व्रजामि राममन्दिरम्
व्रजामि राममन्दिरं नमामि पादपङ्कजम् ।
स्मरामि राममद्भुतं जपामि नाम मङ्गलम् ॥ १॥
पठामि वेदवाङ्मयं वदामि माधवस्तुतिम् ।
पिबामि तीर्थजं जलं सरामि साधुसङ्गतिम् ॥ २॥
वहामि माधवं हृदा सहायकं सदा सताम् ।
दहामि कामलोभज मनोमलं तपस्यया ॥ ३॥
त्यजामि नश्वरं सुखं भजामि देवमीश्वरम् ।
सृजामि काव्यगीतिकां व्रजेशपादसेविकाम् ॥ ४॥
जयामि दुर्जयानरीन् नयामि कालमुत्तमम् ।
लभे हि दिव्यसम्पदं प्रयामि पारमापदाम् ॥ ५॥
-डाॅ ए. एन्. वरखेडकर