उपनिषत्समीक्षा

उपनिषत्समीक्षा

लेखकः - नन्दप्रदीप्तकुमारः भारतीयज्ञानभाण्डारे उपनिषदां स्थानं महत्वपूर्णं वरीवर्ति । इयं पराविद्या ब्रह्मविद्या अध्यात्म्यविद्या वा परिगण्यते विद्वद्भिः । मूलतो वेदान्तशास्त्रमुपनिषदाख्यायते । मुख्यतया अध्यात्म्यविद्याप्रतिपादका वेदभागा उपनिषदः कथ्यन्ते । भारतीयदर्शनशास्त्रेषु प्रस्थानत्रयेषु ब्रह्मसूत्रं, श्रीमद्भगवद्गीता, उपनिषच्च त्रीणि प्रस्थानानि विख्यातानि । भारतीया वैदिकधर्मग्रन्था दर्शनानि च इमामेव प्रस्थानत्रयीमवलम्बन्ति । उपनिषदां गीताब्रह्मसूत्रयोराश्रयप्रदायित्वात् ताः सन्ति महनीयतमाः । उप निपूर्वकस्य विशरण-गति-अवसादनार्थकस्य धातोः (षद्लृ धातोः) क्विप् प्रत्ययेन उपनिषत् शब्दस्य निष्पत्तिर्भवति । ब्रह्मस्वरूपप्रतिपादने सर्वसमर्थेयं विद्या सर्वेषां मुमुक्षूणां कृते परमोपादेया भवति । उपनिषदां संख्यानिर्धारणे मुक्तिकोपनिषद्वाक्यं प्रधानम् । तन्मते ``सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम्'' । इति । अष्टोत्तरशतसंख्यका उपनिषदः आसन् । अधुना १२० उपनिषदः समुपलभ्यन्ते । तासु अष्टोत्तरशतसंख्यकासु प्रायेण द्वादशोपनिषदः प्राचीनत्वात् विशदतया प्रामाणिका भवन्ति । तेषु १० उपनिषदः ऋग्वेदसम्बद्धाः, १९ उपनिषदः शुक्लयजुर्वेदसम्बद्धाः, ३२ कृष्णयजुर्वेदसम्बद्धाः, १६ सामवेदसम्बद्धाः, ३१ अथर्ववेदसम्बद्धाः च विराजन्तेतराम् । अन्या योगोपनिषदः, सामान्यवेदान्तोपनिषदः, वैष्णवोपनिषदः, शैवोपनिषदः, शाक्तोपनिषदश्च दृष्टिपथमारोहन्ति । सर्वे दार्शनिकाः तासु कतिचनोपनिषदः स्वमतानुसारिण्यया व्याख्यातवन्तः । अन्यत्र २१ वेदान्तोपनिषदः, १६ वैष्णवोपनिषदः, १५ शैवोपनिषदः,१८ शाक्तोपनिषदः प्रकाशिता सन्ति । सर्वासूपनिषत्सु दशोपनिषदः प्रसिद्धाः सन्ति । तासामुपरि भाष्यकाराः स्व-स्वमतानुसारं भाष्यं कृतवन्तः । तासां संख्या तु मुक्तिकोपनिषदि निम्नरूपेण वर्णिता दृश्यते । उक्तं च- ``ईश केन कठ प्रश्न मुण्ड माण्डूक्य तित्तिरिः । ऐतरेयं च छान्दोग्यं बृहदारण्यकं दश'' ॥ एतदतिरिक्ता श्वेताश्वेतोपनिषदपि प्रसिद्धा विद्यते । सर्वासूपनिषत्सु केचन गद्यात्मिकाः, कतिचन पद्यात्मिकाः अपराः गद्यपद्योभयात्मिकाश्च दृश्यन्ते । आसां कालोऽपि भिन्न-भिन्नः प्रतीयते । इमाः उपनिषदः भारतीय-अध्यात्म्यविद्याकाशे जाज्वल्यमानानि नक्षत्राणीव शोभन्ते । सर्वासूपनिषत्सु प्रायशः अद्वैत-द्वैत-विशिष्टाद्वैतश्रुतीनां सद्भावः परमाचार्यैः प्रधानत्वेन स्वीकृतः । सर्वेषां दर्शनानां बीजानि उपनिषत्सु निहितानि दृश्यन्ते । न केवलमास्तिकदर्शनानामपितु नास्तिकानामपि मूलभूताः सिद्धान्ताः आसु समुपलभ्यन्ते । आत्मास्ति उपनिषदां प्रधानविषयः । केनोपायेन जीवः आत्मसाक्षात्कारकर्तुं शक्यते तद्विषये उपनिषद् वक्ति । संहितात आरण्यकं यावत् तद्ब्रह्मस्वरूपं भिन्नप्रकारेण वर्णितमस्ति । किन्तु उपनिषद् विशदतया सूक्ष्मरीत्या च तदात्मतत्त्वं विशिनष्टि । तदाह बृहदारण्यके- ``स वायमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमय वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः `` इति संसारस्य मूलभूतं तत्त्वं भवति आत्मा निश्चितः । ब्रह्मतत्त्वविश्लेषणे उपनिषदां युक्तिः बलिष्ठा । उपनिषदध्ययनं विना आत्मविद्यासन्धानं सर्वथाऽसम्भवमिति सत्यम् । ब्रहतत्त्वं यः कोऽपि जिज्ञासति, ज्ञातुं शक्यते वा तत्सर्वमुपनिषत् माध्यमेन । साधकः यमात्मानं वृणुते तेनैव स तमवाप्तुमीष्टे । यच्चोक्तं - ``नायमात्मा प्रवचनेन लभो न मेधया न बहुधा श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैव आत्मा विवृणुते तनूं स्वाम् ॥ '' इति । विशालं चास्ति उपनिषदः कलेवरम् । न केवलमध्यात्म्यविषया अपितु सर्वे सामाजिकविषया अपि उपनिषत्सु दरीदृश्यन्ते । सर्वेषां मानवजातीनां कृते समादरणीयाः समाश्रयणीया उपनिषदः इति दिक् । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Text title            : Upanishat Samiksha
% File name             : upaniShatsamIkShA.itx
% itxtitle              : upaniShatsamIkShA (lekhaH)
% engtitle              : upaniShatsamIkShA
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org