वर्णोद्धारतन्त्रवचनानि
(अ)
दक्षतः कुण्डली भूत्वा कुञ्चिता वामतो गता ।
ततोर्ध्वसङ्गता रेखा दक्षोर्ध्वा तासु शङ्करः ॥
विधिर्नारायणश्चैव सन्तिष्ठेत्क्रमतः सदा ।
अर्धमात्रा शक्तिरूपा ध्यानमस्य प्रचक्षते ॥
(आ)
अकाररूपमासाद्य दक्षक्रोडायता त्वधः ।
ब्रह्मादयस्तथा शक्तिस्तासु तिष्ठन्ति नित्यशः ॥
(इ)
ऊर्ध्वाधः कुब्जिता मध्ये रेखा तत्सङ्गता भवेत् ।
लक्ष्मीर्वाणी तथेन्द्राणी क्रमात्तास्वेव संवसेत् ॥
शीर्षाधः कुञ्चिता रेखा दक्षोर्ध्वा कामरूपिणी ।
मात्राशक्तिः कोणयुता ध्यानमस्य प्रचक्षते ॥
(ई)
ऊर्ध्वाधः कुञ्चिता मध्ये त्रिकोणाधोगता पुनः ।
अधोगता कोणशीर्षा कुञ्चिता दक्षतः शुभा ॥
शीर्षाद्दक्षे कोणयुता कुञ्चितोर्ध्वगता पुनः ।
चन्द्रसूर्याग्निरूपा सा मात्राशक्तिः प्रकीर्तिता ॥
(उ)
ऊर्ध्वाधो मध्यतः कुब्जा रेखा वामगता शुभा ।
तिष्ठन्ति वायुवह्नीद्राः शक्तिर्मात्रा परा स्मृता ॥
(ऊ)
तद्रूपाधोगता रेखा कुब्जिता वामतः शुभा ।
तिष्ठन्ति तासु रेखासु यमाग्निवरुणः क्रमात् ॥
अधोर्ध्वगामिनी मात्रा लक्ष्मीर्वाणी च सा स्मृता ॥
(ऋ)
ऊर्ध्वाद्दक्षगता वक्रा त्रिकोणा वामतः स्ततः ।
पुनस्वधोदक्शगता मात्राशक्तिः परा स्मृता ॥
मात्रास्य् ब्रह्मविष्ण्वीशास्तिष्ठन्ति क्रमतः पराः ।
(ऋ)
तद्रूपाधोगता दक्षा वामतः कुञ्चिता त्वधेः ।
पुनर्दक्षगता रेखा तासु ब्रहमेशविष्णवः ॥
मात्राशक्तिः पराज्ञेया ध्यानमस्य प्रवक्षते ॥
(ऌ)
रेखाधः कुण्डली वक्रा दक्षतो वामतो गता ।
वह्नीशवायवस्तासु नित्यं सन्ति च नित्यशः ॥
(ॡ)
तत्क्रोडतुल्यरूपा च रेखा सा वैष्णवी स्मृता ।
तत्सु (तासु) वन्द्याः सुरेशानि! दुर्गा वाणी सरस्वती ॥
(ए)
कुञ्चिता वामतो रेखा दक्षकोणाऽऽयता त्वधः ।
पुनर्वामगता सैव तासु वह्नीशवायवः ॥
(ऐ)
एकाररूपमध्ये तु किञ्चिद्दक्षे तदोर्ध्वतः ।
चन्द्रेन्द्रभानवस्तासु मात्राशक्तिः क्रमात्स्मृता ।
त्रिधाशक्तिमयी पूर्वा दुर्गा वाणी सरस्वती ॥
(ओ)
वामतः कुण्डलीभूत्वा दक्षान्मध्ये तु कुञ्चिता ।
किञ्चिद्दक्षगता या तु कुञ्चिता वामतस्त्वधः ।
ब्रह्मेशविष्णवस्तासु मात्रा तु ब्रह्मरूपिणी ।
शक्तिश्च परमा सैव ध्यानमस्य प्रवक्षते ॥
(औ)
ओकारदक्षमध्ये तु गता तूर्ध्वगतायता ।
किञ्चित्सा वामतो वक्रा तासु ब्रह्मेशविष्णवः ।
शक्तिर्मध्यगता रेखा ध्यानमस्य प्रवक्ष्यते ॥
(अं)
अकाररूप शीर्षे तु दक्षिणे बिन्दुरूपिणी ।
ब्रह्मा विष्णुश्च रुद्रश्च क्रमशस्तासु तिष्ठति ।
या तु बिन्दुमयी रेखा सैवाद्या शक्तिरूपिणी ॥
(अः)
अकाररूपदक्षे तु द्विबिन्दुरध ऊर्ध्वतः ।
ब्रह्मेशविष्णवस्तासु मात्राशक्तिः समीरिता ।
बिन्दुद्वयान्विता रेखा सैवाद्या शक्तिरीरिता ॥
(क)
वामरेखाभवेद्ब्रह्मा विष्णुर्दक्षिणरेखिका ।
अधोरेखा भवेद्रुद्रो मात्रा साक्षात् सरस्वती ॥
कुण्डली चाङ्कुशाकारा मध्यशून्यं सदाशिवः ।
कदम्बगोलकाकारं ककारं भावयेत्सुधीः ॥
(ख)
शिवरूपा वामरेखा दक्षरेखा प्रजापतिः ।
अधोरेखा विष्णुरूपा साक्षाद्ब्रह्मस्वरूपिणी ॥
वामाद्वामगता रेखा वह्निरूपा च सा स्मृता ।
मात्रा कुण्डलिनी साक्षात्खकारः पञ्चदैवतः ॥
(ग)
अधः कुञ्चितरेखा या गाणेशी सा प्रकीर्तिता ।
ततो दक्षगता या तु कमला तत्र संस्थिता ॥
अधोगता ततो या तु तस्यामीशं सदा वसेत् ।
(घ)
सृष्टिरूपा वामरेखा किञ्चिदाकुञ्चिता ततः ।
कुण्डलीरूपमास्थाय ततोऽधोगत्य दक्षतः ॥
अत ऊर्ध्वंगता रेखा शम्भुर्नारायणस्तयोः ।
ब्रह्मस्वरूपिणी देवी मात्राशक्तिः प्रकीर्तिता ॥
(ङ)
ऊर्ध्वाधः क्रमतो रेखा किञ्चिदाकुञ्चिता ततः ।
अधोगता कुण्डली तु मात्रा शक्तिस्वरूपिणी ।
रेखात्रयेषु ब्रह्मेशविष्णवः सन्ति देवताः ॥
(च)
वार्ताकुवर्तुलाकार ऊर्ध्वाधः क्रमतो गतः ।
रेखात्रयेषु चन्द्राग्निसूर्यास्तिष्ठन्ति नित्यशः ।
शक्तिर्मात्रा तु विज्ञेया ध्यानमस्य प्रचक्षते ॥
(छ)
ऊर्ध्वादधोगता रेखा कुञ्चिता कुण्डली ततः ।
पुनश्चाधोगता तासु सन्ति ब्रह्मेशविष्णवः ॥
(ज)
ऊर्ध्वाधः कुञ्चिता रेखा तासु ब्रह्मेशसंविभुः ।
वाग्देवी कमला नित्या द्विधा मात्रा प्रकीर्तिता ॥
(झ)
त्रिकोणकुण्डलीरूपा वामदक्षिणयोगतः ।
क्रमशस्तासु तिष्ठन्ति चन्द्रसूर्याग्नयः प्रिये ॥
तत्र क्रोडगता मात्रा शक्तिर्ब्रह्मस्वरूपिणी ।
ऊर्ध्वमात्रा तथेन्द्राणी मध्ये नारायणी स्मृता ॥
(ञ)
कुण्डलीरूपमासाद्य दक्षतो वामतस्तथा ।
ऋजुश्चाधोगता मात्रा वामतः कुञ्चिता पुनः ॥
तिष्ठन्ति तासु नित्यासु सूर्येन्द्रवरुणाः सदा ।
कुण्डलीद्वयरूपा तु या मात्रा मध्यतः स्थिता ।
महाशक्तिस्वरूपा सा ध्यानमस्य प्रचक्षते ॥
(ट)
ऊर्ध्वाधः क्रमतो रेखा कुण्डलीरूपतस्त्वधः ।
तिष्ठन्ति तासु नित्यासु कुबेरयमवायवः ॥
मात्रा कोणगता चोर्ध्वा तत ऊर्ध्वगता तु सा ।
या नित्या परमा शक्तिश्चतुर्वर्गप्रदायिनी ॥
(ठ)
वार्ताकुवर्तुलाकारो रेखाधिष्ठितदैवतः ।
तिष्ठन्ति क्रमतो नित्यं चन्द्रसूर्याग्नयः प्रिये ।
मात्राहीनस्तूर्ध्वशिखष्ठकारः परमेश्वरि ॥
(ड)
ऊर्ध्वाधः क्रमतो रेखा मध्ये त्वाकुञ्चिता तथा ।
लक्ष्मीर्वाणी भवानी च क्रमशस्तत्र संस्थिता ।
ब्रह्मरूपा तथा मात्रा महाशक्तिः प्रकीर्तिता ॥
(ढ)
ऊर्ध्वाधः क्रमतो रेखा वामदक्षिणतो गता ।
ततः सा कुण्डलीरूपा विष्ण्वीशब्रह्मरूपिणी ।
महाशक्तिमयी मात्रा ध्यानमस्य प्रचक्षते ॥
(ण)
कुण्डलीत्वगता रेखा मध्यतस्तत ऊर्ध्वतः ।
वामादधोगता सैव पुनरूर्ध्वं गता प्रिये ॥
(त)
आदौ बिन्दुस्ततो मध्ये कुण्डलीत्ववाप्य सा ।
दक्षाद्वामगता नित्या ब्रह्मविष्ण्वीशरूपिणी ॥
(थ)
कुञ्चिता कुण्डली भूत्वा वामाद्दक्षिणतस्ततः ।
वामतः कुञ्चिता भूत्वा दक्षाधो दक्षतो गता ॥
ऊर्ध्वं ऋज्वायता रेखा सुरा गङ्गादयः क्रमात् ।
वाणी भवानी लक्ष्मीश्च ध्यानमस्य प्रचक्षते ॥
(द)
त्रिशक्तिसहितं देवि त्रिबिन्दुसहितं तथा ।
आत्मादितत्त्वसंयुक्तं दकारं प्रणमाम्यहम् ॥
(ध)
त्रिकोणरूपरेखायां त्रयो देवा वसन्ति हि ।
विश्वेश्वरी विश्वमाता वामतः स्कन्धतः स्थिता ॥
(न)
वामतः कुण्डली रेखा ऊर्ध्वाधः क्रमतः स्थिता ।
चन्द्राग्निसूर्यरूपा सा मात्रा वाणी प्रकीर्तिता ॥
(प)
कुञ्चिता वामरेखाया कोणाद्दक्षिणतोऽपरा ।
कुञ्चिता साऽपि विज्ञेया मात्रा वामोद्गता तथा ।
शम्भुर्ब्रह्मा भगवती क्रमशस्तासु तिष्ठति ॥
(फ)
वक्रा वामगता रेखा ततोऽधः सङ्गता भवेत् ।
तस्मादूर्ध्वगता भूत्वा दक्षमारभ्य कुण्डली ॥
ब्रह्मा विष्णुश्च रुद्रश्च कुण्डली ब्रह्मरूपिणी ।
मात्रा वामाद्दक्षिणतः क्रमशः परिकीर्तिता ॥
(ब)
त्रिकोणरूपिणी रेखा विष्ण्वीशब्रह्मरूपिणी ।
मात्राशक्तिः पराज्ञेया ध्यानमस्य प्रचक्षते ॥
(भ)
ऊर्ध्वाधः क्रमतो रेखा वामे वक्रा तु कुण्डली ।
पुनश्चाधोगता सैव अत ऊर्ध्वगता पुनः ।
ब्रह्माशम्भुश्च विष्णुश्च क्रमशस्तासु तिष्ठति ॥
अथवा -
किञ्चिदाकुञ्चिता रेखा वामाद्दक्षिणतो गता ।
ततो वक्रा वामगता तासु वाण्यादयः क्रमात् ।
ऋजुमात्रा मध्यगता कोणाद्दक्षगता पुनः ।
महाशक्तिस्वरूपा सा ध्यानमस्य प्रचक्षते ॥
The verse for ma is repeated as for bha, as an alternative
(म)
ऊर्ध्वाधः क्रमतो रेखा वामे वक्रा तु कुण्डली ।
पुनश्चाधोगता सैव अत ऊर्ध्वगता पुनः ।
ब्रह्माशम्भुश्च विष्णुश्च क्रमशस्तासु तिष्ठति ॥
(य)
ऊर्ध्वाधः क्रमतो रेखा चतुष्कोणमयी शुभा ।
नारायणेशविधयः तासु तिष्ठन्ति नित्यशः ।
मात्रा कुण्डलिनी ज्ञेया ध्यानमस्य प्रचक्षते ॥
(र)
दक्षतः कुण्डली रेखा वामाद्दक्षगताप्यधः ।
पुनर्दक्षगता द्वेधा ततोऽधोगत्य चोर्ध्वतः ॥
भवानी शङ्करो वह्निस्तासु तिष्ठन्ति नित्यशः ।
अर्धमात्रा ब्रह्मरूपा महाशक्तिः प्रकीर्तिता ॥
अथवा -
ऊर्ध्वाध क्रमतो रेखा त्रिकोणाधोगता हि सा ।
विधिरीशः केशवश्च तासु तिष्ठन्ति नित्यशः ॥
ऊर्ध्वस्थिता तु या मात्रा सा शक्तिः परिकीर्तिता ।
तस्य मध्यगता रेखा वह्निरूपा हि सा स्मृता ।
निर्गुणोऽसौ सदा वर्णो न कदाचिद् गुणी भवेत् ॥
(ल) (ळ)
कुण्डलीत्रयसंयुक्ता वामाद्दक्षगता त्वधः ।
पुनरूर्ध्वगता रेखा तासु नारायणः शिवः ।
ब्रह्मा शक्तिश्च सन्तिष्ठेत् ध्यानमस्य प्रचक्षते ॥
(व)
कोणत्रयुता रेखा ब्रह्मविष्णुशिवात्मिका ।
माया शक्तिः परा नित्या ध्यानमस्य प्रचक्षते ॥
(श)
कुञ्चिता वामतो दक्षगता तु गोकृतिस्त्वधः ।
पुनरूर्ध्वगता तासु वह्निचन्द्रदिवाकरः ।
मात्रा भवति विज्ञेया ध्यानमस्य प्रचक्षते ॥
(ष)
चतुष्कोणमयी रेखा वामाद्दक्षिणतः क्रमात् ।
वह्नीन्द्रविष्णवस्तासु तिष्ठन्ति क्रमतः सदा ॥
ऊर्ध्वमात्रा शक्तिरूपा महालक्ष्मीसमा स्मृता ।
मात्रा मध्यगता या तु वाग्देवी सा परा स्मृता ॥
(स)
कुञ्चिता वामतो दक्षगता च गोकृतिस्त्वधः ।
पुनरूर्ध्वगता तासु वह्निचन्द्रदिवाकराः ।
मात्रा भवानी विज्ञेया ध्यानमस्य प्रचक्षते ॥
(ह)
ऊर्ध्वादाकुञ्चिता मध्ये कुण्डलीत्वं गता त्वधः ।
पुनरूर्ध्वं गता सैव तासु ब्रह्मादयः क्रमात् ।
मात्रा च पार्वती ज्ञेया ध्यानमस्य प्रचक्षते ॥
इति शब्दकल्पद्रुमान्तर्गतानि वर्णोद्धारतन्त्रवचनानि समाप्ता ।
Encoded and proofread by Milind Khadilkar