चन्द्रस्तोत्रम् २
ध्यानं
श्वेताम्बरान्वितवपुर्वरशुभ्रवर्णं
श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् ।
दोर्भ्यां वृताभयगदं वरदं सुधांशुं
श्रीवत्समौक्तिकधरं प्रणमामि चन्द्रम् ॥ १॥
आग्नेयभागे सरथो दशाश्वश्चात्रेयजो यामुनदेशजश्च ।
प्रत्यङ्मुखस्थश्चतुरस्रपीठे गदाधराङ्गो वररोहिणीशः ॥ २॥
चन्द्रं चतुर्भुजं देवं केयूरमकुटोज्ज्वलम् ।
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ ३॥
चन्द्रं च द्विभुजं ज्ञेयं श्वेतवस्त्रधरं विभुम् ।
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ॥ ४॥
श्वेतछत्रधरं देवं सर्वाभरणभूषणम् ।
एतत्स्तोत्रं तु पठतां सर्वसम्पत्करं शुभम् ॥ ५॥
फलश्रुतिः -
क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ।
इदं निशाकरस्तोत्रं यः पठेत् सततं नरः ।
सोपद्रवाद्विमुच्येत नात्र कार्या विचारणा ॥ ६॥
इति चन्द्रस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran