श्रीअनन्तानन्दाचार्यप्रणीतः सद्विद्यार्थनिर्णयः

श्रीअनन्तानन्दाचार्यप्रणीतः सद्विद्यार्थनिर्णयः

वेदकृद् राघवं ब्रह्म सूत्रकृद्बादरायणम् । बोधायनं च वन्देऽहं वृत्तिकृत्पुरुषोत्तमम् ॥ १॥ आनन्दभाष्यकृद्रामानन्दाचार्यं प्रणम्य च । मोदाय विदुषां कुर्वे सद्विद्यार्थस्य निर्णयम् ॥ २॥ उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ ३॥ अर्थनिर्णायकानीति लिङ्गानि षड्विधानि हि । कुर्वन्ति तानि निर्दोषं सद्विद्यार्थीविनिर्णयम् ॥ ४॥ ब्रह्म च सविशेषं हि सद्विद्याविषयो मतः । उपक्रमे ``सदेवेति'' श्रुत्या यद् ब्रह्म बोधितम् ॥ ५॥ उपादानं निमित्तं च कारणं द्विविधं खलु । ततश्च सर्वशक्तित्वं सर्वज्ञत्वं च तत्र हि ॥ ६॥ सविशेषं तथा ब्रह्मोपसंहारेऽपि बोध्यते । तत्पदत्वम्पदाभ्यां च सामानाधिकरण्यतः ॥ ७॥ यतस्तत्पदतश्चात्र परं ब्रह्मैव बोध्यते । ज्ञाप्यते त्वद्वपुष्कं हि ब्रह्म त्वम्पदतस्तथा ॥ ८॥ प्रकारिणोस्ततश्चैक्यं ब्रह्मणोरत्र सम्मतम् । जीवात्मब्रह्मणोर्नैक्यं देहदेहिस्वरूपयोः ॥ ९॥ सामानाधिकरण्यं न यद्येकवाचिता न हि । जघन्या लक्षणा बोध्या शक्तितो बोधसम्भवे ॥ १०॥ तत्त्वमसीतिवाक्यस्य नववारप्रयोगतः । अभ्यासोऽपि वदत्यत्र ब्रह्मणः सविशेषताम् ॥ ११॥ वर्त्ततेऽपूर्वता चात्र यतः श्रुत्यैव निश्चिता । हेतुता जगतो रामे सकलान्तर्नियन्तृता ॥ १२॥ ``यावन्न विमोक्ष्ये'' श्रुत्याः ``सम्पत्स्ये'' इति शब्दतः । फलेऽपि प्राप्यत्वोक्तेश्च ब्रह्मणः सविशेषता ॥ १३॥ तदर्थे चार्थवादोऽपि सद्विद्यायां च विद्यते । कथिता हि कथा यस्मात् पितृपुत्रोक्तिलक्षणा ॥ १४॥ मृत्पिण्डादय उक्ता हि दृष्टान्ताश्च त्रयस्ततः । उपपत्तिस्तदर्थे च सद्विद्यायां हि वर्त्तते ॥ १५॥ रामानन्दार्यशिष्य श्रीअनन्तानन्दनिर्मितः । सद्विद्यार्थप्रदो भूयात् सद्विद्यार्थस्य निर्णयः ॥ १६॥ इति श्रीअनन्तानन्दाचार्यप्रणीतः सद्विद्यार्थनिर्णयः सम्पूर्णः । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Anantanandacharyapranitah Sadvidyarthanirnayah
% File name             : sadvidyArthanirNayaH.itx
% itxtitle              : sadvidyArthanirNayaH (anantAnandAchAryapraNItaH)
% engtitle              : sadvidyArthanirNayaH
% Category              : misc, rAmAnanda, advice, upadesha
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : anantAnandAchArya 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampraday Dig-Darshan
% Latest update         : November 11, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org