महापुरुषो यशोवन्तदासः

महापुरुषो यशोवन्तदासः

लेखकः - नन्दप्रदीप्तकुमारः महापुरुषो यशोवन्तः उत्कलीयः । ``पञ्चसखा'' गोष्ठीषु अन्यतमः । अस्य जन्मसमयविषये यद्यपि प्रामाणिक-निर्दिष्टतथ्यं नास्ति तथापि अयं महात्मा षोडशशताब्दीय इति ऐतिहासिका समामनन्ति । जगत्सिंहपुरस्य ``अढंग'' ग्रामे १४८२ ख्रीष्टाब्दे यशोवन्त एकस्मिन् क्षत्रियकुले जन्मोऽभूदिति केचन वदन्ति । अन्ये समालोचकाः अस्य जन्मसमयः १४८७ इति द्रढयन्ति । अद्यापि यशोवन्तस्य समाधिपीठः अत्र उपलभ्यते । उदयकाहाणी मतेन- ``तिनि सतर पक्ष पुर येवे । अनन्त शिशु जनमिछि तेवे । तार संगे येवे भुज मिशिला । जगन्नाथ दास उदय हेला ॥ सेहि अंके यशोवन्त टि जात । बलराम चारि पूर्वे उदित ॥ '' इति । अस्य पितुर्नाम जगन्नाथस्तथा मातुर्नाम रेखादेवी स्तः । सर्वसाधारणे तस्य पिता जगु मल्लिकनाम्ना परिचितः । केचन बलभद्र मल्लः तस्य पितुर्नाम इति कथयन्ति । तत्पिता कुजंगराज- कर्मचारी आसीत् । यशोवन्तदासेन स्वपरिचयविषये किमपि नोक्तम् । ``मन्त्रबोलि'' नामके तदीये पुस्तके महानुभावस्य यशोवन्तविषये इत्थं वर्तते । तथाहि- ``क्षत्रिय कुलरे जात ये मोहर अढंग स्थलरे अटै घर । पितार नाम बलभद्र शुण यन्त्रबोलि कहे यशोवन्त पुण ॥ मुं यशोवन्त क्षत्रि कुले जात बेलु पढिनांहि नोहि पण्डित । प्रभु आज्ञारे यन्त्रबोलि कहि ब्रह्माशंकर येउं पद ध्यायी ॥ यशोवन्त दास गीतरे गाइ न देखि देखिला वन्तिआ वाइ ॥ '' इति । अपि च तच्छिष्येन लोहिदासेन षष्ठिमेला पुस्तके इत्थं भणितम्- ``लोहि कहन्ति शुण गो वाउलि । स्वामी जन्मस्थान देखिवा बुलि । पिता मातांक नाम अटे किस । बुझाइ कुह आहे लोहि दास ॥ पितांक नाम बलभद्र जाण । मातांक नाम रेखादेवी जाण ॥ क्षत्रिय कुले जनम होइले । नन्दी ग्रामरे नाना खेला कले ॥ '' इति । आत्मतत्त्वगवेषकोऽयं महात्मा असाधारण प्रतिभासंपन्न आसीत् । यशोवन्तदासः चैतन्यदेवस्य समसामयिक आसीत् । स चैतन्यदेवेन अनुप्राणित उपदिष्टो वेति केचन वदन्ति । तेनोक्तम्- ``एवं भूत येउं प्रभु तांक पञ्च भूत । एवंभूत सखा ये अटै यशोवन्त ॥ '' इति । द्वादशवर्षे यशोवन्तः वीतस्पृहः सन् स्वगृहं त्यक्तवान् । पुरीं गत्वा तत्र चैतन्यदेव-सन्निकर्षात् तस्य ज्ञानोदयः संजातः । पश्चात् चैतन्यात् दीक्षां नीत्वा स्वगृहं प्रस्थितवान् । पश्चात् अढंगराज्ञः रघुरामस्य भगिनीं अञ्जनां विवाहं चकार । भक्त-यशोवन्तस्य भगवद्भक्तिं विना अन्यत्किमपि कार्यं नासीत् । आजीविकाहीनस्य धनहीनस्य च यशोवन्तस्य कृते रघुरामः भूमिदानं कृतवान् । वासस्थानमपि तस्मै दत्तवान् । यदुक्तं लोहिदासेन- ``अति अलसुआ वन्तिआ दास । दिन वञ्चै रघुराम पाश ॥ केवल मोर हरिनामे आश । भावे भणिले यशोवन्त दास ॥ '' इति । यशोवन्तः प्रख्यातयोगी तथा सिद्धपुरुष आसीत् । वैष्णवीयधारां प्रवाह्य स जनमानसं विमुग्धं कृतवान् । श्रीजगन्नाथं प्रति तस्य प्रगाढभक्तिः आसीत् । एकदा पुरीगमन समये एको ब्रह्मराक्षसः तस्य पथरोधं कृतवान् । अलौकीकशक्त्या यशोवन्तः तं तत्र मार्गे अवरुरोधः । अन्ते ब्रह्मराक्षस प्रार्थनया प्रीतः सन् यशोवन्तः गुण्डिचामन्दिरं रक्षणाय राज्ञः प्रतापरुद्रस्य सहमत्या तं गुण्डिचामन्दिरे अवस्थापितवान् । अद्यावधि ``वावनाभूत'' नाम्ना सः तस्मिन् कार्ये संलग्न आसीत् । अलौकीकशक्ति संपन्नः यशोवन्तः सर्वदा श्रीकृष्णभक्त्या जाग्रतः आसीत् । वैष्णवधर्मे दीक्षितो भूत्वा तेन वैष्णव-संप्रदायसम्मताः नाना ग्रन्थाः विरचिताः । शिवस्वरोदयः तस्य प्रख्यातो योगग्रन्थ आसीत् । यद्यप्ययं ज्ञानमिश्राभक्तेः उपासक आसीत् तथापि योगमार्गं समर्थयितुं योगविषयकः शिवस्वरोदयो विरचितः । एतदतिरिक्तं अन्यानि हेतुदय भागवतम्, प्रेमभक्ति ब्रह्मगीता, रासः, गीत गोविन्दचन्द्र, आगत भविष्य मालिका, धानचोरी,वाघगीता, भजनसारः चौराशी आज्ञादीनि पुस्तकानि तस्य मौलिकानि सन्ति । यशोवन्तः स्वकीयमृत्यु-दिवसविषये पूर्वज्ञात आसीत् । पूर्वकथित मार्गशिर-शुक्ल-षष्ठीतिथौ तस्य महाप्रयाणोऽभूत् । एकस्मिन् कदम्बवृक्षमूले सः समाधिस्थो बभूव । तत्र प्राणान् तत्याज योगमार्गेण । यदुक्तं लोहिदासेन षष्ठीमेलायाम्- ``निभियिब ज्योति जलुछि प्रभु निकर दिने । मार्गशिर मास निदान यिवि उत्तरायणे ॥ वारकला रविवाररे रविवार दिवस । पिण्डरु प्राण छाडि यिव मुं ये हेवि हरष ॥ श्रीपुरुषोत्तम क्षेत्रकु पथ येंउ घटणा । खिति पाहारी जगिथिवे मुं जे नोहिवि वणा ॥ '' अपि च तत्र- ``हनु येउं नाम धरिण हेले जिणिला लंका । सेपादु मो मन न टलु किम्बा यमकु दका ॥ छ छन्दे प्रभुंकु जपि मुं पाइ मुकति वाट । पामर वन्तिआ कहै फिटु माया कवाट ॥ '' इति । जगन्नाथस्य विग्रहे तस्य आत्मा विलीन अभवत् । अद्यावधि तस्य महाप्रयाण दिवसः तदीयभक्तैः साडम्बरं परिपाल्यते । पवित्रा ओढण षष्ठी तस्य श्राद्धदिवसरूपेण स्थिरीकृता । गीतगोविन्द चन्द्रः अस्य महान् ग्रन्थः । अयमाध्यात्मिक चेतनायाः प्रकृष्टो मार्गः । नाथधर्मस्य वार्त्ता अस्मिन् सुष्ठु प्रतिफलिता । इयं रचना जनप्रिया, उत्कलस्य प्रतिमुखे आध्यात्मिकी वार्तारूपेण प्रवर्तमाना दृश्यते । गीतगोविन्द चन्द्रस्य विषयवस्तुमुपजीव्य पश्चात् टीकागोविन्द चन्द्रः योगेन्द्र दैवज्ञेन विरचितः । अत्र भक्तिरस-करुणरसयोः वर्णनं मिलति । रासः यशोवन्तस्य क्षुद्रो ग्रन्थः । जीवात्मनि परमात्मदर्शनं अस्य विषयवस्तुः । द्वैतसिद्धान्तोऽत्र विवक्षितः । शिवस्वरोदयो योगपरकः । २१ अध्याय विशिष्टेऽस्मिन् ग्रन्थे नाना विषयाः शिव-पार्वती संम्बादेन विवक्षिताः । प्रेमभक्ति ब्रह्मगीता आध्यात्मिक तत्त्वसंम्बलिता । अत्र ज्ञानमिश्रा भक्तेः पराकाष्ठा प्रदर्शिता । ब्रह्मज्ञानमस्य मूलतत्त्वम् । तथाहि- ``से विन्दु योगमाया परे । रहिले अर्द्धमात्रा शिरे ॥ शेषे ओंकार बोलाइले । वेदरे प्रणव होइले ॥ याहाकु अणाक्षर कहि । से विन्दु ब्रह्म अछि वहि ॥ तहुं जन्मिला एकाक्षर । अनन्त सर्पर आकार ॥ ताहाकु सुषुमुना कहि । से शिशुवेद घर सेहि ॥ '' इति । भविष्यमालिका अस्य महती कृतिः, या आगत-भविष्यविषये समलंकृता । यच्चोक्तम्- ``घोर ये अन्धार हेव चौविश प्रहर । घोषुथिवे भकत मो एकाइ अक्षर ॥ निश्चये कलकी रूप हेव अवतार । नाशिवे सकल दुःख अवनीर भार ॥ '' इति । महामानवो यशोवन्तः उत्कलस्य महान् तपस्वी आसीत् । तस्य बहु ग्रन्था अद्यावधि अप्रकाशिताः वर्तन्ते । उत्कलभाषां प्रति तस्य अवदानमविस्मरणीयं महत्त्वपूर्णमिति न सन्देहस्यावकाशः । अलमति विस्तरेण । जय जगन्नाथ । सहायक-ग्रन्थाः १- शिव स्वरोदय - अध्यापकः आर्त्तवल्लभ महान्तिः २- ओडिआ साहित्यर इतिहास- डः वंशीधर महान्तिः ३- पञ्चसखा ओडिआ साहित्य- अध्यापकः देवेन्द्र महान्तिः ४- ओडिआ साहित्यर आदिपर्व- सुरेन्द्र महान्तिः ५- पञ्चसखा परंपरा परीक्षा (प्रवन्ध) सच्चिदानन्द मिश्रः, झंकार पत्रिका- मार्च १९६० ६- पञ्चसखा प्रवञ्चना नुंहे- डः कृष्णचन्द्र साहु(प्रवन्ध)दिगन्त,डिसेम्बर १९६७ ७- ओडिआ साहित्यर इतिहास- पं सूर्यनारायण दासः ८- ओडिआ साहित्यर सांस्कृतिक विचारधारा- चित्तरंजन दासः ९- यशोवन्त दास-डः लावण्य नायकः १०- प्रेमभक्ति ब्रह्मगीता- यशोवन्त दासः ११- ओडिसार धर्मधारारे पञ्चसखा परिकल्पना- डः नटवर सामन्त रायः १२- महापुरुष परिचय ओ बाणी- निमांइ चरण दासः --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : yashovantadAsaH
% File name             : yashovantadAsaH.itx
% itxtitle              : yashovantadAsaH (lekhaH)
% engtitle              : yashovantadAsaH
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : August 29, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org