स्वनियमदशकम्
गुरौ मन्त्रे नाम्नि प्रभुवरशचीगर्भजपदे
स्वरूपे श्रीरूपे गणयुजि तदीयप्रथमजे ।
गिरीन्द्रे गान्धर्वासरसि मधुपुर्यां व्रजवने
व्रजे भक्ते गोष्ठालयिषु परमास्तां मम रतिः ॥ १॥
न चान्यत्र क्षेत्रे हरितनुसनाथेऽपि सुजना-
द्रसास्वादं प्रेम्णा दधदपि वसामि क्षणमपि ।
समं त्वेतद्ग्राम्यावलिभिरभितन्वन्नपि कथां
विधास्ये संवासं व्रजभुवन एव प्रतिभवम् ॥ २॥
सदा राधाकृष्णोच्छलदतुलखेलास्थलयुगं
व्रजं सन्त्यज्यैतद्युगविरहितोऽपि त्रुटिमपि ।
पुनर्द्वारावत्यां यदुपतिमपि प्रौढविभवैः
स्फुरन्तं तद्वाचापि च न हि चलामीक्षितुमपि ॥ ३॥
गतोन्मादै राधा स्फुरति हरिणा श्लिष्टहृदया
स्फुटं द्वारावत्यामिति यदि शृणोमि श्रुतितटे ।
तदाहं तत्रैवोद्धतमति पतामि व्रजपुरा-
त्समुड्डीय स्वान्ताधिकगतिखगेन्द्रादपि जवात् ॥ ४॥
अनादिः सादिर्वा पटुरतिमृदुर्वा प्रतिपद
प्रमीलत्कारुण्यः प्रगुणकरुणाहीन इति वा ।
महावैकुण्ठेशाधिक इह नरो वा व्रजपते-
रयं सूनुर्गोष्ठे प्रतिजनि ममास्तां प्रभुवरः ॥ ५॥
अनादृत्योद्गीतामपि मुनिगणैर्वैणिकमुखैः
प्रवीणां गान्धर्वामपि च निगमैस्तत्प्रियतमाम् ।
य एकं गोविन्दं भजति कपटी दाम्भिकतया
तदभ्यर्णे शीर्णे क्षणमपि न यामि व्रतमिदम् ॥ ६॥
अजाण्डे राधेतिस्फुरदभिधया सिक्तजनन्या-
नया साकं कृष्णं भजति य इह प्रेमनमितः ।
परं प्रक्षाल्यतच्चरणकमले तज्जलमहो
मुदा पीत्वा शश्वच्छिरसि च वहामि प्रतिदिनम् ॥ ७॥
परित्यक्तः प्रेयोजनसमुदयैर्बाढमसुधी-
र्दुरन्धो नीरन्ध्रं कदनभरवार्ब्धौ निपतितः ।
तृणं दन्तैर्दृष्ट्वा चटुभिरभियाचेऽद्य कृपया
स्वयं श्रीगान्धर्वा स्वपदनलिनान्तं नयतु माम् ॥ ८॥
व्रजोत्पन्नक्षीराशनवसनपात्रादिभिरहं
पदार्थैर्निर्वाह्य व्यवहृतिमदम्भं सनियमः ।
वसामीशाकुण्डे गिरिकुलवरे चैव समये
मरिष्ये तु प्रेष्ठे सरसि खलु जीवादिपुरतः ॥ ९॥
स्फुरल्लक्ष्मीव्रजविजयिलक्ष्मीभरलस-
द्वपुःश्रीगान्धर्वास्मरनिकरदीव्यद्गिरिभृतोः ।
विधास्ये कुञ्जादौ विविधवरिवस्याः सरभसं
रहः श्रीरूपाख्यप्रियतमजनस्यैव चरमः ॥ १०॥
कृतं केनाप्येतन्निजनियमशंसिस्तवमिमं
पठेद्यो विश्रद्धः प्रिययुगलरूपेऽर्पितमनाः ।
दृढं गोष्ठे हृष्टो वसतिवसतिं प्राप्य समये
मुदा राधाकृष्णौ भजति स हि तेनैव सहितः ॥ ११॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
स्वनियमदशकं सम्पूर्णम् ।