वद मित्र वद संस्कृतम्
वद मित्र वद संस्कृतं भाषेयं सरला ।
पठ मित्र पठ संस्कृतं वाणीयं निर्मला ॥ ध्रुवम् ॥
ते वेदाः उपनिषदः ग्रन्थाः सर्वदर्शनानि
अष्टादश पुराणानि रम्यानि काव्यानि
आनन्दयति देवान्
आनन्दयति देवान् स्तुतिमन्त्राणां श्रृङ्खला ॥ १॥
शिवेनैकदा डमरोर्वादनं सनृत्यं कृतं
निर्गतानि सूत्राणि जातं चतुर्दशत्वं
नमस्तस्मै पाणिनये
नमस्तस्मै पाणिनये कृताष्टाध्यायी विरला ॥ २॥
मनुयाज्ञस्मृते नीतेर्ग्रन्थाः यथा पञ्चतन्त्रं
सुविख्यातमार्यभट्टस्य गणित ज्योतिषोर्ज्ञानं
बाहुल्यं नाटकानां
बाहुल्यं नाटकानां सूक्तीनाञ्चेयं सन्धिला ॥ ३॥
नम्याः गुरवः सरलहृदयानि मित्राणि तानि
प्रेमाकुलं चित्तमिदं वै स्मरति सर्वाणि
अधीतो जय भगवान्
अधीतो गीता रामः महाविद्यालयो सःबिरला ॥ ४॥
प्रणेता- जय भगवान शास्त्री, कैथल (हरियाणा)