श्रीमत्तिलकाष्टकम्
(वृत्तं-भुजङ्गप्रयातम्)
घनश्यामलं शारदाकण्ठरत्नं
गुणाढ्यं वदान्यं परं लोकमान्यम् ।
गणेशं जपन्तं प्रशान्तस्वरूपं
भजे देशभक्तं मुदा बालराजम् ॥ १॥
स्वदेशव्रतं पूर्णभक्त्या चरन्तं
धृतं येन हस्ते बहिष्कारशस्त्रम् ।
प्रसन्नं तथा चैकपत्नीव्रतस्थं
भजे देशभक्तं मुदा बालराजम् ॥ २॥
महापण्डितं निःस्पृहं वीतरागं
लसदीप्तिमन्तं ज्वलत्कर्मसक्तम् ।
महाराष्ट्र गीर्वाणभाषाप्रवीणं
भजे देशभक्तं मुदा बालराजम् ॥ ३॥
महाराष्ट्रभूप्राणसञ्जीवनं तं
सदाराजनीतिव्रतव्यग्रचित्तम् ।
तनबुद्धिजेतारमानन्दकन्दं
भजे देशभक्तं मुदा वालराजम् ॥ ४॥
न मेषा वयं सुप्तवोर्यास्तु सिंहाः
स्वकीयातबन्धूनिदं सम्प्रवक्तुम् ।
लिखन्तं श्रुतं 'केसरी' वृत्तपत्रं
भजे देशभक्तं मुदा बालराजम् ॥ ५॥
स्वकीयं मतं निःस्पृहं निश्चितं यो
नृपस्याग्रतोऽपि ब्रुवन्नो बिभेति ।
विशुद्धं प्रबुद्धं च सत्यव्रतं तं
भजे देशभक्तं मुदा बालराजम् ॥ ६॥
सुरापानसक्तान्स्वबन्धून्निरीक्ष्य
स्वचित्ते भृशं यो विषण्णो बभूव ।
कृतो येन यत्नोऽनिशं तद्धिताय
भजे देशभक्तं मुदा बालराजम् ॥ ७॥
व्रतं स्वीकृतं निर्मल पालनाय
सहित्वा सदा केशभारं प्रभूतम् ।
कृतं बन्दिवासस्थलं येन पूतं
भजे देशभक्तं मुदा बालराजम् ॥ ८॥
इदं देशभक्तस्य पुण्यं चारीत्रं
स्वदृष्टेः पुरस्तात्सदा यो निधाय ।
तथा वर्तमानो जनो लोकमान्यो
हितं शाश्वतं देशभूमेः स कुर्यात् ॥ ९॥
इति श्रीमत्तिलकाष्टकं सम्पूर्णम् ।
Hrudayataranga by Dattatreya Anant Apte, 1955
Encoded and proofread by Vinayaranjan Ambatkar