स जयति जगति
स जयति जगति सनातनधर्मः
सत्यमिदं सत्यम् ॥
उपदेशः खलु यस्य मनोज्ञः
नित्यनवीनोऽयम् ॥ सत्यमिदं सत्यम् ॥
निर्मलभक्त्या कर्मविशुद्धं
कुरुताविरतं फलमविचिन्त्य ।
अयमिह धर्मः रक्षत धर्मं
रक्षति धर्मो हि ॥ १॥
अर्चत विष्णुं शङ्करमथवा
जिनमाचार्यं बुद्धमथान्यम् ।
एको देवो नाम विभिन्नं
नास्ति विवादोऽत्र ॥ २॥
अयमिह स्पृश्यः अयमस्पृश्यः
उच्चो ह्येकः नीचोऽप्यपरः ।
एवंरूपः भिन्नो भावः
कल्पित एवायम् ॥ ३॥
भूतलमेकं यत्र निवासः
कुलमप्येकं मनुकुलजानाम् ।
तस्मात्सर्वे भ्रातर यूयं
मा विस्मरतेदम् ॥ ४॥
जातिरभिन्ना नीतिरभिन्ना
लक्ष्यमभिन्नं कार्यमभिन्नम् ।
तस्मात्सर्वे सङ्गच्छध्वं
सङ्घे शक्तिरिह ॥ ५॥
द्वेषं त्यक्त्वा भेदं हित्वा
लक्ष्यं सततं चेतसि कृत्वा ।
क्रियते कार्यं यदि युष्माभिः
भविता सिद्धिरिह ॥ ६॥
धैर्ये रक्तिः कर्मणि सक्तिः
दैवे भक्तिः पापविरक्तिः ।
सर्वेषामपि भवभयतरणे
एषा युक्तिरिह ॥ ७॥
मनसा सततं ध्यायत भद्रं
वचसा सततं निगदत भद्रम् ।
कृत्या सततं कुरुत च भद्रं
भवति हि वो भद्रम् ॥ ८॥
- मञ्जुनाथशर्मा
Encoded and proofread by Shubha shubhazero at gmail.com