सरस्वतीपादपद्मसेवा
सरस्वतीपादपद्मसेवा
यदीयमास्ते परं हि लक्ष्यम् ।
बधाग्रगाणामतिन्द्रितानां
मदीयकविते कुरुष्व गानम् ॥ १॥
सुखं धनं स्नेहबन्धनानि
स्वदेशसौख्याय ये त्यजन्ति ।
हुतात्मनां नित्यमेव तेषां
मदीयकविते! कुरुष्व गानम् ॥ २॥
परोपकारव्रतं पवित्रं
सदैव ये पालयन्ति हृष्टाः
सुपूजितानां नृणां हि तेषां
मदीयकविते! कुरुष्व गानम् ॥ ३॥
रिपोः करान्मोचयाम्बभूवुः
स्वमातरं भारतावनिं ये ।
विशिष्य तेषां नृणां समेषां
मदीयकविते! कुरुष्व गानम् ॥ ४॥
मनुष्यतां रक्षितुं स्वयत्नै-
रनुक्षणं शोधतत्पराणाम् ।
प्रबुधवैज्ञानिकव्रजानां
मदीयकविते! कुरुष्व गानम् ॥ ५॥
- डाॅ रमाकान्त शुक्ल