेशाद् अन्यदेशाद् वा पण्यानि पण्यागारतयाऽऽगच्छेयुः तानि अस्य यातव्याल्लब्धानि इति सत्त्रिणश्चारयेयुः 09.6.28 बहुलीभूते शासनमभित्यक्तेन प्रेषयेत् एतत्ते पण्यं पण्यागारं वा मया ते प्रेषितं, सामवायिकेषु विक्रमस्व, अपगच्छ वा, ततः पणशेषमवाप्स्यसि इति 09.6.29 ततः सत्त्रिणः परेषु ग्राहयेयुः एतद् अरिप्रदत्तम् इति 09.6.30 शत्रुप्रख्यातं वा पण्यमविज्ञातं विजिगीषुं गच्छेत् 09.6.31 तद् अस्य वैदेहकव्यञ्जनाः शत्रुमुख्येषु विक्रीणीरन् 09.6.32 ततः सत्त्रिणः परेषु ग्राहयेयुः एतत् पण्यमरिप्रदत्तम् इति 09.6.33 महापराधान् अर्थमानाभ्यामुपगृह्य वा शस्त्ररसाग्निभिरमित्रे प्रणिदध्यात् 09.6.34 अथैकममात्यं निष्पातयेत् 09.6.35 तस्य पुत्रदारमुपगृह्य रात्रौ हतमिति ख्यापयेत् 09.6.36 अथामात्यः शत्रोः तान् एकैकशः प्ररूपयेत् 09.6.37 ते चेद् यथोक्तं कुर्युर्न चैनान् ग्राहयेत् 09.6.38 अशक्तिमतो वा ग्राहयेत् 09.6.39 आप्तभावोपगतो मुख्याद् अस्यात्मानं रक्षणीयं कथयेत् 09.6.40 अथामित्रशासनं मुख्योपघाताय प्रेषितमुभयवेतनो ग्राहयेत् 09.6.41 उत्साहशक्तिमतो वा प्रेषयेत् अमुष्य राज्यं गृहाण, यथास्थितो नः सन्धिः इति 09.6.42 ततः सत्त्रिणः परेषु ग्राहयेयुः 09.6.43 एकस्य स्कन्धावारं वीवधमासारं वा घातयेयुः 09.6.44 इतरेषु मैत्रीं ब्रुवाणाः त्वमेतेषां घातयितव्यः इत्युपजपेयुः 09.6.45 यस्य वा प्रवीरपुरुषो हस्ती हयो वा म्रियेत गूढपुरुषैर्हन्येत ह्रियेत वा सत्त्रिणः परस्परोपहतं ब्रूयुः 09.6.46 ततः शासनमभिशस्तस्य प्रेषयेत् भूयः कुरु ततः पणशीषमवाप्स्यसि इति 09.6.47 तद् उभयवेतना ग्राहयेयुः 09.6.48 भिन्नेष्वन्यतमं लभेत 09.6.49 तेन सेनापतिकुमारदण्डचारिणो व्याख्याताः 09.6.50 सान्धिकं च भेदं प्रयुञ्जीत 09.6.51 इति भेदकर्म 09.6.52 तीक्ष्णमुत्साहिनं व्यसनिनं स्थितशत्रुं वा गूढपुरुषाः शस्त्राग्निरसादिभिः साधयेयुः, सौकर्यतो वा तेषामन्यतमः 09.6.53 तीक्ष्णो ह्येकः शस्त्ररसाग्निभिः साधयेत् 09.6.54 अयं सर्वसन्दोहकर्म विशिष्टं वा करोति 09.6.55 इत्युपायचतुर्वर्गः 09.6.56 पूर्वः पूर्वश्चास्य लघिष्ठः 09.6.57 सान्त्वमेकगुणम् 09.6.58 दानं द्विगुणं सान्त्वपूर्वम् 09.6.59 भेदः त्रिगुणः सान्त्वदानपूर्वः 09.6.60 दण्डश्चतुर्गुणः सान्त्वदानभेदपूर्वः 09.6.61 इत्यभियुञ्जानेषूक्तम् 09.6.62 स्वभूमिष्ठेषु तु तैवोपायाः 09.6.63 विशेषः तु 09.6.64 स्वभूमिष्ठानामन्यतमस्य पण्यागारैरभिज्ञातान् दूतमुख्यान् अभीक्ष्णं प्रेषयेत् 09.6.65 तैनं सन्धौ परहिंसायां वा योजयेयुः 09.6.66 अप्रतिपद्यमानं कृतो नः सन्धिः इत्यावेदयेयुः 09.6.67 तमितरेषामुभयवेतनाः सङ्क्रामयेयुः अयं वो राजा दुष्टः इति 09.6.68 यस्य वा यस्माद् भयं वैरं द्वेषो वा तं तस्माद् भेदयेयुः अयं ते शत्रुणा सन्धत्ते, पुरा त्वामतिसन्धत्ते, क्षिप्रतरं सन्धीयस्व, निग्रहे चास्य प्रयतस्व इति 09.6.69 आवाहविवाहाभ्यां वा कृत्वा संयोगमसंयुक्तान् भेदयेत् 09.6.70 सामन्ताटविकतत्कुलीनापरुद्धैश्चैषां राज्यानि घातयेत्, सार्थव्रजाटवीर्वा, दण्डं वाभिसृतम् 09.6.71 परस्परापाश्रयाश्चैषां जातिसङ्घाश्छिद्रेषु प्रहरेयुः, गूढाश्चाग्निरसशस्त्रेण 09.6.72 वीतंसगिलवच्चारीन् योगैराचरितैः शठः । घातयेत् परमिश्रायां विश्वासेनामिषेण च (इति) 09.6.73 Chapt . अर्थानर्थसंशययुक्ताः - तासामुपायविकल्पजाः सिद्धयः कामादिरुत्सेकः स्वाः प्रकृतीः कोपयति, अपनयो बाह्याः 09.7.01 तद् उभयमासुरी वृत्तिः 09.7.02 स्वजनविकारः कोपः 09.7.03 परवृद्धिहेतुषु आपद्ऽर्थोऽनर्थः संशय इति 09.7.04 योऽर्थः शत्रुवृद्धिमप्राप्तः करोति, प्राप्तः प्रत्यादेयः परेषां भवति, प्राप्यमाणो वा क्षयव्ययोदयो भवति, स भवत्यापद्ऽर्थः 09.7.05 यथा सामन्तानामामिषभूतः सामन्तव्यसनजो लाभः, शत्रुप्रार्थितो वा स्वभावाधिगम्यो लाभः, पश्चात् कोपेन पार्ष्णिग्राहेण वा विगृहीतः पुरस्ताल्लाभः, मित्रोच्छेदेन सन्धिव्यतिक्रमेण वा मण्डलविरुद्धो लाभः इत्यापद्ऽर्थः 09.7.06 स्वतः परतो वा भयोत्पत्तिरित्यनर्थः 09.7.07 तयोः अर्थो न वा इति, अनर्थो न वा इति, अर्थोऽनर्थ इति, अनर्थोऽर्थ इति संशयः 09.7.08 शत्रुमित्रमुत्साहयितुमर्थो न वा इति संशयः 09.7.09 शत्रुबलमर्थमानाभ्यामावाहयितुमनर्थो न वा इति संशयः 09.7.10 बलवत्सामन्तां भूमिमादातुमर्थोऽनर्थ इति संशयः 09.7.11 जायसा सम्भूययानमनर्थोऽर्थ इति संशयः 09.7.12 तेषामर्थसंशयमुपगच्छेत् 09.7.13 अर्थोऽर्थानुबन्धः, अर्थो निरनुबन्धः, अर्थोऽनर्थानुबन्धः, अनर्थोऽर्थानुबन्धः, अनर्थो निरनुबन्धः, अनर्थोऽनर्थानुबन्धः इत्यनुबन्धषड्वर्गः 09.7.14 शत्रुमुत्पाट्य पार्ष्णिग्राहादानमर्थोऽनर्थानुबन्धः 09.7.15 उदासीनस्य दण्डानुग्रहः फलेनार्थो निरनुबन्धः 09.7.16 परस्यान्तर्।उच्छेदनमर्थोऽनर्थानुबन्धः 09.7.17 शत्रुप्रतिवेशस्यानुग्रहः कोशदण्डाभ्यामनर्थोऽनर्थानुबन्धः 09.7.18 हीनशक्तिमुत्साह्य निवृत्तिरनर्थो निरनुबन्धः 09.7.19 ज्यायांसमुत्थाप्य निवृत्तिरनर्थोऽनर्थानुबन्धः 09.7.20 तेषां पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् 09.7.21 इति कार्यावस्थापनम् 09.7.22 समन्ततो युगपद्ऽर्थोत्पत्तिः समन्ततोऽर्थापद् भवति 09.7.23 सैव पार्ष्णिग्राहविगृहीता समन्ततोऽर्थसंशयापद् भवति 09.7.24 तयोर्मित्राक्रन्दोपग्रहात् सिद्धिः 09.7.25 समन्ततः शत्रुभ्यो भयोत्पत्तिः समन्त्तोऽनर्थापद् भवति 09.7.26 सैव मित्रविगृहीता समन्ततोऽनर्थसंशयापद् भवति 09.7.27 तयोश्चलामित्राक्रन्दोपग्रहात् सिद्धिः, परमिश्राप्रतीकारो वा 09.7.28 इतो लाभ इतरतो लाभ इत्युभयतोऽर्थापद् भवति 09.7.29 तस्यां समन्ततोऽर्थायां च लाभगुणयुक्तमर्थमादातुं यायात् 09.7.30 तुल्ये लाभगुणे प्रधानमासन्नमनतिपातिनमूनो वा येन भवेत् तमादातुं यायात् 09.7.31 इतोऽनर्थ इतरतोऽनर्थ इत्युभयतोऽनर्थापत् 09.7.32 तस्यां समन्ततोऽनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत 09.7.33 मित्राभावे प्रकृतीनां लघीयस्यैकतोऽनर्थां साधयेत्, उभयतोऽनर्थां ज्यायस्या, समन्ततोऽनर्थां मूलेन प्रतिकुर्यात् 09.7.34 अशक्ये सर्वमुत्सृज्यापगच्छेत् 09.7.35 दृष्टा हि जीवतः पुनर्।आवृत्तिर्यथा सुयात्रोदयनाभ्याम् 09.7.36 इतो लाभ इतरतो राज्याभिमर्श इत्युभयतोऽर्थानर्थापद् भवति 09.7.37 तस्यामनर्थसाधको योऽर्थः तमादातुं यायात् 09.7.38 अन्यथा हि राज्याभिमर्शं वारयेत् 09.7.39 एतया समन्ततोऽर्थानर्थापद् व्याख्याता 09.7.40 इतोऽनर्थ इतरतोऽर्थसंशय इत्युभयतोऽनर्थार्थसंशया 09.7.41 तस्यां पूर्वमनर्थं साधयेत्, तत्सिद्धावर्थसंशयम् 09.7.42 एतया समन्ततोऽनर्थार्थसंशया व्याख्याता 09.7.43 इतोऽर्थ इतरतोऽनर्थसंशय इत्युभयतोऽर्थानर्थसंशयापद् 09.7.44 एतया समन्ततोऽर्थानर्थसंशया व्याख्याता 09.7.45 तस्यां पूर्वां पूर्वां प्रकृतीनामनर्थसंशयान् मोक्षयितुं यतेत 09.7.46 श्रेयो हि मित्रमनर्थसंशये तिष्ठन्न दण्डः, दण्डो वा न कोश इति 09.7.47 समग्रमोक्षणाभावे प्रकृतीनामवयवान् मोक्षयितुं यतेत 09.7.48 तत्र पुरुषप्रकृतीनां बहुलमनुरक्तं वा तीक्ष्णलुब्धवर्जं, द्रव्यप्रकृतीनां सारं महोपकारं वा 09.7.49 सन्धिनाऽऽसनेन द्वैधीभावेन वा लघूनि, विपर्ययैर्गुरूणि 09.7.50 क्षयस्थानवृद्धीनां चोत्तरोत्तरं लिप्सेत 09.7.51 प्रातिलोम्येन वा क्षयादीनामायत्यां विशेषं पश्येत् 09.7.52 इति देशावस्थापनम् 09.7.53 एतेन यात्राऽऽदिमध्यान्तेष्वर्थानर्थसंशयानामुपसम्प्राप्तिर्व्याख्याता 09.7.54 निरन्तरयोगित्वाच्चार्थानर्थसंशयानां यात्राऽऽदावर्थः श्रेयान् उपसम्प्राप्तुं पार्ष्णिग्राहासारप्रतिघाते क्षयव्ययप्रवासप्रत्यादेये मूलरक्षणेषु च भवति 09.7.55 तथानर्थः संशयो वा स्वभूमिष्ठस्य विषह्यो भवति 09.7.56 एतेन यात्रामध्येऽर्थानर्थसंशयानामुपसम्प्राप्तिर्व्याख्याता 09.7.57 यात्रान्ते तु कर्शनीयमुच्छेदनीयं वा कर्शयित्वोच्छिद्य वार्थः श्रेयान् उपसम्प्राप्तुं नानर्थः संशयो वा पराबाधभयात् 09.7.58 सामवायिकानामपुरोगस्य तु यात्रामध्यान्तगोऽनर्थः संशयो वा श्रेयान् उपसम्प्राप्तुमनिर्बन्धगामित्वात् 09.7.59 अर्थो धर्मः काम इत्यर्थत्रिवर्गः 09.7.60 तस्य पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् 09.7.61 अनर्थोऽधर्मः शोक इत्यनर्थत्रिवर्गः 09.7.62 तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम् 09.7.63 अर्थोऽनर्थ इति, धर्मोऽधर्म इति, कामः शोक इति संशयत्रिवर्गः 09.7.64 तस्योत्तरपक्षसिद्धौ पूर्वपक्षः श्रेयान् उपसम्प्राप्तुम् 09.7.65 इति कालावस्थापनम् 09.7.66 इत्यापदः - तासां सिद्धिः 09.7.67 पुत्रभ्रातृबन्धुषु सामदानाभ्यां सिद्धिरनुरूपा, पौरजानपददण्डमुख्येषु दानभेदाभ्यां, सामन्ताटविकेषु भेददण्डाभ्याम् 09.7.68 एषानुलोमा, विपर्यये प्रतिलोमा 09.7.69 मित्रामित्रेषु व्यामिश्रा सिद्धिः 09.7.70 परस्परसाधका ह्युपायाः 09.7.71 शत्रोः शङ्कितामात्येषु सान्त्वं प्रयुक्तं शेषप्रयोगं निवर्तयति, दूष्यामात्येषु दानं, सङ्घातेषु भेदः, शक्तिमत्सु दण्ड इति 09.7.72 गुरुलाघवयोगाच्चापदां नियोगविकल्पसमुच्चया भवन्ति 09.7.73 अनेनैवोपायेन नान्येन इति नियोगः 09.7.74 अनेन वान्येन वा इति विकल्पः 09.7.75 अनेनान्येन च इति समुच्चयः 09.7.76 तेषामेकयोगाश्चत्वारः त्रियोगाश्च, द्वियोगाः षट्, एकश्चतुर्योगः 09.7.77 इति पञ्चदशोपायाः 09.7.78 तावन्तः प्रतिलोमाः 09.7.79 तेषामेकेनोपायेन सिद्धिरेकसिद्धिः, द्वाभ्यां द्विसिद्धिः, त्रिभिः त्रिसिद्धिः, चतुर्भिश्चतुःसिद्धिरिति 09.7.80 धर्ममूलत्वात् कामफलत्वाच्चार्थस्य धर्मार्थकामानुबन्धा यार्थस्य सिद्धिः सा सर्वार्थसिद्धिः 09.7.81 दैवाद् अग्निरुदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षमासुरी सृष्टिरित्यापदः 09.7.82 तासां दैवतब्राह्मणर्पणिपाततः सिद्धिः 09.7.83 अतिवृष्टिरवृष्टिर्वा सृष्टिर्वा याऽऽसुरी भवेत् । तस्यामाथर्वणं कर्म सिद्धारम्भाश्च सिद्धयः (इति) 09.7.84 Book . Chapt . स्कन्धावारनिवेशः वास्तुकप्रशस्ते वास्तुनि नायकवर्धकि मौहूर्तिकाः स्कन्धावारं, वृत्तं दीर्घं चतुर्ऽश्रं वा भूमिवशेन वा, चतुर्द्वारं षट्पथं नवसंस्थानं मापयेयुः खातवप्रसालद्वाराट्टालकसम्पन्नं भये स्थाने च 10.1.01 मध्यमस्योत्तरे नवभागे राजवास्तुकं धनुःशतायाममर्धविस्तारं, पश्चिमार्धे तस्यान्तःपुरम् 10.1.02 अन्तर्वंशिकसैन्यं चान्ते निविशेत 10.1.03 पुरस्ताद् उपस्थानं, दक्षिणतः कोशशासनकार्यकरणानि, वामतो राजोपवाह्यानां हस्त्यश्वरथानां स्थानम् 10.1.04 अतो धनुःशतान्तराश्चत्वारः शकटमेथीप्रततिस्तम्भसालपरिक्षेपाः 10.1.05 प्रथमे पुरस्तान् मन्त्रिपुरोहितौ, दण्षिणतः कोष्ठागारं महानसं च, वामतः कुप्यायुधागारम् 10.1.06 द्वितीये मौलभृतानां स्थानमश्वरथानां सेनापतेश्च 10.1.07 तृतीये हस्तिनः श्रेण्यः प्रशास्ता च 10.1.08 चतुर्थे विष्टिर्नायको मित्रामित्राटवीबलं स्वपुरुषाधिष्ठितम् 10.1.09 वणिजो रूपाजीवाश्चानुमहापथम् 10.1.10 बाह्यतो लुब्धकश्वगणिनः सतूर्याग्नयः, गूढाश्चारक्षाः 10.1.11 शत्रूणामापाते कूपकूटावपातकण्टकिनीश्च स्थापयेत् 10.1.12 अष्टादशवर्गाणामारक्षविपर्यासं कारयेत् 10.1.13 दिवायामं च कारयेद् अपसर्पज्ञानार्थम् 10.1.14 विवादसौरिकसमाजद्यूतवारणं च कारयेत्, मुद्रारक्षणं च 10.1.15 सेनानिवृत्तमायुधीयमशासनं शून्यपालो बध्नीयात् 10.1.16 पुरस्ताद् अध्वनः सम्यक्प्रशास्ता रक्षणानि च । यायाद् वर्धकिविष्टिभ्यामुदकानि च कारयेत् (इति) 10.1.17 Chapt . स्कन्धावारप्रयाणं - बलव्यसनावस्कन्दकालरक्षणम् ग्रामारण्यानामध्वनि निवेशान् यवसेन्धनोदकवशेन परिसङ्ख्याय स्थानासनगमनकालं च यात्रां यायात् 10.2.01 तत्प्रतीकारद्विगुणं भक्तोपकरणं वाहयेत् 10.2.02 अशक्तो वा सैन्येष्वायोजयेत्, अन्तरेषु वा निचिनुयात् 10.2.03 पुरस्तान्नायकः, मध्ये कलत्रं स्वामी च, पार्श्वयोरश्वा बाहु।उत्सारः, चक्रान्तेषु हस्तिनः प्रसारवृद्धिर्वा, पश्चात् सेनापतिर्यायात् निविशेत 10.2.04 सर्वतो वनाजीवः प्रसारः 10.2.05 स्वदेशाद् अन्वायतिर्वीवधः 10.2.06 मित्रबलमासारः 10.2.07 कलत्रस्थानमपसारः 10.2.08 पुरस्ताद् अध्याघाते मकरेण यायात्, पश्चात्शकटेन, पार्श्वयोर्वज्रेण, समन्ततः सर्वतोभद्रेण, एकायने सूच्या 10.2.09 पथिद्वैधीभावे स्वभूमितो यायात् 10.2.10 अभूमिष्ठानां हि स्वभूमिष्ठा युद्धे प्रतिलोमा भवन्ति 10.2.11 योजनमधमा, अध्यर्धं मध्यमा, द्वियोजनमुत्तमा, सम्भाव्या वा गतिः 10.2.12 आश्रयकारी सम्पन्नघाती पार्ष्णिरासारो मध्यमोदासीनो वा प्रतिकर्तव्यः, सङ्कटो मार्गः शोधयितव्यः, कोशो दण्डो मित्रामित्राटवीबलं विष्टि।ऋतुर्वा प्रतीक्ष्याः, कृतदुर्गकर्मनिचयरक्षाक्षयः क्रीतबलनिर्वेदो मित्रबलनिर्वेदश्चागमिष्यति, उपजपितारो वा नातित्वरयन्ति, शत्रुरभिप्रायं वा पूरयिष्यति, इति शनैर्यायात्, विपर्यये शीघ्रम् 10.2.13 हस्तिस्तम्भसङ्क्रमसेतुबन्धनौकाष्ठवेणुसङ्घातैरलाबुचर्मकरण्डदृतिप्लवगण्डिकावेणिकाभिश्चोदकानि तारयेत् 10.2.14 तीर्थाभिग्रहे हस्त्यश्वैरन्यतो रात्रावुत्तार्य सत्त्रं गृह्णीयात् 10.2.15 अनुदके चक्रिचतुष्पदं चाध्वप्रमाणेन शक्त्योदकं वाहयेत् 10.2.16 दीर्घकान्तारमनुदकं यवसेन्धनोदकहीनं वा कृच्छ्राध्वानमभियोगप्रस्कन्नं क्षुत्पिपासाध्वक्लान्तं पङ्कतोयगम्भीराणां वा नदीदरीशैलानामुद्यानापयाने व्यासक्तमेकायनमार्गे शैलविषमे सङ्कटे वा बहुलीभूतं निवेशे प्रस्थिते विसम्नाहं भोजनव्यासक्तमायतगतपरिश्रान्तमवसुप्तं व्याधिमरकदुर्भिक्षपीडितं व्याधितपत्त्यश्वद्विपमभूमिष्ठं वा बलव्यसनेषु वा स्वसैन्यं रक्षेत्, परसैन्यं चाभिहन्यात् 10.2.17 एकायनमार्गप्रयातस्य सेनानिश्चारग्रासाहारशय्याप्रस्ताराग्निनिधानध्वजायुधसङ्ख्यानेन परबलज्ञानम् 10.2.18 तदाऽऽत्मानो गूहयेत् 10.2.19 पार्वतं वनदुर्गं वा सापसारप्रतिग्रहम् । स्वभुमौ पृष्ठतः कृत्वा युध्येत निविशेत च (इति) 10.2.20 Chapt . कूटयुद्धविकल्पाः - स्वसैन्योत्साहनं - स्वबलान्यबलव्यायोगः बलविशिष्टः कृतोपजापः प्रतिविहित।ऋतुः स्वभूम्यां प्रकाशयुद्धमुपेयात् 10.3.01 विपर्यये कूटयुद्धम् 10.3.02 बलव्यसनावस्कन्दकालेषु परमभिहन्यात्, अभूमिष्ठं वा स्वभूमिष्ठः, प्रकृतिप्रग्रहो वा स्वभूमिष्ठम् 10.3.03 दूष्यामित्राटवीबलैर्वा भङ्गं दत्त्वा विभूमिप्राप्तं हन्यात् 10.3.04 संहतानीकं हस्तिभिर्भेदयेत् 10.3.05 पूर्वं भङ्गप्रदानेनानुप्रलीनं भिन्नमभिन्नः प्रतिनिवृत्य हन्यात् 10.3.06 पुरस्ताद् अभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्यश्वेनाभिहन्यात् 10.3.07 पृष्ठतोऽभिहत्या प्रचलं विमुखं वा पुरस्तात् सारबलेनाभिहन्यात् 10.3.08 ताभ्यां पार्श्वाभिगातौ व्याख्यातौ 10.3.09 यतो वा दूष्यफल्गुबलं ततोऽभिहन्यात् 10.3.10 पुरस्ताद् विषमायां पृष्ठतोऽभिहन्यात् 10.3.11 पृष्ठतो विषमायां पुरस्ताद् अभिहन्यात् 10.3.12 पार्श्वतो विषमायामितरतोऽभिहन्यात् 10.3.13 दूष्यामित्राटवीबलैर्वा पूर्वं योधयित्वा श्रान्तमश्रान्तः परमभिहन्यात् 10.3.14 दूष्यबलेन वा स्वयं भङ्गं दत्त्वा जितम् इति विश्वस्तमविश्वस्तः सत्त्रापाश्रयोऽभिहन्यात् 10.3.15 सार्थव्रजस्कन्धावारसंवाहविलोपप्रमत्तमप्रमत्तोऽभिहन्यात् 10.3.16 फल्गुबलावच्छन्नसारबलो वा परवीरान् अनुप्रविश्य हन्यात् 10.3.17 गोग्रहणेन श्वापदवधेन वा परवीरान् आकृष्य सत्त्रच्छन्नोऽभिहन्यात् 10.3.18 रात्राववस्कन्देन जागरयित्वा निद्राक्लान्तान् अवसुप्तान् वा दिवा हन्यात् 10.3.19 सपादचर्मकोशैर्वा हस्तिभिः सौप्तिकं दद्यात् 10.3.20 अहःसम्नाहपरिश्रान्तान् अपराह्नेऽभिहन्यात् 10.3.21 शुष्कचर्मवृत्तशर्कराकोशकैर्गोमहिषोष्ट्रयूथैर्वा त्रस्नुभिरकृतहस्त्यश्वं भिन्नमभिन्नः प्रतिनिवृत्तं हन्यात् 10.3.22 प्रतिसूर्यवातं वा सर्वमभिहन्यात् 10.3.23 धान्वनवनसङ्कटपङ्कशैलनिम्नविषमनावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि 10.3.24 पूर्वे च प्रहरणकालाः कूटयुद्धहेतवः 10.3.25 सङ्ग्रामः तु निर्दिष्टदेशकालो धर्मिष्ठः 10.3.26 संहत्य दण्डं ब्रूयात् तुल्यवेतनोऽस्मि, भवद्भिः सह भोग्यमिदं राज्यं, मयाभिहितैः परोऽभिहन्तव्यः इति 10.3.27 वेदेष्वप्यनुश्रूयते समाप्तदक्षिणानां यज्ञानामवभृथेषु सा ते गतिर्या शूराणाम् इति 10.3.28 अपि इह श्लोकौ भवतः 10.3.29 यान् यज्ञसङ्घैः तपसा च विप्राः स्वर्गैषिणः पात्रचयैश्च यान्ति । क्षणेन तान् अप्यतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः 10.3.30 नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भकृतोत्तरीयम् । तत् तस्य मा भून्नरकं च गच्छेद् यो भर्तृपिण्डस्य कृते न युध्येत् - इति 10.3.31 मन्त्रिपुरोहिताभ्यामुत्साहयेद् योधान् व्यूहसम्पदा 10.3.32 कार्तान्तिकादिश्चास्य वर्गः सर्वज्ञदैवतसंयोगख्यापनाभ्यां स्वपक्षमुद्धर्षयेत्, परपक्षं चोद्वेजयेत् 10.3.33 श्वो युद्धम् इति कृतोपवासः शस्त्रवाहनं चानुशयीत 10.3.34 अथर्वभिश्च जुहुयात् 10.3.35 विजययुक्ताः स्वर्गीयाश्चाशिषो वाचयेत् 10.3.36 ब्राह्मणेभ्यश्चात्मानमतिसृजेत् 10.3.37 शौर्यशिल्पाभिजनानुरागयुक्तमर्थमानाभ्यामविसंवादितमनीकगर्भं कुर्वीत 10.3.38 पितृपुत्रभ्रातृकाणामायुधीयानामध्वजं मुण्डानीकं राजस्थानम् 10.3.39 हस्ती रथो वा राजवाहनमश्वानुबन्धः 10.3.40 यत् प्रायसैन्यो यत्र वा विनीतः स्यात् त्(अद्) अधिरोहयेत् 10.3.41 राजव्यञ्जनो व्यूहाधिष्ठानमायोज्यः 10.3.42 सूतमागधाः शूराणां स्वर्गमस्वर्गं भीरूणां जातिसङ्घकुलकर्मवृत्तस्तवं च योधानां वर्णयेयुः 10.3.43 पुरोहितपुरुषाः कृत्याभिचारं ब्रूयुः, यन्त्रिकवर्धकिमौहूर्तिकाः स्वकर्मसिद्धिमसिद्धिं परेषाम् 10.3.44 सेनापतिरर्थमानाभ्यामभिसंस्कृतमनीकमाभाषेत - शतसाहस्रो राजवधः, पञ्चाशत्साहस्रः सेनापतिकुमारवधः, दशसाहस्रः प्रवीरमुख्यवधः, पञ्चसाहस्रो हस्तिरथवधः, साहस्रोऽश्ववधः, शत्यः पत्तिमुख्यवधः, शिरो विंशतिकं भोगद्वैगुण्यं स्वयङ्ग्राहश्च इति 10.3.45 तद् एषां दशवर्गाधिपतयो विद्युः 10.3.46 चिकित्सकाः शस्त्रयन्त्रागदस्नेहवस्त्रहस्ताः स्त्रियश्चान्नपानरक्षिण्यः पुरुषाणामुद्धर्षणीयाः पृष्ठतः तिष्ठेयुः 10.3.47 अदक्षिणामुखं पृष्ठतःसूर्यमनुलोमवातमनीकं स्वभूमौ व्यूहेत 10.3.48 परभूमिव्यूहे चाश्वांश्चारयेयुः 10.3.49 यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्चोभयथा जीयेत 10.3.50 विपर्यये जयति, उभयथा स्थाने प्रजवे च समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात् पार्श्वाभ्यां पश्चाच्च ज्ञेया 10.3.52 समायां दण्डमण्डलव्यूहाः, विषमायां भोगासंहतव्यूहाः, व्यामिश्रायां विषमव्यूहाः 10.3.53 विशिष्टबलं भङ्क्त्वा सन्धिं याचेत 10.3.54 समबलेन याचितः सन्दधीत 10.3.55 हीनमनुहन्यात्, न त्वेव स्वभूमिप्राप्तं त्यक्तात्मानं वा 10.3.56 पुनर्।आवर्तमानस्य निराशस्य च जीविते । अधार्यो जायते वेगः तस्माद् भग्नं न पीडयेत् (इति) 10.3.57 Chapt . युद्धभूमयः - पत्त्यश्वरथहस्तिकर्माणि स्वभूमिः पत्त्यश्वरथद्विपानामिष्टा युद्धे निवेशे च 10.4.01 धान्वनवननिम्नस्थलयोधिनां खनकाकाशदिवारात्रियोधिनां च पुरुषाणां नादेयपार्वतानूपसारसानां च हस्तिनामश्वानां च यथास्वमिष्टा युद्धभूमयः कालाश्च 10.4.02 समा स्थिराभिकाशा निरुत्खातिन्यचक्रखुरानक्षग्राहिण्यवृक्षगुल्मव्रततीस्तम्भकेदारश्वभ्रवल्मीकसिकतापङ्कभङ्गुरा दरणहीना च रथभूमिः, हस्त्यश्वयोर्मनुष्याणां च समे विषमे हिता युद्धे निवेशे च 10.4.03 अण्व्ऽश्मवृक्षा ह्रस्वलङ्घनीयश्वभ्रा मन्ददरणदोषा चाश्वभूमिः 10.4.04 स्थूलस्थाण्वश्मवृक्षव्रततीवल्मीकगुल्मा पदातिभूमिः 10.4.05 गम्यशैलनिम्नविषमा मर्दनीयवृक्षा छेदनीयव्रतती पङ्कभङ्गुरा दरणहीना च हस्तिभूमिः 10.4.06 अकण्टकिन्यबहुविषमा प्रत्यासारवती इति पदातीनामतिशयः 10.4.07 द्विगुणप्रत्यासारा कर्दमोदकखञ्जनहीना निह्शर्करा इति वाजिनामतिशयः 10.4.08 पांसुकर्दमोदकनलशराधानवती श्वदण्ष्ट्रहीना महावृक्षशाखाघातवियुक्ता इति हस्तिनामतिशयः 10.4.09 तोयाशयापाश्रयवती निरुत्खातिनी केदारहीना व्यावर्तनसमर्था इति रथानामतिशयः 10.4.10 उक्ता सर्वेषां भूमिः 10.4.11 एतया सर्वबलनिवेशा युद्धानि च व्याख्यातानि भवन्ति 10.4.12 भूमिवासवनविचयोऽविषमतोयतीर्थवातरश्मिग्रहणं वीवधासारयोर्घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसारवृद्धिर्बाहु।उत्सारः पूर्वप्रहारो व्यावेशनं व्यावेधनमाश्वासो ग्रहणं मोक्षणं मार्गानुसारविनिमयः कोशकुमाराभिहरणं जघनकोट्यभिघातो हीनानुसारणमनुयानं समाजकर्म इत्यश्वकर्माणि 10.4.13 पुरोयानमकृतमार्गवासतीर्थकर्म बाहु।उत्सारः तोयतरणावतरणे स्थानगमनावतरणं विषमसम्बाधप्रवेशोऽग्निदानशमनमेकाङ्गविजयो भिन्नसन्धानमभिन्नभेदनं व्यसने त्राणमभिघातो विभीषिका त्रासनंऽउदार्यं ग्रहणं मोक्षणं सालद्वाराट्टालकभञ्जनं कोशवाहनापवाहनमिति हस्तिकर्माणि 10.4.14 स्वबलरक्षा चतुर्ऽङ्गबलप्रतिषेधः सङ्ग्रामे ग्रहणं मोक्षणं भिन्नसन्धानमभिन्नभेदनं त्रासनमौदार्यं भीमघोषश्च इति रथकर्माणि 10.4.15 सर्वदेशकालशस्त्रवहनं व्यायामश्च इति पदातिकर्माणि 10.4.16 शिबिरमार्गसेतुकूपतीर्थशोधनकर्म यन्त्रायुधावरणोपकरणग्रासवहनमायोधनाच्च प्रहरणावरणप्रतिविद्धापनयनमिति विष्टिकर्माणि 10.4.17 कुर्याद्गवाश्वव्यायोगं रथेष्वल्पहयो नृपः । खरोष्ट्रशकटानां वा गर्भमल्पगजः तथा (इति) 10.4.18 Chapt . पक्षकक्षोरस्यानां बलाग्रतो व्यूहविभागः - सारफल्गुबलविभागः - पत्त्यश्वरथहस्तियुद्धानि पञ्चधनुःशतापकृष्टं दुर्गमवस्थाप्य युद्धमुपेयात्, भूमिवशेन वा 10.5.01 विभक्तमुख्यामचक्षुर्विषये मोक्षयित्वा सेनां सेनापतिनायकौ व्यूहेयाताम् 10.5.02 शमान्तरं पत्तिं स्थापयेत्, त्रिशमान्तरमश्वं, पञ्चशमान्तरं रथं हस्तिनं वा 10.5.03 द्विगुणान्तरं त्रिगुणान्तरं वा व्यूहेत 10.5.04 एवं यथासुखमसम्बाधं युध्येत 10.5.05 पञ्चारत्नि धनुः 10.5.06 तस्मिन् धन्विनं स्थापयेत्, त्रिधनुष्यश्वं, पञ्चधनुषि रथं हस्तिनं वा 10.5.07 पञ्चधनुरनीकसन्धिः पक्षकक्षोरस्यानाम् 10.5.08 अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः 10.5.09 पञ्चदश रथस्य हस्तिनो वा, पञ्च चाश्वाः 10.5.10 तावन्तः पादगोपा वाजिरथद्विपानां विधेयाः 10.5.11 त्रीणि त्रिकाण्यनीकं रथानामुरस्यं स्थापयेत्, तावत् कक्षं पक्षं चोभयतः 10.5.12 पञ्चचत्वारिंशद् एवं रथा रथव्यूहे भवन्ति, द्वे शते पञ्चविंशतिश्चाश्वाः, षट्शतानि पञ्चसप्ततिश्च पुरुषाः प्रतियोधारः, तावन्तः पादगोपाः 10.5.13 एष समव्यूहः 10.5.14 तस्य द्विरथोत्तरा वृद्धिरैकविंशतिरथादिति 10.5.15 एवमोजा दश समव्यूहप्रकृतयो भवन्ति 10.5.16 पक्षकक्षोरस्यानां मिथो विषमसङ्ख्याने विषमव्यूहः 10.5.17 तस्यापि द्विरथोत्तरा वृद्धिरैकविंशतिरथादिति 10.5.18 एवमोजा दश विषमव्यूहप्रकृतयो भवन्ति 10.5.19 अतः सैन्यानां व्यूहशेषमावापः कार्यः 10.5.20 रथानां द्वौ त्रिभागावङ्गेष्वावापयेत्, शेषमुरस्यं स्थापयेत् 10.5.21 एवं त्रिभागोनो रथानामावापः कार्यः 10.5.22 तेन हस्तिनामश्वानामावापो व्याख्यातः 10.5.23 यावद्ऽश्वरथद्विपानां युद्धसम्बाधन्ं न कुर्यात् तावद् आवापः कार्यः 10.5.24 दण्डबाहुल्यमावापः 10.5.25 पत्तिबाहुल्यं प्रत्यापावः 10.5.26 एकाङ्गबाहुल्यमन्वावापः 10.5.27 दूष्यबाहुल्यमत्यावापः 10.5.28 परावापात् प्रत्यावापाच्च चतुर्गुणाद् आष्टगुणादिति वा विभवतः सैन्यानामावापः 10.5.29 रथव्यूहेन हस्तिव्यूहो व्याख्यातः 10.5.30 व्यामिश्रो वा हस्तिरथाश्वानां - चक्रान्तेषु हस्तिनः पार्श्वयोरश्वा रथोरस्ये 10.5.31 हस्तिनामुरस्यं रथानां कक्षावश्वानां पक्षाविति मध्यभेदी 10.5.32 विपरीतोऽन्तभेदी 10.5.33 हस्तिनामेव तु शुद्धः - साम्नाह्यानामुरस्यमौपवाह्यानां जघनं व्यालानां कोट्याविति 10.5.34 अश्वव्यूहो - वर्मिणामुरस्यं शुद्धानां कक्षपक्षाविति 10.5.35 पत्तिव्यूहः - पुरस्ताद् आवरणिनः पृष्ठतो धन्विनः 10.5.36 इति शुद्धाः 10.5.37 पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात्, परव्यूहवशेन वा विपर्यासः 10.5.38 इति द्व्यङ्गबलविभागः 10.5.39 तेन त्र्ऽङ्गबलविभागो व्याख्यातः 10.5.40 दण्डसम्पत् सारबलं पुंसां 10.5.41 हस्त्यश्वयोर्विशेषः कुलं जातिः सत्त्वं वयःस्थता प्राणो वर्ष्म जवः तेजः शिल्पं स्तैर्यमुदग्रता विधेयत्वं सुव्यञ्जनाचारता इति 10.5.42 पत्त्यश्वरथद्विपानां सारत्रिभागमुरस्यं स्थापयेत्, द्वौ त्रिभागौ कक्षं पक्षं चोभयतः, अनुलोममनुसारं, प्रतिलोमं तृतीयसारं, फल्गु प्रतिलोमम् 10.5.43 एवं सर्वमुपयोगं गमयेत् 10.5.44 फल्गुबलमन्तेष्ववधाय वेगाभिहूलिको भवति 10.5.45 सारबलमग्रतः कृत्वा कोटीष्वनुसारं कुर्यात्, जघने तृतियियसारं, मध्ये फल्गुबलम् 10.5.46 एवमेतत् सहिष्णु भवति 10.5.47 व्यूहं तु स्थापयित्वा पक्षकक्षोरस्यानामेकेन द्वाभ्यां वा प्रहरेत्, शेषैः प्रतिगृह्णीयात् 10.5.48 यत् परस्य दुर्बलं वीतहस्त्यश्वं दूष्यामात्यं कृतोपजापं वा तत्प्रभूतसारेणाभिहन्यात् 10.5.49 यद् वा परस्य सारिष्ठं तद्द्विगुणसारेणाभिहन्यात् 10.5.50 यद् अङ्गमल्पसारमात्मनः तद् बहुनोपचिनुयात् 10.5.51 यतः परस्यापचयः ततोऽभ्याशे व्यूहेत, यतोत् वा भयं स्यात् 10.5.52 अभिसृतं परिसृतमतिसृतमपसृतमुन्मथ्यावधानं वलयो गोमूत्रिका मण्डलं प्रकीर्णिका व्यावृत्तपृष्ठमनुवंशमग्रतः पार्श्वाभ्यां पृष्ठतो भग्नरक्षा भग्नानुपात इत्यश्वयुद्धानि 10.5.53 प्रकीर्णिकावर्जान्येतान्येव चतुर्णामङ्गानां व्यस्तसमस्तानां वा घातः, पक्षकक्षोरस्यानां च प्रभञ्जनमवस्कन्दः सौप्तिकं च इति हसित्युद्धानि 10.5.54 उन्मथ्यावधानवर्जान्येतान्येव स्वभूमावभियानापयानस्थितयुद्धानि इति रथयुद्धानि 10.5.55 सर्वदेशकालप्रहरणमुपांशुदण्डश्च इति पत्तियुद्धानि 10.5.56 एतेन विधिना व्यूहान् ओजान् युग्मांश्च कारयेत् । विभवो यावद् अङ्गानां चतुर्णां सदृशो भवेत् 10.5.57 द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहे । भिन्नसङ्घातनं तस्मान्न युध्येताप्रतिग्रहः (इति) 10.5.58 Chapt . दण्डभोगमण्डलासंहतव्यूहव्यूहनं - तस्य प्रतिव्यूहस्थानम् पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः 10.6.01 पक्षौ कक्षावुरस्य्ं प्रतिग्रह इति बार्हस्प्त्यः 10.6.02 प्रपक्षकक्षोरस्योभयोः दण्डभोगमण्डलासंहताः प्रकृतिव्यूहाः 10.6.03 तत्र तिर्यग्वृत्तिर्दण्डः 10.6.04 समस्तानामन्वावृत्तिर्भोगः 10.6.05 सरतां सर्वतोवृत्तिर्मण्डलः 10.6.06 स्थितानां पृथग्ऽनीकवृत्तिरसंहतः 10.6.07 पक्षकक्षोरस्यैः समं वर्तमानो दण्डः 10.6.08 स कक्षातिक्रान्तः प्रदरः 10.6.09 सैव पक्षकक्षाभ्यां प्रतिक्रान्तो दृढकः 10.6.10 सैवातिक्रान्तः पक्षाभ्यामसह्यः 10.6.11 पक्षाववस्थाप्योरस्यातिक्रान्तः श्येनः 10.6.12 विपर्यये चापं चापकुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च 10.6.13 चापपक्षः सञ्जयः 10.6.14 सैवोरस्यातिक्रान्तो विजयः 10.6.15 स्थूलकर्णपक्षः स्थूणाकर्णः 10.6.16 द्विगुणपक्षस्थूणो विशालविजयः 10.6.17 त्र्यभिक्रान्तपक्षश्चमूमुखः 10.6.18 विपर्यये झषास्यः 10.6.19 ऊर्ध्वराजिर्दण्डः सूची 10.6.20 द्वौ दण्डौ वलयः 10.6.21 चत्वारो दुर्जयः 10.6.22 इति दण्डव्यूहाः 10.6.23 पक्षकक्षोरस्यैर्विषमं वर्तमानो भोगः 10.6.24 स सर्पसारी गोमूत्रिका वा 10.6.25 स युग्मोरस्यो दण्डपक्षः शकटः 10.6.26 विपर्यये मकरः 10.6.27 हस्त्यश्वरथैर्व्यतिकीर्णः शकटः पारिपतन्तकः 10.6.28 इति भोगव्यूहाः 10.6.29 पक्षकक्षोरस्यानामेकीभावे मण्डलः 10.6.30 स सर्वतोमुखः सर्वतोभद्रः 10.6.31 अष्टानीको दुर्जयः 10.6.32 इति मण्डलव्यूहाः 10.6.33 पक्षकक्षोरस्यानामसंहताद् असंहतः 10.6.34 स पञ्चानीकानामाकृतिस्थापनाद् वज्रो गोधा वा 10.6.35 चतुर्णामुद्धानकः काकपदी वा 10.6.36 त्रयाणामर्धचन्द्रकः कर्कटकश‍ृङ्गी वा 10.6.37 इत्यसंहतव्यूहाः 10.6.38 रथोरस्यो हस्तिकक्षोऽश्वपृष्ठोऽरिष्टः 10.6.39 पत्तयोऽश्वा रथा हस्तिनश्चानुपृष्ठमचलः 10.6.40 हस्तिनोऽश्वा रथाः पत्तयश्चानुपृष्ठमप्रतिहतः 10.6.41 तेषां प्रदरं दृढकेन घातयेत्, दृढकमसह्येन, श्येनं चापेन, प्रतिष्ठं सुप्रतिष्ठेन, सञ्जयं विजयेन, स्थूणाकर्णं विशालविजयेन, पारिपतन्तकं सर्वतोभद्रेण 10.6.42 दुर्जयेन सर्वान् प्रतिव्यूहेत 10.6.43 पत्त्यश्वरथद्विपानां पूर्वं पूर्वमुत्तरेण घातयेत्, हीनाङ्गमधिकाङ्गेन च इति 10.6.44 अङ्गदशकस्यैकः पतिः पतिकः, पतिकदशकस्यैकः सेनापतिः, तद्दशकस्यैको नायक इति 10.6.45 स तूर्यघोषध्वजपताकाभिर्व्यूहाङ्गानां संज्ञाः स्थापयेद् अङ्गविभागे सङ्घाते स्थाने गमने व्यावर्तने प्रहरणे च 10.6.46 समे व्यूहे देशकालसारयोगात् सिद्धिः 10.6.47 यन्त्रैरुपनिषद्योगैः तीक्ष्णैर्व्यासक्तघातिभिः । मायाभिर्देवसंयोगैः शकटैर्हस्तिभीषणैः 10.6.48 दूष्यप्रकोपैर्गोयूथैः स्कन्धावारप्रदीपनैः । कोटीजघनघातैर्वा दूतव्यञ्जनभेदनैः 10.6.49 दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः । शत्रुराटविको वा इति परस्योद्वेगमाचरेत् 10.6.50 एकं हन्यान्न वा हन्याद् इषुः क्षिप्तो धनुष्मता । प्रज्ञानेन तु मतिः क्षिप्ता हन्याद्गर्भगतान् अपि (इति) 10.6.51 Book . Chapt . भेदोपादानानि - उपांशुदण्डाः सङ्घलाभो दण्डमित्रलाभानामुत्तमः 11.1.01 सङ्घा हि संहतत्वाद् अधृष्याः परेषाम् 11.1.02 तान् अनुगुणान् भुञ्जीत सामदानाभ्यां, विगुणान् भेददण्डाभ्याम् 11.1.03 काम्बोजसुराष्ट्रक्षत्रियश्रेण्य्।आदयो वार्त्तशस्त्रोपजीविनः 11.1.04 लिच्छिविकवृजिकमल्लकमद्रककुकुरकुरुपाञ्चालादयो राजशब्दोपजीविनः 11.1.05 सर्वेषामासन्नाः सत्त्रिणः सङ्घानां परस्परन्यङ्गद्वेषवैरकलहस्थानान्युपलभ्य क्रमाभिनीतं भेदमुपचारयेयुः असौ त्वा विजल्पतीति 11.1.06 एवमुभयतोबद्धरोषाणां विद्याशिल्पद्यूतवैहारिकेष्वाचार्यव्यञ्जना बालकलहान् उत्पादयेयुः 11.1.07 वेशशौण्डिकेषु वा प्रतिलोमप्रशंसाभिः सङ्घमुख्यमनुष्याणां तीक्ष्णाः कलहान् उत्पादयेयुः, कृत्यपक्षोपग्रहेण वा 11.1.08 कुमारकान् विशिष्टच्छिन्दिकया हीनच्छिन्दिकान् उत्साहयेयुः 11.1.09 विशिष्टानां चैकपात्रं विवाहं वा हीनेभ्यो वारयेयुः 11.1.10 हीनान् वा विशिष्टैरेकपात्रे विवाहे वा योजयेयुः 11.1.11 अवहीनान् वा तुल्यभावोपगमने कुलतः पौरुषतः स्थानविपर्यासतो वा 11.1.12 व्यवहारमवस्थितं वा प्रतिलोमस्थापनेन निशामयेयुः 11.1.13 विवादपदेषु वा द्रव्यपशुमनुष्याभिघातेन रात्रौ तीक्ष्णाः कलहान् उत्पादयेयुः 11.1.14 सर्वेषु च कलहस्थानेषु हीनपक्षं राजा कोशदण्डाभ्यामुपगृह्य प्रतिपक्षवधे योजयेत् 11.1.15 भिन्नान् अपवाहयेद् वा 11.1.16 भूमौ चैषां पञ्चकुलीं दशकुलीं वा कृष्यायां निवेशयेत् 11.1.17 एकस्था हि शस्त्रग्रहणसमर्थाः स्युः 11.1.18 समवाये चैषामत्ययं स्थापयेत् 11.1.19 राजशब्दिभिरवरुद्धमवक्षिप्तं वा कुल्यमभिजातं राजपुत्रत्वे स्थापयेत् 11.1.20 कार्तान्तिकादिश्चास्य वर्गो राजलक्षण्यतां सङ्घेषु प्रकाशयेत् 11.1.21 सङ्घमुख्यांश्च धर्मिष्ठान् उपजपेत् स्वधर्मममुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम् इति 11.1.22 प्रतिपन्नेषु कृत्यपक्षोपग्रहार्थमर्थं दण्डं च प्रेषयेत् 11.1.23 विक्रमकाले शौण्डिकव्यञ्जनाः पुत्रदारप्रेतापदेशेन नैषेचनिकम् इति मदनरसयुक्तान् मद्यकुम्भान्शतशः प्रयच्छेयुः 11.1.24 चैत्यदैवतद्वाररक्षास्थानेषु च सत्त्रिणः समयकर्मनिक्षेपं सहिरण्याभिज्ञानमुद्राणि हिरण्यभाजनानि च प्ररूपयेयुः 11.1.25 दृश्यमानेषु च सङ्घेषु राजकीयाः इत्यावेदयेयुः 11.1.26 अथावस्कन्दं दद्यात् 11.1.27 सङ्घानां वा वाहनहिरण्ये कालिके गृहीत्वा सङ्घमुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् 11.1.28 तद् एषां याचिते दत्तममुष्मै मुख्याय इति ब्रूयात् 11.1.29 एतेन स्कन्धावाराटवीभेदो व्याख्यातः 11.1.30 सङ्घमुख्यपुत्रमात्मसम्भावितं वा सत्त्री ग्राहयेत् अमुष्य राज्ञः पुत्रः त्वं, शत्रुभयाद् इह न्यस्तोऽसि इति 11.1.31 प्रतिपन्नं राजा कोशदण्डाभ्यामुपगृह्य सङ्घेषु विक्रमयेत् 11.1.32 अवाप्तार्थः तमपि प्रवासयेत् 11.1.33 बन्धकीपोषकाः प्लवकनटनर्तकसौभिका वा प्रणिहिताः स्त्रीभिः परमरूपयौवनाभिः सङ्घमुख्यान् उन्मादयेयुः 11.1.34 जातकामानामन्यतमस्य प्रत्ययं कृत्वान्यत्र गमनेन प्रसभहरणेन वा कलहान् उत्पादयेयुः 11.1.35 कलहे तीक्ष्णाः कर्म कुर्युः हतोऽयमित्थं कामुकः इति 11.1.36 विसंवादितं वा मर्षयमाणमभिसृत्य स्त्री ब्रूयात् असौ मां मुख्यः त्वयि जातकामां बाधते, तस्मिञ्जीवति नेह स्थास्यामि इति घातमस्य प्रयोजयेत् 11.1.37 प्रसह्यापहृता वा वनान्ते क्रिडागृहे वापहर्तारं रात्रौ तीक्ष्णेन घातयेत्, स्वयं वा रसेन 11.1.38 ततः प्रकाशयेत् अमुना मे प्रियो हतः इति 11.1.39 जातकामं वा सिद्धव्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसन्धायापगच्छेत् 11.1.40 तस्मिन्न् अपक्रान्ते सत्त्रिणः परप्रयोगमभिशंसेयुः 11.1.41 आढ्यविधवा गूढाजीवा योगस्त्रियो वा दायनिक्षेपार्थं विवदमानाः सङ्घमुख्यान् उन्मादयेयुः, अदितिकौशिकस्त्रियो नर्तकीगायना वा 11.1.42 प्रतिपन्नान् गूढवेश्मसु रात्रिसमागमप्रविष्टांः तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा 11.1.43 सत्त्री वा स्त्रीलोलुपं सङ्घमुख्यं प्ररूपयेत् अमुष्मिन् ग्रामे दरिद्रकुल्लमपसृतं, तस्य स्त्री राजार्हा, गृहाणैनाम् इति 11.1.44 गृहीतायामर्धमासानन्तरं सिद्धव्यञ्जनो दूष्यसङ्घमुख्यमध्ये प्रक्रोशेत् असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाधिचरतीति 11.1.45 तं चेत् सङ्घो निगृह्णीयात्, राजैनमुपगृह्य विगुणेषु विक्रमयेत् 11.1.46 अनिगृहीते सिद्धव्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः 11.1.47 ततः तद्व्यञ्जनाः प्रक्रोशेयुः असौ ब्रह्महा ब्राह्मणीजारश्च इति 11.1.48 कार्तान्तिकव्यञ्जनो वा कन्यामन्येन वृतामन्यस्य प्ररूपयेत् अमुष्य कन्या राजपत्नी राजप्रसविनी च भविष्यति, सर्वस्वेन प्रसह्य वैनां लभस्व इति 11.1.49 अलभ्यमानायां परपक्षमुद्धर्षयेत् 11.1.50 लब्धायां सिद्धः कलहः 11.1.51 भिक्षुकी वा प्रियभार्यं मुख्यं ब्रूयात् असौ ते मुख्यो यौवनोत्सिक्तो भार्यायां मां प्राहिणोत्, तस्याहं भयाल्लेख्यमाभरणं गृहीत्वाऽऽगतास्मि, निर्दोषा ते भार्या, गूढमस्मिन् प्रतिकर्तव्यं, अहमपि तावत् प्रतिपत्स्यामि इति 11.1.52 एवं।आदिषु कलहस्थानेषु स्वयमुत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीनपक्षं राजा कोशदण्डाभ्यामुपगृह्य विगुणेषु विक्रमयेद् अपवाहयेद् वा 11.1.53 सङ्घेष्वेवमेकराजो वर्तेत 11.1.54 सङ्घाश्चाप्येवमेकराजाद् एतेभ्योऽतिसङ्घान् एभ्यो रक्षयेयुः 11.1.55 सङ्घमुख्यश्च सङ्घेषु न्यायवृत्तिर्हितः प्रियः । दान्तो युक्तजनः तिष्ठेत् सर्वचित्तानुवर्तकः (इति) 11.1.56 Book . Chapt . दूतकर्म बलीयसाभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतसधर्मा तिष्ठेत् 12.1.01 इन्द्रस्य हि स प्रणमति यो बलीयसो नमतीति भारद्वाजः 12.1.02 सर्वसन्दोहेन बलानां युध्येत 12.1.03 पराक्रमो हि व्यसनमपहन्ति 12.1.04 स्वधर्मश्चैष क्षत्रियस्य, युद्धे जयः पराजयो वा इति विशालाक्षः 12.1.05 न इति कौटिल्यः 12.1.06 सर्वत्रानुप्रणतः कुलैडकेव निराशो जीविते वसति 12.1.07 युध्यमानश्चाल्पसैन्यः समुद्रमिवाप्लवोऽवगाहमानः सीदति 12.1.08 तद्विशिष्टं तु राजानमाश्रितो दुर्गमविषह्यं वा चेष्टेत 12.1.09 त्रयोऽभियोक्तारो धर्मलोभासुरविजयिन इति 12.1.10 तेषामभ्यवपत्त्या धर्मविजयी तुष्यति 12.1.11 तमभ्यवपद्येत, परेषामपि भयात् 12.1.12 भूमिद्रव्यहरणेन लोभविजयी तुष्यति 12.1.13 तमर्थेनाभ्यवपद्येत 12.1.14 भूमिद्रव्यपुत्रदारप्राणहरणेनासुरविजयी 12.1.15 तं भूमिद्रव्याभ्यामुपगृह्याग्राह्यः प्रतिकुर्वीत 12.1.16 तेषामन्यतममुत्तिष्ठमानं सन्धिना मन्त्रयुद्धेन कूटयुद्धेन वा प्रतिव्यूहेत 12.1.17 शत्रुपक्षमस्य सामदानाभ्यां, स्वपक्षं भेददण्डाभ्याम् 12.1.18 दुर्गं राष्ट्रं स्कन्धावारं वास्य गूढाः शस्त्ररसाग्निभिः साधयेयुः 12.1.19 सर्वतः पार्ष्णिमस्य ग्राहयेत् 12.1.20 अटवीभिर्वा राज्यं घातयेत्, तत्कुलीनापरुद्धाभ्यां वा हारयेत् 12.1.21 अपकारान्तेषु चास्य दूटं प्रेषयेत् 12.1.22 अनपकृत्य वा सन्धानम् 12.1.23 तथाप्यभिप्रयान्तं कोशदण्डयोः पादोत्तरमहोरात्रोत्तरं वा सन्धिं याचेत 12.1.24 स चेद् दण्डसन्धिं याचेत, कुण्ठमस्मै हस्त्यश्वं दद्याद्, उत्साहितं वा गरयुक्तम् 12.1.25 पुरुषसन्धिं याचेत, दूष्यामित्राटवीबलमस्मै दद्याद् योगपुरुषाधिष्ठितम् 12.1.26 तथा कुर्याद् यथोभयविनाशः स्यात् 12.1.27 तीक्ष्णबलं वास्मै दद्याद् यद् अवमानितं विकुर्वीत, मौलमनुरक्तं वा यद् अस्य व्यसनेऽपकुर्यात् 12.1.28 कोशसन्धिं याचेत, सारमस्मै दद्याद् यस्य क्रेतारं नाधिगच्छेत्, कुप्यमयुद्धयोग्यं वा 12.1.29 भूमिसन्धिं याचेत, प्रत्यादेयां नित्यामित्रामनपाश्रयां महाक्षयव्ययनिवेशां वास्मै भूमिं दद्यात् 12.1.30 सर्वस्वेन वा राजधानीवर्जेन सन्धिं याचेत बलीयसः 12.1.31 यत् प्रसह्य हरेद् अन्यः तत् प्रयच्चेद् उपायतः । रक्षेत् स्वदेहं न धनं का ह्यनित्ये धने दया (इति) 12.1.32 Chapt . मन्त्रयुद्ध स चेत् सन्धौ नावतिष्ठेत, ब्रूयाद् एनं - इमे शत्रुषड्वर्गवशगा राजानो विनष्टाः, तेषामनात्मवतां नार्हसि मार्गमनुगन्तुम् 12.2.01 धर्ममर्थं चावेक्षस्व 12.2.02 मित्रमुखा ह्यमित्राः ते ये त्वा साहसमधर्ममर्थातिक्रमं च ग्राहयन्ति 12.2.03 शूरैः त्यक्तात्मभिः सह योद्धुं साहसं, जनक्षयमुभयतः कर्तुमधर्मः, दृष्टमर्थं मित्रमदुष्टं च त्यक्तुमर्थातिक्रमः 12.2.04 मित्रवांश्च स राजा, भूयश्चैतेनार्थेन मित्राण्युद्योजयिष्यति यानि त्वा सर्वतोऽभियास्यन्ति 12.2.05 न च मध्यमोदासीनयोर्मण्डलस्य वा परित्यक्तः, भवांः तु परित्यक्तः यत्त्वा समुद्युक्तमुपप्रेक्षन्ते भूयः क्षयव्ययाभ्यां युज्यतां, मित्राच्च भिद्यतां, अथैनं परित्यक्तमूलं सुखेनोच्छेत्स्यामः इति 12.2.06 स भवान्नार्हति मित्रमुखानाममित्राणां श्रोतुं, मित्राण्युद्वेजयितुममित्रांश्च श्रेयसा योक्तुं, प्राणसंशयमनर्थं चोपगन्तुम् इति यच्छेत् 12.2.07 तथापि प्रतिष्ठमानस्य प्रकृतिकोपमस्य कारयेद् यथा सङ्घवृत्ते व्याख्यातं योगवामने च 12.2.08 तीक्ष्णरसदप्रयोगं च 12.2.09 यद् उक्तमात्मरक्षितके रक्ष्यं तत्र तीक्ष्णान् रसदांश्च प्रयुञ्जीत 12.2.10 बन्धकीपोषकाः परमरूपयौवनाभिः स्त्रीभिः सेनामुख्यान् उन्मादयेयुः 12.2.11 बहूनामेकस्यां द्वयोर्वा मुख्ययोः कामे जाते तीक्ष्णाः कलहान् उत्पादयेयुः 12.2.12 कलहे पराजितपक्षं परत्रापगमने यात्रासाहाय्यदाने वा भर्तुर्योजयेयुः 12.2.13 कामवशान् वा सिद्धव्यञ्जनाः सांवदनिकीभिरोषधीभिरतिसन्धानाय मुख्येषु रसं दापयेयुः 12.2.14 वैदेहकव्यञ्जने वा राजमहिष्याः सुभगायाः प्रेष्यामासन्नां कामनिमित्तमर्थेनाभिवृष्य परित्यजेत् 12.2.15 तस्यैव परिचारकव्यञ्जनोपदिष्टः सिद्धव्यञ्जनः सांवदनिकीमोषधीं दद्यात् वैदेहकशरीरेऽवघातव्या इति 12.2.16 सिद्धे सुभगाया अप्येनं योगमुपदिशेत् राजशरीरेऽवधातव्या इति 12.2.17 ततो रसेनातिसन्दध्यात् 12.2.18 कार्तान्तिकव्यञ्जनो वा महामात्रं राजलक्षणसम्पन्नम् क्रमाभिनीतं ब्रूयात् 12.2.19 भार्यामस्य भिक्षुकी राजपत्नी राजप्रसविनी वा भविष्यसि इति 12.2.20 भार्याव्यञ्जना वा महामात्रं ब्रूयात् राजा किल मामवरोधयिष्यति, तवान्तिकाय पत्त्रलेख्यमाभरणं चेदं परिव्राजिकयाऽऽहृतम् इति 12.2.21 सूदारालिकव्यञ्जनो वा रसप्रयोगार्थं राजवचनमर्थं चास्य लोभनीयमभिनयेत् 12.2.22 तद् अस्य वैदेहकव्यञ्जनः प्रतिसन्दध्यात्, कार्यसिद्धिं च ब्रूयात् 12.2.23 एवमेकेन द्वाभ्यां त्रिभिरित्युपायैरेकैकमस्य महामात्रं विक्रमायापगमनाय वा योजयेत् - इति 12.2.24 दुर्गेषु चास्य शून्यपालासन्नाः सत्त्रिणः पौरजानपदेषु मैत्रीनिमित्तमावेदयेयुः - शून्यपालेनोक्ता योधाश्चाधिकरणस्थाश्च कृच्छ्रगतो राजा जीवन्न् आगमिष्यति, न वा, प्रसह्य वित्तमार्जयध्वं, अमित्रांश्च हत इति 12.2.25 बहुलीभूते तीक्ष्णाः पौरान्निशास्वाहारयेयुः, मुख्यांश्चाभिहन्युः एवं क्रियन्ते ये शून्यपालस्य न शुश्रूषन्ते इति 12.2.26 शून्यपालस्थानेषु च सशोणितानि शस्त्रवित्तबन्धनान्युत्सृजेयुः 12.2.27 ततः सत्त्रिणः शून्यपालो घातयति विलोपयति च इत्यावेदयेयुः 12.2.28 एवं जानपदान् समाहर्तुर्भेदयेयुः 12.2.29 समाहर्तृपुरुषांः तु ग्राममध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः एवं क्रियन्ते ये जनपदमधर्मेण बाधन्ते इति 12.2.30 समुत्पन्ने दोषे शून्यपालं समाहर्तारं वा प्रकृतिकोपेन घातयेयुः 12.2.31 तत्कुलीनमपरुद्धं वा प्रतिपादयेयुः 12.2.32 अन्तःपुरपुरद्वारं द्रव्यधान्यपरिग्रहान् । दहेयुः तांश्च हन्युर्वा ब्रूयुरस्यार्तवादिनः (इति) 12.2.33 Chapt . सेनामुख्यवधह् - मण्डलप्रोत्साहनम् राज्ञो राजवल्लभानां चासन्नाः सत्त्रिणः पत्त्यश्वरथद्विपमुख्यानां राजा क्रुद्धः इति सुहृद्विश्वासेन मित्रस्थानीयेषु कथयेयुः 12.3.01 बहुलीभूते तीक्ष्णाः कृतरात्रिचारप्रतीकारा गृहेषु स्वामिवचनेनागम्यताम् इति ब्रूयुः 12.3.02 तान्निर्गच्छतैवाभिहन्युः, स्वामिसन्देशः इति चासन्नान् ब्रूयुः 12.3.03 ये चाप्रवासिताः तान् सत्त्रिणो ब्रूयुः एतत् तद् यद् अस्माभिः कथितं, जीवितुकामेनापक्रान्तव्यम् इति 12.3.04 येभ्यश्च राजा याचितो न ददाति तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा अयाच्यमर्थमसौ चासौ च मा याचते, मया प्रत्याख्याताः शत्रुसंहिताः, तेषामुद्धरणे प्रयतस्व इति 12.3.05 ततः पूर्ववद् आचरेत् 12.3.06 येभ्यश्च राजा याचितो ददाति तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा अयाच्यमर्थमसौ चासौ च मा याचते, तेभ्यो मया सोऽर्थो विश्वासार्थं दत्तः, शत्रुसंहिताः, तेषामुद्धरणे प्रयतस्व इति 12.3.07 ततः पूर्ववद् आचरेत् 12.3.08 ये चैनं याच्यमर्थं न याचन्ते तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा याच्यमर्थमसौ चासौ च मा न याचते, किमन्यत् स्वदोषशङ्कितत्वात्, तेषामुद्धरणे प्रयतस्व इति 12.3.09 ततः पूर्ववद् आचरेत् 12.3.10 एतेन सर्वः कृत्यपक्षो व्याख्यातः 12.3.11 प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत् असौ चासौ च ते महामात्रः शत्रुपुरुषैः सम्भाषते इति 12.3.12 प्रतिपन्ने दूष्यान् अस्य शासनहरान् दर्शयेत् एतत् तत् इति 12.3.13 सेनामुख्यप्रकृतिपुरुषान् वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेद् अपवाहयेद् वा 12.3.14 योऽस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणोपजापयेत् आत्मसम्पन्नतरः त्वं पुत्रः, तथाप्यन्तर्हितः, तत्किमुपेक्षसे विक्रम्य गृहाण, पुरा त्वा युवराजो विनाशयतीति 12.3.15 तत्कुलीनमपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात् अन्तर्बलं प्रत्यन्तस्कन्धमन्तं वास्य प्रमृद्नीहि इति 12.3.16 आटविकान् अर्थमानाभ्यामुपगृह्य राज्यमस्य घातयेत् 12.3.17 पार्ष्णिग्राहं वास्य ब्रूयात् एष खलु राजा मामुच्छिद्य त्वामुच्छेत्स्यति, पार्ष्णिमस्य गृहाण, त्वयि निवृत्तस्याहं पार्ष्णिं ग्रहीष्यामि इति 12.3.18 मित्राणि वास्य ब्रूयात् अहं वः सेतुः, मयि विभिन्ने सर्वान् एष वो राजा प्लावयिष्यति, सम्भूय वास्य यात्रां विहनाम इति 12.3.19 तत्संहतानामसंहतानां च प्रेषयेत् एष खलु राजा मामुत्पाट्य भवत्सु कर्म करिष्यति, बुध्यध्वं, अहं वः श्रेयान् अभ्युपपत्तुम् इति 12.3.20 मध्यमस्य प्रहिणुयाद् उदासीनस्य वा पुनः । यथाऽऽसन्नस्य मोक्षार्थं सर्वस्वेन तद्ऽर्पणम् (इति) 12.3.21 Chapt . शस्त्राग्निरसप्रणिधयः - वीवधासारप्र्रसारवधः ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेसु गृहपतिकव्यञ्जनाः, जनपदसन्धिषु गोरक्षकतापसव्यञ्जनाः, ते सामन्ताटविकतत्कुलीनापरुद्धानां पण्यागारपूर्वं प्रेषयेयुः अयं देशो हार्यः इति 12.4.01 आगतांश्चैषां दुर्गे गूढपुरुषान् अर्थमानाभ्यामभिसत्कृत्य प्रकृतिच्छिद्राणि प्रदर्शयेयुः 12.4.02 तेषु तैः सह प्रहरेयुः 12.4.03 स्कन्धावारे वास्य शौण्डिकव्यञ्जनः पुत्रमभित्यक्तं स्थापयित्वावस्कन्दकाले रसेन प्रवासयित्वा नैषेचनिकम् इति मदनरसयुक्तान् मद्यकुम्भान्शतशः प्रयच्छेत् 12.4.04 शुद्धं वा मद्यं पाद्यं वा मद्यं दद्याद् एकमहः, उत्तरं रस्सिद्धं प्रयच्छेत् 12.4.05 शुद्धं वा मद्यं दण्डमुख्येभ्यः प्रदाय मदकाले रससिद्धं प्रयच्छेत् 12.4.06 दण्डमुख्यव्यञ्जनो वा पुत्रमभित्यक्तमिति समानम् 12.4.07 पाक्वमांसिकोदनिकोण्डिकापूपिकव्यञ्जना वा पण्यविशेषमवघोषयित्वा परस्परसङ्घर्षेण कालिकं समर्घतरमिति वा परान् आहूय रसेन स्वपण्यान्यपचारयेयुः 12.4.08 सुराक्षीरदधिसर्पिस्तैलानि वा तद्व्यवहर्तृहस्तेषु गृहीता स्त्रियो बालाश्च रसयुक्तेषु स्वभाजनेषु परिकिरेयुः 12.4.09 अनेनार्घेण, विशिष्टं वा भूयो दीयताम् इति तत्रैवावाकिरेयुः 12.4.10 एतान्येव वैदेहकव्यञ्जनाः, पण्यविरेयेणाहर्तारो वा 12.4.11 हस्त्यश्वानां विधायवसेषु रसमासन्ना दद्युः 12.4.12 कर्मकरव्यञ्जना वा रसाक्तं यवसमुदकं वा विक्रीणीरन् 12.4.13 चिरसंसृष्टा वा गोवाणिजका गवामजावीनां वा यूथान्यवस्कन्दकालेषु परेषां मोहस्थानेषु प्रमुञ्चेयुः, अश्वखरोष्ट्रमहिषादीनां दुष्टांश्च 12.4.14 तद्व्यञ्जना वा चुच्छुन्दरीशोणिताक्ताक्षान् 12.4.15 लुब्धकव्यञ्जना वा व्यालमृगान् पञ्जरेभ्यः प्रमुञ्चेयुः, सर्पग्राहा वा सर्पान् उग्रविषान्, हस्तिजीविनो वा हस्तिनः 12.4.16 अग्निजीविनो वाग्निमवसृजेयुः 12.4.17 गूढपुरुषा वा विमुखान् पत्त्यश्वरथद्विपमुख्यान् अभिहन्युः, आदीपयेयुर्वा मुख्यावासान् 12.4.18 दूष्यामित्राटविकव्यञ्जनाः प्रणिहिताः पृष्ठाभिघातमवस्कन्दप्रतिग्रहं वा कुर्युः 12.4.19 वनगूढा वा प्रत्यन्तस्कन्धमुपनिष्कृष्याभिहन्युः, एकायने वीवधासारप्रसारान् वा 12.4.20 ससङ्केतं वा रात्रियुद्धे भूरितूर्यमाहत्य ब्रूयुः अनुप्रविष्टाः स्मो, लब्धं राज्यम् इति 12.4.21 राजावासमनुप्रविष्टा वा सङ्कुलेषु राजानं हन्युः 12.4.22 सर्वतो वा प्रयातमेन(?एव?) म्लेच्छाटविकदण्टचारिणः सत्त्रापाश्रयाः स्तम्भवाटापाश्रया वा हन्युः 12.4.23 लुब्धकव्यञ्जना वावस्कन्दसङ्कुलेषु गूढयुद्धहेतुभिरभिहन्युः 12.4.24 एकायने वा शैलस्तम्भवाटखञ्जनान्तर्।उदके वा स्वभूमिबलेनाभिहन्युः 12.4.25 नदीसरस्तटाकसेतुबन्धभेदवेगेन वा प्लावयेयुः 12.4.26 धान्वनवनदुर्गनिम्नदुर्गस्थं वा योगाग्निधूमाभ्यां नाशयेयुः 12.4.27 सङ्कटगतमग्निना, धान्वनगतं धूमेन, निधानगतं रसेन, तोयावगाढं दुष्टग्राहैरुदकचरणैर्वा तीक्ष्णाः साधयेयुः, आदीप्तावासान्निष्पतन्तं वा 12.4.28 योगवामनयोगाभ्यां योगेनान्यतमेन वा । अमित्रमतिसन्दध्यात् सक्तमुक्तासु भूमिषु (इति) 12.4.29 Chapt . योगातिसंधानं - दण्डातिसंधानं - एकविजयः दैवतेज्यायाम् यात्रायाममित्रस्य बहूनि पूजाऽऽगमस्थानानि भक्तितः 12.5.01 तत्रास्य योगमुब्जयेत् 12.5.02 देवतागृहप्रविष्टस्योपरि यन्त्रमोक्षणेन गूढभित्तिं शिलां वा पातयेत् 12.5.03 शिलाशस्त्रवर्षमुत्तमागारात्, कपाटमवपातितं वा, भित्तिप्रणिहितमेकदेशबद्धं वा परिघं मोक्षयेत् 12.5.04 देवतादेहध्वजप्रहरणानि वास्योपरिष्टात् पातयेत् 12.5.05 स्थानासनगमनभूमिषु वास्य गोमयप्रदेहेन गन्धोदकप्रसेकेन वा रसमतिचारयेत्, पुष्पचूर्णोपहारेण वा 12.5.06 गन्धप्रतिच्छन्नं वास्य तीक्ष्णं धूममतिनयेत् 12.5.07 शूलकूपमवपातनं वा शयनासनस्याधस्ताद् यन्त्रबद्धतलमेनं कीलमोक्षणेन प्रवेशयेत् 12.5.08 प्रत्यासन्ने वामित्रे जनपदाज् जनमवरोधक्षममतिनयेत् 12.5.09 दुर्गाच्चानवरोधक्षममपनयेत्, प्रत्यादेयमरिविषयं वा प्रेषयेत् 12.5.10 जनपदं चैकस्थं शैलवननदीदुर्गेष्वटवीव्यवहितेषु वा पुत्रभ्रातृपरिगृहीतं स्थापयेत् 12.5.11 उपरोधहेतवो दण्डोपनतवृत्ते व्याख्याताः 12.5.12 तृणकाष्ठमायोजनाद् दाहयेत् 12.5.13 उदकानि च दूषयेत्, अवस्रावयेच्च 12.5.14 कूपकूटावपातकण्टकिनीश्च बहिरुब्जयेत् 12.5.15 सुरुङ्गाममित्रस्थाने बहुमुखीं कृत्वा निचयमुख्यान् अभिहारयेत्, अमित्रं वा 12.5.16 परप्रयुक्तायां वा सुरुङ्गायां परिखामुदकान्तिकीं खानयेत्, कूपशालामनुसालं वा 12.5.17 तोयकुम्भान् कांस्यभाण्डानि वा शङ्कास्थानेषु स्थापयेत् खाताभिज्ञानार्थम् 12.5.18 ज्ञाते सुरुङ्गापथे प्रतिसुरुङ्गां कारयेत् 12.5.19 मध्ये भित्त्वा धूममुदकं वा प्रयच्छेत् 12.5.20 प्रतिविहितदुर्गो वा मूले दायाद् कृत्वा प्रतिलोमामस्य दिशं गच्छेत्, यतो वा मित्रैर्बन्धुभिराटविकैर्वा संसृज्येत परस्यामित्रैर्दूष्यैर्वा महद्भिः, यतो वा गतोऽस्य मित्रैर्वियोगं कुर्यात् पार्ष्णिं वा गृह्णीयात् राज्यं वास्य हारयेत् वीवधासारप्रसारान् वा वारयेत्, यतो वा शक्नुयाद् आक्षिकवद् अपक्षेपेणास्य प्रहर्तुं, यतो वा स्वं राज्यं त्रायेत मूलस्योपचयं वा कुर्यात् 12.5.21 यतः सन्धिमभिप्रेतं लभेत ततो वा गच्छेत् 12.5.22 सहप्रस्थायिनो वास्य प्रेषयेयुः अयं ते शत्रुरस्माकं हस्तगतः, पण्यं विप्रकारं वापदिश्य हिरण्यमन्तःसारबलं च प्रेषय यस्यैनमर्पयेम बद्धं प्रवासितं वा इति 12.5.23 प्रतिपन्ने हिरण्यं सारबलं चाददीत 12.5.24 अन्तपालो वा दुर्गसम्प्रदाने बलैकदेशमतिनीय विश्वस्तं घातयेत् 12.5.25 जनपदमेकस्थं वा घातयितुममित्रानीकमावाहयेत् 12.5.26 तद् अवरुद्धदेशमतिनीय विश्वस्तं घातयेत् 12.5.27 मित्रव्यञ्जनो वा बाह्यस्य प्रेषयेत् क्षीणमस्मिन् दुर्गे धान्यं स्नेहाः क्षारो लवणं वा, तद् अमुष्मिन् देशे काले च प्रवेक्ष्यति, तद् उपगृहाण इति 12.5.28 ततो रसविद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्यामित्राटविकाः प्रवेशयेयुः, अन्ये वाभित्यक्ताः 12.5.29 तेन सर्वभाण्डवीवधग्रहणं व्याख्यातम् 12.5.30 सन्धिं वा कृत्वा हिरण्यैकदेशमस्मै दद्यात्, विलम्बमानः शेषम् 12.5.31 ततो रक्षाविधानान्यवस्रावयेत् 12.5.32 अग्निरसशस्त्रैर्वा प्रहरेत् 12.5.33 हिरण्यप्रतिग्राहिणो वास्य वल्लभान् अनुगृह्णीयात् 12.5.34 परिक्षीणो वास्मै दुर्गं दत्त्वा निर्गच्छेत् 12.5.35 सुरुङ्गया कुक्षिप्रदरेण वा प्राकारभेदेन निर्गच्छेत् 12.5.36 रात्राववस्कन्दं दत्त्वा सिद्धः तिष्ठेत्, असिद्धः पार्श्वेनापगच्छेत् 12.5.37 पाषण्डच्छद्मना मन्दपरिवारो निर्गच्छेत् 12.5.38 प्रेतव्यञ्जनो वा गूढैर्निह्रियेत 12.5.39 स्त्रीवेषधारी वा प्रेतमनुगच्छेत् 12.5.40 दैवतोपहारश्राद्धप्रहवणेषु वा रसविद्धमन्नपानमवसृज्य 12.5.41 कृतोपजापो दूष्यव्यञ्जनैर्निष्पत्य गूढसैन्योऽभिहन्यात् 12.5.42 एवं गृहीतदुर्गो वा प्राश्यप्राशं चैत्यमुपस्थाप्य दैवतप्रतिमाच्छिद्रं प्रविश्यासीत, गूढभित्तिं वा, दैवतप्रतिमायुक्तं वा भूमिगृहम् 12.5.43 विस्मृते सुरुङ्गया रात्रौ राजावासमनुप्रविश्य सुप्तममित्रं हन्यात् 12.5.44 यन्त्रविश्लेषणं वा विश्लेष्याधस्ताद् अवपातयेत् 12.5.45 रसाग्नियोगेनावलिप्तं गृहं जतुगृहं वाधिशयानममित्रमादीपयेत् 12.5.46 प्रमदवनविहाराणामन्यतमे वा विहारस्थाने प्रमत्तं भूमिगृहसुरुङ्गागूढभित्तिप्रविष्टाः तीक्ष्णा हन्युः, गूढप्रणिहिता वा रसेन 12.5.47 स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्परसाग्निधूमान् उपरि मुञ्चेयुः 12.5.48 प्रत्युत्पन्ने वा कारणे यद् यद् उपपद्येत तत् तद् अमित्रेऽन्तःपुरगते गूढसञ्चारः प्रयुञ्जीत 12.5.49 ततो गूढमेवापगच्छेत्, स्वजनसंज्ञां च प्ररूपयेत् 12.5.50 द्वाह्स्थान् वर्षधरांश्चान्यान्निगूढोपहितान् परे । तूर्यसंज्ञाभिराहूय द्विषत्शेषाणि घातयेत् (इति) 12.5.51 Book . Chapt . उपजापः विजिगीषुः परग्राममवाप्तुकामः सर्वज्ञदैवतसंयोगख्यापनाभ्यां स्वपक्षमुद्धर्षयेत्, परपक्षं चोद्वेजयेत् 13.1.01 सर्वज्ञख्यापनं तु - गृहगुह्यप्रवृत्तिज्ञानेन प्रत्यादेशो मुख्यानां, कण्टकशोधनापसर्पावगमेन प्रकाशनं राजद्विष्टकारिणां, विज्ञाप्योपायनख्यापनमदृष्टसंसर्गविद्यासंज्ञाऽऽदिभिः, विदेशप्रवृत्तिज्ञानं तद् अहरेव गृहकपोतेन मुद्रासंयुक्तेन 13.1.02 दैवतसंयोगख्यापनं तु - सुरुङ्गामुखेनाग्निचैत्यदैवतप्रतिमाच्छिद्रान् अनुप्रविष्टैरग्निचैत्यदैवतव्यञ्जनैः सम्भाषणं पूजनं च, उदकाद् उत्थितैर्वा नागवरुणव्यञ्जनैः सम्भाषणं पूजनं च, रात्रावन्तर्।उदके समुद्रवालुकाकोशं प्रणिधायाग्निमालादर्शनं, शिलाशिक्यावगृहीते प्लवके स्थानं, उदकबस्तिना जरायुणा वा शिरोऽवगूढनासः पृषतान्त्रकुलीरनक्रशिंशुमारोद्रवसाभिर्वा शतपाक्यं तैलं नस्तः प्रयोगः 13.1.03 तेन रात्रिगणश्चरति 13.1.04 इत्युदकचरणानि 13.1.05 तैर्वरुणनागकन्यावाक्यक्रिया सम्भाषणं च, कोपस्थानेषु मुखाद् अग्निधूमोत्सर्गः 13.1.06 तद् अस्य स्वविषये कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिकेक्षणिकगूढपुरुषाः साचिव्यकराः तद्दर्शिनश्च प्रकाशयेयुः 13.1.07 परस्य विषये दैवतदर्शनं दिव्यकोशदण्डोत्पत्तिं चास्य ब्रूयुः 13.1.08 दैवतप्रश्ननिमित्तवायसाङ्गविद्यास्वप्नमृगपक्षिव्याहारेषु चास्य विजयं ब्रूयुः, विपरीतममित्रस्य 13.1.09 सदुन्दुभिमुल्कां च परस्य नक्षत्रे दर्शयेयुः 13.1.10 परस्य मुख्यान् मित्रत्वेनोपदिशन्तो दूतव्यञ्जनाः स्वामिसत्कारं ब्रूयुः, स्वपक्षबलाधानं परपक्षप्रतिघातं च 13.1.11 तुल्ययोगक्षेमममात्यानामायुधीयानां च कथयेयुः 13.1.12 तेषु व्यसनाभ्युदयावेक्षणमपत्यपूजनं च प्रयुञ्जीत 13.1.13 तेन परपक्षमुत्साहयेद् यथोक्तं पुरस्तात् 13.1.14 भूयश्च वक्ष्यामः 13.1.15 साधारणगर्दभेन दक्षान्, लकुटशाखाहननाभ्यां दण्डचारिणः, कुलैडकेन चोद्विग्नान्, अशनिवर्षेण विमानितान्, विदुलेनावकेशिना वायसपिण्डेन कैतवजमेघेन इति विहताशान् दुर्भगालङ्कारेण द्वेषिणा इति पूजाफलान्, व्याघ्रचर्मणा मृत्युकूटेन चोपहितान्, पीलुविखादनेन करकयोष्ट्रया गर्दभीक्षीराभिमन्थनेन इति ध्रुवोपकारिण इति 13.1.16 प्रतिपन्नान् अर्थमानाभ्यां योजयेत् 13.1.17 द्रव्यभक्तच्छिद्रेषु चैनान् द्रव्यभक्तदानैरनुगृह्णीयात् 13.1.18 अप्रतिगृह्णतां स्त्रीकुमारालङ्कारान् अभिहरेयुः 13.1.19 दुर्भिक्षस्तेनाटव्य्।उपघातेषु च पौरजानपदान् उत्साहयन्तः सत्त्रिणो ब्रूयुः राजानमनुग्रहं याचामहे निरनुग्रहाः परत्र गच्छामः इति 13.1.20 तथा इति प्रतिपन्नेषु द्रव्यधान्यान्यपरिग्रहैः । साचिव्यं कार्यमित्येतद् उपजापाद् भूतं महत् (इति) 13.1.21 Chapt . योगवामनम् मुण्डो जटिलो वा पर्वतगुहावासी चतुर्वर्षशतायुर्ब्रुवाणः प्रभूतजटिलान्तेवासी नगराभ्याशे तिष्ठेत् 13.2.01 शिष्याश्चास्य मूलफलोपगमनैरमात्यान् राजानं च भगवद्दर्शनाय योजयेयुः 13.2.02 समागताश्च राज्ञा पूर्वराजदेशाभिज्ञानानि कथयेत्, शते शते च वर्षाणां पूर्णेऽहमग्निं प्रविश्य पुनर्बालो भवामि, तद् इह भवत् समीपे चतुर्थमग्निं प्रवेक्ष्यामि, अवश्यं मे भवान् मानयितव्यः, त्रीन् वरान् वृणीष्ण(वृषीष्व) इति 13.2.03 प्रतिपन्नं ब्रूयात् सप्तरात्रमिह सपुत्रदारेण प्रेक्षाप्रहवणपूर्वं वस्तव्यम् इति 13.2.04 वसन्तमवस्कन्देत 13.2.05 मुण्डो वा जटिलो वा स्थानिकव्यञ्जनः प्रभूतजटिलान्तेवासी वस्तशोणितदिग्धां वेणुशलाकां सुवर्णचूर्णेनावलिप्य वल्मीके निदध्याद् उपजिह्विकानुसरणार्थं, स्वर्णनालिकां वा 13.2.06 ततः सत्त्री राज्ञः कथयेत् असौ सिद्धः पुष्पितं निधिं जानातीति 13.2.07 स राज्ञा पृष्ठः तथा इति ब्रूयात्, तच्चाभिज्ञानं दर्शयेत्, भूयो वा हिरण्यमन्तर्।आधाय 13.2.08 ब्रूयाच्चैनं नागरक्षितोऽयं निधिः प्रणिपातसाध्यः इति 13.2.09 प्रतिपन्नं ब्रूयात् सप्तरात्रम् इति समानम् 13.2.10 स्थानिकव्यञ्जनं वा रात्रौ तेजनाग्नियुक्तमेकान्ते तिष्ठन्तं सत्त्रिणः क्रमाभीनीतं राज्ञः कथयेयुः असौ सिद्धः सामेधिकः इति 13.2.11 तं राजा यमर्थं याचेत तमस्य करिष्यमाणः सप्तरात्रम् इति समानम् 13.2.12 सिद्धव्यञ्जनो वा राजानं जम्भकविद्याभिः प्रलोभयेत् 13.2.13 तं राजा इति समानम् 13.2.14 सिद्धव्यञ्जनो वा देशदेवतामभ्यर्हितामाश्रित्य प्रहवणैरभीक्ष्णं प्रकृतिमुख्यान् अभिसंवास्य क्रमेण राजानमतिसन्दध्यात् 13.2.15 जटिलव्यञ्जनमन्तर्।उदकवासिनं वा सर्वश्वेतं तटसुरुङ्गाभूमिगृहापसरणं वरुणं नागराजं वा सत्त्रिणः क्रमाभिनीतं राज्ञः कथयेयुः 13.2.16 तं राजा इति समानम् 13.2.17 जनपदान्तेवासी सिद्धव्यञ्जनो वा राजानं शत्रुदर्शनाय योजयेत् 13.2.18 प्रतिपन्नं बिम्बं कृत्वा शत्रुमावाहयित्वा निरुद्धे देशे घातयेत् 13.2.19 अश्वपण्योपयाता वैदेहकव्यञ्जनाः पण्योपायननिमित्तमाहूय राजानं पण्यपरीक्षायामासक्तमश्वव्यतिकीर्णं वा हन्युः, अश्वैश्च प्रहरेयुः 13.2.20 नगराभ्याशे वा चैत्यमारुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन् वा विदुलानि धमन्तः स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः, पूजा नो वर्तताम् इत्यव्यक्तं ब्रूयुः 13.2.21 तद् एषां नैमित्तिकमौहूर्तिकव्यञ्जनाः ख्यापयेयुः 13.2.22 मङ्गल्ये वा ह्रदे तटाकमध्ये वा रात्रौ तेजनतैलाभ्यक्ता नागरूपिणः शक्तिमुसलान्ययोमयानि निष्पेषयन्तः तथैव ब्रूयुः 13.2.23 ऋक्षचर्मकञ्चुकिनो वाग्निधूमोत्सर्गयुक्ता रक्षोरूपं वहन्तः त्रिरपसव्यं नगरं कुर्वाणाः श्वसृगालवाशितान्तरेषु तथैव ब्रूयुः 13.2.24 चैत्यदैवतप्रतिमां वा तेजनतैलेनाभ्रपटलच्छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः 13.2.25 तद् अन्ये ख्यापयेयुः 13.2.26 दैवतप्रतिमानामभ्यर्हितानां वा शोणितेन प्रस्रावमतिमात्रं कुर्युः 13.2.27 तद् अन्ये देवरुधिरसंस्रावे सङ्ग्रामे पराजयं ब्रूयुः 13.2.28 सन्धिरात्रिषु श्मशानप्रमुखे वा चैत्यमूर्ध्वभक्षितैर्मनुष्यैः प्ररूपयेयुः 13.2.29 ततो रक्षोरूपी मनुष्यकं याचेत 13.2.30 यश्चात्र शूरवादिकोऽन्यतमो वा द्रष्टुमागच्छेत् तमन्ये लोहमुसलैर्हन्युः, यथा रक्षोभिर्हत इति ज्ञायेत 13.2.31 तद् अद्भुतं राज्ञः तद्दर्शिनः सत्त्रिणश्च कथयेयुः 13.2.32 ततो नैमितित्कमौहूर्तिकव्यञ्जनाः शान्तिं प्रायश्चित्तं ब्रूयुः अन्यथा महद् अकुशलं राज्ञो देशस्य च इति 13.2.33 प्रतिपन्नमेतेषु सप्तरात्रमेकैकमन्त्रबलिहोमं स्वयं राज्ञा कर्तव्यम् इति ब्रूयुः 13.2.34 ततः समानम् 13.2.35 एतान् वा योगान् आत्मनि दर्शयित्वा प्रतिकुर्वीत परेषामुपदेशार्थम् 13.2.36 ततः प्रयोजयेद् योगान् 13.2.37 योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात् 13.2.38 हस्तिकामं वा नागवनपाला हस्तिना लक्षण्येन प्रलोभयेयुः 13.2.39 प्रतिपन्नं गहनमेकायनं वातिनीय घातयेयुः, बद्ध्वा वापहरेयुः 13.2.40 तेन मृगयाकामो व्याख्यातः 13.2.41 द्रव्यस्त्रीलोलुपमाढ्यविधवाभिर्वा परमरूपयौवनाभिः स्त्रीभिर्दायनिक्षेपार्थमुपनीताभिः सत्त्रिणः प्रलोभयेयुः 13.2.42 प्रतिपन्नं रात्रौ सत्त्रच्छन्नाः समागमे शस्त्ररसाभ्यां घातयेयुः 13.2.43 सिद्धप्रव्रजितचैत्यस्तूपदैवतप्रतिमानामभीक्ष्णाभिगमनेषु वा भूमिगृहसुरुङ्गारूढभित्तिप्रविष्टाः तीक्ष्णाः परमभिहन्युः 13.2.44 येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयम् । यात्राविहारे रमते यत्र क्रीडति वाम्भसि 13.2.45 धिग्।उक्त्य्।आदिषु सर्वेषु यज्ञप्रहवणेषु वा । सूतिकाप्रेतरोगेषु प्रीतिशोकभयेषु वा । 13.2.46 प्रमादं याति यस्मिन् वा विश्वासात् स्वजनोत्सवे यत्रास्यारक्षिसञ्चारो दुर्दिने सङ्कुलेषु वा । 13.2.47 विप्रस्थाने प्रदीप्ते वा प्रविष्टे निर्जनेऽपि वा । वस्त्राभरणमाल्यानां फेलाभिः शयनासनैः 13.2.48 मद्यभोजनफेलाभिः तूर्यैर्वाभिगताः सह । प्रहरेयुररिं तीक्ष्णाः पूर्वप्रणिहितैः सह (इति) 13.2.49 यथैव प्रविशेयुश्च द्विषतः सत्त्रहेतुभिः । तथैव चापगच्छेयुरित्युक्तं योगवामनम् 13.2.50 Chapt . अपसर्पप्रणिधिः श्रेणीमुख्यमाप्तं निष्पातयेत् 13.3.01 स परमाश्र्त्य पक्षापदेशेन स्वविषयात् साचिव्यकरसहायोपादानं कुर्वीत 13.3.02 कृतापसर्पोपचयो वा परमनुमान्य स्वामिनो दूष्यग्रामं वीतहस्त्यश्वं दूष्यामात्यं दण्डमाक्रन्दं वा हत्वा परस्य प्रेषयेत् 13.3.03 जनपदैकदेशं श्रेणीमटवीं वा सहायोपादानार्थं संश्रयेत 13.3.04 विश्वासमुपगतः स्वामिनः प्रेषयेत् 13.3.05 ततः स्वामी हस्तिबन्धनमटवीघातं वापदिश्य गूढमेव प्रहरेत् 13.3.06 एतेनामात्याटविका व्याख्याताः 13.3.07 शत्रुणा मैत्रीं कृत्वामात्यान् अवक्षिपेत् 13.3.08 ते तत्शत्रोः प्रेषयेयुः भर्तारं नः प्रसादय इति 13.3.09 स यं दूतं प्रेषयेत्, तमुपालभेत भर्ता ते माममात्यैर्भेदयति, न च पुनरिहागन्तव्यम् इति 13.3.10 अथैकममात्यं निष्पातयेत् 13.3.11 स परमाश्रित्य योगापसर्पापरक्तदूष्यान् अशक्तिमतः स्तेनाटविकान् उभयोपघातकान् वा परस्योपहरेत् 13.3.12 आप्तभावोपगतः प्रवीरपुरुषोपघातमस्योपहरेद् अन्तपालमाटविकं दण्डचारिणं वा दृढमसौ चासौ च ते शत्रुणा सन्धत्ते इति 13.3.13 अथ पश्चाद् अभित्यक्तशासनैरेनान् घातयेत् 13.3.14 दण्डबलव्यवहारेण वा शत्रुमुद्योज्य घातयेत् 13.3.15 कृत्यपक्षोपग्रहेण वा परस्यामित्रं राजानमात्मन्यपकारयित्वाभियुञ्जीत 13.3.16 ततः परस्य प्रेषयेत् असौ ते वैरी ममापकरोति, तमेहि सम्भूय हनिष्यावः, भूमौ हिरण्ये वा ते परिग्रहः इति 13.3.17 प्रतिपन्नमभिसत्कृत्यागतमवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् 13.3.18 अभिविश्वासनार्थं भूमिदानपुत्राभिषेकरक्षापदेशेन वा ग्राहयेत् 13.3.19 अविषह्यमुपांशुदण्डेन वा घातयेत् 13.3.20 स चेद् दण्डं दद्यान्न स्वयमागच्छेत् तमस्य वैरिणा घातयेत् 13.3.21 दण्डेन वा प्रयातुमिच्छेन्न विजिगीषुणा तथाप्येनमुभयतःसम्पीडनेन घातयेत् 13.3.22 अविश्वस्तो वा प्रत्येकशो यातुमिच्छेद् राज्यैकदेशं वा यातव्यस्यादातुकामः, तथाप्येनं वैरिणा सर्वसन्दोहेन वा घातयेत् 13.3.23 वैरिणा वा सक्तस्य दण्डोपनयेन मूलमन्यतो हारयेत् 13.3.24 शत्रुभूम्या वा मित्रं पणेत, मित्रभूम्या वा शत्रुम् 13.3.25 ततः शत्रुभूमिलिप्सायां मित्रेणात्मन्यपकारयित्वाभियुञ्जीत - इति समानाः पूर्वेण सर्वैव योगाः 13.3.26 शत्रुं वा मित्रभूमिलिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात् 13.3.27 ततो मित्रगतमतिसन्दध्यात् 13.3.28 कृतप्रतिविधानो वा व्यसनमात्मनो दर्शयित्वा मित्रेणामित्रमुत्साहयित्वाऽऽत्मानमभियोजयेत् 13.3.29 ततः सम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत् 13.3.30 मित्रेणाश्रितश्चेत्शत्रुरग्राह्ये स्थातुमिच्छेत् सामन्तादिभिर्मूलमस्य हारयेत् 13.3.31 दण्डेन वा त्रातुमिछेत् तमस्य घातयेत् 13.3.32 तौ चेन्न भिद्येयातां प्रकाशमेवान्योन्यभूम्या पणेत 13.3.33 ततः परस्परं मित्रव्यञ्जना वोभयवेतना वा दूतान् प्रेषयेयुः अयं ते राजा भूमिं लिप्सते शत्रुसंहितः इति 13.3.34 तयोरन्यतरो जाताशङ्कारोषः, पूर्ववच्चेष्तेत 13.3.35 दुर्गराष्ट्रदण्डमुख्यान् वा कृत्यपक्षहेतुभिरभिविख्याप्य प्रव्राजयेत् 13.3.36 ते युद्धावस्कन्दावरोधव्यसनेषु शत्रुमतिसन्दध्युः 13.3.37 भेदं वास्य स्ववर्गेभ्यः कुर्युः 13.3.38 अभित्यक्तशासनैः प्रतिसमानयेयुः 13.3.39 लुब्धकव्यञ्जना वा मांसविक्रयेण द्वाह्स्था दौवारिकापाश्रयाश्चोराभ्यागमं परस्य द्विः त्रिरिति निवेद्य लब्धप्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्रामवधेऽवस्कन्दे च द्विषतो ब्रूयुः आसन्नश्चोरगणः, महांश्चाक्रन्दः, प्रभूतं सैन्यमागच्छतु इति 13.3.40 तद् अर्पयित्वा ग्रामघातदण्डस्य सैन्यमितरद् आदाय रात्रौ दुर्गद्वारेषु ब्रूयुः हतश्चोरगणः, सिद्धयात्रमिदं सैन्यमागतं, द्वारमपाव्रियताम् इति 13.3.41 पूर्वप्रणिहिता वा द्वाराणि दद्युः 13.3.42 तैः सह प्रहरेयुः 13.3.43 कारुशिल्पिपाषण्डकुशीलववैदेहकव्यञ्जनान् आयुधीयान् व्वा परदुर्गे प्रणिदध्यात् 13.3.44 तेषां गृहपतिकव्यञ्जनाः काष्ठतृणधान्यपण्यशकटैः प्रहरणावरणान्यभिहरेयुः, देवध्वजप्रतिमाभिर्वा 13.3.45 ततः तद्व्यञ्जनाः प्रमत्तवधमवस्कन्दप्रतिग्रहमभिप्रहरणं पृष्ठतः शङ्खदुन्दुभिशब्देन वा प्रविष्टम् इत्यावेदयेयुः 13.3.46 प्राकारद्वाराट्टालकदानमनीकभेदं घातं वा कुर्युः 13.3.47 सार्थगणवासिभिरातिवाहिकैः कन्यावाहिकैरश्वपण्यव्यवहारिभिरुपकरणहारकैर्धान्यक्रेतृविक्रेतृभिर्वा प्रव्रजितलिङ्गिभिर्दूतैश्च दणड्ऽतिनयनं, सन्धिकर्मविश्वासनार्थम् 13.3.48 इति राजापसर्पाः 13.3.49 एतैवाटवीनामपसर्पाः कण्टकशोधनोक्ताश्च 13.3.50 व्रजमटव्य्।आसन्नमपसर्पाः सार्थं वा चोरैर्घातयेयुः 13.3.51 कृतसङ्केतमन्नपानं चात्र मदनरसविद्धं वा कृत्वापगच्छेयुः 13.3.52 गोपालकवैदेहकाश्च ततश्चोरान् गृहीतलोप्त्रभारान् मदनरसविकारकालेऽवस्कन्दयेयुः 13.3.53 सङ्कर्षणदैवतीयो वा मुण्डजटिलव्यञ्जनः प्रहवणकर्मणा मदनरसयोगेनातिसन्दध्यात् 13.3.54 अथावस्कन्दं दद्यात् 13.3.55 शौण्डिकव्यञ्जनो वा दैवतप्रेतकार्योत्सवसमाजेष्वाटविकान् सुराविक्रयोपायननिमित्तं मदनरसयोगेनातिसन्दध्यात् 13.3.56 अथावस्कन्दं दद्यात् 13.3.57 ग्रामघातप्रविष्टां वा विक्षिप्य बहुधाटवीम् । घातयेदिति चोराणामपसर्पाः प्रकीर्तिताः (इति) 13.3.58 Chapt . पर्युपासनकर्म - अवमर्दः कर्शनपूर्वं पर्युपासनकर्म 13.4.01 जनपदं यथानिविष्टमभये स्थापयेत् 13.4.02 उत्थितमनुग्रहपरिहाराभ्यां निवेषयेत्, अन्यत्रापसरतः 13.4.03 सङ्ग्रामाद् अन्यस्यां भूमौ निवेशयेत्, एकस्यां वा वासयेत् 13.4.04 न ह्यजनो जनपदो राज्यमजनपदं वा भवतीति कौटिल्यः 13.4.05 विषमस्थस्य मुष्टिं सस्यं वा हन्याद्, वीवधप्रसारौ च 13.4.06 प्रसारवीवधच्छेदान् मुष्टिसस्यवधाद् अपि । वमनाद्गूढघाताच्च जायते प्रकृतिक्षयः 13.4.07 प्रभूतगुणबद्ध(वद्ध) अन्यकुप्ययन्त्रशस्त्रावरणविष्टिरश्मिसमग्रं मे सैन्यं, ऋतुश्च पुरस्तात्, अपर्तुः परस्य, व्याधिदुर्भिक्षनिचयरक्षाक्षयः क्रीतबलनिर्वेदो मित्रबलनिर्वेदश्च इति पर्युपासीत 13.4.08 कृत्वा स्कन्धावारस्य रक्षां वीवधासारयोः पथश्च, परिक्षिप्य दुर्गं खातसालाभ्यां, दूषयित्वोदकं, अवस्राव्य परिखाः सम्पूरयित्वा वा, सुरुङ्गाबलकुटिकाभ्यां वप्रप्राकारौ हारयेत्, दारं च गुडेन 13.4.09 निम्नं वा पांसुमालयाऽऽच्छादयेत् 13.4.10 बहुलारक्षं यन्त्रैर्घातयेत् 13.4.11 निष्किराद् उपनिष्कृष्याश्वैश्च प्रहरेयुः 13.4.12 विक्रमान्तरेषु च नियोगविकल्पसमुच्चयैश्चोपायानां सिद्धिं लिप्सेत 13.4.13 दुर्गवासिनः श्येनकाकनप्तृभासशुकसारिकोलूककपोतान् ग्राहयित्वा पुच्छेष्वग्नियोगयुक्तान् परदुर्गे विसृजेत् 13.4.14 अपकृष्टस्कन्धावाराद् उच्छ्रितध्वजधन्वारक्षो वा मानुषेणाग्निना परदुर्गमादीपयेत् 13.4.15 गूढपुर्षाश्चान्तर्दुर्गपालका नकुलवानरबिडालशुनां पुच्छेष्वग्नियोगमाधाय काण्डनिचयरक्षाविधानवेश्मसु विसृजेयुः 13.4.16 शुष्कमत्स्यानामुदरेष्वग्निमाधाय वल्लूरे वा वायसोपहारेण वयोभिर्हारयेयुः 13.4.17 सरलदेवदारुपूतितृणगुग्गुलुश्रीवेष्टकसर्जरसलाक्षागुलिकाः खरोष्ट्राजावीनां लेण्डं चाग्निधारणम् 13.4.18 प्रियालचूर्णमवल्गुजमषीमधु।उच्छिष्टमश्वखरोष्ट्रगोलेण्डमित्येष क्षेप्योऽग्नियोगः 13.4.19 सर्वलोहचूर्णमग्निवर्णं वा कुम्भीसीसत्रपुचूर्णं वा पारिभद्रकपलाशपुष्पकेशमषीतैलमधु।उच्छिष्टकश्रीवेष्टकयुक्तोऽग्नियोगो विश्वासघाती वा 13.4.20 तेनावलिप्तः शणत्रपुसवल्कवेष्टितो बाण इत्यग्नियोगः 13.4.21 न त्वेव विद्यमाने पराक्रमेऽग्निमवसृजेत् 13.4.22 अविश्वास्यो ह्यग्निर्दैवपीडनं च, अप्रतिसङ्ख्यातप्राणिधान्यपशुहिरण्यकुप्यद्रव्यक्षयकरः 13.4.23 क्षीणनिचयं चावाप्तमपि राज्यं क्षयायैव भवतीति पर्युपासनकर्म 13.4.24 सर्वारम्भोपकरणविष्टिसम्पन्नोऽस्मि, व्याधितः परोपधाविरुद्धप्रकृतिरकृतदुर्गकर्मनिचयो वा, निरासारः सासारो वा पुरा मित्रैः सन्धत्ते इत्यवमर्दकालः 13.4.25 स्वयमग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षानीकदर्शनसङ्गसौरिककलहेषु नित्ययुद्धश्रान्तबले बहुलयुद्धप्रतिविद्धप्रेतपुरुषे जागरणक्लान्तसुप्तजने दुर्दिने नदीवेगे वा नीहारसम्प्लवे वावमृद्नीयात् 13.4.26 स्कन्धावारमुत्सृज्य वा वनगूढः शत्रुं निष्क्रान्तं घातयेत् 13.4.27 मित्रासारमुख्यव्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतमभित्यक्तं प्रेषयेत् - इदं ते छिद्रं, इमे दूष्याः सम्रोद्धुर्वा छिद्रं, अयं ते कृत्यपक्षः इति 13.4.28 तं प्रतिदूतमादाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषमभिविख्याप्य प्रवास्यापगच्छेत् 13.4.29 ततो मित्रासारव्यञ्जनो वा सम्रुद्धं ब्रूयात् मां त्रातुमुपनिर्गच्छ, मया वा सह सम्रोद्धारं जहि इति 13.4.30 प्रतिपन्नमुभयतःसम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत् 13.4.31 नगरं वास्य प्रमृद्नीयात् 13.4.32 सारबलं वास्य वमयित्वाभिहन्यात् 13.4.33 तेन दण्डोपनताटविका व्याख्याताः 13.4.34 दण्डोपनताटविकयोरन्यतरो वा सम्रुद्धस्य प्रेषयेत् - अयं सम्रोद्धा व्याधितः, पार्ष्णिग्राहेणाभियुक्तः, छिद्रमन्यद् उत्थितं, अन्यस्यां भूमावपयातुकामः इति 13.4.35 प्रतिपन्ने सम्रोद्धा स्कन्धावारमादीप्यापयायात् 13.4.36 ततः पूर्ववद् आचरेत् 13.4.37 पण्यसम्पातं वा कृत्वा पण्येनैनं रसविद्धेनातिसन्दध्यात् 13.4.38 आसारव्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् - मया बाह्यमभिहतमुपनिर्गच्छाभिहन्तुम् इति 13.4.39 प्रतिपन्नं पूर्ववद् आचरेत् 13.4.40 मित्रं बन्धुं वापदिश्य योगपुरुषाः शासनमुद्राहस्ताः प्रविश्य दुर्गं ग्राहयेयुः 13.4.41 आसारव्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् - अमुष्मिन् देशे काले च स्कन्धावारमभिहनिष्यामि, युष्माभिरपि योद्धव्यम् इति 13.4.42 प्रतिपन्नं यथोक्तमभ्याघातसङ्कुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत् 13.4.43 यद् वा मित्रमावाहयेद् आटव्विकं वा, तमुत्साहयेत् विक्रम्य सम्रुद्धे भूमिमस्य प्रतिपद्यस्व इति 13.4.44 विक्रान्तं प्रकृतिभिर्दूष्यमुख्योपग्रहेण वा घातयेत्, स्वयं वा रसेन मित्रघातकोऽयम् इत्यवाप्तार्थः 13.4.45 विक्रमितुकामं वा मित्रव्यञ्जनः परस्याभिशंसेत् 13.4.46 आप्तभावोपगतः प्रवीरपुरुषानस्योपघातयेत् 13.4.47 सन्धिं वा कृत्वा जनपदमेनं निवेशयेत् 13.4.48 निविष्टमस्य जनपदमविज्ञातो हन्यात् 13.4.49 अपकारयित्वा दूष्याटविकेषु वा बलैकदेशमतिनीय दुर्गमवस्कन्देन हारयेत् 13.4.50 दूष्यामित्राटविकद्वेष्यप्रत्यपसृताश्च कृतार्थमानसंज्ञाचिह्नाः परदुर्गमवस्कन्देयुः 13.4.51 परदुर्गमवस्कन्द्य स्कन्धावारं वा पतितपरान्मुखाभिपन्नमुक्तकेशशस्त्रभयविरूपेभ्यश्चाभयमयुध्यमानेभ्यश्च दद्युः 13.4.52 परदुर्गमवाप्य विशुद्धशत्रुपक्षं कृतोपांशुदण्डप्रतीकारमन्तर्बहिश्च प्रविशेत् 13.4.53 एवं विजिगीषुरमित्रभूमिं लब्ध्वा मध्यमं लिप्सेत, तत्सिद्धावुदासीनम् 13.4.54 एष प्रथमो मार्गः पृथिवीं जेतुम् 13.4.55 मध्यमोदासीनयोरभावे गुणातिशयेनारिप्रकृतीः साधयेत्, ततोत्तराः प्रकृतीः 13.4.56 एष द्वितीयो मार्गः 13.4.57 मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुमुभयतःसम्पीडनेन साधयेत् 13.4.58 एषतृतीयो मार्गः 13.4.59 शक्यमेकं वा सामन्तं साधयेत्, तेन द्विगुणो द्वितीयं, त्रिगुणः तृतीयम् 13.4.60 एष चतुर्थो मार्गः पृथिवीं जेतुम् 13.4.61 जित्वा च पृथिवीं विभक्तवर्णाश्रमां स्वधर्मेण भुञ्जीत 13.4.62 उपजापोऽपसर्पश्च वामनं पर्युपासनम् । अवमर्दश्च पञ्चैते दुर्गलम्भस्य हेतवः (इति) 13.4.63 Chapt . लब्धप्रशमनम् द्विविधं विजिगीषोः समुत्थानं - अटव्य्।आदिकमेकग्रामादिकं च 13.5.01 त्रिविधश्चास्य लम्भः - नवो, भूतपूर्वः, पित्र्य इति 13.5.02 नवमवाप्य लाभं परदोषान् स्वगुणैश्छादयेत्, गुणान् गुणद्वैगुण्येन 13.5.03 स्वधर्मकर्मानुग्रहपरिहारदानमानकर्मभिश्च प्रकृतिप्रियहितान्यनुवर्तेत 13.5.04 यथासम्भाषितं च कृत्यपक्षमुपग्राहयेत्, भूयश्च कृतप्रयासम् 13.5.05 अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृतिविरुद्धाचारश्च 13.5.06 तस्मात् समानशीलवेषभाषाऽऽचारतामुपगछेत् 13.5.07 देशदैवतस्माजोत्सवविहारेषु च भक्तिमनुवर्तेत 13.5.08 देशग्रामजातिसङ्घमुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः, माहाभाग्यं भक्तिं च तेषु स्वामिनः, स्वामिसत्कारं च विद्यमानम् 13.5.09 उचितैश्चैनान् भोगपरिहाररक्षावेक्षणैर्भुञ्जीत 13.5.10 सर्वदेवताऽऽश्रमपूजनं च विद्यावाक्यधर्मशूरपुरुषाणां च भूमिद्रव्यदानपरिहारान् कारयेत्, सर्वबन्धनमोक्षणमनुग्रहं दीनानाथव्याधितानां च 13.5.11 चातुर्मास्येष्वर्धमासिकमघातं, पौर्णमासीषु च चातूरात्रिकं राजदेशनक्षत्रेष्वैकरात्रिकम् 13.5.12 योनिबालवधं पुंस्त्वोपघातं च प्रतिषेधयेत् 13.5.13 यच्च कोशदण्डोपघातकमधर्मिष्ठं वा चरित्रं मन्येत तद् अपनीय धर्म्यव्यवहारं स्थापयेत् 13.5.14 चोरप्रकृतीनां म्लेच्छजातीनां च स्थानविपर्यासमनेकस्थं कारयेत्, दुर्गराष्ट्रदण्डमुख्यानां च 13.5.15 परोपगृहीतानां च मन्त्रिपुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत् 13.5.16 अपकारसमर्थान् अनुक्षियतो वा भर्तृविनाशमुपांशुदण्डेन प्रशमयेत् 13.5.17 स्वदेशीयान् वा परेण वापरुद्धान् अपवाहितस्थानेषु स्थापयेत् 13.5.18 यश्च तत्कुलीनः प्रत्यादेयमादातुं शक्तः, प्रत्यन्ताटवीस्थो वा प्रबाधितुमभिजातः, तस्मै विगुणां भूमिं प्रयच्छेत्, गुणवत्याश्चतुर्भागं वा कोशदण्डदानमवस्थाप्य, यद् उपकुर्वाणः पौरजानपदान् कोपयेत् 13.5.19 कुपितैः तैरेनं घातयेत् 13.5.20 प्रकृतिभिरुपक्रुष्टमपनयेत्, औपघातिके वा देशे निवेशयेत् - इति 13.5.21 भूतपूर्वे येन दोषेणापवृत्तः तं प्रकृतिदोषं छादयेत्, येन च गुणेनोपावृत्तः तं तीव्रीकुर्यात् - इति 13.5.22 पित्र्ये पितुर्दोषांश्छादयेत्, गुणांश्च प्रकाशयेत् - इति 13.5.23 चरित्रमकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् । प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत् (इति) 13.5.24 Book . Chapt . परबलघातप्रयोगः चातुर्वर्ण्यरक्षार्थमौपनिषदिकमधर्मिष्ठेषु प्रयुञ्जीत 14.1.01 कालकूटादिर्विषवर्गः श्रद्धेयदेशवेषशिल्पभाषाभिजनापदेशैः कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मभिर्म्लेच्छजातीयैरभिप्रेतैः स्त्रीभिः पुम्भिश्च परशरीरोपभोगेष्ववधातव्यः 14.1.02 राजक्रीडाभाण्डनिधानद्रव्योपब्भोगेषु गूढाः शस्त्रनिधानं कुर्युः, सत्त्राजीविनश्च रात्रिचारिणोऽग्निजीविनश्चाग्निनिधानम् 14.1.03 चित्रभेककौण्डिन्यककृकणपञ्चकुष्ठशतपदीचूर्णमुच्चिदिङ्गकम्बलीशतकन्द(कर्दम?) इध्मकृकलासचूर्णं गृहगोलिकान्धाहिकक्रकण्टकपूतिकीटगोमारिकाचूर्णं भल्लातकावल्गुजरसंयुक्तं सद्यःप्राणहरं, एतेषां वा धूमः 14.1.04 कीटो वान्यतमः तप्तः कृष्णसर्पप्रियङ्गुभिः । शोषयेद् एष संयोगः सद्यःप्राणहरो मतः 14.1.05 धामार्गवयातुधानमूलं भल्लातकपुष्पचूर्णयुक्तमार्धमासिकः 14.1.06 व्याघातकमूलं भल्लातकपुष्पचूर्णयुक्तं कीटयोगो मासिकः 14.1.07 कलामात्रं पुरुषाणां, द्विगुणं खराश्वानां, चतुर्गुणं हस्त्य्।उष्ट्राणाम् 14.1.08 शतकर्दमोच्चिदिङ्गकरवीरकटुतुम्बीमत्स्यधूमो मदनकोद्रवपलालेन हस्तिकर्णपलाशपलालेन वा प्रवातानुवाते प्रणीतो यावच्चरति तावन् मारयति 14.1.09 पूकिकीटमस्त्यकटुतुम्बीशतकर्दमेध्मेन्द्रगोपचूर्णं पूतिकीटक्षुद्रारालाहेमविदारीचूर्णं वा बस्तश‍ृङ्गखुरचूर्णयुक्तमन्धीकरो धूमः 14.1.10 पूतिकरञ्जपत्त्रहरितालमनःशिलागुञ्जारक्तकार्पासपलालान्यास्फोटकाचगोशकृद्रसपिष्टमन्धीकरो धूमः 14.1.11 सर्पनिर्मोकं गोऽश्वपुरीषमन्धाहिकशिरश्चान्धीकरो धूमः 14.1.12 पारावतप्लवकक्रव्यादानां हस्तिनरवराहाणां च मूत्रपुरीषं कासीसहिङ्गुयवतुषकणतण्डुलाः कार्पासकुटजकोशातकीनां च बीजानि गोमूत्रिकाभाण्डीमूलं निम्बशिग्रुफणिर्जकाक्षीवपीलुकभङ्गः सर्पशफरीचर्म हस्तिनखश‍ृङ्गचूर्णमित्येष धूमो मदनकोद्रवपलालेन हस्तिकर्णपलाशपलालेन वा प्रणीतः प्रत्येकशो यावच्चरति तावन् मारयति 14.1.13 कालीकुष्ठनडशतावलीमूलं सर्पप्रचलाककृकणपञ्चकुष्ठचूर्णं वा धूमः पूर्वकल्पेनार्द्रशुष्कपलालेन वा प्रणीतः सङ्ग्रामावतरणावस्कन्दनसङ्कुलेषु कृतनेजनोदकाक्षिप्रतीकारैः प्रणीतः सर्वप्राणिनां नेत्रघ्नः 14.1.14 शारिकाकपोतबकबलाकालेण्डमर्काक्षिपीलुकस्नुहिक्षीरपिष्टमन्धीकरणमञ्जनमुदकदूषणं च 14.1.15 यवकशालिमूलमदनफलजातीपत्त्रनरमूत्रयोगः प्लक्षविदारीमूलयुक्तो मूकोदुम्बरमदनकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मदनयोगः 14.1.16 श‍ृङ्गिगौतमवृककण्टकारमयूरपदीयोगो गुञ्जालाङ्गलीविषमूलिकेङ्गुदीयोगः करवीराक्षिपीलुकार्कमृगमारणीयोगो मद्नकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मदनयोगः 14.1.17 समस्ता वा यवसेन्धनोदकदूषणाः 14.1.18 कृतकण्डलकृकलासगृहगोलिकान्धाहिकधूमो नेत्रवधमुन्मादं च करोति 14.1.19 कृकलासगृहगोलिकायोगः कुष्ठकरः 14.1.20 सैव चित्रमेकान्त्रमधुयुक्तः प्रमेहमापादयति, मनुष्यलोहितयुक्तः शोषम् 14.1.21 दूषीविषं मदनकोद्रवचूर्णमपजिह्विकायोगः 14.1.22 मातृवाहकाञ्जलिकारप्रचलाकभेकाक्षिपीलुकयोगो विषूचिकाकरः 14.1.23 पञ्चकुष्ठककौण्डिन्यकराजवृक्षपुष्पमधुयोगो ज्वरकरः 14.1.24 भासनकुलजिह्वाग्रन्थिकायोगः खरीक्षीरपिष्टो मूकबधिर।करो मासार्धमासिकः 14.1.25 कलामात्रं पुरुषाणामित् समानं पूर्वेण 14.1.26 भङ्गक्वाथोपनयनमौषधानां, चूर्णं प्राणभृतां, सर्वेषां वा क्वाथोपनयनं, एवं वीर्यवत्तरं भव्ति 14.1.27 इति योगसम्पत् 14.1.28 शाल्मली विदारीधान्यसिद्धो मूलवत्सनाभसंयुक्तश्चुच्छुन्दरीशोणितप्रलेपेन दिग्धो बाणो यं विध्यति स विद्धोऽन्यान् दशपुरुषान् दशति, ते दष्टा दशान्यान् दशन्ति पुरुषान् 14.1.29 बल्लातकयातुधानावानुधामार्गवबाणानां पुष्पैरेलकाक्षिगुग्गुलुहालाहलानां च कषायं बस्तनरशोणितयुक्तं दंशयोगः 14.1.30 ततोऽर्धधरणिको योगः सक्तुपिण्याकाभ्यामुदके प्रणीतो धनुःशतायाममुदकाशयं दूषयति 14.1.31 मत्स्यपरम्परा ह्येतेन दष्टाभिमृष्टा वा विषीभवति, यश्चैतद् उदकं पिबति स्पृशति वा 14.1.32 रक्तश्वेतसर्षपैर्गोधा त्रिपक्षमुष्ट्रिकायां भूमौ निखातायां निहिता वध्येनोद्धृता यावत् पश्यति तावन् मारयति, कृष्णसर्पो वा 14.1.33 विद्युत्प्रदग्धोऽङ्गारो ज्वालो वा विद्युत्प्रदग्धैः काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणाभिहुतोऽग्निः प्रणीतश्च निस्प्रतीकारो दहति 14.1.34 कर्माराद् अग्निमाहृत्य क्षौद्रेण जुहुयात् पृथक् । सुरया शौण्डिकाद् अग्निं मार्गतोऽग्निं घृतेन च 14.1.35 माल्येन चैकपत्न्यग्निं पुंश्चल्यग्निं च सर्षपैः । दध्ना च सूतिकास्वग्निमाहिताग्निं च तण्डुलैः 14.1.36 चण्डालाग्निं च मांसेन चिताग्निं मानुषेण च समस्तान् बस्तवसया मानुषेण ध्रुवेण च 14.1.37 जुहुयाद् अग्निमन्त्रेण राजवृक्षस्य दारुभिः । एष निष्प्रतिकारोऽग्निर्द्विषतां नेत्रमोहनः 14.1.38 अदिते नमस्ते, अनुमते नमस्ते, सरस्वति नमस्ते, देव सवितर्नमास्ते 14.1.39 अग्नये स्वाहा, सोमाय स्वाहा, भूः स्वाहा भुवः स्वाहा (इति) 14.1.40 Chapt . प्रलम्भनं, तत्राद्भुतोत्पादनम् शिरीषोदुम्बरशमीचूर्णं सर्पिषा संहृत्यार्धमासिकः क्षुद्योगः 14.2.01 कशेरुकोत्पलकन्देक्षुमूलबिसदूर्वाक्षीरघृतमण्डसिद्धो मासिकः 14.2.02 माषयवकुलत्थदर्भमूलचूर्णं वा क्षीरघृताभ्यां, वल्लीक्षीरघृतं वा समसिद्धं, सालपृश्निपर्णीमूलकल्कं पयसा पीत्वा, पयो वा तत्सिद्धं मधुघृताभ्यामशित्वा मासमुपवसति 14.2.03 श्वेतबस्तमूत्रे सप्तरात्रोषितैः सिद्धार्थकैः सिद्धं तैलं कटुकालाबौ मासार्धमासस्थितं चतुष्पदद्विपदानां विरूपकरणम् 14.2.04 तक्रयवभक्षस्य सप्तरात्राद् ऊर्ध्वं श्वेतगर्दभस्य लेण्डयवैः सिद्धं गौरसर्षपतैलं विरूपकरणम् 14.2.05 एतयोरन्यतरस्य मूत्रलेण्डरससिद्धं सिद्धार्थकतैलमर्कतूलपतङ्गचूर्णप्रतीवापं श्वेतीकरणम् 14.2.06 श्वेतकुक्कुटाजगरलेण्डयोगः श्वेतीकरणम् 14.2.07 श्वेतबस्तमूत्रे श्वेतसर्षपाः सप्तरात्रोषितास्तक्र(?)मर्क।क्षीरलवणं धान्यं च पक्षस्थितो योगः श्वेतीकरणम् 14.2.08 कटुकालाबौ वलीगते गतंऽर्धमासस्थितं गौरसर्षपपिष्टं रोम्णां श्वेतीकरणम् 14.2.09 अलोजुनेति यः कीटः श्वेता च गृहगोलिका । एतेन पिष्तेनाभ्यक्ताः केशाः स्युः शङ्खपाण्डराः 14.2.10 गोमयेन तिन्दुकारिष्टकल्केन वा मर्दिताङ्गस्य भल्लातकरसानुलिप्तस्य मासिकः कुष्ठयोगः 14.2.11 कृष्णसर्पमुखे गृहगोलिकामुखे वा सप्तरात्रोषिता गुज्जाः कुष्ठयोगः 14.2.12 शुकपित्ताण्डरसाभ्यङ्गः कुष्ठयोगः 14.2.13 कुष्ठस्यप्रियालकल्ककषायः प्रतीकारः 14.2.14 कुक्कुटकोशातकी(?)शतावरीमूलयुक्तमाहारयमाणो मासेन गौरो भवति 14.2.15 वटकषायस्नातः सहचरकल्कदिग्धः कृष्णो भवति 14.2.16 शकुनकङ्गुतैलयुक्ता हरितालमनःशिलाः श्यामीकरणम् 14.2.17 खद्योतचूर्णं सर्षपतैलयुक्तं रात्रौ ज्वलति 14.2.18 खद्योतगण्डूपदचूर्णं समुद्रजन्तूनां भृङ्गकपालानां खदिरकर्णिकाराणां पुष्पचूर्णं वा शकुनकङ्गुतैलयुक्तं तेजनचूर्णम् 14.2.19 पारिभद्रकत्वन्मषी मण्डूकवसया युक्ता गात्रप्रज्वालनमग्निना 14.2.20 परिभद्रकत्वक्तिलकल्कप्रदिग्धं शरीरमग्निना ज्वलति 14.2.21 पीलुत्वन्मषीमयः पिण्डो हस्ते ज्वलति 14.2.22 मण्डूकवसादिग्धोऽग्निना ज्वलति 14.2.23 तेन प्रदिग्धमङ्गं कुशाम्रफलतैलसिक्तं समुद्रमण्डूकीफेनकसर्जरसचूर्णयुक्तं वा ज्वलति 14.2.24 मण्डूककुलीरादीनां वसया समभागं तैलं सिद्धमभ्यङ्गं गात्राणामग्निप्रज्वालनम् 14.2.25 वेणुमूलशैवललिप्तमङ्गं मण्डूकवसादिग्धमग्निना ज्वलति 14.2.26 पारिभद्रकप्पतिबलावञ्जुलवज्रकदलीमूलकल्केन मण्डूकवसासिद्धेन तैलेनाभ्यक्तपादोऽङ्गारेषु गच्छति 14.2.27 उपोदका प्रतिबला वञ्जुलः पारिभद्रकः । एतेषां मूलकल्केन मण्डूकवसया सह 14.2.28 साधयेत् तैलमेतेन पादावभ्यज्य निर्मलौ । अङ्गारराशौ विचरेद् यथा कुसुमसञ्चये 14.2.29 हंसक्रौञ्चमयूराणामन्येषां वा महाशकुनीनामुदकप्लवानां पुच्छेषु बद्धा नलदीपिका रात्रावुल्कादर्शनम् 14.2.30 वैद्युतं भस्माङ्गिशमनम् 14.2.31 स्त्रीपुष्पपायिता माषा व्रजकुलीमूलं मण्डूकवसामिश्रं चुल्लुयां दीप्तायामपाचनम् 14.2.32 चुल्लीशोधनं प्रतीकारः 14.2.33 पीलुमयो मणिरग्निगर्भः सुवर्चलामूलग्रन्थिः सूत्रग्रन्थिर्वा पिचुपरिवेष्टितो मुख्याद् अग्निधूमोत्सर्गः 14.2.34 कुशाम्रफलतैलसिक्तोऽग्निर्वर्षप्रवातेषु ज्वलति 14.2.35 समुद्रफेनकः तैलयुक्तोऽम्भसि प्लवमानो ज्वलति 14.2.36 प्लवमानानामस्थिषु कल्माषवेणुना निर्मथितोऽग्निर्नोदकेन शाम्यति, उदकेन ज्वलति 14.2.37 शस्त्रहतस्य शूलप्रोतस्य वा पुरुषस्य वामपार्श्वपर्शुकास्थिषु कल्माषवेणुना निर्मथितोऽग्निः स्त्रियाः पुरुषस्य वास्थिषु मनुष्यपर्शुकया निर्मथितोऽग्निर्यत्र त्रिरपसव्यं गच्छति न चात्रान्योऽग्निर्ज्वलति 14.2.38 चुच्चुन्दरी खञ्जरीटः खारकीटश्च पिष्यते । अश्वमूत्रेण संसृष्टा निगलानां तु भञ्जनम् 14.2.39 अयस्कान्तो वा पाषाणः कुलीरदर्दुरखारकीटवसाप्रदेहेन द्विगुणः 14.2.40 नारकगर्भः कङ्कभासपार्श्वोत्पलोदकपिष्टश्चतुष्पदद्विपदानां पादलेपः 14.2.41 उलूकगृध्रवसाभ्यामुष्ट्रचर्मोपानहावभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्योजनान्यश्रान्तो गच्छति 14.2.42 श्येनकङ्ककाकगृध्रहंसक्रौञ्चवीचीरल्लानां मज्जानो रेतांसि वा योजनशताय, सिंहव्याघ्रद्वीपकाकोलूकानां मज्जानो रेतांसि वा 14.2.43 सार्ववर्णिकानि गर्भपतनान्युष्ट्रिकायामभिषूय श्मशाने प्रेतशिशून् वा तत्समुत्थितं मेदो योजनशताय 14.2.44 अनिष्टैरद्भुतोत्पातैः परस्योद्वेगमाचरेत् । आराज्याय इति निर्वादः समानः कोपोच्यते (इति) 14.2.45 Chapt . प्रलम्भनं, तत्र भैषज्यमन्त्रयोगः मार्जारोष्ट्रवृकवराहश्वाविद्वागुलीनप्तृकाकोलूकानामन्येषां वा निशाचराणां सत्त्वानामेकस्य द्वयोर्बहूनां वा दक्षिणानि वामानि चाक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् 14.3.01 ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति 14.3.02 एकाम्लकं वराहाक्षि खद्योतः कालशारिवा । एतेनाभ्यक्तनयनो रात्रौ रूपाणि पश्यति 14.3.03 त्रिरात्रोपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां यवान् आवास्याविक्षीरेण सेचयेत् 14.3.04 ततो यवविरूढमालामाबध्य नष्टच्छायारूपश्चरति 14.3.05 त्रिरत्रोपोषितः पुष्येण श्वमार्जारोलूकवागुलीनां दक्षिणानि वामानि चाक्षीणि द्विधा चूर्णं कारयेत् 14.3.06 ततो यथास्वमभ्यक्ताक्षो नष्टच्छायारूपश्चरति 14.3.07 त्रिरात्रोपोषितः पुष्येण पुरुषघातिनः काण्डकस्य शलाकामञ्जनीं च कारयेत् 14.3.08 ततोऽन्यतमेनाक्षिचूर्णेनाभ्यक्ताक्षो नष्टच्छायारूपश्चरति 14.3.09 त्रिरात्रोपोषितः पुष्येण कालायसीमञ्जनीं शलाकां च कारयेत् 14.3.10 ततो निशाचराणां सत्त्वानामन्यतमस्य शिरःकपालमञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् 14.3.11 तद् अञ्जनं पुष्येणोद्धृत्य तस्यामञ्जन्यां निदध्यात् 14.3.12 तेनाभ्यक्ताक्षो नष्टछायारूपश्चरति 14.3.13 यत्र ब्राह्मणमाहिताग्निं दग्धं दह्यमानं वा पश्येत् तत्र त्रिरात्रोपोषितः पुष्येण स्वयंमृतस्य वाससा प्रसेवं कृत्वा चिताभस्मना पूरयित्वा तमाबध्य नष्टच्छायारूपश्चरति 14.3.14 ब्राह्मणस्य प्रेतकार्ये यो गौर्मार्यते तस्यास्थिमज्जचूर्णपूर्णाहिभस्त्रा पशूनामन्तर्धानम् 14.3.15 सर्पदष्टस्य भस्मना पूर्णा प्रचलाकभस्त्रा मृगाणामन्तर्धानम् 14.3.16 उलूकवागुलीपुच्छपुरीषजान्व्ऽस्थिचूर्णपूर्णाहिभस्त्रा पक्षिणामन्तर्धानम् 14.3.17 इत्यष्टावन्तर्धानयोगः 14.3.18 बलिं वैरोचनं वन्दे शतमायं च शम्बरम् । भण्डीरपाकं नरकं निकुम्भं कुम्भमेव च 14.3.19 देवलं नारदं वन्दे वन्दे सावर्णिगालवम् । एतेषामनुयोगेन कृतं ते स्वापनं महत् 14.3.20 यथा स्वपन्त्यजगराः स्वपन्त्यपि चमूखलाः । तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः 14.3.21 भण्डकानां सहस्रेण रथनेमिशतेन च । इमं गृहं प्रवेक्ष्यामि तूष्णीमासन्तु भाण्डकाः 14.3.22 नमस्कृत्वा च मनवे बद्ध्वा शुनकफेलकाः । ये देवा देवलोकेषु मानुषेषु च ब्राह्मणाः 14.3.23 अध्ययनपारगाः सिद्धा ये च कौलास तापसाः । एतेभ्यः सर्वसिद्धेभ्यः कृतं ते स्वापनं महत् 14.3.24 अतिगच्छन्ति च मय्यपगच्छन्तु संहताः 14.3.25 अलिते, वलिते, मनवे स्वाहा 14.3.26 एतस्य प्रयोगः 14.3.27 त्रिरात्रोपोषितः कृष्णचतुर्दश्यां पुष्ययोगिन्यां श्वपाकीहस्ताद् विलखावलेखनं क्रीणीयात् 14.3.28 तन्माषैः सह कण्डोलिकायां कृत्वासङ्कीर्णादहने निखानयेत् 14.3.29 द्वितीयस्यां चतुर्दश्यामुद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् 14.3.30 ततैकां गुलिकामभिमन्त्रयित्वा यत्रैतन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति 14.3.31 एतेनैव कल्पेन श्वाविधः शल्यकं त्रिकालं त्रिश्वेतमसङ्कीर्णादहने निखानयेत् 14.3.32 द्वितीयस्यां चतुर्दश्यामुद्धृत्यादहनभस्मना सह यत्रैतेन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति 14.3.33 सुवर्णपुष्पीं ब्रह्माणीं ब्रह्माणं च कुशध्वजम् । सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान् 14.3.34 वशं मे ब्राह्मणा यान्तु भूमिपालाश्च क्षत्रियाः । वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा 14.3.35 स्वाहा - अमिले किमिले वयुचारे प्रयोगे फक्के वयुह्वे विहाले दन्तकटके स्वाहा 14.3.36 सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । श्वाविधः शल्यकं चैतत् त्रिश्वेतं ब्रह्मनिर्मितम् 14.3.37 प्रसुप्ताः सर्वसिद्धा हि एतत्ते स्वापनं कृतम् । यावद्ग्रामस्य सीमान्तः सूर्यस्योद्गमनादिति 14.3.38 स्वाहा 14.3.39 एतस्य प्रयोगः 14.3.40 श्वाविधः शल्यकानि त्रिश्वेतानि, सप्तरात्रोपोषितः कृष्णचतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निमेतेन मन्त्रेणाष्टशतसम्पातं कृत्वा मधुघृताभ्यामभिजुहुयात् 14.3.41 ततैकमेतेन मन्त्रेण ग्रामद्वारि गृहद्वारि वा यत्र निखन्यते तत् सर्वं प्रस्वापयति 14.3.42 बलिं वैरोचनं वन्दे शतमायं च शम्बरम् । निकुम्भं नरकं कुम्भं तन्तुकच्छं महासुरम् 14.3.43 अर्मालवं प्रमीलं च मण्डोलूकं घटोबलम् । कृष्णकंसोपचारं च पौलोमीं च यशस्विनीम् 14.3.44 अभिमन्त्रयित्वा गृह्णामि सिद्ध्यर्थं शवशारिकाम् । जयतु जयति च नमः शलकभूतेभ्यः स्वाहा 14.3.45 सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः । सुखं स्वपन्तु सिद्धार्था यमर्थं मार्गयामहे । यावद् अस्तमयाद् उदयो यावद् अर्थं फलं मम 14.3.46 इति स्वाहा 14.3.47 एतस्य प्रयोगः 14.3.48 चतुर्भक्तोपवासी कृष्णचतुर्दश्यामसङ्कीर्णादहने बलिं कृत्वैतेन मन्त्रेण शवशारिकां गृहीत्वा पौत्रीपोट्टलिकं बध्नीयात् 14.3.49 तन्मध्ये श्वाविधः शल्यकेन विद्ध्वा यत्रैतेन मन्त्रेण निखन्यते तत् सर्वं प्रस्वापयति 14.3.50 उपैमि शरणं चाग्निं दैवतानि दिशो दश । अपयान्तु च सर्वाणि वशतां यान्तु मे सदा 14.3.51 स्वाहा 14.3.52 एतस्य प्रयोगः 14.3.53 त्रिरात्रोपोस्षितः पुष्येण शर्करैकविंशतिसम्पातं कृत्वा मधुघृताभ्यामभिजुहुयात् 14.3.54 ततो गन्धमाल्येन पूजयित्वा निखानयेत् 14.3.55 द्वितीयेन पुष्येणोद्धृत्यैकां शर्करामभिमन्त्रयित्वा कपाटमाहन्यात् 14.3.56 अभ्यन्तर्ं चतसृणां शर्कराणां द्वारमपाव्रियते 14.3.57 चतुर्भक्तोपवासी कृष्णचतुर्दश्यां भग्नस्य पुरुषस्यास्थ्ना ऋषभं कारयेत्, अभिमन्त्रयेच्चैतेन 14.3.58 द्विगोयुक्तं गोयानमाहृतं भवति 14.3.59 ततः परमाकाशे विरामति 14.3.60 रविसगन्धः परिघमति सर्वं पृणाति 14.3.61 चण्डालीकुम्भीतुम्बकटुकसारोघः सनारीभगोऽसि - स्वाहा 14.3.62 तालोद्घाटनं प्रस्वापनं च 14.3.63 त्रिरात्रोपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां तुवरीरावास्योदकेन सेचयेत् 14.3.64 जातानां पुष्येणैव गृहीत्वा रज्जुकां वर्तयेत् 14.3.65 ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच्छेदनं ज्याच्छेदनं करोति 14.3.66 उदकाहिभस्त्रामुच्छ्वासमृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत्, नासिकाबन्धनं मुखग्रहश्च 14.3.67 वराहभस्त्रामुच्छ्वासमृत्तिकया पूरयित्वा मर्कटस्नायुनावबध्नीयात्, आनाहकारणम् 14.3.68 कृष्णचतुर्दश्यां शस्त्रहताया गोः कपिलायाः पित्तेन राजवृक्षमयीममित्रप्रतिमामञ्ज्यात्, अन्धीकरणम् 14.3.69 चतुर्भक्तोपवासी कृष्णचतुर्दश्यां बलिं कृत्वा शूलप्रोतस्य पुरुषस्यास्थ्ना कीलकान् कारयेत् 14.3.70 एतेषामेकः पुरीषे मूत्रे वा निखात आनाहं करोति, पदेऽस्यासने वा निखातः शोषेण मारयति, आपणे क्षेत्रे गृहे वा वृत्तिच्छेदं करोति 14.3.71 एतेनैव कल्पेन विद्युद्दग्धस्य वृक्षस्य कीलका व्याख्याताः 14.3.72 पुनर्नवमवाचीनं निम्बः काममधुश्च यः । कपिरोम मनुष्यास्थि बद्ध्वा मृतकवाससा 14.3.73 निखन्यते गृहे यस्य दृष्ट्वा वा यत् पदं नयेत् । सपुत्रदारः सधनस्त्रीन् पक्षान्नातिवर्तते 14.3.74 पुनर्नवमवाचीनं निम्बः काममधुश्च यः । स्वयङ्गुप्ता मनुष्यास्थि पदे यस्य निखन्यते 14.3.75 द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा । सपुत्रदारः सधनस्त्रीन् पक्षान्नातिवर्तते 14.3.76 अजमर्कटरोमाणि मार्जारनकुलस्य च । ब्राह्मणानां श्वपाकानां काकोलूकस्य चाहरेत् । एतेन विष्ठावक्षुण्णा सद्योत्सादकारिका 14.3.77 प्रेतनिर्मालिका किण्वं रोमाणि नकुलस्य च । वृश्चिकाल्य्(?) अहिकृत्तिश्च पदे यस्य निखन्यते । भवत्यपुरुषः सद्यो यावत्तन्नापनीयते 14.3.78 त्रिरात्रोपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां गुञ्जा आवास्योदकेन सेचयेत् 14.3.79 जातानाममावास्यायां पौर्णमास्यां वा पुष्ययोगिन्यां गुञ्जवल्लीर्ग्राहयित्वा मण्डलिकानि कारयेत् 14.3.80 तेष्वन्नपानभाजनानि न्यस्तानि न क्षीयन्ते 14.3.81 रात्रिप्रेक्षायां प्रवृत्तायां प्रदीपाग्निषु मृतधेनोः स्तनान् उत्कृत्य दाहयेत् 14.3.82 दग्धान् वृषमूत्रेण पेषयित्वा नवकुम्भमन्तर्लेपयेत् 14.3.83 तं ग्राममपसव्यं परिणीय यत्तत्र न्यस्तं नवनीतमेषां तत् सर्वमागच्छति 14.3.84 कृष्णचतुर्दश्यां पुष्ययोगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् 14.3.85 तां स्वयं पतितां गृह्णीयात् 14.3.85 तया वृक्षफलान्याकारितान्यागच्छन्ति 14.3.87 मन्त्रभैषज्यसंयुक्ता योगा मायाकृताश्च ये । उपहन्याद् अमित्रांः तैः स्वजनं चाभिपालयेत् (इति) 14.3.88 Chapt . स्वबलोपघातप्रतीकारः स्वपक्षे परप्रयुक्तानां दूषीविषगराणां प्रतीकारः 14.4.01 श्लेष्मातककपित्थदन्तिदन्तशठगोजिशिरीषपाटलीबलास्योनागपुनर्नवाश्वेतवारणक्वाथयुक्तम्(?) चन्दनसालावृकीलोहितयुक्तं नेजनोदकं राजोपभोग्यानां गुह्यप्रक्षालनं स्त्रीणां, सेनायाश्च विषप्रतीकारः 14.4.02 पृषतनकुलनीलकण्ठगोधापित्तयुक्तं महीराजीचूर्णं सिन्दुवारितवरणवारुणीतण्डुलीयकशतपर्वाग्रपिण्डीतकयोगो मदनदोषहरः 14.4.03 सृगालविन्नामदनसिन्दुवारितवरणवारणवलीमूलकषायाणामन्यतमस्य समस्तानां वा क्षीरयुक्तं पानं मदनदोषहरम् 14.4.04 कैडर्यपूतितिलतैलमुन्मादहरं नस्तःकर्म 14.4.05 प्रियङ्गुनक्तमालयोगः कुष्ठहरः 14.4.06 कुष्ठलोध्रयोगः पाकशोषघ्नः 14.4.07 कटफलद्रवन्तीविलङ्गचूर्णं नस्तःकर्म शिरोरोगहरम् 14.4.08 प्रियङ्गुमञ्जिष्ठातगरलाक्षारसमधुकहरिद्राक्षौद्रयोगो रज्जु।उदकविषप्रहारपतननिह्संज्ञानां पुनःप्रत्यानयनाय 14.4.09 मनुष्याणामक्षमात्रं, गवाश्वानां द्विगुणं, चतुर्गुणं हस्त्य्।उष्ट्राणाम् 14.4.10 रुक्मगर्भश्चैषां मणिः सर्वविषहरः 14.4.11 जीवन्तीश्वेतामुष्ककपुष्पवन्दाकानामक्षीवे जातस्याश्वत्थस्य मणिः सर्वविषहरः 14.4.12 तूर्याणां तैः प्रलिप्तानां शब्दो विषविनाशनः । लिप्तध्वजं पताकां वा दृष्ट्वा भवति निर्विषः 14.4.13 एतैः कृत्वा प्रतीकारं स्वसैन्यानामथात्मनः । अमित्रेषु प्रयुञ्जीत विषधूमाम्बुदूषणान् (इति) 14.4.14 Book . Chapt . तन्त्रयुक्तयः मनुष्याणां वृत्तिरर्थः, मनुष्यवती भूमिरित्यर्थः 15.1.01 तस्याः पृथिव्या लाभपालनोपायः शास्त्रमर्थशास्त्रमिति 15.1.02 तद्द्वात्रिंशद् युक्तियुक्तं - अधिकरणं, विधानं, योगः, पदार्थः, हेत्व्ऽर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानं, अर्थापत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वाक्यशेषः, अनुमतं, व्याख्यानं, निर्वचनं, निदर्शनं, अपवर्गः, स्वसंज्ञा, पूर्वपक्षः, उत्तरपक्षः, एकान्तः, अनागतावेक्षणं, अतिक्रान्तावेक्षणं, नियोगः, विकल्पः, समुच्चयः ऊह्यमिति 15.1.03 यमर्थमधिकृत्योच्यते तद् अधिकरणम् 15.1.04 पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि प्रायशः तानि संहृत्यैकमिदमर्थशास्त्रं कृतम् इति 15.1.05 शास्त्रस्य प्रकरणानुपूर्वी विधानम् 15.1.06 विद्यासमुद्देशः, वृद्धसंयोगः, इन्द्रियजयः, अमात्योत्पत्तिः इत्येवं।आदिकमिति 15.1.07 वाक्ययोजना योगः 15.1.08 चतुर्वर्णाश्रमो लोकः इति 15.1.09 पदावधिकः पदार्थः 15.1.10 मूलहर इति पदम् 15.1.11 यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः इत्यर्थः 15.1.12 हेतुरर्थसाधको हेत्व्ऽर्थः 15.1.13 अर्थमूलौ हि धर्मकामौ इति 15.1.14 समासवाक्यमुद्देशः 15.1.15 विद्याविनयहेतुरिन्द्रियजयः इति 15.1.16 व्यासवाक्यं निर्देशः 15.1.17 कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयःइति 15.1.18 एवं वर्तितव्यमित्युपदेशः 15.1.19 धर्मार्थविरोधेन कामं सेवेत, न निह्सुखः स्यात् इति 15.1.20 एवमसावाह इत्यपदेशः 15.1.21 मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीत इति मानवाः - षोडश इति बार्हस्पत्याः - विंशतिमित्यौशनसाः - यथासामर्थ्यमिति कौटिल्यः इति 15.1.22 उक्तेन साधनमतिदेशः 15.1.23 दत्तस्याप्रदानं ऋणादानेन व्याख्यातम् इति 15.1.24 वक्तव्येन साधनं प्रदेशः 15.1.25 सामदानभेददण्डैर्वा, यथाऽऽपत्सु व्याख्यास्यामः इति 15.1.26 दृष्टेनादृष्टस्य साधनमुपमानम् 15.1.27 निवृत्तपरिहारान् पितेवानुगृह्णीयात् इति 15.1.28 यद् अनुक्तमर्थाद् आपद्यते सार्थापत्तिः 15.1.29 लोकयात्राविद् राजानमात्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत 15.1.30 नाप्रियहितद्वारेणाश्रयेत इत्यर्थाद् आपन्नं भवतीति 15.1.31 उभयतोहेतुमान् अर्थः संशयः 15.1.32 क्षीणलुब्धप्रकृतिमपचरितप्रकृतिं वा इति 15.1.33 प्रकरणान्तरेण समानोऽर्थः प्रसङ्गः 15.1.34 कृषिकर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण इति 15.1.35 प्रतिलोमेन साधनं विपर्ययः 15.1.36 विपरीतमतुष्टस्य इति 15.1.37 येन वाक्यं समाप्यते स वाक्यशेषः 15.1.38 छिन्नपक्षस्येव राज्ञश्चेष्टानाशश्च इति 15.1.39 तत्र शकुनेः इति वाक्यशेषः 15.1.40 परवाक्यमप्रतिषिद्धमनुमतम् 15.1.41 पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः इति 15.1.42 अतिशयवर्णना व्याख्यानम् 15.1.43 विशेषतश्च सङ्घानां सङ्घधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदः तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्रदौर्बल्यात् इति 15.1.44 गुणतः शब्दनिष्पत्तिर्निर्वचनम् 15.1.45 व्यस्यत्येनं श्रेयस इति व्यसनम् इति 15.1.46 दृष्टान्तो दृष्टान्तयुक्तो निदर्शनम् 15.1.47 विगृहीतो हि ज्यायसा हस्तिना पादयुद्धमिवाभ्युपैतीति 15.1.48 अभिप्लुतव्यपकर्षणमपवर्गः 15.1.49 नित्यमासन्नमरिबलं वासयेद् अन्यत्राभ्यन्तरकोपशङ्कायाः इति 15.1.50 परैरसमितः शब्दः स्वसंज्ञा 15.1.51 प्रथमा प्रकृतिः, तस्य भूम्यनन्तरा द्वितीया, भूम्य्।एकान्तरा तृतीया इति 15.1.52 प्रतिषेद्धव्यं वाक्यं पूर्वपक्षः 15.1.53 स्वाम्यमात्यव्यसनयोरमात्यव्यसनं गरीयः इति 15.1.54 तस्य निर्णयनवाक्यमुत्तरपक्षः 15.1.55 तद्।आयत्तत्वात्, तत्कूटस्थानीयो हि स्वामी इति 15.1.56 सर्वत्रायत्तमेकान्तः 15.1.57 तस्माद् उत्थानमात्मनः कुर्वीत इति 15.1.58 पश्चाद् एवं विहितमित्यनागतावेक्षणम् 15.1.59 तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः इति 15.1.60 पुरस्ताद् एवं विहितमित्यतिक्रान्तावेष्कणम् 15.1.61 अमात्यसम्पद् उक्ता पुरस्तात् इति 15.1.62 एवं नान्यथा इति नियोगः 15.1.63 तस्माद् धर्म्यमर्थ्यं चास्योपदिशेत्, नाधर्म्यमनर्थय्ं च इति 15.1.64 अनेन वानेन वा इति विकल्पः 15.1.65 दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः इति 15.1.66 अनेन चानेन च इति समुच्चयः 15.1.67 स्वयञ्जातः पितुर्बन्धूनां च दायादः इति 15.1.68 अनुक्तकरणमूह्यम् 15.1.69 यथा च दाता प्रतिग्रहीता च नोपहतौ स्यातां तथानुशयं कुशलाः कल्पयेयुः इति 15.1.70 एवं शास्त्रमिदं युक्तमेताभिः तन्त्रयुक्तिभिः । अवाप्तौ पालने चोक्तं लोकस्यास्य परस्य च 15.1.71 धर्ममर्थं च कामं च प्रवर्तयति पाति च । अधर्मानर्थविद्वेषान् इदं शास्त्रं निहन्ति च 15.1.72 येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः । अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदं कृतम् (इति) 15.1.73 End of the ArthashAstra
% Text title            : Kautiliya Arthashastram
% File name             : artha.itx
% itxtitle              : kauTilIya arthashAstram
% engtitle              : kauTilIya arthashAstram
% Category              : samAjashAstra, sociology_astrology
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : Kangle edition
% Indexextra            : (Scans 1, 2, Marathi, pradIpa, English 1, 2, 3, Hindi 1, 2, Multi)
% Latest update         : March 30, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org