शुक्रमङ्गलस्तोत्रम्
शुक्रो भार्गवगोत्रजः सितनिभः प्राचीमुखः पूर्वदिक् ।
पञ्चाङ्गो वृषभस्तुलाधिपमहाराष्ट्राधिपोदुम्बरः ॥ १॥
इन्द्राणी मघवानुभौ बुधशनी मित्रार्कचन्द्रौ रिपू ।
षष्ठो द्विर्दशवर्जितो भृगुसुतः कुर्यात्सदा मङ्गलम् ॥ २॥
प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ १॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २॥
भार्गवो भर्गजननः शुचिः श्रुतिविशारदः ।
हत्वा ग्रहकृतान्दोषानारोग्यं देहि मे सदा ॥ ३॥
ॐ अनया पूजया शुक्रदेवः प्रीयताम् ।
ॐ शुक्राय नमः ॐ काव्याय नमः ॐ भार्गवाय नमः ।
॥ ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥
इति श्रीशुक्रमङ्गलस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran