सुरभारत्याष्टकम्
नित्यं स्वतन्त्रं प्रथमं च सत्य-
मार्य्येषु गेयं परमं पवित्रम् ।
वेदादिभूतं सुरभाषितञ्च
लीलाकरं संस्कृतमर्चयामि ॥ १॥
आब्रह्मस्तम्भाय चराचराय
भूगोलमालाधरकोमलाय ।
नमोनमो भारतभूषणाय
श्रीसंस्कृताय प्रवराय तस्मै ॥ २॥
भाषानिर्जितहेमकुङ्कुमरसा वासान्विता कोमला
विख्याता सुरभारती सुरुचिरा काव्येषु वेदेषु च ।
धर्मे व्याकरणे पुराणसकले षड्दर्शने ज्योतिषे
विश्वे संस्कृतनामिता सुललिता भूयात्सतां श्रेयसे ॥ ३॥
सुरमुखरसभोक्त्रे भोगमोक्ष्यैकदात्रे
नवनिधिमखधात्रे स्वात्मविज्ञानगोप्त्रे ।
सरलमधुरवक्त्रे लोककल्याणकर्त्रे
विपुलसुखविधात्रे संस्कृताय प्रणामः ॥ ४॥
अम्लानपुष्पमकरन्दसुमिष्टसारं
सारं सुभोग्यपरमार्थनितान्तमुग्धम् ।
स्निग्धं प्रसन्नसृजनात्मकवेदमूलं
शीलं हि संस्कृतकुलं भुवि भावयामि ॥ ५॥
शास्त्रसंस्कृतिपरं सुविचारं
मोक्षमन्दिरसुरेश्वरगौरम् ।
शीतलं चरमधामसुगीतं
संस्कृतं मम महाधनमस्तु ॥ ६॥
संस्कृताय सरलाय सुखाय
सर्वशब्दललनारसिकाय ।
गौरवाय परमाय पराय
हे नमः परमसुन्दरि वाचे ॥ ७॥
पर्वमण्डिततरे सुरवाणि
देहि मे सकलसंस्कृतदानम् ।
नास्ति चेत्प्रियसखे मयि दातुं
स्वागतं ललितकोमलभाषे ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं सुरभारत्याष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com