उपदेशात्मकं पत्रम्
(अनुष्टुप्छन्दः)
परिवर्तिनि संसारे मृतः को वा न जायते ।
स जातो येन जातेन याति वंशस्समुन्नतिम् ॥ १॥
महता पुण्यपण्येन क्रीतेयं कायनौः खलु ।
सत्सङ्गाद्यो हि मुक्तः स्यात्स धन्यो भुवि भाग्यवान् ॥ २॥
सतपस्तप इत्याहुर्ब्रह्मचर्यं तपः परम् ।
ऊध्वरेतस्विनो धन्याः प्राप्य तत्परमं पदम् ॥ ३॥
कोऽहं कथमिदं जातं को वा कर्तास्य विद्यते ।
इत्यालोच्य मुहुर्विद्वान् यो धन्यः स गुरुः स्मृतः ॥ ४॥
भ्रममूलमिदं विश्वं स्वात्मन्यारोपितं वृथा ।
अद्वितीये परे तत्त्वे विस्वस्यावसरः कुतः ॥ ५॥
एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव भासते जलचन्द्रवत् ॥ ६॥
यया वृत्या मनः सम्यक् परे ब्रह्मणि लीयते ।
तयैव वर्तनं नित्यं साधनं बन्धमुक्तये ॥ ७॥
न वैराग्यात्परं भाग्यं नाहङ्कारात्परो रिपुः ।
न गुरोरधिकं तत्त्वं न ज्ञानात्साधनं परम् ॥ ८॥
गुर्वनुग्रहतो योऽस्मिन् संसारे प्राप्तपूरुषः ।
नृसिंहोऽसि च श्रेष्ठोऽसि नाम्ना स्वानुभवेन च ॥ ९॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं उपदेशात्मकं पत्रं सम्पूर्णम् ।
चिक्कमगळूरु काफि उद्यानवनात् नृसिंह इत्यस्मैप्रेषितं,
श्रावण, संवत्सरः - १९४३
Proofread by Manish Gavkar