त्वां नमामि शिवनृपाल
त्वां नमामि शिवनृपाल सन्ततं स्मरामि ते ।
विशुद्ध शीलमखिल विश्व वन्द्य भूपते ॥
त्वं जनपद संस्कर्ता त्वं जनगणधीदाता ।
गोद्विजपरिपालकशिवसाधूनां त्वं त्राता ।
त्वामभिजनमार्तानां बान्धवमतिदीनानाम् ।
श्रीशिवनृपवर्य भजति मे हृदयम् ।
राष्ट्रमिदं दुष्टाभिहतं
क्षीणबलं येनोत्थापितमखिलम् ।
तं प्रबलम् वीरप्रवरम् भूपवरं चिन्तये ।
हे जगदभिराम दुष्टखलविराम ।
पूरित शुभकाम पुण्यचरितधाम । var पूजित
देवपरमवीर शत्रुशमनधीर ।
विश्वहितं ते चरितं नीतिनिधानम् ॥