उपदेशात्मकं पत्रम्
(अनुष्टुप्छन्दः)
यत्सत्तया जगत्सत्यं यच्चैतन्येन चेतनम् ।
यत्सुखात्सुखरूपं च तज्ज्ञेयं ब्रह्म शाश्वतम् ॥ १॥
भवाब्धितरणी नौका या भक्तिः परमात्मनि ।
लब्धव्यासा प्रयत्नेन भव दुःखनिवृत्तये ॥ २॥
अन्याभावादद्वयो यः श्रीधरः खलु शाश्वतः ।
अखण्डानन्द एवासौ द्वैविद्ध्यं तस्य दुर्घटम् ॥ ३॥
द्वितीयाद्वै भयं ब्रूते श्रुतिरन्यं निषेध्य च ।
एक एव ह्यसौ ज्ञेयः श्रीधरः श्रुतिसम्मतः ॥ ४॥
एकस्मिन्नपरस्येयं भ्रान्तिः सा न सुखावहा ।
एक एव हि भूतात्मा श्रुतिर्वक्ति भयापहा ॥ ५॥
तत्त्वमस्यादिवाक्यैश्च ब्रह्मैक्यं यत्स्फुटीकृतम् ।
सत्यं सत्यं त्रिवारं तत् नात्र कार्या विचारणा ॥ ६॥
स्वस्मिन्नेव जगत्सर्वमन्यवत्सम्प्रतिष्ठितम् ।
स्वाज्ञानतो न सत्यं तज्ज्ञेयं श्रेयोऽभिलिप्सुभिः ॥ ७॥
अज्ञानात् स्वात्ममात्रस्य व्यवहारो विभासते ।
शिष्याचार्यादिभावैश्च ग्राह्यग्राहकतोऽपि वा ॥ ८॥
अद्वितीयं ब्रह्मतत्त्वं न जानन्ति यदा तदा ।
भ्रान्ता एवाखिलाः सर्वे श्रुतिर्वक्ति विवेकतः ॥ ९॥
सर्वं विभाति स्वस्माद्धि स्वयं तस्याद्यनन्तरम् ।
स्वरूपं च स्वतः सिद्धं मध्याद्यन्तविवर्जितम् ॥ १०॥
यस्य भासा सर्वमिदं स्वयं तत्स्वार्चिमत्सुखम् ।
भ्रान्त्येत्थं न विजानाति लोकोऽयं किं वदामि भोः ॥ ११॥
अज्ञात्वा च स्वपूर्णत्वं सुखरूपं च शाश्वतम् ।
लोकोऽयं भ्रान्त एवेह नानाकर्मसुदुःखितः ॥ १२॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं उपदेशात्मकं पत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar