सुप्रभातश्लोकानि

सुप्रभातश्लोकानि

श्रीगणेश प्रातःस्मरणम् - प्रातर्भजाम्यभयदं खलुभक्तशोकं दावानलं गणविभुं वरकुञ्जरास्यम् । अज्ञानकाननविनाशनहव्यवाह- मुत्साहवर्धनमहं सुतमीश्वराय ॥ १॥ श्रीविष्णोर्प्रातःस्मरणम् - त्रैलोक्यचैतन्यमयादि देव श्रीनाथविष्णो भवदाज्ञयैव । प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥ २॥ विविध कार्य के लिए स्मरण (विष्णोषोडशनामस्तोत्रम्) - औषधेचिन्तयेद्विष्णुं भोजने च जनार्दनम् । शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ ३॥ युद्धे चक्रधरन्देवं प्रवासे च त्रिविक्रमम् । नारायणं तनुत्यागे श्रीधरं प्रियसङ्गमे ॥ ४॥ दुःस्वप्नेषु च गोविन्दं सङ्कटे मधुसूदनम् । कानने नरसिंहं च पावके जलशायिनम् ॥ ५॥ जलमध्ये वराहं च पर्वते रघुनन्दनम् । गमने वामनं चैव सर्वकार्येषु माधवम् ॥ ६॥ एतानि विष्णुनामानि प्रातरुत्थाय यः पठेत् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ७॥ सङ्कट नाश के लिए (हकारादि पञ्चदेवस्तुतिः) हरं हरिं हरिश्चन्द्रं हनुमन्तं हलायुधम् । पञ्चकं वै स्मरेन्नित्यं घोरसङ्कटनाशनम् ॥ ८॥ आपन्निवारणार्थम् - प्रभाते यस्मरेन्नित्यं दुर्गा दुर्गाक्षरद्वयम् । आपदस्तस्य नश्यन्तितमसूर्योदये यया ॥ ९॥ आयु प्राप्ति के लिए - अश्वत्थामा बलिर्व्यासो हनुमांश्च बिभीषणः । कृपः परशुरामशच सप्तै ते चिरजीविनः॥ १०॥ सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितम् ॥ ११॥ (जीवेद्वर्षशतं सोपि) कलिनाशकम् - कर्कोटकस्य नागस्य दमयान्त्यानलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥ १२॥ नष्ट वस्तु प्राप्ति के लिए (कार्तवीर्य द्वादशनाम स्तोत्रम्) कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य सङ्कीर्तयेन्नाम कल्य उत्थाय मानवः । न तस्यवित्तनाशस्यानष्टं च लभते पुनः ॥ १३॥ वस्तु चोरी से रक्षा - तिस्त्रोभार्याकफल्लस्यदायिनीमोहिनी सती । (दाहिनीमोहिनी) तासां स्मरणमात्रेण चौरो गच्छति निष्फलः ॥ १४॥ सर्पभयनाशार्थम् - सर्पापसर्पं भद्रं ते दूरं गच्छ महाविषः । जनमेजयस्य यज्ञान्ते आस्तिकः वचनस्मर ॥ १५॥ सुखशयनार्थम् - जले रक्षतु वाराह स्थले रक्षतु वामनः । अटव्यां नारसिंहञ्च सर्वतोऽवतु केशव ॥ १७॥ क्लेश क्षयार्थम् - कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः ॥ १८॥ भोजन प्राप्त्यर्थम् - गच्छ गौतम शीघ्रं च ग्रामेषु नगरेषु च । आसनं भोजनं यानं सर्वं मे परिकल्पय ॥ १९॥ ॥ इति सुप्रभातम् ॥ Encoded and proofread by Vishwesh G. M.
% Text title            : Suprabhata Shlokani A Collection of Good Morning Verses
% File name             : suprabhAtashlokAni.itx
% itxtitle              : suprabhAtashlokAni 1
% engtitle              : suprabhAtashlokAni 1
% Category              : misc, subhaashita, sahitya, suprabhAta
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwesh G. M.
% Proofread by          : Vishwesh G. M.
% Indexextra            : (Scan)
% Latest update         : September 10, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org