स्वस्तिवाचन-गीतिका

स्वस्तिवाचन-गीतिका

स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ॥ ध्रुवपदम्॥ स्वमातृभूमी भारत-राष्ट्रम्, जगत्यर्चितं चर्चित-शास्त्रम् । धाम सुधान्यं कला-निधानम्, मणी-काञ्चनम् । सदा तदर्थं हृदा वन्दनम्, स्वस्तिवाचनम् ॥ १॥ भारतीय-संस्कृतेर्महत्त्वम्, मानवताया दर्शन-तत्त्वम् । इहैक-नीड़ं विश्वजनीनम्, शाश्वतं धनम् । सदा तदर्थं सद्-विवेचनम्, स्वस्तिवाचनम् ॥ २॥ ध्वजं त्रिरङ्गं देश-गौरवम्, समता-मैत्री-शान्ति-वैभवम् । राजते रम्यं सौम्य-पावनम्, शौर्य-केतनम् । सदा तदर्थं मुदा वन्दनम्, स्वस्तिवाचनम् ॥ ३॥ भारते त्रयी सैन्यवाहिनी, सैव वैरिणां दैन्यदायिनी । देश-रक्षणे दत्त-जीवनम्, सत्प्रयोजनम् । अस्ति तदर्थं हार्द-वन्दनम्, स्वस्तिवाचनम् ॥ ४॥ भारतभूति-र्गिरा संस्कृतम्, भाषा-जननी जनैरादृतम् । नित्य-नूतनं युग-स्पन्दनम्, सुधासेचनम् । अस्ति तदर्थम्, आस्तिकायनम्, स्वस्तिवाचनम् ॥ ५॥ विश्वमङ्गला विविधा विद्या, सादर-वेद्या सदानवद्या । ज्ञानमुज्ज्वलं तमोनाशनम्, दिव्य-लोचनम् । अस्ति तदर्थं समाराधनम्, स्वस्तिवाचनम् ॥ ६॥ आद्य-गुरुवरौ मातापितरौ, सन्तान-हिते नित्य-तत्परौ । तयोः सुगन्धं परमानन्दम्, प्रेम-बन्धनम् । अस्ति तदर्थं भक्ति-पूजनम्, स्वस्तिवाचनम् ॥ ७॥ हन्ति गुरुर्वै हृदय-ध्वान्तम्, ज्वालयन् सदा ज्ञान-सुदीपम् । मार्गदर्शनं शुभालोकनम्, दोषमोचनम् । तस्मै नमनं साभिवादनम्, स्वस्तिवाचनम् ॥ ८॥ चराचरमिदं येन निर्मितम्, ऊर्मिल-नादं रम्य-नामितम् । स हि परमेशः सदा नमस्यः, भक्तिभाजनम् । सदा तदर्थं सुनीराजनम्, स्वस्तिवाचनम् ॥ ९॥ नारी-पुरुषौ रथे द्वि-चक्रम्, द्वयोः साध्यते गृहस्थ-लक्ष्यम् । सृष्टि-विधाने सन्निबन्धनम्, सुसङ्कल्पनम् । अस्ति तदर्थं भाव-चन्दनम्, स्वस्तिवाचनम् ॥ १०॥ सुरसा भव्याः प्रतिमा देव्याः, वहन्ति महिला गुणान् पृथिव्याः । सुन्दरतायाः सन्निदर्शनम्, स्वान्त-मोहनम् । अस्ति तदर्थं प्रणत्यर्च्चनम्, स्वस्तिवाचनम् ॥ ११॥ प्रकृतेर्जन्या वन्य-सम्पदा, उद्भित्-सकला लोक-जीवदा । स्थल-जल-नभगं जगन्मण्डनम्, समं साधनम् । अस्ति तदर्थं काम्य-सेवनम्, स्वस्तिवाचनम् ॥ १२॥ प्रिय-सङ्गीतं रामणीयकम्, साहित्य-कला-नाटकादिकम् । सुप्रसादनं रसास्वादनम्, मनोमोदनम् । अस्ति तदर्थं स्ववातायनम्, स्वस्तिवाचनम् ॥ १३॥ सन्तः समाज-सुसंस्कारकाः, सन्ति लेखका दिशां दर्शकाः । सुप्रतिभाया नव्य-सर्जनम्, समुद्भावनम् । अस्ति तदर्थं पुण्य-चिन्तनम्, स्वस्तिवाचनम् ॥ १४॥ वैज्ञानिकाश्च वर-क्रीड़काः, देश-सम्मान-समुन्नायकाः । विविधे क्षेत्रे महदवदानम्, यशोवर्धनम् । अस्ति तदर्थं साभिनन्दनम्, स्वस्तिवाचनम् ॥ १५॥ स्वस्तिवाचका भारतार्च्चकाः, लोक-हितार्थं लग्न-मनस्काः । कृते च तेषां ससम्माननम्, सुवर्धापनम् । अस्ति तदर्थं पूत-भावनम्, स्वस्तिवाचनम् ॥ १६॥ -- रचयिता - डाॅ हरेकृष्ण-मेहेरः Copyright Dr.Harekrishna Meher
% Text title            : Svastivachana-Gitika
% File name             : svastivAchanagItikA.itx
% itxtitle              : svastivAchana\-gItikA (harekRiShNameheravirachitA)
% engtitle              : svastivAchana-gItikA
% Category              : misc, sanskritgeet, hkmeher
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Harekrishna Meher meher.hk at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harekrishna Meher
% Proofread by          : Harekrishna Meher
% Description/comments  : Svasti-Kavitanjalih (Sanskrit Gitikavya)
% Indexextra            : (Text, Collection)
% Acknowledge-Permission: Dr. Harekrishna Meher
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org