वयं सर्वे भारतीयाः
राष्ट्रमेकं रक्तमेकं
जन्मभूरियमस्मदीया
वयं सर्वे भारतीयाः
वयं सर्वे भारतीयाः ॥
एकतासूत्रे सुबद्धा
वयं सर्वे शोभनीयाः
हिन्दवो वा मुस्लिमा वा
ख्रिष्टियाश्च सर्वे समानाः
पारसी सिख बौद्ध जैनाः
शुभसमन्वयमादधानाः
रीति-नीति प्रतीतिभिन्ना
भ्रातरः सर्वे स्वकीयाः ॥
वयं सर्वे भारतीयाः ।
(हरिदत्त शर्मा, लसल्लतिका पृष्ठ १६)