विश्वमखिलमुद्धर्तुममी
विश्वमखिलमुद्धर्तुममी निर्मिता वयम् ।
मानवं समुद्धर्तुममी प्रेषिता वयम् ।
हरिणा निर्मिता वयम् ॥
सङ्कटाद्रिभिदुरं धैर्यं धार्यमनिशमिदमिह कार्यम् ।
मातरं प्रतिष्ठां नेतुं तनुभृतो वयम् ।
प्रभुणा प्रेषिता वयम् ॥
मातृभक्तिरेकं ध्येयं, तत्कृते शरीरं देयम् ।
क्षुद्रलालसापरिमुक्ताः सेवका वयम् ।
प्रभुणा प्रेषिता वयम् ॥
जानते भरतभुवि लोकाः, आत्मतत्त्वमिह गतशोकाः ।
इत्यवेत्य जगदुद्धरणे योजिता वयम् ।
प्रभुणा प्रेषिता वयम् ॥
ईश्वरः स्फुरति नः स्वान्ते अज्ञानान्धतमसस्यान्ते ।
तस्य कार्यमधुना कर्तुं सोद्यमा वयम् ।
प्रभुणा प्रेषिता वयम् ॥
निश्चितं यशः परिपूर्णं लप्स्यतेऽत्र जन्मनि तूर्णम् ।
ईशकार्यकरणे निरताः सन्ततं वयम् ।
प्रभुणा प्रेषिता वयम् ॥
Encoded and proofread by Shubha shubhazero at gmail.com