सम्पूर्णविश्वरत्नम्
सम्पूर्णविश्वरत्नं खलु भारतं स्वकीयम् ।
पुष्पं वयं तु सर्वे खलु देश वाटिकेयम् ॥ ध्रु॥
सर्वोच्च पर्वतो यो गगनस्य भाल चुम्बी ।
सः सैनिकः सुवीरः प्रहरी च सः स्वकीयः ॥ १॥
क्रोडे सहस्रधारा प्रवहन्ति यस्य नद्यः ।
उद्यानमाभिपोष्यम् भुविगौरवं स्वकीयम् ॥ २॥
धर्मस्य नास्ति शिक्षा कटुता मिथो विधेया ।
एके वयं तु देशः खलु भारतं स्वकीयम् ॥ ३॥
सम्पूर्णविश्वरत्नं खलु भारतं स्वकीयम् ।
सम्पूर्णविश्वरत्नम् ।
हिन्दी देशभक्तिपर गीत ``सारे जहाँ से अच्छा'' अनुवाद
मूल कवि मोहम्मद इक़्बाल
Sanskrit translation of Hindi patriotic song
sAre jahANse achChA