चन्द्रमस्स्तोत्रम्
ॐ श्वेताम्बरः श्वेतवपुः किरीटी श्वेतद्युतिर्दण्डधरो द्विबाहुः ।
चन्द्रोऽमृतात्मा वरदः शुशाङ्कः श्रेयांसि मह्यं प्रददातु देवः ॥ १॥
दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥
क्षीरसिन्धुसमुत्पन्नो रोहिणीसहितः प्रभुः ।
हरस्य मुकुटावासः बालचन्द्र नमोऽस्तु ते ॥ ३॥
सुधामया यत्किरणाः पोषयन्त्योषधीवनम् ।
सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम् ॥ ४॥
राकेशं तारकेशं च रोहिणीप्रियसुन्दरम् ।
ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुहुः ॥ ५॥
इति चन्द्रमस्स्तोत्रं सम्पूर्णम् ।
मन्त्रमहार्णवे पूर्वखण्डे मिश्रतन्त्रे एकादशस्तरङ्गः