विश्वभाषा संस्कृतम्
सरलभाषा संस्कृतं सरसभाषा संस्कृतम् ।
सरससरलमनोज्ञमङ्गलदेवभाषा संस्कृतम् ॥ १॥
मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् ।
मृदुलमधुरमनोहरामृततुल्यभाषा संस्कृतम् ॥ २॥
देवभाषा संस्कृतं वेदभाषा संस्कृतम् ।
भेदभावविनाशकं खलु दिव्यभाषा संस्कृतम् ॥ ३॥
अमृतभाषा संस्कृतं अतुलभाषा संस्कृतम् ।
सुकृतिजनहृदि परिलसितशुभवरदभाषा संस्कृतम् ॥ ४॥
भुवनभाषा संस्कृतं भवनभाषा संस्कृतम् ।
भरतभुवि परिलसितकाव्यमनोज्ञभाषा संस्कृतम् ॥ ५॥
शस्त्रभाषा संस्कृतं शास्त्रभाषा संस्कृतम् ।
शस्त्रशास्त्रभृदार्षभारतराष्ट्रभाषा संस्कृतम् ॥ ६॥
धर्मभाषा संस्कृतं कर्मभाषा संस्कृतम् ।
धर्मकर्मप्रचोदकं खलु विश्वभाषा संस्कृतम् ॥ ७॥
Encoded and proofread by Ganesh Kandu kanduganesh at gmail.com