सदैव पुरतो निधेहि चरणम्
चल चल पुरतो निधेहि चरणम् ।
सदैव पुरतो निधेहि चरणम् ॥ सदैव पुरतो
गिरिशिखरे ननु निजनिकेतनम् ।
विनैव यानं नगारोहणम् ।
बलं स्वकीयं भवति साधनम् ॥ सदैव पुरतो
पथि पाषाणाः विषमाः प्रखराः ।
हिंस्राः पशवः परितो घोराः ।
सुदुष्करं खलु यद्यपि गमनम् ॥ सदैव पुरतो
जहीहि भीतिं भज-भज शक्तिम् ।
विधेहि राष्ट्रे तथाऽनुरक्तिम् ॥
कुरु कुरु सततं ध्येय-स्मरणम् । सदैव पुरतो
- श्रीधर भास्कर वर्णेकर