वन्दे भारतं भारतं वन्देऽनारतम्
वन्दे भारतं
वन्दे भारतं
भारतं वन्दे
नारतं
भारतं वन्दे
वन्दे भारतं
वन्दे भारतं
सितहिमगिरिमुकुटं खलु धवलम्,
जलनिधि-जल-पावित-पद-युगलम् ।
कुवलयवनमिव विमलं गगनम्,
प्रवहति दिशि वारि सुविमलम् ।
कोटि-कोटि-
जनतानुपालकं
भारतं वन्दे
भारतं वन्दे
नारतं
वन्दे भारतं
वन्दे भारतम् ॥ १॥
सुललित-पद-बहुला बहुभाषाः,
बहुविध-नव-कुसुमानां हासाः।
दिनकर-शशि-शुभ-कान्तिविकासः,
प्रतिदिननवविज्ञानविलासः।
धरणीतले
कुटुम्बधारकं
भारतं वन्दे
नारतं
भारतं वन्दे
वन्दे भारतम् ॥ २॥
- डाॅ इच्छाराम द्विवेदी ``प्रणव''