वन्दे भारतवर्षं राष्ट्रगीतम्
वन्दे भारतवर्षम् ।
कल-कल प्रवहति पावनी गङ्गा
हिमधारा धवलिता तरलतरङ्गा
कामयते पदस्पर्शम्, वन्दे भारतवर्षम् ॥ ध्रुवम् ॥
हिमगिरिकटितटपटपरिधानं
काश्मीरभूस्वरमणिमयस्थानं
वन्दे मातरमितिराष्ट्रसङ्गीत-
माददाति बहुहर्षम्, वन्दे भारतवर्षम् ॥ १॥
कुङ्कुम-सुश्वेत-हारितवर्ण-
मान्दोलितास्शोकचक्रवितानं
उड्डीयते भुवि भारतभूधरे
ज्वालयति स्वप्रकाशम्, वन्दे भारतवर्षम् ॥ २॥
कालिदास-वाणीकण्ठनिनादं
माघ-भवभूतिकाव्यप्रमोदं
दण्डि-वाणभट्ट-मम्मट-कैयटाः
विभूषिताः यस्य वेशम्, वन्दे भारतवर्षम् ॥ ३॥
सीमासुरक्षिणः भारतवीराः
दुर्गम-दुर्भेद्यचारणधीराः
जल-स्थल-पुष्करमार्गे सुसज्जिताः
पोषयन्ति निजदेशम्, वन्दे भारतवर्षम् ॥ ४॥
निगमागमधर्मशास्त्रसहितं
पुराण-दर्शन-वेदाङ्गसत्यं
व्याकरण-साहित्य-विज्ञानविधृत-
सुन्दरशाश्वतोत्कर्षम्, वन्दे भारतवर्षम् ॥ ५॥
- नन्दप्रदीप्तकुमारः
Composed, encoded, proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com