वयं हिन्दुसञ्जाताः सर्वे
वयं हिन्दुसञ्जाताः सर्वे, अस्माकं पुण्यं
पावनराष्ट्रं, भावय श्रेष्ठम् ॥
जननमपि दुर्लभमत्र
दैवमपि सिद्ध्यति यत्र ।
कर्मफलापेक्षाहीनाः
धर्मे निष्ठाः कर्ममुखेन ॥ १॥
अस्मासु नास्ति च भेदः
अस्मासु नास्ति च वादः ।
भिन्नमतं एकीकृत्य
सङ्गच्छेमहि संवदेमहि ॥ २॥
मम जननी भारतमाता
पुत्रोऽहं सेवाकर्ता ।
एवमेव कृत्वा भावं
सत्यं वदाम चराम धर्मम् ॥ ३॥
- श्री नारायणभट्टः
Encoded and proofread by Shubha shubhazero at gmail.com