सङ्कल्पमहिमा
धरा जगत्यां नहि किञ्चिदस्ति
विना सुसङ्कल्पमुपैति सिद्धिम् ।
जगद्विधाने विधिनानुभूतं
भक्तार्ति-हानौ हरिणानुभूतम् ॥ १॥
सती-परित्याग-विधौ महेशः
सङ्कल्पमेवाश्रयदत्र चित्रम् ।
सती पुनर्जन्मनि तं प्रयातुं
सङ्कल्पमाधाय तनुं ददाह ॥ २॥
धरापि सङ्कल्प-पणेन बद्धा
जलोपविष्टादचला बभूव ।
सङ्कल्प-सन्नद्ध-महोर्मिमालां
रत्नाकरो मुञ्चति नैव वेलाम् ॥ ३॥
शेषोऽपि सङ्कल्प-पणेन बद्धः
फटा सहस्रं न धुनोति धीरः ।
कदा नु सङ्कल्प-समाधिं-निष्ठा-
श्चलन्ति वै दिक्करिणः क्षणाय ॥ ४॥
सङ्कल्पतो भानुरुदेति नित्यं
सङ्कल्पतो वायुरपि प्रवाति ।
सङ्कल्प-बद्धा भगणाः पिनद्धाः
पतत्यधो नैव कदान्तरिक्षम् ॥ ५॥
सङ्कल्प-हीना विफला हि मन्त्राः
सङ्कल्प-हीना विफला च सिद्धिः ।
सङ्कल्प-हीनं विफलं हि दानं
सङ्कल्प-हीनं सुकृतं विनष्टम् ॥ ६॥
सीतां वनेऽन्वेषयितुं स रामः
जटायुषं वै गमनं चकार ।
सीतापतेर्दर्शनमाशु कर्तुं
निजानसून मुञ्चति नापि दीनः ॥ ७॥
निधाय स्वाङ्के किल रामचन्द्रः
शोकाकुलो वै रुदनं चकार ।
रामस्य क्रोडे स्वतनुं जटायुः
विहाय लेभे परमां हि मुक्तिम् ॥ ८॥
इति सङ्कल्पमहिमा समाप्ता ।
Composed by Dr. Harigopalashastri,
Gurukulamahavidyala Jvalapuram (HaridwAr)
Encoded and proofread by Hiranmay